| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच।।
अथान्यच्छंभुचरितं प्रेमतः शृणु वै मुने॥ यस्य श्रवणमात्रेण शिवभक्तिर्दृढा भवेत्॥ १॥
अथ अन्यत् शंभु-चरितम् प्रेमतः शृणु वै मुने॥ यस्य श्रवण-मात्रेण शिव-भक्तिः दृढा भवेत्॥ १॥
atha anyat śaṃbhu-caritam premataḥ śṛṇu vai mune.. yasya śravaṇa-mātreṇa śiva-bhaktiḥ dṛḍhā bhavet.. 1..
शंखचूडाभिधो वीरो दानवो देवकंटकः॥ यथा शिवेन निहतो रणमूर्ध्नि त्रिशूलतः ॥ २॥
शंखचूड-अभिधः वीरः दानवः देवकंटकः॥ यथा शिवेन निहतः रण-मूर्ध्नि त्रिशूलतः ॥ २॥
śaṃkhacūḍa-abhidhaḥ vīraḥ dānavaḥ devakaṃṭakaḥ.. yathā śivena nihataḥ raṇa-mūrdhni triśūlataḥ .. 2..
तच्छंभुचरितं दिव्यं पवित्रं पापनाशनम् ॥ शृणु व्यास सुसंप्रीत्या वच्मि सुस्नेहतस्तव ॥ ३॥
तत् शंभु-चरितम् दिव्यम् पवित्रम् पाप-नाशनम् ॥ शृणु व्यास सु संप्रीत्या वच्मि सु स्नेहतः तव ॥ ३॥
tat śaṃbhu-caritam divyam pavitram pāpa-nāśanam .. śṛṇu vyāsa su saṃprītyā vacmi su snehataḥ tava .. 3..
मरीचेस्तनयो धातुः पुत्रो यः कश्यपो मुनिः ॥ स धर्मिष्ठस्सृष्टिकर्त्ता विध्याज्ञप्तः प्रजापतिः ॥ ४ ॥
मरीचेः तनयः धातुः पुत्रः यः कश्यपः मुनिः ॥ स धर्मिष्ठः सृष्टि-कर्त्ता विधि-आज्ञप्तः प्रजापतिः ॥ ४ ॥
marīceḥ tanayaḥ dhātuḥ putraḥ yaḥ kaśyapaḥ muniḥ .. sa dharmiṣṭhaḥ sṛṣṭi-karttā vidhi-ājñaptaḥ prajāpatiḥ .. 4 ..
दक्षः प्रीत्या ददौ तस्मै निजकन्यास्त्रयोदश॥ तासां प्रसूतिः प्रसभं न कथ्या बहुविस्तृताः ॥ ५॥
दक्षः प्रीत्या ददौ तस्मै निज-कन्याः त्रयोदश॥ तासाम् प्रसूतिः प्रसभम् न कथ्या बहु-विस्तृताः ॥ ५॥
dakṣaḥ prītyā dadau tasmai nija-kanyāḥ trayodaśa.. tāsām prasūtiḥ prasabham na kathyā bahu-vistṛtāḥ .. 5..
यत्र देवादिनिखिलं चराचरमभूज्जगत्॥ विस्तरात्तत्प्रवक्तुं च कः क्षमोऽस्ति त्रिलोकके॥ ६॥
यत्र देव-आदि-निखिलम् चराचरम् अभूत् जगत्॥ विस्तरात् तत् प्रवक्तुम् च कः क्षमः अस्ति त्रिलोकके॥ ६॥
yatra deva-ādi-nikhilam carācaram abhūt jagat.. vistarāt tat pravaktum ca kaḥ kṣamaḥ asti trilokake.. 6..
प्रस्तुतं शृणु वृत्तांतं शंभुलीलान्वितं च यत् ॥ तदेव कथयाम्यद्य शृणु भक्तिप्र वर्द्धनम् ॥ ७॥
प्रस्तुतम् शृणु वृत्तांतम् शंभु-लीला-अन्वितम् च यत् ॥ तत् एव कथयामि अद्य शृणु भक्तिप्र वर्द्धनम् ॥ ७॥
prastutam śṛṇu vṛttāṃtam śaṃbhu-līlā-anvitam ca yat .. tat eva kathayāmi adya śṛṇu bhaktipra varddhanam .. 7..
तासु कश्यपत्नीषु दनुस्त्वेका वरांगना ॥ महारूपवती साध्वी पतिसौभाग्यवर्द्धिता ॥ ८ ॥
तासु कश्य-पत्नीषु दनुः तु एका वर-अंगना ॥ महा-रूपवती साध्वी पति-सौभाग्य-वर्द्धिता ॥ ८ ॥
tāsu kaśya-patnīṣu danuḥ tu ekā vara-aṃganā .. mahā-rūpavatī sādhvī pati-saubhāgya-varddhitā .. 8 ..
आसंस्तस्या दनोः पुत्रा बहवो बलवत्तराः ॥ तेषां नामानि नोच्यंते विस्तारभयतो मुने ॥ ९ ॥
आसन् तस्याः दनोः पुत्राः बहवः बलवत्तराः ॥ तेषाम् नामानि न उच्यंते विस्तार-भयतः मुने ॥ ९ ॥
āsan tasyāḥ danoḥ putrāḥ bahavaḥ balavattarāḥ .. teṣām nāmāni na ucyaṃte vistāra-bhayataḥ mune .. 9 ..
तेष्वेको विप्रचित्तिस्तु महाबलपराक्रमः ॥ तत्पुत्रो धार्मिको दंभो विष्णुभक्तो जितेन्द्रियः ॥ 2.5.27.१०॥
तेषु एकः विप्रचित्तिः तु महा-बल-पराक्रमः ॥ तद्-पुत्रः धार्मिकः दंभः विष्णु-भक्तः जित-इन्द्रियः ॥ २।५।२७।१०॥
teṣu ekaḥ vipracittiḥ tu mahā-bala-parākramaḥ .. tad-putraḥ dhārmikaḥ daṃbhaḥ viṣṇu-bhaktaḥ jita-indriyaḥ .. 2.5.27.10..
नासीत्तत्तनयो वीरस्ततश्चिंतापरोऽभवत्॥ शुक्राचार्यं गुरुं कृत्वा कृष्णमंत्रमवाप्य च॥ ११॥
न आसीत् तद्-तनयः वीरः ततस् चिंता-परः अभवत्॥ शुक्र-आचार्यम् गुरुम् कृत्वा कृष्ण-मंत्रम् अवाप्य च॥ ११॥
na āsīt tad-tanayaḥ vīraḥ tatas ciṃtā-paraḥ abhavat.. śukra-ācāryam gurum kṛtvā kṛṣṇa-maṃtram avāpya ca.. 11..
तपश्चकार परमं पुष्करे लक्षवर्षकम् ॥ कृष्णमंत्रं जजापैव दृढं बद्धासनं चिरम्॥ १२॥
तपः चकार परमम् पुष्करे लक्ष-वर्षकम् ॥ कृष्ण-मंत्रम् जजाप एव दृढम् बद्ध-आसनम् चिरम्॥ १२॥
tapaḥ cakāra paramam puṣkare lakṣa-varṣakam .. kṛṣṇa-maṃtram jajāpa eva dṛḍham baddha-āsanam ciram.. 12..
तपः प्रकुर्वतस्तस्य मूर्ध्नो निस्सृत्य प्रज्व लत् ॥ विससार च सर्वत्र तत्तेजो हि सुदुस्सहम् ॥ १३ ॥
तपः प्रकुर्वतः तस्य मूर्ध्नः निस्सृत्य प्रज्व ॥ विससार च सर्वत्र तत् तेजः हि सु दुस्सहम् ॥ १३ ॥
tapaḥ prakurvataḥ tasya mūrdhnaḥ nissṛtya prajva .. visasāra ca sarvatra tat tejaḥ hi su dussaham .. 13 ..
तेन तप्तास्सुरास्सर्वे मुनयो मनवस्तथा ॥ सुनासीरं पुरस्कृत्य ब्रह्माणं शरणं ययुः ॥ १४ ॥
तेन तप्ताः सुराः सर्वे मुनयः मनवः तथा ॥ सुनासीरम् पुरस्कृत्य ब्रह्माणम् शरणम् ययुः ॥ १४ ॥
tena taptāḥ surāḥ sarve munayaḥ manavaḥ tathā .. sunāsīram puraskṛtya brahmāṇam śaraṇam yayuḥ .. 14 ..
प्रणम्य च विधातारं दातारं सर्वसंपदाम् ॥ तुष्टुवुर्विकलाः प्रोचुः स्ववृत्तांतं विशेषतः ॥ १५ ॥
प्रणम्य च विधातारम् दातारम् सर्व-संपदाम् ॥ तुष्टुवुः विकलाः प्रोचुः स्व-वृत्तांतम् विशेषतः ॥ १५ ॥
praṇamya ca vidhātāram dātāram sarva-saṃpadām .. tuṣṭuvuḥ vikalāḥ procuḥ sva-vṛttāṃtam viśeṣataḥ .. 15 ..
तदाकर्ण्य विधातापि वैकुंठं तैर्ययौ सह ॥ तदेव विज्ञापयितुं निखिलेन हि विष्णवे ॥ १६ ॥
तत् आकर्ण्य विधाता अपि वैकुंठम् तैः ययौ सह ॥ तत् एव विज्ञापयितुम् निखिलेन हि विष्णवे ॥ १६ ॥
tat ākarṇya vidhātā api vaikuṃṭham taiḥ yayau saha .. tat eva vijñāpayitum nikhilena hi viṣṇave .. 16 ..
तत्र गत्वा त्रिलोकेशं विष्णुं रक्षाकरं परम् ॥ प्रणम्य तुष्टुवुस्सर्वे करौ बद्ध्वा विनम्रकाः ॥ १७ ॥
तत्र गत्वा त्रिलोक-ईशम् विष्णुम् रक्षा-करम् परम् ॥ प्रणम्य तुष्टुवुः सर्वे करौ बद्ध्वा विनम्रकाः ॥ १७ ॥
tatra gatvā triloka-īśam viṣṇum rakṣā-karam param .. praṇamya tuṣṭuvuḥ sarve karau baddhvā vinamrakāḥ .. 17 ..
देवा ऊचुः ।।
देवदेव न जानीमो जातं किं कारणं त्विह ॥ संतप्तास्स कला जातास्तेजसा केन तद्वद ॥ १८ ॥
देवदेव न जानीमः जातम् किम् कारणम् तु इह ॥ संतप्ताः स कलाः जाताः तेजसा केन तत् वद ॥ १८ ॥
devadeva na jānīmaḥ jātam kim kāraṇam tu iha .. saṃtaptāḥ sa kalāḥ jātāḥ tejasā kena tat vada .. 18 ..
तप्तात्मनां त्वमविता दीनबंधोऽनुजीविनाम् ॥ रक्षरक्ष रमानाथ शरण्यश्शरणागतान् ॥ १९॥
तप्त-आत्मनाम् त्वम् अविता दीन-बंधः-अनुजीविनाम् ॥ रक्ष रक्ष रमानाथ शरण्यः शरण-आगतान् ॥ १९॥
tapta-ātmanām tvam avitā dīna-baṃdhaḥ-anujīvinām .. rakṣa rakṣa ramānātha śaraṇyaḥ śaraṇa-āgatān .. 19..
सनत्कुमार उवाच ।।
इति श्रुत्वा वचो विष्णुर्ब्रह्मादीनां दिवौकसाम् ॥ उवाच विहसन्प्रेम्णा शरणागतवत्सलः ॥ 2.5.27.२० ॥
इति श्रुत्वा वचः विष्णुः ब्रह्म-आदीनाम् दिवौकसाम् ॥ उवाच विहसन् प्रेम्णा शरण-आगत-वत्सलः ॥ २।५।२७।२० ॥
iti śrutvā vacaḥ viṣṇuḥ brahma-ādīnām divaukasām .. uvāca vihasan premṇā śaraṇa-āgata-vatsalaḥ .. 2.5.27.20 ..
विष्णुरुवाच ।।
सुस्वस्था भवताव्यग्रा न भयं कुरुतामराः ॥ नोपप्लवा भविष्यन्ते लयकालो न विद्यते ॥ २१ ॥
सु स्वस्थाः भवत अव्यग्राः न भयम् कुरुत अमराः ॥ न उपप्लवाः भविष्यन्ते लय-कालः न विद्यते ॥ २१ ॥
su svasthāḥ bhavata avyagrāḥ na bhayam kuruta amarāḥ .. na upaplavāḥ bhaviṣyante laya-kālaḥ na vidyate .. 21 ..
दानवो दंभनामा हि मद्भक्तः कुरुते तपः ॥ पुत्रार्थी शमयिष्यामि तमहं वरदानतः ॥ २२ ॥
दानवः दंभ-नामा हि मद्-भक्तः कुरुते तपः ॥ पुत्र-अर्थी शमयिष्यामि तम् अहम् वर-दानतः ॥ २२ ॥
dānavaḥ daṃbha-nāmā hi mad-bhaktaḥ kurute tapaḥ .. putra-arthī śamayiṣyāmi tam aham vara-dānataḥ .. 22 ..
सनत्कुमार उवाच ।।
इत्युक्तास्ते सुरास्सर्वे धैर्यमालंब्य वै मुने ॥ ययुर्ब्रह्मादयस्सुस्थास्स्वस्वधामानि सर्वशः ॥ २३ ॥
इति उक्ताः ते सुराः सर्वे धैर्यम् आलंब्य वै मुने ॥ ययुः ब्रह्म-आदयः सुस्थाः स्व-स्व-धामानि सर्वशस् ॥ २३ ॥
iti uktāḥ te surāḥ sarve dhairyam ālaṃbya vai mune .. yayuḥ brahma-ādayaḥ susthāḥ sva-sva-dhāmāni sarvaśas .. 23 ..
अच्युतोऽपि वरं दातुं पुष्करं संजगाम ह ॥ तपश्चरति यत्रासौ दंभनामा हि दानवः ॥ २४ ॥
अच्युतः अपि वरम् दातुम् पुष्करम् संजगाम ह ॥ तपः चरति यत्र असौ दंभ-नामा हि दानवः ॥ २४ ॥
acyutaḥ api varam dātum puṣkaram saṃjagāma ha .. tapaḥ carati yatra asau daṃbha-nāmā hi dānavaḥ .. 24 ..
तत्र गत्वा वरं ब्रूहीत्युवाच परिसांत्वयन् ॥ गिरा सूनृतया भक्तं जपंतं स्वमनुं हरिः ॥ २५ ॥
तत्र गत्वा वरम् ब्रूहि इति उवाच परिसांत्वयन् ॥ गिरा सूनृतया भक्तम् जपन्तम् स्व-मनुम् हरिः ॥ २५ ॥
tatra gatvā varam brūhi iti uvāca parisāṃtvayan .. girā sūnṛtayā bhaktam japantam sva-manum hariḥ .. 25 ..
तच्छ्रुत्वा वचनं विष्णोर्दृष्ट्वा तं च पुरः स्थितम् ॥ प्रणनाम महाभक्त्या तुष्ट्वाव च पुनः पुनः ॥ २६ ॥
तत् श्रुत्वा वचनम् विष्णोः दृष्ट्वा तम् च पुरस् स्थितम् ॥ प्रणनाम महा-भक्त्या तुष्ट्वा अव च पुनर् पुनर् ॥ २६ ॥
tat śrutvā vacanam viṣṇoḥ dṛṣṭvā tam ca puras sthitam .. praṇanāma mahā-bhaktyā tuṣṭvā ava ca punar punar .. 26 ..
दंभ उवाच ।।
देवदेव नमस्तेऽस्तु पुंडरीकविलोचन ॥ रमानाथ त्रिलोकेश कृपा कुरु ममोपरि ॥ २७ ॥
देवदेव नमः ते अस्तु पुंडरीक-विलोचन ॥ रमानाथ त्रिलोक-ईश कृपा कुरु मम उपरि ॥ २७ ॥
devadeva namaḥ te astu puṃḍarīka-vilocana .. ramānātha triloka-īśa kṛpā kuru mama upari .. 27 ..
स्वभक्तं तनयं देहि महाबल पराक्रमम् ॥ त्रिलोकजयिनं वीरमजेयं च दिवौकसाम् ॥ २८ ॥
स्व-भक्तम् तनयम् देहि महा-बल पराक्रमम् ॥ त्रिलोक-जयिनम् वीरम् अजेयम् च दिवौकसाम् ॥ २८ ॥
sva-bhaktam tanayam dehi mahā-bala parākramam .. triloka-jayinam vīram ajeyam ca divaukasām .. 28 ..
सनत्कुमार उवाच ।।
इत्युक्तो दानवेन्द्रेण तं वरं प्रददौ हरिः ॥ निवर्त्य चोग्रतपसस्ततस्सोंतरधान्मुने ॥ २९ ॥
इति उक्तः दानव-इन्द्रेण तम् वरम् प्रददौ हरिः ॥ निवर्त्य च उग्र-तपसः ततस् सः तरधात् मुने ॥ २९ ॥
iti uktaḥ dānava-indreṇa tam varam pradadau hariḥ .. nivartya ca ugra-tapasaḥ tatas saḥ taradhāt mune .. 29 ..
गते हरौ दानवेन्द्रः कृत्वा तस्यै दिशे नमः ॥ जगाम स्वगृहं सिद्धतदाः पूर्ण मनोरथः ॥ 2.5.27.३० ॥
गते हरौ दानव-इन्द्रः कृत्वा तस्यै दिशे नमः ॥ जगाम स्व-गृहम् सिद्धत-दाः पूर्ण मनोरथः ॥ २।५।२७।३० ॥
gate harau dānava-indraḥ kṛtvā tasyai diśe namaḥ .. jagāma sva-gṛham siddhata-dāḥ pūrṇa manorathaḥ .. 2.5.27.30 ..
कालेनाल्पेन तत्पत्नी सगर्भा भाग्यवत्यभूत् ॥ रराज तेजासात्यंतं रोचयंती गृहांतरम् ॥ ३१ ॥
कालेन अल्पेन तद्-पत्नी सगर्भा भाग्यवती अभूत् ॥ रराज तेजासा अत्यंतम् रोचयंती गृह-अंतरम् ॥ ३१ ॥
kālena alpena tad-patnī sagarbhā bhāgyavatī abhūt .. rarāja tejāsā atyaṃtam rocayaṃtī gṛha-aṃtaram .. 31 ..
सुदामानाम गोपो यो कृष्णस्य पार्षदाग्रणीः ॥ तस्या गर्भे विवेशासौ राधाशप्तश्च यन्मुने ॥ ३२॥
सुदामा नाम गोपः यः कृष्णस्य पार्षदाग्रणीः ॥ तस्याः गर्भे विवेश असौ राधा-शप्तः च यत् मुने ॥ ३२॥
sudāmā nāma gopaḥ yaḥ kṛṣṇasya pārṣadāgraṇīḥ .. tasyāḥ garbhe viveśa asau rādhā-śaptaḥ ca yat mune .. 32..
असूत समये साध्वी सुप्रभं तनयं ततः ॥ जातकं सुचकारासौ पिताहूय मुनीन्बहून्॥ ३३॥
असूत समये साध्वी सुप्रभम् तनयम् ततस् ॥ जातकम् सुचकार असौ पिता आहूय मुनीन् बहून्॥ ३३॥
asūta samaye sādhvī suprabham tanayam tatas .. jātakam sucakāra asau pitā āhūya munīn bahūn.. 33..
उत्सवस्सुमहानासीत्तस्मिञ्जाते द्विजोत्तम ॥ नाम चक्रे पिता तस्य शंख चूडेति सद्दिने ॥ ३४॥
उत्सवः सु महान् आसीत् तस्मिन् जाते द्विजोत्तम ॥ नाम चक्रे पिता तस्य शंख-चूड इति सत्-दिने ॥ ३४॥
utsavaḥ su mahān āsīt tasmin jāte dvijottama .. nāma cakre pitā tasya śaṃkha-cūḍa iti sat-dine .. 34..
पितुर्गेहे स ववृधे शुक्लपक्षे यथा शशी ॥ शैशवेभ्यस्तविद्यस्तु स बभूव सुदीप्तिमान्॥ ३५ ॥
पितुः गेहे स ववृधे शुक्लपक्षे यथा शशी ॥ शैशवेभ्यः त-विद्यः तु स बभूव सु दीप्तिमान्॥ ३५ ॥
pituḥ gehe sa vavṛdhe śuklapakṣe yathā śaśī .. śaiśavebhyaḥ ta-vidyaḥ tu sa babhūva su dīptimān.. 35 ..
स बालक्रीडया नित्यं पित्रोर्हर्षं ततान ह ॥ प्रियो बभूव सर्वेषां कुलजानां विशेषतः ॥ ३६॥
स बाल-क्रीडया नित्यम् पित्रोः हर्षम् ततान ह ॥ प्रियः बभूव सर्वेषाम् कुल-जानाम् विशेषतः ॥ ३६॥
sa bāla-krīḍayā nityam pitroḥ harṣam tatāna ha .. priyaḥ babhūva sarveṣām kula-jānām viśeṣataḥ .. 36..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडोत्पत्तिवर्णनं नाम सप्तविंशोऽध्यायः॥ २७॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे शंखचूडोत्पत्तिवर्णनम् नाम सप्तविंशः अध्यायः॥ २७॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe śaṃkhacūḍotpattivarṇanam nāma saptaviṃśaḥ adhyāyaḥ.. 27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In