| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
संज्ञां लब्धा ततस्सा च मेना शैलप्रिया सती ॥ विललापातिसंक्षुब्धा तिरस्कारमथाकरोत् ॥ १ ॥
संज्ञाम् लब्धा ततस् सा च मेना शैल-प्रिया सती ॥ विललाप अति संक्षुब्धा तिरस्कारम् अथ अकरोत् ॥ १ ॥
saṃjñām labdhā tatas sā ca menā śaila-priyā satī .. vilalāpa ati saṃkṣubdhā tiraskāram atha akarot .. 1 ..
तत्र तावत्स्वपुत्राँश्च निनिन्द खलिता मुहुः ॥ प्रथमं सा ततः पुत्री कथयामास दुर्वचः ॥ २ ॥
तत्र तावत् स्व-पुत्रान् च निनिन्द खलिता मुहुर् ॥ प्रथमम् सा ततस् पुत्री कथयामास दुर्वचः ॥ २ ॥
tatra tāvat sva-putrān ca nininda khalitā muhur .. prathamam sā tatas putrī kathayāmāsa durvacaḥ .. 2 ..
।। मेनोवाच।।
मुने पुरा त्वया प्रोक्तं वरिष्यति शिवा शिवम् ॥ पश्चाद्धिमवतः कृत्यं पूजार्थं विनिवेशितम् ॥ ३ ॥
मुने पुरा त्वया प्रोक्तम् वरिष्यति शिवा शिवम् ॥ पश्चात् हिमवतः कृत्यम् पूजा-अर्थम् विनिवेशितम् ॥ ३ ॥
mune purā tvayā proktam variṣyati śivā śivam .. paścāt himavataḥ kṛtyam pūjā-artham viniveśitam .. 3 ..
ततो दृष्टं फलं सत्यं विपरीतमनर्थकम् ॥ मुनेऽधमाहं दुर्बुद्धे सर्वथा वञ्चिता त्वया ॥ ४॥
ततस् दृष्टम् फलम् सत्यम् विपरीतम् अनर्थकम् ॥ मुने अधमा अहम् दुर्बुद्धे सर्वथा वञ्चिता त्वया ॥ ४॥
tatas dṛṣṭam phalam satyam viparītam anarthakam .. mune adhamā aham durbuddhe sarvathā vañcitā tvayā .. 4..
पुनस्तया तपस्तप्तं दुष्करं मुनिभिश्च यत् ॥ तस्य लब्धं फलं ह्येतत्पश्यतां दुःखदायकम् ॥ ५ ॥
पुनर् तया तपः तप्तम् दुष्करम् मुनिभिः च यत् ॥ तस्य लब्धम् फलम् हि एतत् पश्यताम् दुःख-दायकम् ॥ ५ ॥
punar tayā tapaḥ taptam duṣkaram munibhiḥ ca yat .. tasya labdham phalam hi etat paśyatām duḥkha-dāyakam .. 5 ..
किं करोमि क्व गच्छामि को मे दुःखं व्यपोहताम् ॥ कुलादिकं विनष्टं मे विहितं जीवितं मम ॥ ६ ॥
किम् करोमि क्व गच्छामि कः मे दुःखम् व्यपोहताम् ॥ कुल-आदिकम् विनष्टम् मे विहितम् जीवितम् मम ॥ ६ ॥
kim karomi kva gacchāmi kaḥ me duḥkham vyapohatām .. kula-ādikam vinaṣṭam me vihitam jīvitam mama .. 6 ..
क्व गता ऋषयो दिव्याः श्मश्रूणि त्रोटयाम्यहम् ॥ तपस्विनी च या पत्नी सा धूर्ता स्वयमागता ॥ ७ ॥
क्व गताः ऋषयः दिव्याः श्मश्रूणि त्रोटयामि अहम् ॥ तपस्विनी च या पत्नी सा धूर्ता स्वयम् आगता ॥ ७ ॥
kva gatāḥ ṛṣayaḥ divyāḥ śmaśrūṇi troṭayāmi aham .. tapasvinī ca yā patnī sā dhūrtā svayam āgatā .. 7 ..
केषाञ्चैवापराधेन सर्वं नष्टं ममाधुना ॥ इत्युक्त्वा वीक्ष्य च सुतामुवाच वचनं कटु ॥ ८॥
केषाम् च एव अपराधेन सर्वम् नष्टम् मम अधुना ॥ इति उक्त्वा वीक्ष्य च सुताम् उवाच वचनम् कटु ॥ ८॥
keṣām ca eva aparādhena sarvam naṣṭam mama adhunā .. iti uktvā vīkṣya ca sutām uvāca vacanam kaṭu .. 8..
किं कृतं ते सुते दुष्टे कर्म दुःखकरं मम ॥ हेम दत्त्वा त्वयानीतः काचो वै दुष्टया स्वयम् ॥ ९॥
किम् कृतम् ते सुते दुष्टे कर्म दुःख-करम् मम ॥ हेम दत्त्वा त्वया आनीतः काचः वै दुष्टया स्वयम् ॥ ९॥
kim kṛtam te sute duṣṭe karma duḥkha-karam mama .. hema dattvā tvayā ānītaḥ kācaḥ vai duṣṭayā svayam .. 9..
हित्वा तु चन्दनं भूयो लेपितः कर्दमस्त्वया ॥ हंसमुड्डीय काको वै गृहीतो हस्तपञ्जरे ॥ 2.3.44.१० ॥
हित्वा तु चन्दनम् भूयस् लेपितः कर्दमः त्वया ॥ हंसम् उड्डीय काकः वै गृहीतः हस्त-पञ्जरे ॥ २।३।४४।१० ॥
hitvā tu candanam bhūyas lepitaḥ kardamaḥ tvayā .. haṃsam uḍḍīya kākaḥ vai gṛhītaḥ hasta-pañjare .. 2.3.44.10 ..
हित्वा ब्रह्मजलं दूरे पीतं कूपोदकं त्वया ॥ सूर्यं हित्वा तु खद्योतो गृहीतो यत्नतस्त्वया ॥ ११ ॥
हित्वा ब्रह्म-जलम् दूरे पीतम् कूप-उदकम् त्वया ॥ सूर्यम् हित्वा तु खद्योतः गृहीतः यत्नतः त्वया ॥ ११ ॥
hitvā brahma-jalam dūre pītam kūpa-udakam tvayā .. sūryam hitvā tu khadyotaḥ gṛhītaḥ yatnataḥ tvayā .. 11 ..
तण्डुलांश्च तथा हित्वा कृतं वै तुषभक्षणम् ॥ प्रक्षिप्याज्यं तथा तैलं कारण्डं भुक्तमादरात् ॥ १२ ॥
तण्डुलान् च तथा हित्वा कृतम् वै तुष-भक्षणम् ॥ प्रक्षिप्य आज्यम् तथा तैलम् कारण्डम् भुक्तम् आदरात् ॥ १२ ॥
taṇḍulān ca tathā hitvā kṛtam vai tuṣa-bhakṣaṇam .. prakṣipya ājyam tathā tailam kāraṇḍam bhuktam ādarāt .. 12 ..
सिंहसेवां तथा मुक्त्वा शृगालस्सेवितस्त्वया ॥ ब्रह्मविद्यां तथा मुक्त्वा कुगाथा च श्रुता त्वया ॥ १३ ॥
सिंह-सेवाम् तथा मुक्त्वा शृगालः सेवितः त्वया ॥ ब्रह्म-विद्याम् तथा मुक्त्वा कु गाथा च श्रुता त्वया ॥ १३ ॥
siṃha-sevām tathā muktvā śṛgālaḥ sevitaḥ tvayā .. brahma-vidyām tathā muktvā ku gāthā ca śrutā tvayā .. 13 ..
गृहे यज्ञविभूतिं हि दूरीकृत्य सुमंगलाम् ॥ गृहीतश्च चिताभस्म त्वया पुत्रि ह्यमंगलम् ॥ १४ ॥
गृहे यज्ञ-विभूतिम् हि दूरीकृत्य सु मंगलाम् ॥ गृहीतः च चिता-भस्म त्वया पुत्रि हि अमंगलम् ॥ १४ ॥
gṛhe yajña-vibhūtim hi dūrīkṛtya su maṃgalām .. gṛhītaḥ ca citā-bhasma tvayā putri hi amaṃgalam .. 14 ..
सर्वान् देववरांस्त्यक्त्वा विष्ण्वादीन्परमेश्वरान् ॥ कृतं त्वया कुबुद्ध्या वै शिवार्थं तप ईदृशम् ॥ १५ ॥
सर्वान् देव-वरान् त्यक्त्वा विष्णु-आदीन् परमेश्वरान् ॥ कृतम् त्वया कु बुद्ध्या वै शिव-अर्थम् तपः ईदृशम् ॥ १५ ॥
sarvān deva-varān tyaktvā viṣṇu-ādīn parameśvarān .. kṛtam tvayā ku buddhyā vai śiva-artham tapaḥ īdṛśam .. 15 ..
धिक्त्वा च तव बुद्धिश्च धिग्रूपं चरितं तव ॥ धिक् चोपदेशकर्त्तारं धिक्सख्यावपि ते तथा ॥ १६ ॥
धिक् त्वा च तव बुद्धिः च धिक् रूपम् चरितम् तव ॥ धिक् च उपदेश-कर्त्तारम् धिक् सख्यौ अपि ते तथा ॥ १६ ॥
dhik tvā ca tava buddhiḥ ca dhik rūpam caritam tava .. dhik ca upadeśa-karttāram dhik sakhyau api te tathā .. 16 ..
आवां च धिक्तथा पुत्री यौ ते जन्मप्रवर्तकौ ॥ धिक्ते नारद बुद्धिञ्च सप्तर्षींश्च सुबुद्धिदान् ॥ १७ ॥
आवाम् च धिक् तथा पुत्री यौ ते जन्म-प्रवर्तकौ ॥ धिक् ते नारद बुद्धिञ्च च सप्तर्षीन् च सु बुद्धि-दान् ॥ १७ ॥
āvām ca dhik tathā putrī yau te janma-pravartakau .. dhik te nārada buddhiñca ca saptarṣīn ca su buddhi-dān .. 17 ..
धिक्कुलं धिक्क्रियादाक्ष्यं सर्वं धिग्यत्कृतं त्वया ॥ गृहन्तु धुक्षितं त्वेतन्मरणं तु ममैव हि ॥ १८ ॥
धिक् कुलम् धिक् क्रिया-दाक्ष्यम् सर्वम् धिक् यत् कृतम् त्वया ॥ गृहन्तु धुक्षितम् तु एतत् मरणम् तु मम एव हि ॥ १८ ॥
dhik kulam dhik kriyā-dākṣyam sarvam dhik yat kṛtam tvayā .. gṛhantu dhukṣitam tu etat maraṇam tu mama eva hi .. 18 ..
पार्वतानामयं राजा नायातु निकटे मम ॥ सप्तर्षयस्स्वयं नैव दर्शयन्तु मुखम्मम ॥ १९ ॥
पार्वतानाम् अयम् राजा ना आयातु निकटे मम ॥ सप्तर्षयः स्वयम् ना एव दर्शयन्तु मुखम् मम ॥ १९ ॥
pārvatānām ayam rājā nā āyātu nikaṭe mama .. saptarṣayaḥ svayam nā eva darśayantu mukham mama .. 19 ..
साधितं किञ्च सर्वैस्तु मिलित्वा घातितं कुलम् ॥ वन्ध्याहं न कथं जाता गर्भो न गलितः कथम् ॥ 2.3.44.२० ॥
साधितम् किञ्च सर्वैः तु मिलित्वा घातितम् कुलम् ॥ वन्ध्या अहम् न कथम् जाता गर्भः न गलितः कथम् ॥ २।३।४४।२० ॥
sādhitam kiñca sarvaiḥ tu militvā ghātitam kulam .. vandhyā aham na katham jātā garbhaḥ na galitaḥ katham .. 2.3.44.20 ..
अथो न वा मृता चाहं पुत्रिका न मृता कथम् ॥ रक्षसाद्य कथं नो वा भक्षिता गगने पुनः ॥ २१॥
अथो न वा मृता च अहम् पुत्रिका न मृता कथम् ॥ रक्षसा अद्य कथम् नः वा भक्षिताः गगने पुनर् ॥ २१॥
atho na vā mṛtā ca aham putrikā na mṛtā katham .. rakṣasā adya katham naḥ vā bhakṣitāḥ gagane punar .. 21..
छेदयामि शिरस्तेऽद्य किं करोमि कलेवरैः ॥ त्यक्त्वा त्वां च कुतो यायां हाहा मे जीवितं हतम् ॥ २२॥ ।
छेदयामि शिरः ते अद्य किम् करोमि कलेवरैः ॥ त्यक्त्वा त्वाम् च कुतस् यायाम् हाहा मे जीवितम् हतम् ॥ २२॥ ।
chedayāmi śiraḥ te adya kim karomi kalevaraiḥ .. tyaktvā tvām ca kutas yāyām hāhā me jīvitam hatam .. 22.. .
।।ब्रह्मोवाच।।
इत्युक्त्वा पतिता सा च मेना भूमौ विमूर्छिता ॥ व्याकुला शोकरोषाद्यैर्न गता भर्तृसन्निधौ॥ २३॥
इति उक्त्वा पतिता सा च मेना भूमौ विमूर्छिता ॥ व्याकुला शोक-रोष-आद्यैः न गता भर्तृ-सन्निधौ॥ २३॥
iti uktvā patitā sā ca menā bhūmau vimūrchitā .. vyākulā śoka-roṣa-ādyaiḥ na gatā bhartṛ-sannidhau.. 23..
हाहाकारो महानासीत्त स्मिन्काले मुनीश्वर ॥ सर्वे समागतास्तत्र क्रमात्तत्सन्निधौ सुराः ॥ २४॥
हाहाकारः महान् आसीत् तस्मिन् काले मुनि-ईश्वर ॥ सर्वे समागताः तत्र क्रमात् तद्-सन्निधौ सुराः ॥ २४॥
hāhākāraḥ mahān āsīt tasmin kāle muni-īśvara .. sarve samāgatāḥ tatra kramāt tad-sannidhau surāḥ .. 24..
पुरा देवमुने चाहमागतस्तु स्वयं तदा ॥ मां दृष्ट्वा त्वं वचस्ता वै प्रावोच ऋषिसत्तम ॥ २५॥
पुरा देव-मुने च अहम् आगतः तु स्वयम् तदा ॥ माम् दृष्ट्वा त्वम् वचः ताः वै प्रावोचः ऋषि-सत्तम ॥ २५॥
purā deva-mune ca aham āgataḥ tu svayam tadā .. mām dṛṣṭvā tvam vacaḥ tāḥ vai prāvocaḥ ṛṣi-sattama .. 25..
यथार्थं सुंदरं रूपं ना ज्ञातं ते शिवस्य वै ॥ लीलयेदं धृतं रूपं न यथार्थं शिवेन च ॥ ।२६॥
यथार्थम् सुंदरम् रूपम् ना ज्ञातम् ते शिवस्य वै ॥ लीलया इदम् धृतम् रूपम् न यथार्थम् शिवेन च ॥ ।२६॥
yathārtham suṃdaram rūpam nā jñātam te śivasya vai .. līlayā idam dhṛtam rūpam na yathārtham śivena ca .. .26..
नारद उवाच ।।
तस्मात्क्रोधं परित्यज्य स्वस्था भव पतिव्रते ॥ कार्य्यं कुरु हठं त्यक्त्वा शिवां देहि शिवाय च ॥ २७ ॥
तस्मात् क्रोधम् परित्यज्य स्वस्था भव पतिव्रते ॥ कार्य्यम् कुरु हठम् त्यक्त्वा शिवाम् देहि शिवाय च ॥ २७ ॥
tasmāt krodham parityajya svasthā bhava pativrate .. kāryyam kuru haṭham tyaktvā śivām dehi śivāya ca .. 27 ..
।। ब्रह्मोवाच ।।
तदाकर्ण्य वचस्ते सा मेना त्वां वाक्यमब्रवीत्॥ उत्तिष्ठेतो गच्छ दूरं दुष्टाधमवरो भवान्॥ २८॥
तत् आकर्ण्य वचः ते सा मेना त्वाम् वाक्यम् अब्रवीत्॥ उत्तिष्ठ इतस् गच्छ दूरम् दुष्ट-अधम-वरः भवान्॥ २८॥
tat ākarṇya vacaḥ te sā menā tvām vākyam abravīt.. uttiṣṭha itas gaccha dūram duṣṭa-adhama-varaḥ bhavān.. 28..
इत्युक्ते तु तया देव इन्द्राद्याः सकलाः क्रमात् ॥ समागत्य च दिक्पाला वचनं चेदमब्रुवन् ॥ २९॥
इति उक्ते तु तया देवः इन्द्र-आद्याः सकलाः क्रमात् ॥ समागत्य च दिक्पालाः वचनम् च इदम् अब्रुवन् ॥ २९॥
iti ukte tu tayā devaḥ indra-ādyāḥ sakalāḥ kramāt .. samāgatya ca dikpālāḥ vacanam ca idam abruvan .. 29..
।। देवा ऊचुः।।
हे मेने पितृकन्ये हि शृण्वस्मद्वचनम्मुदा ॥ अयं वै परमः साक्षाच्छिवः परसुखावहः ॥ 2.3.44.३०॥
हे मेने पितृ-कन्ये हि शृणु अस्मद्-वचनम् मुदा ॥ अयम् वै परमः साक्षात् शिवः पर-सुख-आवहः ॥ २।३।४४।३०॥
he mene pitṛ-kanye hi śṛṇu asmad-vacanam mudā .. ayam vai paramaḥ sākṣāt śivaḥ para-sukha-āvahaḥ .. 2.3.44.30..
कृपया च भवत्पुत्र्यास्तपो दृष्ट्वातिदुस्सहम् ॥ दर्शनं दत्तवाञ्छम्भुर्वरं सद्भक्तवत्सलः ॥ ३१ ॥ ।
कृपया च भवत्-पुत्र्याः तपः दृष्ट्वा अति दुस्सहम् ॥ दर्शनम् दत्तवान् शम्भुः वरम् सत्-भक्त-वत्सलः ॥ ३१ ॥ ।
kṛpayā ca bhavat-putryāḥ tapaḥ dṛṣṭvā ati dussaham .. darśanam dattavān śambhuḥ varam sat-bhakta-vatsalaḥ .. 31 .. .
।। ब्रह्मोवाच ।।
अथोवाच सुरान्मेना विलप्याति मुहुर्मुहुः ॥ न देया तु मया कन्या गिरिशायोग्ररूपिणे ॥ ३२॥
अथा उवाच सुरान् मेना विलप्य अति मुहुर् मुहुर् ॥ न देया तु मया कन्या गिरिशाय उग्र-रूपिणे ॥ ३२॥
athā uvāca surān menā vilapya ati muhur muhur .. na deyā tu mayā kanyā giriśāya ugra-rūpiṇe .. 32..
किमर्थन्तु भवन्तश्च सर्वे देवाः प्रपञ्चिताः ॥ रूपमस्याः परन्नाम व्यर्थीकर्तुं समुद्यतः ॥ ३३॥
भवन्तः च सर्वे देवाः प्रपञ्चिताः ॥ रूपम् अस्याः परत् नाम व्यर्थीकर्तुम् समुद्यतः ॥ ३३॥
bhavantaḥ ca sarve devāḥ prapañcitāḥ .. rūpam asyāḥ parat nāma vyarthīkartum samudyataḥ .. 33..
इत्युक्ते च तया तत्र ऋषयस्सप्त एव हि ॥ ऊचुस्ते वच आगत्य वसिष्ठाद्या मुनीश्वर ॥ ३४ ॥
इति उक्ते च तया तत्र ऋषयः सप्त एव हि ॥ ऊचुः ते वचः आगत्य वसिष्ठ-आद्याः मुनि-ईश्वर ॥ ३४ ॥
iti ukte ca tayā tatra ṛṣayaḥ sapta eva hi .. ūcuḥ te vacaḥ āgatya vasiṣṭha-ādyāḥ muni-īśvara .. 34 ..
सप्तर्षयः ऊचुः ।।
कार्य्यं साधयितुम्प्राप्ताः पितृकन्ये गिरिप्रिये ॥ विरुद्धं चात्र उक्तार्थे कथम्मन्यामहे वयम् ॥ ३५॥
कार्य्यम् साधयितुम् प्राप्ताः पितृ-कन्ये गिरिप्रिये ॥ विरुद्धम् च अत्र उक्त-अर्थे कथम् मन्यामहे वयम् ॥ ३५॥
kāryyam sādhayitum prāptāḥ pitṛ-kanye giripriye .. viruddham ca atra ukta-arthe katham manyāmahe vayam .. 35..
ब्रह्मोवाच ।।
अयं वै परमो लाभो दर्शनं शंकरस्य यत् ॥ दानपात्रं स ते भूत्वागतस्तव च मंदिरम् ॥ । ३६ ॥
अयम् वै परमः लाभः दर्शनम् शंकरस्य यत् ॥ दान-पात्रम् स ते भूत्वा आगतः तव च मंदिरम् ॥ । ३६ ॥
ayam vai paramaḥ lābhaḥ darśanam śaṃkarasya yat .. dāna-pātram sa te bhūtvā āgataḥ tava ca maṃdiram .. . 36 ..
।। ब्रह्मोवाच ।।
इत्युक्त्वा तैस्ततो मेना मुनिवाक्यं मृषाकरोत् ॥ प्रत्युवाच च रुष्टा सा तानृषीञ्ज्ञानदुर्बला ॥ ३७॥
इति उक्त्वा तैः ततस् मेना मुनि-वाक्यम् मृषा अकरोत् ॥ प्रत्युवाच च रुष्टा सा तान् ऋषीन् ज्ञान-दुर्बला ॥ ३७॥
iti uktvā taiḥ tatas menā muni-vākyam mṛṣā akarot .. pratyuvāca ca ruṣṭā sā tān ṛṣīn jñāna-durbalā .. 37..
मेनोवाच ।।
शस्त्राद्यैर्घातयिष्येहं न हास्ये शंकरायताम् ॥ दूरं गच्छत सर्वे हि नागन्तव्यं मदन्तिके ॥ ३८॥
शस्त्र-आद्यैः घातयिष्ये इहम् न हास्ये शंकरायताम् ॥ दूरम् गच्छत सर्वे हि न आगन्तव्यम् मद्-अन्तिके ॥ ३८॥
śastra-ādyaiḥ ghātayiṣye iham na hāsye śaṃkarāyatām .. dūram gacchata sarve hi na āgantavyam mad-antike .. 38..
ब्रह्मोवाच ।।
इत्युक्त्वा विररामाशु सा विलप्यातिविह्वला ॥ हाहाकारो महानासीत्तत्र तद्वृत्ततो मुने ॥ ३९ ॥
इति उक्त्वा विरराम आशु सा विलप्य अति विह्वला ॥ हाहाकारः महान् आसीत् तत्र तद्-वृत्ततस् मुने ॥ ३९ ॥
iti uktvā virarāma āśu sā vilapya ati vihvalā .. hāhākāraḥ mahān āsīt tatra tad-vṛttatas mune .. 39 ..
ततो हिमालयस्तत्राजगामातिसमाकुलः ॥ ताञ्च बोधयितुं प्रीत्या प्राह तत्त्वञ्च दर्शयन् ॥ 2.3.44.४० ॥
ततस् हिमालयः तत्र आजगाम अति समाकुलः ॥ तान् च बोधयितुम् प्रीत्या प्राह तत्त्वम् च दर्शयन् ॥ २।३।४४।४० ॥
tatas himālayaḥ tatra ājagāma ati samākulaḥ .. tān ca bodhayitum prītyā prāha tattvam ca darśayan .. 2.3.44.40 ..
हिमालय उवाच ।।
शृणु मेने वचो मेऽद्य विकलाऽसि कथम्प्रिये ॥ के के समागता गेहं कथं चैतान्विनिन्दसि ॥ ४१॥
शृणु मेने वचः मे अद्य विकला असि कथम् प्रिये ॥ के के समागताः गेहम् कथम् च एतान् विनिन्दसि ॥ ४१॥
śṛṇu mene vacaḥ me adya vikalā asi katham priye .. ke ke samāgatāḥ geham katham ca etān vinindasi .. 41..
शंकरं त्वं च जानासि रूपं दृष्ट्वासि विह्वला ॥ विकटं तस्य शंभोस्तु नानारूपाभिधस्य हि ॥ ४२ ॥
शंकरम् त्वम् च जानासि रूपम् दृष्ट्वा असि विह्वला ॥ विकटम् तस्य शंभोः तु नाना रूप-अभिधस्य हि ॥ ४२ ॥
śaṃkaram tvam ca jānāsi rūpam dṛṣṭvā asi vihvalā .. vikaṭam tasya śaṃbhoḥ tu nānā rūpa-abhidhasya hi .. 42 ..
स शंकरो मया ज्ञातस्सर्वेषां प्रतिपालकः ॥ पूज्यानां पूज्य एवासौ कर्तानुग्रहनिग्रहान् ॥ ४३ ॥
स शंकरः मया ज्ञातः सर्वेषाम् प्रतिपालकः ॥ पूज्यानाम् पूज्यः एव असौ कर्ता अनुग्रह-निग्रहान् ॥ ४३ ॥
sa śaṃkaraḥ mayā jñātaḥ sarveṣām pratipālakaḥ .. pūjyānām pūjyaḥ eva asau kartā anugraha-nigrahān .. 43 ..
हठं न कुरु मुञ्च त्वं दुःखं प्राणप्रियेऽनघे ॥ उत्तिष्ठारं तथा कार्यं कर्तुमर्हसि सुव्रते ॥ ४४ ॥
हठम् न कुरु मुञ्च त्वम् दुःखम् प्राण-प्रिये अनघे ॥ उत्तिष्ठारम् तथा कार्यम् कर्तुम् अर्हसि सुव्रते ॥ ४४ ॥
haṭham na kuru muñca tvam duḥkham prāṇa-priye anaghe .. uttiṣṭhāram tathā kāryam kartum arhasi suvrate .. 44 ..
यद्वै द्वारगतश्शंभुः पुरा विकटरूपधृक् ॥ नानालीलाञ्च कृतवाञ्चेतयामि च तामिमाम् ॥ ४५ ॥
यत् वै द्वार-गतः शंभुः पुरा विकट-रूपधृक् ॥ नाना लीलाम् च कृतवान् चेतयामि च ताम् इमाम् ॥ ४५ ॥
yat vai dvāra-gataḥ śaṃbhuḥ purā vikaṭa-rūpadhṛk .. nānā līlām ca kṛtavān cetayāmi ca tām imām .. 45 ..
तन्माहात्म्यं परं दृष्ट्वा कन्यां दातुं त्वया मया ॥ अंगीकृतं तदा देवि तत्प्रमाणं कुरु प्रिये॥ ४६॥
तत् माहात्म्यम् परम् दृष्ट्वा कन्याम् दातुम् त्वया मया ॥ अंगीकृतम् तदा देवि तत् प्रमाणम् कुरु प्रिये॥ ४६॥
tat māhātmyam param dṛṣṭvā kanyām dātum tvayā mayā .. aṃgīkṛtam tadā devi tat pramāṇam kuru priye.. 46..
ब्रह्मोवाच।।
इत्युक्त्वा सोऽद्रिनाथो हि विरराम ततो मुने ॥ तदाकर्ण्य शिवामाता मेनोवाच हिमालयम् ॥ ४७ ॥
इति उक्त्वा सः अद्रि-नाथः हि विरराम ततस् मुने ॥ तत् आकर्ण्य शिवामाता मेना उवाच हिमालयम् ॥ ४७ ॥
iti uktvā saḥ adri-nāthaḥ hi virarāma tatas mune .. tat ākarṇya śivāmātā menā uvāca himālayam .. 47 ..
मेनोवाच ।।
मद्वचः श्रूयतां नाथ तथा कर्तुं त्वमर्हसि ॥ गृहीत्वा तनुजां चैनां बद्ध्वा कण्ठे तु पार्वतीम् ॥ ४८ ॥
मद्-वचः श्रूयताम् नाथ तथा कर्तुम् त्वम् अर्हसि ॥ गृहीत्वा तनुजाम् च एनाम् बद्ध्वा कण्ठे तु पार्वतीम् ॥ ४८ ॥
mad-vacaḥ śrūyatām nātha tathā kartum tvam arhasi .. gṛhītvā tanujām ca enām baddhvā kaṇṭhe tu pārvatīm .. 48 ..
अधः पातय निःशंकं दास्ये तां न हराय हि ॥ तथैनामथवा नाथ गत्वा वै सागरे सुताम् ॥ ४९ ॥
अधस् पातय निःशंकम् दास्ये ताम् न हराय हि ॥ तथा एनाम् अथवा नाथ गत्वा वै सागरे सुताम् ॥ ४९ ॥
adhas pātaya niḥśaṃkam dāsye tām na harāya hi .. tathā enām athavā nātha gatvā vai sāgare sutām .. 49 ..
निमज्जय दयां त्यक्त्वा ततोऽद्रीश सुखी भव ॥ यदि दास्यसि पुत्री त्वं रुद्राय विकटात्मने ॥ तर्हि त्यक्ष्याम्यहं स्वामिन्निश्चयेन कलेवरम् ॥ 2.3.44.५० ॥
निमज्जय दयाम् त्यक्त्वा ततस् अद्रीश सुखी भव ॥ यदि दास्यसि पुत्री त्वम् रुद्राय विकट-आत्मने ॥ तर्हि त्यक्ष्यामि अहम् स्वामिन् निश्चयेन कलेवरम् ॥ २।३।४४।५० ॥
nimajjaya dayām tyaktvā tatas adrīśa sukhī bhava .. yadi dāsyasi putrī tvam rudrāya vikaṭa-ātmane .. tarhi tyakṣyāmi aham svāmin niścayena kalevaram .. 2.3.44.50 ..
।। ब्रह्मोवाच ।।
इत्युक्ते च तदा तत्र वचने मेनया हठान् ॥ उवाच वचनं रम्यं पार्वती स्वयमागता ॥ ५१॥
इति उक्ते च तदा तत्र वचने मेनया हठान् ॥ उवाच वचनम् रम्यम् पार्वती स्वयम् आगता ॥ ५१॥
iti ukte ca tadā tatra vacane menayā haṭhān .. uvāca vacanam ramyam pārvatī svayam āgatā .. 51..
पार्वत्युवाच ।।
मातस्ते विपरीता हि बुद्धिर्जाताऽशुभावहा ॥ धर्मावलम्बनात्त्वं हि कथन्धर्मं जहासि वै॥ ५२ ॥
मातर् ते विपरीता हि बुद्धिः जाता अशुभ-आवहा ॥ धर्म-अवलम्बनात् त्वम् हि कथम् धर्मम् जहासि वै॥ ५२ ॥
mātar te viparītā hi buddhiḥ jātā aśubha-āvahā .. dharma-avalambanāt tvam hi katham dharmam jahāsi vai.. 52 ..
अयं रुद्रोऽपरस्साक्षात्सर्वप्रभव ईश्वरः ।शम्भुस्सुरूपस्सुखदस्सर्वश्रुतिषु वर्णितः ॥ ५३॥
अयम् रुद्रः अपरः साक्षात् सर्व-प्रभवः ईश्वरः ।शम्भुः सुरूपः सुख-दः सर्व-श्रुतिषु वर्णितः ॥ ५३॥
ayam rudraḥ aparaḥ sākṣāt sarva-prabhavaḥ īśvaraḥ .śambhuḥ surūpaḥ sukha-daḥ sarva-śrutiṣu varṇitaḥ .. 53..
महेशश्शंकरश्चायं सर्वदेवप्रभुस्स्वराट् ॥ नानारूपाभिधो मातर्हरिब्रह्मादिसेवितः ॥ ५४ ॥
महेशः शंकरः च अयम् सर्व-देव-प्रभुः स्वराज् ॥ नाना रूप-अभिधः मातर् हरि-ब्रह्म-आदि-सेवितः ॥ ५४ ॥
maheśaḥ śaṃkaraḥ ca ayam sarva-deva-prabhuḥ svarāj .. nānā rūpa-abhidhaḥ mātar hari-brahma-ādi-sevitaḥ .. 54 ..
अधिष्ठानं च सर्वेषां कर्ता हर्ता च स प्रभुः ॥ निर्विकारी त्रिदेवेशो ह्यविनाशी सनातनः ॥ ५५ ॥
अधिष्ठानम् च सर्वेषाम् कर्ता हर्ता च स प्रभुः ॥ निर्विकारी त्रिदेवेशः हि अविनाशी सनातनः ॥ ५५ ॥
adhiṣṭhānam ca sarveṣām kartā hartā ca sa prabhuḥ .. nirvikārī trideveśaḥ hi avināśī sanātanaḥ .. 55 ..
यदर्थे देवतास्सर्वा आयाता किंकरीकृताः ॥ द्वारि ते सोत्सवाश्चाद्य किमतोऽन्यत्परं सुखम् ॥ ५६ ॥
यद्-अर्थे देवताः सर्वाः आयाता किंकरीकृताः ॥ द्वारि ते स उत्सवाः च अद्य किम् अतस् अन्यत् परम् सुखम् ॥ ५६ ॥
yad-arthe devatāḥ sarvāḥ āyātā kiṃkarīkṛtāḥ .. dvāri te sa utsavāḥ ca adya kim atas anyat param sukham .. 56 ..
उत्तिष्ठातः प्रयत्नेन जीवितं सफलं कुरु ।देहि मां त्वं शिवायास्मै स्वाश्रमं कुरु सार्थकम् ॥ ५७॥
उत्तिष्ठ अतस् प्रयत्नेन जीवितम् सफलम् कुरु ।देहि माम् त्वम् शिवाय अस्मै स्व-आश्रमम् कुरु सार्थकम् ॥ ५७॥
uttiṣṭha atas prayatnena jīvitam saphalam kuru .dehi mām tvam śivāya asmai sva-āśramam kuru sārthakam .. 57..
देहि मां परमेशाय शंकराय जनन्यहो ॥ स्वीकुरु त्वमिमं मातर्विनयम्मे ब्रवीमि ते ॥ ५८॥
देहि माम् परमेशाय शंकराय जननि अहो ॥ स्वीकुरु त्वम् इमम् मातर् विनयम् मे ब्रवीमि ते ॥ ५८॥
dehi mām parameśāya śaṃkarāya janani aho .. svīkuru tvam imam mātar vinayam me bravīmi te .. 58..
चेन्न दास्यसि तस्मै मां न वृणेऽन्यमहं वरम् ॥ भागं लभेत्कथं सैंहं शृगालः परवंचकः ॥ ५९॥
चेद् न दास्यसि तस्मै माम् न वृणे अन्यम् अहम् वरम् ॥ भागम् लभेत् कथम् सैंहम् शृगालः पर-वंचकः ॥ ५९॥
ced na dāsyasi tasmai mām na vṛṇe anyam aham varam .. bhāgam labhet katham saiṃham śṛgālaḥ para-vaṃcakaḥ .. 59..
मनसा वचसा मातः कर्मणा च हरस्त्वयम् ॥ मया वृतो वृतश्चैव यदिच्छसि तथा कुरु ॥ 2.3.44.६० ॥
मनसा वचसा मातर् कर्मणा च हरः तु अयम् ॥ मया वृतः वृतः च एव यत् इच्छसि तथा कुरु ॥ २।३।४४।६० ॥
manasā vacasā mātar karmaṇā ca haraḥ tu ayam .. mayā vṛtaḥ vṛtaḥ ca eva yat icchasi tathā kuru .. 2.3.44.60 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य शिवावाक्यं मेना शैलेश्वरप्रिया ॥ सुविलप्य महाक्रुद्धा गृहीत्वा तत्कलेवरम् ॥ ६१ ॥
इति आकर्ण्य शिवा-वाक्यम् मेना शैलेश्वर-प्रिया ॥ सु विलप्य महा-क्रुद्धा गृहीत्वा तद्-कलेवरम् ॥ ६१ ॥
iti ākarṇya śivā-vākyam menā śaileśvara-priyā .. su vilapya mahā-kruddhā gṛhītvā tad-kalevaram .. 61 ..
मुष्टिभिः कूर्परैश्चैव दन्तान्धर्षयती च सा ॥ ताडयामास तां पुत्रीं विह्वलातिरुषान्विता ॥ ६२॥
मुष्टिभिः कूर्परैः च एव दन्तान् धर्षयती च सा ॥ ताडयामास ताम् पुत्रीम् विह्वला अति रुषा-अन्विता ॥ ६२॥
muṣṭibhiḥ kūrparaiḥ ca eva dantān dharṣayatī ca sā .. tāḍayāmāsa tām putrīm vihvalā ati ruṣā-anvitā .. 62..
ये तत्र ऋषयस्तात त्वदाद्याश्चापरे मुने ॥ तद्धस्तात्ताम्परिच्छिद्य नित्युर्दूरतरं ततः ॥ ६३॥
ये तत्र ऋषयः तात त्वद्-आद्याः च अपरे मुने ॥ तद्-हस्तात् ताम् परिच्छिद्य नित्युः दूरतरम् ततस् ॥ ६३॥
ye tatra ṛṣayaḥ tāta tvad-ādyāḥ ca apare mune .. tad-hastāt tām paricchidya nityuḥ dūrataram tatas .. 63..
तान्वै तथा विधान्दृष्ट्वा भर्त्सयित्वा पुनः पुनः ॥ उवाच श्रावयन्ती सा दुर्वचो निखिलान्पुनः॥ ६४ ॥
तान् वै तथा विधान् दृष्ट्वा भर्त्सयित्वा पुनर् पुनर् ॥ उवाच श्रावयन्ती सा दुर्वचः निखिलान् पुनर्॥ ६४ ॥
tān vai tathā vidhān dṛṣṭvā bhartsayitvā punar punar .. uvāca śrāvayantī sā durvacaḥ nikhilān punar.. 64 ..
मेनोवाच ।।
किं मेना हि करिष्येऽहं दुष्टां ग्रहवतीं शिवाम् ॥ दास्याम्यस्यै गरन्तीव्रं कूपे क्षेप्स्यामि वा ध्रुवम् ॥ ६५॥
किम् मेना हि करिष्ये अहम् दुष्टाम् ग्रहवतीम् शिवाम् ॥ दास्यामि अस्यै गर-न्तीव्रम् कूपे क्षेप्स्यामि वा ध्रुवम् ॥ ६५॥
kim menā hi kariṣye aham duṣṭām grahavatīm śivām .. dāsyāmi asyai gara-ntīvram kūpe kṣepsyāmi vā dhruvam .. 65..
छेत्स्यामि कालीमथवा शस्त्रास्त्रैर्भूरिखण्डशः ॥ निमज्जयिष्ये वा सिन्धौ स्वसुताम्पार्वतीं खलु ॥ ६६ ॥
छेत्स्यामि कालीम् अथवा शस्त्र-अस्त्रैः भूरि-खण्डशस् ॥ निमज्जयिष्ये वा सिन्धौ स्व-सुताम् पार्वतीम् खलु ॥ ६६ ॥
chetsyāmi kālīm athavā śastra-astraiḥ bhūri-khaṇḍaśas .. nimajjayiṣye vā sindhau sva-sutām pārvatīm khalu .. 66 ..
अथवा स्वशरीरं हि त्यक्ष्याम्याश्वन्यथा ध्रुवम् ॥ न दास्ये शम्भवे कन्यां दुर्गां विकटरूपिणे ॥ ६७॥
अथवा स्व-शरीरम् हि त्यक्ष्यामि आशु अन्यथा ध्रुवम् ॥ न दास्ये शम्भवे कन्याम् दुर्गाम् विकट-रूपिणे ॥ ६७॥
athavā sva-śarīram hi tyakṣyāmi āśu anyathā dhruvam .. na dāsye śambhave kanyām durgām vikaṭa-rūpiṇe .. 67..
वरोऽयं कीदृशो भीमोऽनया लब्धश्च दुष्टया ॥ कारितश्चोपहासो मे गिरेश्चापि कुलस्य हि ॥ ६८ ॥
वरः अयम् कीदृशः भीमः अनया लब्धः च दुष्टया ॥ कारितः च उपहासः मे गिरेः च अपि कुलस्य हि ॥ ६८ ॥
varaḥ ayam kīdṛśaḥ bhīmaḥ anayā labdhaḥ ca duṣṭayā .. kāritaḥ ca upahāsaḥ me gireḥ ca api kulasya hi .. 68 ..
न माता न पिता भ्राता न बन्धुर्गोत्रजोऽपि हि ॥ नो सुरूपं न चातुर्य्यं न गुहं वास्य किंचन ॥ ६९ ॥
न माता न पिता भ्राता न बन्धुः गोत्र-जः अपि हि ॥ नो सुरूपम् न चातुर्य्यम् न गुहम् वा अस्य किंचन ॥ ६९ ॥
na mātā na pitā bhrātā na bandhuḥ gotra-jaḥ api hi .. no surūpam na cāturyyam na guham vā asya kiṃcana .. 69 ..
न वस्त्रं नाप्यलङ्कारास्सहायाः केऽपि तस्य न ॥ वाहनं न शुभं ह्यस्य न वयो न धनन्तथा ॥ 2.3.44.७० ॥
न वस्त्रम् ना अपि अलङ्काराः सहायाः के अपि तस्य न ॥ वाहनम् न शुभम् हि अस्य न वयः न धनम् तथा ॥ २।३।४४।७० ॥
na vastram nā api alaṅkārāḥ sahāyāḥ ke api tasya na .. vāhanam na śubham hi asya na vayaḥ na dhanam tathā .. 2.3.44.70 ..
न पावित्र्यं न विद्या च कीदृशः काय आर्तिदः ॥ किं विलोक्य मया पुत्री देयास्मै स्यात्सुमंगला ॥ ७१ ॥
न पावित्र्यम् न विद्या च कीदृशः कायः आर्ति-दः ॥ किम् विलोक्य मया पुत्री देया अस्मै स्यात् सु मंगला ॥ ७१ ॥
na pāvitryam na vidyā ca kīdṛśaḥ kāyaḥ ārti-daḥ .. kim vilokya mayā putrī deyā asmai syāt su maṃgalā .. 71 ..
ब्रह्मोवाच ।।
इत्यादि सुविलप्याथ बहुशो मेनका तदा ॥ रुरोदोच्चैर्मुने सा हि दुःखशोकपरिप्लुता ॥ ७२ ॥
इत्यादि सु विलप्य अथ बहुशस् मेनका तदा ॥ रुरोद उच्चैस् मुने सा हि दुःख-शोक-परिप्लुता ॥ ७२ ॥
ityādi su vilapya atha bahuśas menakā tadā .. ruroda uccais mune sā hi duḥkha-śoka-pariplutā .. 72 ..
अथाहन्द्रुतमागत्याकथयम्मेनकां च ताम्॥ शिवतत्त्वं च परमं कुज्ञानहरमुत्तमम् ॥ ७३ ॥
अथ अहन् द्रुतम् आगत्य अकथयम् मेनकाम् च ताम्॥ शिवतत्त्वम् च परमम् कुज्ञान-हरम् उत्तमम् ॥ ७३ ॥
atha ahan drutam āgatya akathayam menakām ca tām.. śivatattvam ca paramam kujñāna-haram uttamam .. 73 ..
ब्रह्मोवाच ।।
श्रोतव्यम्प्रीतितो मेने मदीयं वचनं शुभम् ॥ यस्य श्रवणतः प्रीत्या कुबुद्धिस्ते विनश्यति ॥ ७४ ॥
श्रोतव्यम् प्रीतितः मेने मदीयम् वचनम् शुभम् ॥ यस्य श्रवणतः प्रीत्या कु बुद्धिः ते विनश्यति ॥ ७४ ॥
śrotavyam prītitaḥ mene madīyam vacanam śubham .. yasya śravaṇataḥ prītyā ku buddhiḥ te vinaśyati .. 74 ..
शङ्करो जगतः कर्ता भर्ता हर्ता तथैव च ॥ न त्वं जानासि तद्रूपं कथन्दुःखं समीहसे ॥ ७५ ॥
शङ्करः जगतः कर्ता भर्ता हर्ता तथा एव च ॥ न त्वम् जानासि तद्-रूपम् कथम् दुःखम् समीहसे ॥ ७५ ॥
śaṅkaraḥ jagataḥ kartā bhartā hartā tathā eva ca .. na tvam jānāsi tad-rūpam katham duḥkham samīhase .. 75 ..
अनेकरूपनामा च नाना लीलाकरः प्रभुः ॥ सर्वस्वामी स्वतन्त्रश्च मायाधीशोऽविकल्पकः ॥ ७६ ॥
अनेक-रूप-नामा च नाना लीला-करः प्रभुः ॥ सर्व-स्वामी स्वतन्त्रः च माया-अधीशः अविकल्पकः ॥ ७६ ॥
aneka-rūpa-nāmā ca nānā līlā-karaḥ prabhuḥ .. sarva-svāmī svatantraḥ ca māyā-adhīśaḥ avikalpakaḥ .. 76 ..
इति विज्ञाय मेने त्वं शिवान्देहि शिवाय वै ॥ कुहठन्त्यज कुज्ञानं सर्वकार्यविनाशनम् ॥ ७७ ॥
इति विज्ञाय मेने त्वम् शिवान् देहि शिवाय वै ॥ कु हठन् त्यज कु ज्ञानम् सर्व-कार्य-विनाशनम् ॥ ७७ ॥
iti vijñāya mene tvam śivān dehi śivāya vai .. ku haṭhan tyaja ku jñānam sarva-kārya-vināśanam .. 77 ..
ब्रह्मोवाच ।।
इत्युक्ता सा मया मेना विलपन्ती मुहुर्मुहुः ॥ लज्जां किंचिच्छनैस्त्यक्त्वा मुने मां वाक्यमब्रवीत् ॥ ७८॥
इति उक्ता सा मया मेना विलपन्ती मुहुर् मुहुर् ॥ लज्जाम् किंचिद् शनैस् त्यक्त्वा मुने माम् वाक्यम् अब्रवीत् ॥ ७८॥
iti uktā sā mayā menā vilapantī muhur muhur .. lajjām kiṃcid śanais tyaktvā mune mām vākyam abravīt .. 78..
मेनोवाच ।।
किमर्थन्तु भवान्ब्रह्मन्रूपमस्य महावरम् ॥ व्यर्थीकरोति किमियं हन्यतां न स्वयं शिवा ॥ ७९ ॥
किमर्थम् तु भवान् ब्रह्मन् रूपम् अस्य महा-वरम् ॥ व्यर्थीकरोति किम् इयम् हन्यताम् न स्वयम् शिवा ॥ ७९ ॥
kimartham tu bhavān brahman rūpam asya mahā-varam .. vyarthīkaroti kim iyam hanyatām na svayam śivā .. 79 ..
न वक्तव्यं च भवता शिवाय प्रतिदीयताम् ॥ न दास्येऽहं शिवायैनां स्वसुताम्प्राणवल्लभाम् ॥ 2.3.44.८० ॥
न वक्तव्यम् च भवता शिवाय प्रतिदीयताम् ॥ न दास्ये अहम् शिवाय एनाम् स्व-सुताम् प्राण-वल्लभाम् ॥ २।३।४४।८० ॥
na vaktavyam ca bhavatā śivāya pratidīyatām .. na dāsye aham śivāya enām sva-sutām prāṇa-vallabhām .. 2.3.44.80 ..
ब्रह्मोवाच ।।
इत्युक्ते तु तदा सिद्धाः सनकाद्या महामुने ॥ समागत्य महाप्रीत्या वचनं हीदमब्रुवन् ॥ ८१ ॥
इति उक्ते तु तदा सिद्धाः सनक-आद्याः महा-मुने ॥ समागत्य महा-प्रीत्या वचनम् हि इदम् अब्रुवन् ॥ ८१ ॥
iti ukte tu tadā siddhāḥ sanaka-ādyāḥ mahā-mune .. samāgatya mahā-prītyā vacanam hi idam abruvan .. 81 ..
सिद्धा ऊचुः ।।
अयम्वै परमस्साक्षाच्छिवः परसुखावहः ॥ कृपया च भवत्पुत्र्यै दर्शनन्दत्तवान्प्रभुः ॥ ८२ ॥
अयम् वै परमः साक्षात् शिवः पर-सुख-आवहः ॥ कृपया च भवत्-पुत्र्यै दर्शनन् दत्तवान् प्रभुः ॥ ८२ ॥
ayam vai paramaḥ sākṣāt śivaḥ para-sukha-āvahaḥ .. kṛpayā ca bhavat-putryai darśanan dattavān prabhuḥ .. 82 ..
ब्रह्मोवाच ।।
अथोवाच तु तान्मेना विलप्य च मुहुर्मुहुः ॥ न देया तु मया सम्यग्गिरिशायोग्ररूपिणे ॥ ८३ ॥
अथा उवाच तु तान् मेना विलप्य च मुहुर् मुहुर् ॥ न देया तु मया सम्यक् गिरिशाय उग्र-रूपिणे ॥ ८३ ॥
athā uvāca tu tān menā vilapya ca muhur muhur .. na deyā tu mayā samyak giriśāya ugra-rūpiṇe .. 83 ..
किमर्थन्तु भवन्तश्च सर्वे सिद्धाः प्रपञ्चिनः ॥ रूपमस्याः परं नाम व्यर्थीकर्त्तुं समुद्यताः ॥ ८४ ॥
किमर्थम् तु भवन्तः च सर्वे सिद्धाः प्रपञ्चिनः ॥ रूपम् अस्याः परम् नाम व्यर्थीकर्त्तुम् समुद्यताः ॥ ८४ ॥
kimartham tu bhavantaḥ ca sarve siddhāḥ prapañcinaḥ .. rūpam asyāḥ param nāma vyarthīkarttum samudyatāḥ .. 84 ..
इत्युक्ते च तया तत्र मुनेऽहं चकितोऽभवम् ॥ सर्वे विस्मयमापन्ना देवसिद्धर्षिमानवाः॥ ८५॥
इति उक्ते च तया तत्र मुने अहम् चकितः अभवम् ॥ सर्वे विस्मयम् आपन्नाः देव-सिद्ध-ऋषि-मानवाः॥ ८५॥
iti ukte ca tayā tatra mune aham cakitaḥ abhavam .. sarve vismayam āpannāḥ deva-siddha-ṛṣi-mānavāḥ.. 85..
एतस्मिन्समये तस्या हठं श्रुत्वा दृढं महत्॥ द्रुतं शिवप्रियो विष्णुस्समागत्याऽब्रवीदिदम्॥ ८६॥
एतस्मिन् समये तस्याः हठम् श्रुत्वा दृढम् महत्॥ द्रुतम् शिवप्रियः विष्णुः समागत्य अब्रवीत् इदम्॥ ८६॥
etasmin samaye tasyāḥ haṭham śrutvā dṛḍham mahat.. drutam śivapriyaḥ viṣṇuḥ samāgatya abravīt idam.. 86..
विष्णुरुवाच।।
पितॄणां च प्रिया पुत्री मानसी गुणसंयुता॥ पत्नी हिमवतस्साक्षाद्ब्रह्मणः कुलमुत्तमम् ॥ ८७॥
पितॄणाम् च प्रिया पुत्री मानसी गुण-संयुता॥ पत्नी हिमवतः साक्षात् ब्रह्मणः कुलम् उत्तमम् ॥ ८७॥
pitṝṇām ca priyā putrī mānasī guṇa-saṃyutā.. patnī himavataḥ sākṣāt brahmaṇaḥ kulam uttamam .. 87..
सहायास्तादृशा लोके धन्या ह्यसि वदामि किम् ॥ धर्मस्याधारभूतासि कथं धर्मं जहासि हि ॥ ८८॥
सहायाः तादृशाः लोके धन्या हि असि वदामि किम् ॥ धर्मस्य आधार-भूता असि कथम् धर्मम् जहासि हि ॥ ८८॥
sahāyāḥ tādṛśāḥ loke dhanyā hi asi vadāmi kim .. dharmasya ādhāra-bhūtā asi katham dharmam jahāsi hi .. 88..
देवैश्च ऋषिभिश्चैव ब्रह्मणा वा मया तथा ॥ विरुद्धं कथ्यते किं नु त्वयैव सुविचार्यताम् ॥ ।८९॥ ।
देवैः च ऋषिभिः च एव ब्रह्मणा वा मया तथा ॥ विरुद्धम् कथ्यते किम् नु त्वया एव सु विचार्यताम् ॥ ।८९॥ ।
devaiḥ ca ṛṣibhiḥ ca eva brahmaṇā vā mayā tathā .. viruddham kathyate kim nu tvayā eva su vicāryatām .. .89.. .
शिवत्वं न च जानासि निर्गुणस्य गुणस्स हि॥ विरूपस्स सुरूपो हि सर्वसेव्यस्सतां गतिः ॥ 2.3.44.९०॥
शिव-त्वम् न च जानासि निर्गुणस्य गुणः स हि॥ विरूपः स सुरूपः हि सर्व-सेव्यः सताम् गतिः ॥ २।३।४४।९०॥
śiva-tvam na ca jānāsi nirguṇasya guṇaḥ sa hi.. virūpaḥ sa surūpaḥ hi sarva-sevyaḥ satām gatiḥ .. 2.3.44.90..
तेनैव निर्मिता देवी मूलप्रकृतिरीश्वरी ॥ तत्पार्श्वे च तदा तेन निर्मितः पुरुषोत्तमः ॥ ९१॥
तेन एव निर्मिता देवी मूलप्रकृतिः ईश्वरी ॥ तद्-पार्श्वे च तदा तेन निर्मितः पुरुषोत्तमः ॥ ९१॥
tena eva nirmitā devī mūlaprakṛtiḥ īśvarī .. tad-pārśve ca tadā tena nirmitaḥ puruṣottamaḥ .. 91..
ताभ्यां चाहं तथा ब्रह्मा ततश्च गुणरूपतः ॥ अवतीर्य स्वयं रुद्रो लोकानां हितकारकः ॥ ९२ ॥
ताभ्याम् च अहम् तथा ब्रह्मा ततस् च गुण-रूपतः ॥ अवतीर्य स्वयम् रुद्रः लोकानाम् हित-कारकः ॥ ९२ ॥
tābhyām ca aham tathā brahmā tatas ca guṇa-rūpataḥ .. avatīrya svayam rudraḥ lokānām hita-kārakaḥ .. 92 ..
ततो वेदास्तथा देवा यत्किंचिद्दृश्यते जगत् ॥ स्थावरं जंगमं चैव तत्सर्वं शकरादभूत् ॥ ९३॥
ततस् वेदाः तथा देवाः यत् किंचिद् दृश्यते जगत् ॥ स्थावरम् जंगमम् च एव तत् सर्वम् शकरात् अभूत् ॥ ९३॥
tatas vedāḥ tathā devāḥ yat kiṃcid dṛśyate jagat .. sthāvaram jaṃgamam ca eva tat sarvam śakarāt abhūt .. 93..
तद्रूपम्वर्णितं केन ज्ञायते केन वा पुनः ॥ मया च ब्रह्मणा यस्य ह्यतो लब्धश्च नैव हि ॥ ९४॥
तत् रूपम् वर्णितम् केन ज्ञायते केन वा पुनर् ॥ मया च ब्रह्मणा यस्य हि अतस् लब्धः च ना एव हि ॥ ९४॥
tat rūpam varṇitam kena jñāyate kena vā punar .. mayā ca brahmaṇā yasya hi atas labdhaḥ ca nā eva hi .. 94..
आब्रह्मस्तम्बपर्यंतं यत्किञ्चिद्दृश्यते जगत् ॥ तत्सर्वं च शिवं विद्धि नात्र कार्या विचारणा ॥ ९५॥
आ ब्रह्मस्तम्ब-पर्यन्तम् यत् किञ्चिद् दृश्यते जगत् ॥ तत् सर्वम् च शिवम् विद्धि न अत्र कार्या विचारणा ॥ ९५॥
ā brahmastamba-paryantam yat kiñcid dṛśyate jagat .. tat sarvam ca śivam viddhi na atra kāryā vicāraṇā .. 95..
स एवेदृक्सुरूपेणावतीर्णो निजलीलया ॥ शिवातपः प्रभावाद्धि तव द्वारि समागतः ॥ ९६॥
सः एवा ईदृश्-सुरूपेण अवतीर्णः निज-लीलया ॥ शिव-आतपः प्रभावात् हि तव द्वारि समागतः ॥ ९६॥
saḥ evā īdṛś-surūpeṇa avatīrṇaḥ nija-līlayā .. śiva-ātapaḥ prabhāvāt hi tava dvāri samāgataḥ .. 96..
तस्मात्त्वं हिमवत्पत्नि दुःखं मुञ्च शिवम्भज ॥ भविष्यति महानन्दः क्लेशो यास्यति संक्षयम् ॥ ९७॥
तस्मात् त्वम् हिमवत्-पत्नि दुःखम् मुञ्च शिवम्भज ॥ भविष्यति महा-आनन्दः क्लेशः यास्यति संक्षयम् ॥ ९७॥
tasmāt tvam himavat-patni duḥkham muñca śivambhaja .. bhaviṣyati mahā-ānandaḥ kleśaḥ yāsyati saṃkṣayam .. 97..
ब्रह्मोवाच ॥ एवम्प्रबोधितायास्तु मेनकाया अभून्मुने ॥ तस्यास्तु कोमलं किंचिन्मनो विष्णुप्रबोधितम् ॥ ९८ ॥
ब्रह्मा उवाच ॥ एवम् प्रबोधितायाः तु मेनकायाः अभूत् मुने ॥ तस्याः तु कोमलम् किंचिद् मनः विष्णु-प्रबोधितम् ॥ ९८ ॥
brahmā uvāca .. evam prabodhitāyāḥ tu menakāyāḥ abhūt mune .. tasyāḥ tu komalam kiṃcid manaḥ viṣṇu-prabodhitam .. 98 ..
परं हठं न तत्याज कन्यान्दातुं हराय न ॥ स्वीचकार तदा मेना शिवमायाविमोहि ता ॥ ९९॥
परम् हठम् न तत्याज कन्यान् दातुम् हराय न ॥ स्वीचकार तदा मेना शिव-माया-विमोहि ता ॥ ९९॥
param haṭham na tatyāja kanyān dātum harāya na .. svīcakāra tadā menā śiva-māyā-vimohi tā .. 99..
उवाच च हरिं मेना किञ्चिद्बुद्ध्वा गिरिप्रिया ॥ श्रुत्वा विष्णुवचो रम्यं गिरिजाजननी हि सा॥ 2.3.44.१००॥
उवाच च हरिम् मेना किञ्चिद् बुद्ध्वा गिरिप्रिया ॥ श्रुत्वा विष्णु-वचः रम्यम् गिरिजा-जननी हि सा॥ २।३।४४।१००॥
uvāca ca harim menā kiñcid buddhvā giripriyā .. śrutvā viṣṇu-vacaḥ ramyam girijā-jananī hi sā.. 2.3.44.100..
यदि रम्यतनुस्स स्यात्तदा देया मया सुता ॥ नान्यथा कोटिशो यत्नैर्वच्मि सत्यन्दृढं वचः ॥ १०१॥
यदि रम्य-तनुः स स्यात् तदा देया मया सुता ॥ ना अन्यथा कोटिशस् यत्नैः वच्मि सत्यन् दृढम् वचः ॥ १०१॥
yadi ramya-tanuḥ sa syāt tadā deyā mayā sutā .. nā anyathā koṭiśas yatnaiḥ vacmi satyan dṛḍham vacaḥ .. 101..
ब्रह्मोवाच ।।
इत्युक्त्वा वचनं मेना तूष्णीमास दृढव्रता ॥ शिवेच्छाप्रेरिता धन्या तथा याखिलमोहिनी ॥ १०२ ॥
इति उक्त्वा वचनम् मेना तूष्णीम् आस दृढ-व्रता ॥ शिव-इच्छा-प्रेरिता धन्या तथा या अखिल-मोहिनी ॥ १०२ ॥
iti uktvā vacanam menā tūṣṇīm āsa dṛḍha-vratā .. śiva-icchā-preritā dhanyā tathā yā akhila-mohinī .. 102 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वती खण्डे मेनाप्रबोधवर्णनो नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वती खण्डे मेनाप्रबोधवर्णनः नाम चतुश्चत्वारिंशः अध्यायः ॥ ४४॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatī khaṇḍe menāprabodhavarṇanaḥ nāma catuścatvāriṃśaḥ adhyāyaḥ .. 44..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In