| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
सुप्ते नारायणे देवे नाभौ पंकजमुत्तमम् ॥ आविर्बभूव सहसा बहव संकरेच्छया ॥ १॥
सुप्ते नारायणे देवे नाभौ पंकजम् उत्तमम् ॥ आविर्बभूव सहसा संकर-इच्छया ॥ १॥
supte nārāyaṇe deve nābhau paṃkajam uttamam .. āvirbabhūva sahasā saṃkara-icchayā .. 1..
अनंतयष्टिकायुक्तं कर्णिकारसमप्रभम् ॥ अनंतयोजनायाममनंतोच्छ्रायसंयुतम्॥ २॥
अनंत-यष्टिका-युक्तम् कर्णिकार-सम-प्रभम् ॥ अनंत-योजन-आयामम् अनंत-उच्छ्राय-संयुतम्॥ २॥
anaṃta-yaṣṭikā-yuktam karṇikāra-sama-prabham .. anaṃta-yojana-āyāmam anaṃta-ucchrāya-saṃyutam.. 2..
कोटिसूर्यप्रतीकाशं सुंदर वचxसंयुतम् ॥ अत्यद्भुतं महारम्यं दर्शनीयमनुत्तमम् ॥ ३ ॥
कोटि-सूर्य-प्रतीकाशम् सुंदर ॥ अति अद्भुतम् महा-रम्यम् दर्शनीयम् अनुत्तमम् ॥ ३ ॥
koṭi-sūrya-pratīkāśam suṃdara .. ati adbhutam mahā-ramyam darśanīyam anuttamam .. 3 ..
कृत्वा यत्नं पूर्ववत्स शंकरः परमेश्वरः ॥ दक्षिणांगान्निजान्मां कैसाशीxश्शंभुरजीजनत् ॥ ४ ॥
कृत्वा यत्नम् पूर्ववत् स शंकरः परमेश्वरः ॥ दक्षिण-अंगात् निजात् माम् अजीजनत् ॥ ४ ॥
kṛtvā yatnam pūrvavat sa śaṃkaraḥ parameśvaraḥ .. dakṣiṇa-aṃgāt nijāt mām ajījanat .. 4 ..
स मायामोहितं कृत्वा मां महेशो द्रुतं मुने ॥ तन्नाभिपंकजादाविर्भावयामास लीलया ॥ ९ ॥
स माया-मोहितम् कृत्वा माम् महेशः द्रुतम् मुने ॥ तद्-नाभि-पंकजात् आविर्भावयामास लीलया ॥ ९ ॥
sa māyā-mohitam kṛtvā mām maheśaḥ drutam mune .. tad-nābhi-paṃkajāt āvirbhāvayāmāsa līlayā .. 9 ..
एष पद्मात्ततो जज्ञे पुत्रोऽहं हेमगर्भकः ॥ चतुर्मुखो रक्तवर्णस्त्रिपुड्रांकितमस्तकः ॥ ६ ॥
एष पद्मात् ततस् जज्ञे पुत्रः अहम् हेमगर्भकः ॥ चतुर्मुखः रक्त-वर्णः त्रिपुड्र-अंकित-मस्तकः ॥ ६ ॥
eṣa padmāt tatas jajñe putraḥ aham hemagarbhakaḥ .. caturmukhaḥ rakta-varṇaḥ tripuḍra-aṃkita-mastakaḥ .. 6 ..
तन्मायामोहितश्चाहं नाविदं कमल विना ॥ स्वदेहजनकं तात पितरं ज्ञानदुर्बलः ॥ ७ ॥
तद्-माया-मोहितः च अहम् न अविदम् कमल विना ॥ स्व-देह-जनकम् तात पितरम् ज्ञान-दुर्बलः ॥ ७ ॥
tad-māyā-mohitaḥ ca aham na avidam kamala vinā .. sva-deha-janakam tāta pitaram jñāna-durbalaḥ .. 7 ..
कोहं वा कुत आयातः किं कार्य तु मदीयकम् ॥ कस्य पुत्रोऽहमुत्पन्नः केनैव निर्मितोऽधुना ॥ ८ ॥
कोहम् वा कुतस् आयातः किम् कार्य तु मदीयकम् ॥ कस्य पुत्रः अहम् उत्पन्नः केन एव निर्मितः अधुना ॥ ८ ॥
koham vā kutas āyātaḥ kim kārya tu madīyakam .. kasya putraḥ aham utpannaḥ kena eva nirmitaḥ adhunā .. 8 ..
इति संशयमापन्नं बुद्धिर्मां समपद्यत ॥ किमर्थं मोहमायामि तज्ज्ञानं सुकरं खलु ॥ ९ ॥
इति संशयम् आपन्नम् बुद्धिः माम् समपद्यत ॥ किमर्थम् मोहम् आयामि तत् ज्ञानम् सुकरम् खलु ॥ ९ ॥
iti saṃśayam āpannam buddhiḥ mām samapadyata .. kimartham moham āyāmi tat jñānam sukaram khalu .. 9 ..
एतत्कमलपुष्पस्य पत्रारोहस्थलं ह्यधः ॥ मत्कर्ता च स वै तत्र भविष्यति न संशयः ॥ 2.1.7.१०॥
एतत् कमल-पुष्पस्य पत्र-आरोह-स्थलम् हि अधस् ॥ मद्-कर्ता च स वै तत्र भविष्यति न संशयः ॥ २।१।७।१०॥
etat kamala-puṣpasya patra-āroha-sthalam hi adhas .. mad-kartā ca sa vai tatra bhaviṣyati na saṃśayaḥ .. 2.1.7.10..
इति बुद्धिं समास्थाय कमलादवरोहयन् ॥ नाले नालेगतस्तत्र वर्षाणां शतकं मुने ॥ १ १॥
इति बुद्धिम् समास्थाय कमलात् अवरोहयन् ॥ नाले नालेगतः तत्र वर्षाणाम् शतकम् मुने ॥ १ १॥
iti buddhim samāsthāya kamalāt avarohayan .. nāle nālegataḥ tatra varṣāṇām śatakam mune .. 1 1..
न लब्धं तु मया तत्र कमलस्थानमुत्तमम् ॥ संशयं च पुनः प्राप्तः कमले गन्तुमुत्सुकः ॥ १२ ॥
न लब्धम् तु मया तत्र कमल-स्थानम् उत्तमम् ॥ संशयम् च पुनर् प्राप्तः कमले गन्तुम् उत्सुकः ॥ १२ ॥
na labdham tu mayā tatra kamala-sthānam uttamam .. saṃśayam ca punar prāptaḥ kamale gantum utsukaḥ .. 12 ..
आरुरोहाथ कमलं नालमार्गेण वै मुने ॥ कुड्मलं कमलस्याथ लब्धवान्न विमोहिताः ॥ १३॥
आरुरोह अथ कमलम् नाल-मार्गेण वै मुने ॥ कुड्मलम् कमलस्य अथ लब्धवान् न विमोहिताः ॥ १३॥
āruroha atha kamalam nāla-mārgeṇa vai mune .. kuḍmalam kamalasya atha labdhavān na vimohitāḥ .. 13..
नालमार्गेण भ्रमतो गतं वर्षशतं पुनः ॥ क्षणमात्र तदा तत्र ततस्तिष्ठन्विमोहितः ॥ १४॥
नाल-मार्गेण भ्रमतः गतम् वर्ष-शतम् पुनर् ॥ क्षण-मात्र तदा तत्र ततस् तिष्ठन् विमोहितः ॥ १४॥
nāla-mārgeṇa bhramataḥ gatam varṣa-śatam punar .. kṣaṇa-mātra tadā tatra tatas tiṣṭhan vimohitaḥ .. 14..
तदा वाणी समुत्पन्ना तपेति परमा शुभा ॥ शिवेच्छया परा व्योम्नो मोहविध्वंसिनी मुने ॥ १५॥
तदा वाणी समुत्पन्ना तपा इति परमा शुभा ॥ शिव-इच्छया परा व्योम्नः मोह-विध्वंसिनी मुने ॥ १५॥
tadā vāṇī samutpannā tapā iti paramā śubhā .. śiva-icchayā parā vyomnaḥ moha-vidhvaṃsinī mune .. 15..
तच्छ्रुत्वा व्योमवचनं द्वादशाब्दं प्रयत्नतः ॥ पुनस्तप्तं तपो घोरं द्रष्टुं स्वजनकं तदा॥ १६॥
तत् श्रुत्वा व्योम-वचनम् द्वादश-अब्दम् प्रयत्नतः ॥ पुनर् तप्तम् तपः घोरम् द्रष्टुम् स्व-जनकम् तदा॥ १६॥
tat śrutvā vyoma-vacanam dvādaśa-abdam prayatnataḥ .. punar taptam tapaḥ ghoram draṣṭum sva-janakam tadā.. 16..
तदा हि भगवान्विष्णुश्चतुर्बाहुस्सुलोचनः ॥ मय्येवानुग्रहं कर्तुं द्रुतमाविर्बभूव ह ॥ १७॥
तदा हि भगवान् विष्णुः चतुर्-बाहुः सु लोचनः ॥ मयि एव अनुग्रहम् कर्तुम् द्रुतम् आविर्बभूव ह ॥ १७॥
tadā hi bhagavān viṣṇuḥ catur-bāhuḥ su locanaḥ .. mayi eva anugraham kartum drutam āvirbabhūva ha .. 17..
शंखचक्रायुधकरो गदापद्मधरः परः ॥ घनश्यामलसर्वांगः पीताम्बरधरः परः ॥ १८ ॥
शंख-चक्र-आयुध-करः गदा-पद्म-धरः परः ॥ घन-श्यामल-सर्व-अंगः पीत-अम्बर-धरः परः ॥ १८ ॥
śaṃkha-cakra-āyudha-karaḥ gadā-padma-dharaḥ paraḥ .. ghana-śyāmala-sarva-aṃgaḥ pīta-ambara-dharaḥ paraḥ .. 18 ..
मुकुटादिमहाभूषः प्रसन्नमुखपंकजः ॥ कोटिकंदर्पसंकाशस्सन्दष्टो मोहितेन सः ॥ १९ ॥
मुकुट-आदि-महा-भूषः प्रसन्न-मुख-पंकजः ॥ कोटि-कंदर्प-संकाशः सन्दष्टः मोहितेन सः ॥ १९ ॥
mukuṭa-ādi-mahā-bhūṣaḥ prasanna-mukha-paṃkajaḥ .. koṭi-kaṃdarpa-saṃkāśaḥ sandaṣṭaḥ mohitena saḥ .. 19 ..
तद्दृष्ट्वा सुन्दरं रूपं विस्मयं परमं गतः ॥ कालाभं कांचनाभं च सर्वात्मानं चतुर्भुजम् ॥ 2.1.7.२० ॥
तत् दृष्ट्वा सुन्दरम् रूपम् विस्मयम् परमम् गतः ॥ काल-आभम् कांचन-आभम् च सर्वात्मानम् चतुर्-भुजम् ॥ २।१।७।२० ॥
tat dṛṣṭvā sundaram rūpam vismayam paramam gataḥ .. kāla-ābham kāṃcana-ābham ca sarvātmānam catur-bhujam .. 2.1.7.20 ..
तथाभूतमहं दृष्ट्वा सदसन्मयमात्मना ॥ नारायणं महाबाहु हर्षितो ह्यभवं तदा ॥ २१ ॥
तथाभूतम् अहम् दृष्ट्वा सत्-असत्-मयम् आत्मना ॥ नारायणम् महा-बाहु हर्षितः हि अभवम् तदा ॥ २१ ॥
tathābhūtam aham dṛṣṭvā sat-asat-mayam ātmanā .. nārāyaṇam mahā-bāhu harṣitaḥ hi abhavam tadā .. 21 ..
मायया मोहितश्शम्भोस्तदा लीलात्मनः प्रभोः ॥ अविज्ञाय स्वजनकं तमवोचं प्रहर्षितः ॥ २२ ॥
मायया मोहितः शम्भोः तदा लीला-आत्मनः प्रभोः ॥ अ विज्ञाय स्व-जनकम् तम् अवोचम् प्रहर्षितः ॥ २२ ॥
māyayā mohitaḥ śambhoḥ tadā līlā-ātmanaḥ prabhoḥ .. a vijñāya sva-janakam tam avocam praharṣitaḥ .. 22 ..
ब्रह्मोवाच ।।
कस्त्वं वदेति हस्तेन समुत्थाप्य सनातनम् ॥ तदा हस्तप्रहारेण तीव्रेण सुदृढेन तु ॥ २३ ॥
कः त्वम् वद इति हस्तेन समुत्थाप्य सनातनम् ॥ तदा हस्त-प्रहारेण तीव्रेण सु दृढेन तु ॥ २३ ॥
kaḥ tvam vada iti hastena samutthāpya sanātanam .. tadā hasta-prahāreṇa tīvreṇa su dṛḍhena tu .. 23 ..
प्रबुद्ध्योत्थाय शयनात्समासीनः क्षणं वशी ॥ ददर्श निद्राविक्लिन्ननीरजामललोचनः ॥ २४॥
प्रबुद्ध्या उत्थाय शयनात् समासीनः क्षणम् वशी ॥ ददर्श निद्रा-विक्लिन्न-नीरज-अमल-लोचनः ॥ २४॥
prabuddhyā utthāya śayanāt samāsīnaḥ kṣaṇam vaśī .. dadarśa nidrā-viklinna-nīraja-amala-locanaḥ .. 24..
मामत्र संस्थितं भासाध्यासितो भगवान्हरिः ॥ आह चोत्थाय ब्रह्माणं हसन्मां मधुरं सकृत् ॥ २५ ॥
माम् अत्र संस्थितम् भास-अध्यासितः भगवान् हरिः ॥ आह च उत्थाय ब्रह्माणम् हसन् माम् मधुरम् सकृत् ॥ २५ ॥
mām atra saṃsthitam bhāsa-adhyāsitaḥ bhagavān hariḥ .. āha ca utthāya brahmāṇam hasan mām madhuram sakṛt .. 25 ..
विष्णुरुवाच ।।
स्वागतं स्वागतं वत्स पितामह महाद्युते ॥ निर्भयो भव दास्येऽहं सर्वान्कामान्न संशयः ॥ २६ ॥
स्वागतम् स्वागतम् वत्स पितामह महा-द्युते ॥ निर्भयः भव दास्ये अहम् सर्वान् कामान् न संशयः ॥ २६ ॥
svāgatam svāgatam vatsa pitāmaha mahā-dyute .. nirbhayaḥ bhava dāsye aham sarvān kāmān na saṃśayaḥ .. 26 ..
तस्य तद्वचनं श्रुत्वा स्मितपूर्वं सुरर्षभः ॥ रजसा बद्धवैरश्च तमवोचं जनार्दनम् ॥ २७ ॥
तस्य तत् वचनम् श्रुत्वा स्मित-पूर्वम् सुर-ऋषभः ॥ रजसा बद्ध-वैरः च तम् अवोचम् जनार्दनम् ॥ २७ ॥
tasya tat vacanam śrutvā smita-pūrvam sura-ṛṣabhaḥ .. rajasā baddha-vairaḥ ca tam avocam janārdanam .. 27 ..
ब्रह्मोवाच ।।
भाषसे वत्स वत्सेति सर्वसंहारकारणम् ॥ मामिहाति स्मितं कृत्वा गुरुश्शिष्यमिवानघ ॥ २८ ॥
भाषसे वत्स वत्स इति सर्व-संहार-कारणम् ॥ माम् इह अति स्मितम् कृत्वा गुरुः शिष्यम् इव अनघ ॥ २८ ॥
bhāṣase vatsa vatsa iti sarva-saṃhāra-kāraṇam .. mām iha ati smitam kṛtvā guruḥ śiṣyam iva anagha .. 28 ..
कर्तारं जगतां साक्षात्प्रकृतेश्च प्रवर्तकम् ॥ सनातनमजं विष्णुं विरिंचिं विष्णुसंभवम् ॥ २९ ॥
कर्तारम् जगताम् साक्षात् प्रकृतेः च प्रवर्तकम् ॥ सनातनम् अजम् विष्णुम् विरिंचिम् विष्णु-संभवम् ॥ २९ ॥
kartāram jagatām sākṣāt prakṛteḥ ca pravartakam .. sanātanam ajam viṣṇum viriṃcim viṣṇu-saṃbhavam .. 29 ..
विश्वात्मानं विधातारं धातारम्पंकजेक्षणम् ॥ किमर्थं भाषसे मोहाद्वक्तुमर्हसि सत्वरम् ॥ 2.1.7.३० ॥
॥ किमर्थम् भाषसे मोहात् वक्तुम् अर्हसि सत्वरम् ॥ २।१।७।३० ॥
.. kimartham bhāṣase mohāt vaktum arhasi satvaram .. 2.1.7.30 ..
वेदो मां वक्ति नियमात्स्वयंभुवमजं विभुम् ॥ पितामहं स्वराजं च परमेष्ठिनमुत्तमम् ॥ ३१ ॥
वेदः माम् वक्ति नियमात् स्वयंभुवम् अजम् विभुम् ॥ पितामहम् स्व-राजम् च परमेष्ठिनम् उत्तमम् ॥ ३१ ॥
vedaḥ mām vakti niyamāt svayaṃbhuvam ajam vibhum .. pitāmaham sva-rājam ca parameṣṭhinam uttamam .. 31 ..
इत्याकर्ण्य हरिर्वाक्यं मम क्रुद्धो रमापतिः ॥ सोऽपि मामाह जाने त्वां कर्तारमिति लोकतः ॥ ३२ ॥
इति आकर्ण्य हरिः वाक्यम् मम क्रुद्धः रमापतिः ॥ सः अपि माम् आह जाने त्वाम् कर्तारम् इति लोकतः ॥ ३२ ॥
iti ākarṇya hariḥ vākyam mama kruddhaḥ ramāpatiḥ .. saḥ api mām āha jāne tvām kartāram iti lokataḥ .. 32 ..
विष्णुरुवाच ।। ।।
कर्तुं धर्त्तुं भवानंगादवतीर्णो ममाव्ययात् ॥ विस्मृतोऽसि जगन्नाथं नारायणमनामयम्॥ ३३॥
कर्तुम् धर्त्तुम् भवान् अंगात् अवतीर्णः मम अव्ययात् ॥ विस्मृतः असि जगन्नाथम् नारायणम् अनामयम्॥ ३३॥
kartum dharttum bhavān aṃgāt avatīrṇaḥ mama avyayāt .. vismṛtaḥ asi jagannātham nārāyaṇam anāmayam.. 33..
पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम् ॥ विष्णुमच्युतमीशानं विश्वस्य प्रभवोद्भवम्॥ ३४॥
पुरुषम् परमात्मानम् पुरु-हूतम् पुरुष्टुतम् ॥ विष्णुम् अच्युतम् ईशानम् विश्वस्य प्रभव-उद्भवम्॥ ३४॥
puruṣam paramātmānam puru-hūtam puruṣṭutam .. viṣṇum acyutam īśānam viśvasya prabhava-udbhavam.. 34..
नारायणं महाबाहुं सर्वव्याप कमीश्वरम् ॥ मन्नाभिपद्मतस्त्वं हि प्रसूतो नात्र संशयः ॥ ३५ ॥
नारायणम् महा-बाहुम् सर्व-व्याप-कम् ईश्वरम् ॥ मद्-नाभि-पद्मतः त्वम् हि प्रसूतः न अत्र संशयः ॥ ३५ ॥
nārāyaṇam mahā-bāhum sarva-vyāpa-kam īśvaram .. mad-nābhi-padmataḥ tvam hi prasūtaḥ na atra saṃśayaḥ .. 35 ..
तवापराधो नास्त्यत्र त्वयि मायाकृतं मम ॥ शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् ॥ ३६॥
तव अपराधः न अस्ति अत्र त्वयि माया-कृतम् मम ॥ शृणु सत्यम् चतुर्वक्त्र सर्व-देव-ईश्वरः हि अहम् ॥ ३६॥
tava aparādhaḥ na asti atra tvayi māyā-kṛtam mama .. śṛṇu satyam caturvaktra sarva-deva-īśvaraḥ hi aham .. 36..
कर्ता हर्ता च भर्ता च न मयास्तिसमो विभुः ॥ अहमेव परं ब्रह्म परं तत्त्वं पितामह॥ ३७॥
कर्ता हर्ता च भर्ता च न मया अस्ति समः विभुः ॥ अहम् एव परम् ब्रह्म परम् तत्त्वम् पितामह॥ ३७॥
kartā hartā ca bhartā ca na mayā asti samaḥ vibhuḥ .. aham eva param brahma param tattvam pitāmaha.. 37..
अहमेव परं ज्योतिः परमात्मा त्वहं विभुः ॥ अद्य दृष्टं श्रुतं सर्वं जगत्यस्मिँश्चराचरम् ॥ ३८ ॥
अहम् एव परम् ज्योतिः परम-आत्मा तु अहम् विभुः ॥ अद्य दृष्टम् श्रुतम् सर्वम् जगति अस्मिन् चराचरम् ॥ ३८ ॥
aham eva param jyotiḥ parama-ātmā tu aham vibhuḥ .. adya dṛṣṭam śrutam sarvam jagati asmin carācaram .. 38 ..
तत्तद्विद्धि चतुर्वक्त्र सर्वं मन्मयमित्यथ ॥ मया सृष्टं पुरा व्यक्तं चतुर्विंशतितत्त्वकम्॥ ३९ ॥
तत् तत् विद्धि चतुर्वक्त्र सर्वम् मद्-मयम् इति अथ ॥ मया सृष्टम् पुरा व्यक्तम् चतुर्विंशति-तत्त्वकम्॥ ३९ ॥
tat tat viddhi caturvaktra sarvam mad-mayam iti atha .. mayā sṛṣṭam purā vyaktam caturviṃśati-tattvakam.. 39 ..
नित्यं तेष्वणवो बद्धास्सृष्टक्रोधभयादयः ॥ प्रभावाच्च भवानंगान्यनेकानीह लीलया ॥ 2.1.7.४० ॥
नित्यम् तेषु अणवः बद्धाः सृष्ट-क्रोध-भय-आदयः ॥ प्रभावात् च भवान् अंगानि अनेकानि इह लीलया ॥ २।१।७।४० ॥
nityam teṣu aṇavaḥ baddhāḥ sṛṣṭa-krodha-bhaya-ādayaḥ .. prabhāvāt ca bhavān aṃgāni anekāni iha līlayā .. 2.1.7.40 ..
सृष्टा बुद्धिर्मया तस्यामहंकारस्त्रिधा ततः ॥ तन्मात्रं पंकजं तस्मान्मनोदेहेन्द्रियाणि च ॥ ४१॥
सृष्टा बुद्धिः मया तस्याम् अहंकारः त्रिधा ततस् ॥ तन्मात्रम् पंकजम् तस्मात् मनः-देह-इन्द्रियाणि च ॥ ४१॥
sṛṣṭā buddhiḥ mayā tasyām ahaṃkāraḥ tridhā tatas .. tanmātram paṃkajam tasmāt manaḥ-deha-indriyāṇi ca .. 41..
आकाशादीनि भूतानि भौतिकानि च लीलया ॥ इति बुद्ध्वा प्रजानाथ शरणं व्रज मे विधे ॥ ४२॥
आकाश-आदीनि भूतानि भौतिकानि च लीलया ॥ इति बुद्ध्वा प्रजानाथ शरणम् व्रज मे विधे ॥ ४२॥
ākāśa-ādīni bhūtāni bhautikāni ca līlayā .. iti buddhvā prajānātha śaraṇam vraja me vidhe .. 42..
अहं त्वां सर्वदुःखेभ्यो रक्षिष्यामि न संशयः ॥
अहम् त्वाम् सर्व-दुःखेभ्यः रक्षिष्यामि न संशयः ॥
aham tvām sarva-duḥkhebhyaḥ rakṣiṣyāmi na saṃśayaḥ ..
ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्य ब्रह्मा क्रोधसमन्वितः ॥ को वा त्वमिति संभर्त्स्माब्रुवं मायाविमोहितः ॥ ४३ ॥ ।
इति श्रुत्वा वचः तस्य ब्रह्मा क्रोध-समन्वितः ॥ कः वा त्वम् इति संभर्त्स्म अब्रुवम् माया-विमोहितः ॥ ४३ ॥ ।
iti śrutvā vacaḥ tasya brahmā krodha-samanvitaḥ .. kaḥ vā tvam iti saṃbhartsma abruvam māyā-vimohitaḥ .. 43 .. .
किमर्थं भाषसे भूरि वह्वनर्थकरं वचः ॥ नेश्वरस्त्वं परब्रह्म कश्चित्कर्ता भवेत्तव ॥ ४४॥
किमर्थम् भाषसे भूरि वहु अनर्थ-करम् वचः ॥ न ईश्वरः त्वम् पर-ब्रह्म कश्चिद् कर्ता भवेत् तव ॥ ४४॥
kimartham bhāṣase bhūri vahu anartha-karam vacaḥ .. na īśvaraḥ tvam para-brahma kaścid kartā bhavet tava .. 44..
मायया मोहितश्चाहं युद्धं चक्रे सुदारुणम् ॥ हरिणा तेन वै सार्द्धं शंकरस्य महाप्रभोः ॥ ४५ ॥
मायया मोहितः च अहम् युद्धम् चक्रे सु दारुणम् ॥ हरिणा तेन वै सार्द्धम् शंकरस्य महा-प्रभोः ॥ ४५ ॥
māyayā mohitaḥ ca aham yuddham cakre su dāruṇam .. hariṇā tena vai sārddham śaṃkarasya mahā-prabhoḥ .. 45 ..
एवं मम हरेश्चासीत्संगरो रोमहर्षणः ॥ प्रलयार्णवमध्ये तु रजसा बद्धवैरयोः ॥ ४६ ॥
एवम् मम हरेः च आसीत् संगरः रोम-हर्षणः ॥ प्रलय-अर्णव-मध्ये तु रजसा बद्ध-वैरयोः ॥ ४६ ॥
evam mama hareḥ ca āsīt saṃgaraḥ roma-harṣaṇaḥ .. pralaya-arṇava-madhye tu rajasā baddha-vairayoḥ .. 46 ..
एतस्मिन्नंतरे लिंगमभवच्चावयोः पुरः॥ विवादशमनार्थं हि प्रबोधार्थं तथाऽऽवयोः ॥ ४७॥
एतस्मिन् अंतरे लिंगम् अभवत् च आवयोः पुरस्॥ विवाद-शमन-अर्थम् हि प्रबोध-अर्थम् तथा आवयोः ॥ ४७॥
etasmin aṃtare liṃgam abhavat ca āvayoḥ puras.. vivāda-śamana-artham hi prabodha-artham tathā āvayoḥ .. 47..
ज्लामालासहस्राढ्यं कालानलशतोपमम्॥ क्षयवृद्धि विनिर्मुक्तमादिमध्यांतवर्जितम्॥ ४८॥
ज्ला-माला-सहस्र-आढ्यम् काल-अनल-शत-उपमम्॥ क्षय-वृद्धि-विनिर्मुक्तम् आदि-मध्य-अंत-वर्जितम्॥ ४८॥
jlā-mālā-sahasra-āḍhyam kāla-anala-śata-upamam.. kṣaya-vṛddhi-vinirmuktam ādi-madhya-aṃta-varjitam.. 48..
अनौपम्यमनिर्देश्यमव्यक्तं विश्वसंभवम् ॥ तस्य ज्वालासहस्रेण मोहितो भगवान्हरिः॥ ४९॥
अनौपम्यम् अनिर्देश्यम् अव्यक्तम् विश्व-संभवम् ॥ तस्य ज्वाला-सहस्रेण मोहितः भगवान् हरिः॥ ४९॥
anaupamyam anirdeśyam avyaktam viśva-saṃbhavam .. tasya jvālā-sahasreṇa mohitaḥ bhagavān hariḥ.. 49..
मोहितं चाह मामत्र किमर्थं स्पर्द्धसेऽधुना ॥ आगतस्तु तृतीयोऽत्र तिष्ठतां युद्धमावयोः ॥ 2.1.7.५० ॥
मोहितम् च आह माम् अत्र किमर्थम् स्पर्द्धसे अधुना ॥ आगतः तु तृतीयः अत्र तिष्ठताम् युद्धम् आवयोः ॥ २।१।७।५० ॥
mohitam ca āha mām atra kimartham sparddhase adhunā .. āgataḥ tu tṛtīyaḥ atra tiṣṭhatām yuddham āvayoḥ .. 2.1.7.50 ..
कुत एवात्र संभूतः परीक्षावो ऽग्निसंभवम् ॥ अधो गमिष्याम्यनलस्तंभस्यानुपमस्य च ॥ ५१॥
कुतस् एव अत्र संभूतः परीक्षावः अग्नि-संभवम् ॥ अधस् गमिष्यामि अनल-स्तंभस्य अनुपमस्य च ॥ ५१॥
kutas eva atra saṃbhūtaḥ parīkṣāvaḥ agni-saṃbhavam .. adhas gamiṣyāmi anala-staṃbhasya anupamasya ca .. 51..
परीक्षार्थं प्रजानाथ तस्य वै वायुवेगतः ॥ भवानूर्द्ध्वं प्रयत्नेन गंतुमर्हति सत्वरम् ॥ ५२ ॥
परीक्षा-अर्थम् प्रजानाथ तस्य वै वायु-वेगतः ॥ भवान् ऊर्द्ध्वम् प्रयत्नेन गंतुम् अर्हति सत्वरम् ॥ ५२ ॥
parīkṣā-artham prajānātha tasya vai vāyu-vegataḥ .. bhavān ūrddhvam prayatnena gaṃtum arhati satvaram .. 52 ..
ब्रह्मोवाच ।।
एवं व्याहृत्य विश्वात्मा स्वरूपमकरोत्तदा ॥ वाराहमहप्याशु हंसत्वं प्राप्तवान्मुने ॥ ॥ ५३ ॥
एवम् व्याहृत्य विश्वात्मा स्व-रूपम् अकरोत् तदा ॥ हंस-त्वम् प्राप्तवान् मुने ॥ ॥ ५३ ॥
evam vyāhṛtya viśvātmā sva-rūpam akarot tadā .. haṃsa-tvam prāptavān mune .. .. 53 ..
तदा प्रभृति मामाहुर्हंसहंसो विराडिति ॥ हंसहंसेति यो ब्रूयात्स हंसोऽथ भविष्यति ॥ ५४ ॥
तदा प्रभृति माम् आहुः हंसहंसः विराज् इति ॥ हंस-हंस-इति यः ब्रूयात् स हंसः अथ भविष्यति ॥ ५४ ॥
tadā prabhṛti mām āhuḥ haṃsahaṃsaḥ virāj iti .. haṃsa-haṃsa-iti yaḥ brūyāt sa haṃsaḥ atha bhaviṣyati .. 54 ..
सुश्वे ह्यनलप्रख्यो विश्वतः पक्षसंयुतः ॥ मनोनिलजवो भूत्वा गत्वोर्द्ध्वं चोर्द्ध्वतः पुरा ॥ ५५॥
सुश्वे हि अनल-प्रख्यः विश्वतस् पक्ष-संयुतः ॥ मनः-निल-जवः भूत्वा गत्वा ऊर्द्ध्वम् च ऊर्द्ध्वतस् पुरा ॥ ५५॥
suśve hi anala-prakhyaḥ viśvatas pakṣa-saṃyutaḥ .. manaḥ-nila-javaḥ bhūtvā gatvā ūrddhvam ca ūrddhvatas purā .. 55..
नारायणोऽपि विश्वात्मा सुश्वेतो ह्यभवत्तदा॥ दश योजनविस्तीर्णं शतयोजनमायतम् ॥ ५६॥
नारायणः अपि विश्वात्मा सु श्वेतः हि अभवत् तदा॥ दश योजन-विस्तीर्णम् शत-योजनम् आयतम् ॥ ५६॥
nārāyaṇaḥ api viśvātmā su śvetaḥ hi abhavat tadā.. daśa yojana-vistīrṇam śata-yojanam āyatam .. 56..
मेरुपर्वतवर्ष्माणं गौरतीक्ष्णोग्रदंष्ट्रिणम् ॥ कालादित्यसमाभासं दीर्घघोणं महास्वनम् ॥ ५७ ॥
मेरु-पर्वत-वर्ष्माणम् गौर-तीक्ष्ण-उग्र-दंष्ट्रिणम् ॥ काल-आदित्य-सम-आभासम् दीर्घ-घोणम् महा-स्वनम् ॥ ५७ ॥
meru-parvata-varṣmāṇam gaura-tīkṣṇa-ugra-daṃṣṭriṇam .. kāla-āditya-sama-ābhāsam dīrgha-ghoṇam mahā-svanam .. 57 ..
ह्रस्वपादं विचित्रांगं जैत्रं दृढमनौपमम् ॥ वाराहाकारमास्थाय गतवांस्तदधौ जवात् ॥ ५८ ॥
ह्रस्व-पादम् विचित्र-अंगम् जैत्रम् दृढम् अनौपमम् ॥ वाराह-आकारम् आस्थाय गतवान् तत् अधौ जवात् ॥ ५८ ॥
hrasva-pādam vicitra-aṃgam jaitram dṛḍham anaupamam .. vārāha-ākāram āsthāya gatavān tat adhau javāt .. 58 ..
एवम्बर्षसहस्रं च चरन्विष्णुरधो गतः ॥ तथाप्रभृति लोकेषु श्वेतवाराहसंज्ञकः ॥ ५९॥
एवम् बर्ष-सहस्रम् च चरन् विष्णुः अधस् गतः ॥ तथाप्रभृति लोकेषु श्वेतवाराह-संज्ञकः ॥ ५९॥
evam barṣa-sahasram ca caran viṣṇuḥ adhas gataḥ .. tathāprabhṛti lokeṣu śvetavārāha-saṃjñakaḥ .. 59..
कल्पो बभूव देवर्षे नराणां कालसंज्ञकः ॥ बभ्राम बहुधा विष्णुः प्रभविष्णुरधोगतः ॥ 2.1.7.६० ॥
कल्पः बभूव देव-ऋषे नराणाम् काल-संज्ञकः ॥ बभ्राम बहुधा विष्णुः प्रभविष्णुः अधस् गतः ॥ २।१।७।६० ॥
kalpaḥ babhūva deva-ṛṣe narāṇām kāla-saṃjñakaḥ .. babhrāma bahudhā viṣṇuḥ prabhaviṣṇuḥ adhas gataḥ .. 2.1.7.60 ..
नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः ॥ तावत्कालं गतश्चोर्द्ध्वमहमप्यरिसूदन ॥ ६१॥
न अपश्यत् अल्पम् अपि अस्य मूलम् लिंगस्य सूकरः ॥ तावत्कालम् गतः च ऊर्द्ध्वम् अहम् अपि अरि-सूदन ॥ ६१॥
na apaśyat alpam api asya mūlam liṃgasya sūkaraḥ .. tāvatkālam gataḥ ca ūrddhvam aham api ari-sūdana .. 61..
सत्वरं सर्वयत्नेन तस्यान्तं ज्ञातुमिच्छया ॥ श्रान्तो न दृष्ट्वा तस्यांतमहं कालादधोगतः ॥ ६२॥
सत्वरम् सर्व-यत्नेन तस्य अन्तम् ज्ञातुम् इच्छया ॥ श्रान्तः न दृष्ट्वा तस्य अंतम् अहम् कालात् अधस् गतः ॥ ६२॥
satvaram sarva-yatnena tasya antam jñātum icchayā .. śrāntaḥ na dṛṣṭvā tasya aṃtam aham kālāt adhas gataḥ .. 62..
तथैव भगवान्विष्णुश्चांतं कमललोचनः ॥ सर्वदेवनिभस्तूर्णमुत्थितस्स महावपुः ॥ ६३ ॥
तथा एव भगवान् विष्णुः च अन्तम् कमल-लोचनः ॥ सर्व-देव-निभः तूर्णम् उत्थितः स महा-वपुः ॥ ६३ ॥
tathā eva bhagavān viṣṇuḥ ca antam kamala-locanaḥ .. sarva-deva-nibhaḥ tūrṇam utthitaḥ sa mahā-vapuḥ .. 63 ..
समागतो मया सार्द्धं प्रणिपत्य भवं मुहुः ॥ मायया मोहितश्शंभोस्तस्थौ संविग्नमानसः ॥ ६४ ॥
समागतः मया सार्द्धम् प्रणिपत्य भवम् मुहुर् ॥ मायया मोहितः शंभोः तस्थौ संविग्न-मानसः ॥ ६४ ॥
samāgataḥ mayā sārddham praṇipatya bhavam muhur .. māyayā mohitaḥ śaṃbhoḥ tasthau saṃvigna-mānasaḥ .. 64 ..
पृष्ठतः पार्श्वतश्चैव ह्यग्रतः परमेश्वरम् ॥ प्रणिपत्य मया सार्द्धं सस्मार किमिदं त्विति ॥ ६५॥
पृष्ठतस् पार्श्वतस् च एव हि अग्रतस् परमेश्वरम् ॥ प्रणिपत्य मया सार्द्धम् सस्मार किम् इदम् तु इति ॥ ६५॥
pṛṣṭhatas pārśvatas ca eva hi agratas parameśvaram .. praṇipatya mayā sārddham sasmāra kim idam tu iti .. 65..
अनिर्देश्यं च तद्रूपमनाम कर्मवर्जितम् ॥ अलिंगं लिंगतां प्राप्तं ध्यानमार्गेप्यगोचरम् ॥ ६६॥
अनिर्देश्यम् च तत् रूपम् अनाम कर्म-वर्जितम् ॥ अलिंगम् लिंग-ताम् प्राप्तम् ध्यान-मार्ग-इपि अगोचरम् ॥ ६६॥
anirdeśyam ca tat rūpam anāma karma-varjitam .. aliṃgam liṃga-tām prāptam dhyāna-mārga-ipi agocaram .. 66..
स्वस्थं चित्तं तदा कृत्वा नमस्कार परायणो ॥ बभूवतुरुभावावामहं हरिरपि ध्रुवम्॥ ६७॥
स्वस्थम् चित्तम् तदा कृत्वा ॥ बभूवतुः उभौ आवाम् अहम् हरिः अपि ध्रुवम्॥ ६७॥
svastham cittam tadā kṛtvā .. babhūvatuḥ ubhau āvām aham hariḥ api dhruvam.. 67..
जानीवो न हि ते रूपं योऽसियोऽसि महाप्रभो ॥ नमोऽस्तु ते महेशान रूपं दर्शय नौ त्वरन् ॥ ६८॥
जानीवः न हि ते रूपम् यः असि यः असि महा-प्रभो ॥ नमः अस्तु ते महेशान रूपम् दर्शय नौ त्वरन् ॥ ६८॥
jānīvaḥ na hi te rūpam yaḥ asi yaḥ asi mahā-prabho .. namaḥ astu te maheśāna rūpam darśaya nau tvaran .. 68..
एवं शरच्छतान्यासन्नमस्कारं प्रकुर्वतोः ॥ आवयोर्मुनिशार्दूल मदमास्थितयोस्तदा ॥ ६९॥
एवम् शरद्-शतानि आसन् नमस्कारम् प्रकुर्वतोः ॥ आवयोः मुनि-शार्दूल मदम् आस्थितयोः तदा ॥ ६९॥
evam śarad-śatāni āsan namaskāram prakurvatoḥ .. āvayoḥ muni-śārdūla madam āsthitayoḥ tadā .. 69..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसं हितायां प्रथमखंडे विष्णुब्रह्मविवादवर्णनोनाम सप्तमोऽध्यायः॥ ७॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्र-सं हितायाम् प्रथम-खंडे विष्णुब्रह्मविवादवर्णनोनाम नाम सप्तमः अध्यायः॥ ७॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudra-saṃ hitāyām prathama-khaṃḍe viṣṇubrahmavivādavarṇanonāma nāma saptamaḥ adhyāyaḥ.. 7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In