| |
|

This overlay will guide you through the buttons:

।। सूत उवाच ।।
श्रुत्वा विष्णुकृतं दिव्यं परनामविभूषितम् ॥ सहस्रनामस्वस्तोत्रं प्रसन्नोऽभून्महेश्वरः ॥ १ ॥
श्रुत्वा विष्णु-कृतम् दिव्यम् पर-नाम-विभूषितम् ॥ सहस्रनाम-स्व-स्तोत्रम् प्रसन्नः अभूत् महेश्वरः ॥ १ ॥
śrutvā viṣṇu-kṛtam divyam para-nāma-vibhūṣitam .. sahasranāma-sva-stotram prasannaḥ abhūt maheśvaraḥ .. 1 ..
परीक्षार्थं हरेरीशः कमलेषु महेश्वरः ॥ गोपयामास कमलं तदैकं भुवनेश्वरः ॥ २ ॥
परीक्षा-अर्थम् हरेः ईशः कमलेषु महेश्वरः ॥ गोपयामास कमलम् तदा एकम् भुवनेश्वरः ॥ २ ॥
parīkṣā-artham hareḥ īśaḥ kamaleṣu maheśvaraḥ .. gopayāmāsa kamalam tadā ekam bhuvaneśvaraḥ .. 2 ..
पंकजेषु तदा तेषु सहस्रेषु बभूव च ॥ न्यूनमेकं तदा विष्णुर्विह्वलश्शिवपूजने ॥ ३ ॥
पंकजेषु तदा तेषु सहस्रेषु बभूव च ॥ न्यूनम् एकम् तदा विष्णुः विह्वलः शिव-पूजने ॥ ३ ॥
paṃkajeṣu tadā teṣu sahasreṣu babhūva ca .. nyūnam ekam tadā viṣṇuḥ vihvalaḥ śiva-pūjane .. 3 ..
हृदा विचारितं तेन कुतो वै कमलं गतम् ॥ यातं यातु सुखेनैव मन्नेत्रं कमलं न किम् ॥ ४ ॥
हृदा विचारितम् तेन कुतस् वै कमलम् गतम् ॥ यातम् यातु सुखेन एव मद्-नेत्रम् कमलम् न किम् ॥ ४ ॥
hṛdā vicāritam tena kutas vai kamalam gatam .. yātam yātu sukhena eva mad-netram kamalam na kim .. 4 ..
ज्ञात्वेति नेत्रमुद्धृत्य सर्वसत्त्वावलम्बनात् ॥ पूजयामास भावेन स्तवयामास तेन च ॥ ५ ॥
ज्ञात्वा इति नेत्रम् उद्धृत्य सर्व-सत्त्व-अवलम्बनात् ॥ पूजयामास भावेन स्तवयामास तेन च ॥ ५ ॥
jñātvā iti netram uddhṛtya sarva-sattva-avalambanāt .. pūjayāmāsa bhāvena stavayāmāsa tena ca .. 5 ..
ततः स्तुतमथो दृष्ट्वा तथाभूतं हरो हरिम् ॥ मा मेति व्याहरन्नेव प्रादुरासीज्जगद्गुरुः ॥ ६॥
ततस् स्तुतम् अथो दृष्ट्वा तथाभूतम् हरः हरिम् ॥ मा मा इति व्याहरन् एव प्रादुरासीत् जगद्गुरुः ॥ ६॥
tatas stutam atho dṛṣṭvā tathābhūtam haraḥ harim .. mā mā iti vyāharan eva prādurāsīt jagadguruḥ .. 6..
तस्मादवतताराशु मण्डलात्पार्थिवस्य च ॥ प्रतिष्ठितस्य हरिणा स्वलिंगस्य महेश्वरः ॥ ७॥
तस्मात् अवततार आशु मण्डलात् पार्थिवस्य च ॥ प्रतिष्ठितस्य हरिणा स्व-लिंगस्य महेश्वरः ॥ ७॥
tasmāt avatatāra āśu maṇḍalāt pārthivasya ca .. pratiṣṭhitasya hariṇā sva-liṃgasya maheśvaraḥ .. 7..
यथोक्तरूपिणं शम्भुं तेजोराशिसमुत्थितम् ॥ नमस्कृत्य पुरः स्थित्वा स तुष्टाव विशेषतः ॥ ८ ॥
यथा उक्त-रूपिणम् शम्भुम् तेजः-राशि-समुत्थितम् ॥ नमस्कृत्य पुरस् स्थित्वा स तुष्टाव विशेषतः ॥ ८ ॥
yathā ukta-rūpiṇam śambhum tejaḥ-rāśi-samutthitam .. namaskṛtya puras sthitvā sa tuṣṭāva viśeṣataḥ .. 8 ..
तदा प्राह महादेवः प्रसन्नः प्रहसन्निव ॥ सम्प्रेक्ष्य कृपया विष्णुं कृतांजलिपुटं स्थितम् ॥ ९ ॥
तदा प्राह महादेवः प्रसन्नः प्रहसन् इव ॥ सम्प्रेक्ष्य कृपया विष्णुम् कृत-अंजलि-पुटम् स्थितम् ॥ ९ ॥
tadā prāha mahādevaḥ prasannaḥ prahasan iva .. samprekṣya kṛpayā viṣṇum kṛta-aṃjali-puṭam sthitam .. 9 ..
शङ्कर उवाच।।
ज्ञातं मयेदं सकलं तव चित्तेप्सितं हरे ॥ देवकार्यं विशेषेण देवकार्य्यरतात्मनः ॥ 4.36.१० ॥
ज्ञातम् मया इदम् सकलम् तव चित्त-ईप्सितम् हरे ॥ देव-कार्यम् विशेषेण देव-कार्य्य-रत-आत्मनः ॥ ४।३६।१० ॥
jñātam mayā idam sakalam tava citta-īpsitam hare .. deva-kāryam viśeṣeṇa deva-kāryya-rata-ātmanaḥ .. 4.36.10 ..
देवकार्य्यस्य सिद्ध्यर्थं दैत्यनाशाय चाश्रमम् ॥ सुदर्शनाख्यं चक्रं च ददामि तव शोभनम् ॥ ११ ॥
देव-कार्य्यस्य सिद्धि-अर्थम् दैत्य-नाशाय च आश्रमम् ॥ सुदर्शन-आख्यम् चक्रम् च ददामि तव शोभनम् ॥ ११ ॥
deva-kāryyasya siddhi-artham daitya-nāśāya ca āśramam .. sudarśana-ākhyam cakram ca dadāmi tava śobhanam .. 11 ..
यद्रूपं भवता दृष्टं सर्वलोकसुखावहम् ॥ हिताय तव देवेश धृतं भावय तद्ध्रुवम् ॥ १२ ॥
यत् रूपम् भवता दृष्टम् सर्व-लोक-सुख-आवहम् ॥ हिताय तव देवेश धृतम् भावय तत् ध्रुवम् ॥ १२ ॥
yat rūpam bhavatā dṛṣṭam sarva-loka-sukha-āvaham .. hitāya tava deveśa dhṛtam bhāvaya tat dhruvam .. 12 ..
रणाजिरे स्मृतं तद्वै देवानां दुःखनाशनम् ॥ इदं चक्रमिदं रूपमिदं नामसहस्रकम् ॥ १३ ॥
रण-अजिरे स्मृतम् तत् वै देवानाम् दुःख-नाशनम् ॥ इदम् चक्रम् इदम् रूपम् इदम् नाम-सहस्रकम् ॥ १३ ॥
raṇa-ajire smṛtam tat vai devānām duḥkha-nāśanam .. idam cakram idam rūpam idam nāma-sahasrakam .. 13 ..
ये शृण्वन्ति सदा भक्त्या सिद्धि स्यादनपायिनी ॥ कामानां सकलानां च प्रसादान्मम सुव्रत ॥ १४॥
ये शृण्वन्ति सदा भक्त्या स्यात् अनपायिनी ॥ कामानाम् सकलानाम् च प्रसादात् मम सुव्रत ॥ १४॥
ye śṛṇvanti sadā bhaktyā syāt anapāyinī .. kāmānām sakalānām ca prasādāt mama suvrata .. 14..
सूत उवाच ।।
एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ॥ सुदर्शनं स्वपादोत्थं सर्वशत्रुविनाशनम् ॥ १५ ॥
एवम् उक्त्वा ददौ चक्रम् सूर्य-अयुत-सम-प्रभम् ॥ सुदर्शनम् स्व-पाद-उत्थम् सर्व-शत्रु-विनाशनम् ॥ १५ ॥
evam uktvā dadau cakram sūrya-ayuta-sama-prabham .. sudarśanam sva-pāda-uttham sarva-śatru-vināśanam .. 15 ..
विष्णुश्चापि सुसंस्कृत्य जग्राहोदङ्मुखस्तदा॥नमस्कृत्य महादेवं विष्णुर्वचनमब्रवीत् ॥ १६ ॥
विष्णुः च अपि सु संस्कृत्य जग्राह उदक्-मुखः तदा॥नमस्कृत्य महादेवम् विष्णुः वचनम् अब्रवीत् ॥ १६ ॥
viṣṇuḥ ca api su saṃskṛtya jagrāha udak-mukhaḥ tadā..namaskṛtya mahādevam viṣṇuḥ vacanam abravīt .. 16 ..
विष्णुरुवाच ।।
शृणु देव मया ध्येयं पठनीयं च किं प्रभो ॥ दुःखानां नाशनार्थं हि वद त्वं लोकशंकर ॥ १७ ॥
शृणु देव मया ध्येयम् पठनीयम् च किम् प्रभो ॥ दुःखानाम् नाशन-अर्थम् हि वद त्वम् लोक-शंकर ॥ १७ ॥
śṛṇu deva mayā dhyeyam paṭhanīyam ca kim prabho .. duḥkhānām nāśana-artham hi vada tvam loka-śaṃkara .. 17 ..
सूत उवाच ।।
इति पृष्टस्तदा तेन सन्तुष्टस्तु शिवोऽब्रवीत् ॥ प्रसन्नमानसो भूत्वा विष्णुं देवसहायकम् ॥ १८ ॥
इति पृष्टः तदा तेन सन्-तुष्टः तु शिवः अब्रवीत् ॥ प्रसन्न-मानसः भूत्वा विष्णुम् देव-सहायकम् ॥ १८ ॥
iti pṛṣṭaḥ tadā tena san-tuṣṭaḥ tu śivaḥ abravīt .. prasanna-mānasaḥ bhūtvā viṣṇum deva-sahāyakam .. 18 ..
।। शिव उवाच ।।
रूपं ध्येयं हरे मे हि सर्वानर्थप्रशान्तये ॥ अनेकदुःखनाशार्थं पठ नामसहस्रकम् ॥ १९॥
रूपम् ध्येयम् हरे मे हि सर्व-अनर्थ-प्रशान्तये ॥ अनेक-दुःख-नाश-अर्थम् पठ नाम-सहस्रकम् ॥ १९॥
rūpam dhyeyam hare me hi sarva-anartha-praśāntaye .. aneka-duḥkha-nāśa-artham paṭha nāma-sahasrakam .. 19..
धार्य्यं चक्रं सदा मे हि सवार्भीष्टस्य सिद्धये ॥ त्वया विष्णो प्रयत्नेन सर्वचक्रवरं त्विदम् ॥ 4.36.२० ॥
धार्यम् चक्रम् सदा मे हि सिद्धये ॥ त्वया विष्णो प्रयत्नेन सर्व-चक्र-वरम् तु इदम् ॥ ४।३६।२० ॥
dhāryam cakram sadā me hi siddhaye .. tvayā viṣṇo prayatnena sarva-cakra-varam tu idam .. 4.36.20 ..
अन्ये च ये पठिष्यन्ति पाठयिष्यन्ति नित्यशः ॥ तेषां दुःखं न स्वप्नेऽपि जायते नात्र संशयः ॥ २१ ॥
अन्ये च ये पठिष्यन्ति पाठयिष्यन्ति नित्यशस् ॥ तेषाम् दुःखम् न स्वप्ने अपि जायते न अत्र संशयः ॥ २१ ॥
anye ca ye paṭhiṣyanti pāṭhayiṣyanti nityaśas .. teṣām duḥkham na svapne api jāyate na atra saṃśayaḥ .. 21 ..
राज्ञा च संकटे प्राप्ते शतावृत्तिं चरेद्यदा ॥ साङ्गः च विधिसंयुक्तं कल्याणं लभते नरः ॥ २२॥
राज्ञा च संकटे प्राप्ते शत-आवृत्तिम् चरेत् यदा ॥ स अङ्गः च विधि-संयुक्तम् कल्याणम् लभते नरः ॥ २२॥
rājñā ca saṃkaṭe prāpte śata-āvṛttim caret yadā .. sa aṅgaḥ ca vidhi-saṃyuktam kalyāṇam labhate naraḥ .. 22..
रोगनाशकरं ह्येतद्विद्यावित्तदमुत्तमम् ॥ सर्वकामप्रदं पुण्यं शिवभक्तिप्रदं सदा ॥ २३ ॥
रोग-नाश-करम् हि एतत् विद्या-वित्त-दम् उत्तमम् ॥ सर्व-काम-प्रदम् पुण्यम् शिव-भक्ति-प्रदम् सदा ॥ २३ ॥
roga-nāśa-karam hi etat vidyā-vitta-dam uttamam .. sarva-kāma-pradam puṇyam śiva-bhakti-pradam sadā .. 23 ..
यदुद्दिश्य फलं श्रेष्ठं पठिष्यन्ति नरास्त्विह ॥ सप्स्यन्ते नात्र संदेहः फलं तत्सत्यमुत्तमम् ॥ २४॥
यत् उद्दिश्य फलम् श्रेष्ठम् पठिष्यन्ति नराः तु इह ॥ सप्स्यन्ते न अत्र संदेहः फलम् तत् सत्यम् उत्तमम् ॥ २४॥
yat uddiśya phalam śreṣṭham paṭhiṣyanti narāḥ tu iha .. sapsyante na atra saṃdehaḥ phalam tat satyam uttamam .. 24..
यश्च प्रातस्समुत्थाय पूजां कृत्वा मदीयिकाम् ॥ पठते मत्समक्षं वै नित्यं सिद्धिर्न दूरतः ॥ २५ ॥
यः च प्रातर् समुत्थाय पूजाम् कृत्वा मदीयिकाम् ॥ पठते मद्-समक्षम् वै नित्यम् सिद्धिः न दूरतस् ॥ २५ ॥
yaḥ ca prātar samutthāya pūjām kṛtvā madīyikām .. paṭhate mad-samakṣam vai nityam siddhiḥ na dūratas .. 25 ..
ऐहिकीं सिद्धिमाप्नोति निखिलां सर्वकामिकाम् ॥ अन्ते सायुज्यमुक्तिं वै प्राप्नोत्यत्र न संशयः ॥ २६ ॥
ऐहिकीम् सिद्धिम् आप्नोति निखिलाम् सर्वकामिकाम् ॥ अन्ते सायुज्य-मुक्तिम् वै प्राप्नोति अत्र न संशयः ॥ २६ ॥
aihikīm siddhim āpnoti nikhilām sarvakāmikām .. ante sāyujya-muktim vai prāpnoti atra na saṃśayaḥ .. 26 ..
सूत उवाच ।।
एवमुक्त्वा तदा विष्णुं शंकरः प्रीतमानसः ॥ उपस्पृश्य कराभ्यां तमुवाच गिरिशः पुनः ॥ २७॥
एवम् उक्त्वा तदा विष्णुम् शंकरः प्रीत-मानसः ॥ उपस्पृश्य कराभ्याम् तम् उवाच गिरिशः पुनर् ॥ २७॥
evam uktvā tadā viṣṇum śaṃkaraḥ prīta-mānasaḥ .. upaspṛśya karābhyām tam uvāca giriśaḥ punar .. 27..
।। शिव उवाच ।।
वरदोऽस्मि सुरश्रेष्ठ वरान्वृणु यथेप्सितान् ॥ भक्त्या वशीकृतो नूनं स्तवेनानेन सुव्रतः ॥ २८॥
वर-दः अस्मि सुरश्रेष्ठ वरान् वृणु यथा ईप्सितान् ॥ भक्त्या वशीकृतः नूनम् स्तवेन अनेन सुव्रतः ॥ २८॥
vara-daḥ asmi suraśreṣṭha varān vṛṇu yathā īpsitān .. bhaktyā vaśīkṛtaḥ nūnam stavena anena suvrataḥ .. 28..
।। सूत उवाच ।।
इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम् ॥ सुप्रसन्नतरो विष्णुस्सांजलिर्वाक्यमब्रवीत् ॥ २९ ॥
इति उक्तः देवदेवेन देवदेवम् प्रणम्य तम् ॥ सुप्रसन्नतरः विष्णुः स अंजलिः वाक्यम् अब्रवीत् ॥ २९ ॥
iti uktaḥ devadevena devadevam praṇamya tam .. suprasannataraḥ viṣṇuḥ sa aṃjaliḥ vākyam abravīt .. 29 ..
विष्णुरुवाच ।।
यथेदानीं कृपानाथ क्रियते चान्यतः परा ॥ कार्य्या चैव विशेषेण कृपालुत्वात्त्वया प्रभो ॥ 4.36.३०॥
यथा इदानीम् कृपा-नाथ क्रियते च अन्यतस् परा ॥ कार्य्या च एव विशेषेण कृपालु-त्वात् त्वया प्रभो ॥ ४।३६।३०॥
yathā idānīm kṛpā-nātha kriyate ca anyatas parā .. kāryyā ca eva viśeṣeṇa kṛpālu-tvāt tvayā prabho .. 4.36.30..
त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम् ॥ नान्यमिच्छामि भक्तानामार्त्तयो नैव यत्प्रभो ॥ ३१ ॥
त्वयि भक्तिः महादेव प्रसीद वरम् उत्तमम् ॥ न अन्यम् इच्छामि भक्तानाम् आर्त्तयः ना एव यत् प्रभो ॥ ३१ ॥
tvayi bhaktiḥ mahādeva prasīda varam uttamam .. na anyam icchāmi bhaktānām ārttayaḥ nā eva yat prabho .. 31 ..
सूत उवाच ।।
तच्छ्रुत्वा वचनं तस्य दया वान्सुतरां भवः ॥ पस्पर्श च तदंगं वै प्राह शीतांशुशेखरः ॥ ३२॥
तत् श्रुत्वा वचनम् तस्य दया वान् सुतराम् भवः ॥ पस्पर्श च तद्-अंगम् वै प्राह शीतांशु-शेखरः ॥ ३२॥
tat śrutvā vacanam tasya dayā vān sutarām bhavaḥ .. pasparśa ca tad-aṃgam vai prāha śītāṃśu-śekharaḥ .. 32..
शिव उवाच ।।
मयि भक्तिस्सदा ते तु हरे स्यादनपायिनी ॥ सदा वन्द्यश्च पूज्यश्च लोके भव सुरैरपि ॥ ३३॥
मयि भक्तिः सदा ते तु हरे स्यात् अनपायिनी ॥ सदा वन्द्यः च पूज्यः च लोके भव सुरैः अपि ॥ ३३॥
mayi bhaktiḥ sadā te tu hare syāt anapāyinī .. sadā vandyaḥ ca pūjyaḥ ca loke bhava suraiḥ api .. 33..
विष्वंभरेति ते नाम सर्वपापहरं परम् ॥ भविष्यति न संदेहो मत्प्रसादात्सुरोत्तम ॥ ३४ ॥
विष्वंभरा इति ते नाम सर्व-पाप-हरम् परम् ॥ भविष्यति न संदेहः मद्-प्रसादात् सुर-उत्तम ॥ ३४ ॥
viṣvaṃbharā iti te nāma sarva-pāpa-haram param .. bhaviṣyati na saṃdehaḥ mad-prasādāt sura-uttama .. 34 ..
।। सूत उवाच ।।
इत्युक्त्वांतर्दधे रुद्रस्सर्वदेवेश्वरः प्रभुः ॥ पश्यतस्तस्य विष्णोस्तु तत्रैव च मुनीश्वराः ॥ ३५ ॥
इति उक्त्वा अंतर्दधे रुद्रः सर्व-देव-ईश्वरः प्रभुः ॥ पश्यतः तस्य विष्णोः तु तत्र एव च मुनि-ईश्वराः ॥ ३५ ॥
iti uktvā aṃtardadhe rudraḥ sarva-deva-īśvaraḥ prabhuḥ .. paśyataḥ tasya viṣṇoḥ tu tatra eva ca muni-īśvarāḥ .. 35 ..
जनार्दनोऽपि भगवान्वचनाच्छङ्करस्य च ॥ प्राप्य चक्रं शुभं तद्वै जहर्षाति स्वचेतसि ॥ ३६ ॥
जनार्दनः अपि भगवान् वचनात् शङ्करस्य च ॥ प्राप्य चक्रम् शुभम् तत् वै जहर्षाति स्व-चेतसि ॥ ३६ ॥
janārdanaḥ api bhagavān vacanāt śaṅkarasya ca .. prāpya cakram śubham tat vai jaharṣāti sva-cetasi .. 36 ..
कृत्वा ध्यानं च तच्छम्भोः स्तोत्रमेतन्निरन्तरम् ॥ पपाठाध्यापयामास भक्तेभ्यस्तदुपादिशत्॥३७॥
कृत्वा ध्यानम् च तत् शम्भोः स्तोत्रम् एतत् निरन्तरम् ॥ पपाठ अध्यापयामास भक्तेभ्यः तत् उपादिशत्॥३७॥
kṛtvā dhyānam ca tat śambhoḥ stotram etat nirantaram .. papāṭha adhyāpayāmāsa bhaktebhyaḥ tat upādiśat..37..
इति पृष्टं मयाख्यातं शृण्वताम्पापहारकम्॥अतःपरं च किं श्रेष्ठाः प्रष्टुमिच्छथ वै पुनः॥३८॥
इति पृष्टम् मया आख्यातम् शृण्वताम् पाप-हारकम्॥अतस् परम् च किम् श्रेष्ठाः प्रष्टुम् इच्छथ वै पुनर्॥३८॥
iti pṛṣṭam mayā ākhyātam śṛṇvatām pāpa-hārakam..atas param ca kim śreṣṭhāḥ praṣṭum icchatha vai punar..38..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवसहस्रनामस्तोत्रफलवर्णनं नाम षट्त्रिंशोध्यायः ॥ ३६॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् शिवसहस्रनामस्तोत्रफलवर्णनम् नाम षट्त्रिंशः उध्यायः ॥ ३६॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām śivasahasranāmastotraphalavarṇanam nāma ṣaṭtriṃśaḥ udhyāyaḥ .. 36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In