| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
अथेशानो महारुद्रो दुष्टकालस्सतांगतिः ॥ शंखचूडवधं चित्ते निश्चिकाय सुरेच्छया ॥ १ ॥
अथ ईशानः महारुद्रः दुष्टकालः सतांगतिः ॥ शंखचूड-वधम् चित्ते निश्चिकाय सुर-इच्छया ॥ १ ॥
atha īśānaḥ mahārudraḥ duṣṭakālaḥ satāṃgatiḥ .. śaṃkhacūḍa-vadham citte niścikāya sura-icchayā .. 1 ..
दूतं कृत्वा चित्ररथं गंधर्वेश्वरमीप्सितम् ॥ शीघ्रं प्रस्थापयामास शंखचूडांतिके मुदा ॥ २ ॥
दूतम् कृत्वा चित्ररथम् गंधर्व-ईश्वरम् ईप्सितम् ॥ शीघ्रम् प्रस्थापयामास शंखचूड-अंतिके मुदा ॥ २ ॥
dūtam kṛtvā citraratham gaṃdharva-īśvaram īpsitam .. śīghram prasthāpayāmāsa śaṃkhacūḍa-aṃtike mudā .. 2 ..
सर्वेश्वराज्ञया दूतो ययौ तन्नगरं च सः ॥ महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम्॥ ३ ॥
सर्व-ईश्वर-आज्ञया दूतः ययौ तत् नगरम् च सः ॥ महेन्द्र-नगर-उत्कृष्टम् कुबेर-भवन-अधिकम्॥ ३ ॥
sarva-īśvara-ājñayā dūtaḥ yayau tat nagaram ca saḥ .. mahendra-nagara-utkṛṣṭam kubera-bhavana-adhikam.. 3 ..
गत्वा ददर्श तन्मध्ये शंखचूडालयं वरम् ॥ राजितं द्वादशैर्द्वारैर्द्वारपालसमन्वितम् ॥ ४॥
गत्वा ददर्श तद्-मध्ये शंखचूड-आलयम् वरम् ॥ राजितम् द्वादशैः द्वारैः द्वारपाल-समन्वितम् ॥ ४॥
gatvā dadarśa tad-madhye śaṃkhacūḍa-ālayam varam .. rājitam dvādaśaiḥ dvāraiḥ dvārapāla-samanvitam .. 4..
स दृष्ट्वा पुष्पदन्तस्तु वरं द्वारं ददर्श सः॥ कथयामास वृत्तांतं द्वारपालाय निर्भयः ॥ ५॥
स दृष्ट्वा पुष्पदन्तः तु वरम् द्वारम् ददर्श सः॥ कथयामास वृत्तांतम् द्वारपालाय निर्भयः ॥ ५॥
sa dṛṣṭvā puṣpadantaḥ tu varam dvāram dadarśa saḥ.. kathayāmāsa vṛttāṃtam dvārapālāya nirbhayaḥ .. 5..
अतिक्रम्य च तद्द्वारं जगामाभ्यंतरे मुदा॥ अतीव सुन्दरं रम्यं विस्तीर्णं समलंकृतम्॥ ६॥
अतिक्रम्य च तत् द्वारम् जगाम अभ्यंतरे मुदा॥ अतीव सुन्दरम् रम्यम् विस्तीर्णम् समलंकृतम्॥ ६॥
atikramya ca tat dvāram jagāma abhyaṃtare mudā.. atīva sundaram ramyam vistīrṇam samalaṃkṛtam.. 6..
स गत्वा शंखचूडं तं ददर्श दनुजाधिपम् ॥ वीरमंडल मध्यस्थं रत्नसिंहासनस्थितम् ॥ ७॥
स गत्वा शंखचूडम् तम् ददर्श दनुज-अधिपम् ॥ वीर-मण्डल मध्य-स्थम् रत्न-सिंहासन-स्थितम् ॥ ७॥
sa gatvā śaṃkhacūḍam tam dadarśa danuja-adhipam .. vīra-maṇḍala madhya-stham ratna-siṃhāsana-sthitam .. 7..
दानवेन्द्रैः परिवृतं सेवितं च त्रिकोटिभिः ॥ शतः कोटिभिरन्यैश्च भ्रमद्भिश्शस्त्रपाणिभिः ॥ ८॥
दानव-इन्द्रैः परिवृतम् सेवितम् च त्रि-कोटिभिः ॥ शतः कोटिभिः अन्यैः च भ्रमद्भिः शस्त्र-पाणिभिः ॥ ८॥
dānava-indraiḥ parivṛtam sevitam ca tri-koṭibhiḥ .. śataḥ koṭibhiḥ anyaiḥ ca bhramadbhiḥ śastra-pāṇibhiḥ .. 8..
एवंभूतं च तं दृष्ट्वा पुष्पदंतस्सविस्मयः ॥ उवाच रणवृत्तांतं यदुक्तं शंकरेण च ॥ ९ ॥
एवंभूतम् च तम् दृष्ट्वा पुष्पदंतः स विस्मयः ॥ उवाच रण-वृत्तांतम् यत् उक्तम् शंकरेण च ॥ ९ ॥
evaṃbhūtam ca tam dṛṣṭvā puṣpadaṃtaḥ sa vismayaḥ .. uvāca raṇa-vṛttāṃtam yat uktam śaṃkareṇa ca .. 9 ..
पुष्पदंत उवाच ।।
राजेन्द्र शिवदूतोऽहं पुष्पदंताभिधः प्रभो ॥ यदुक्तं शंकरेणैव तच्छृणु त्वं ब्रवीमि ते ॥ 2.5.१० ॥
राज-इन्द्र शिव-दूतः अहम् पुष्पदंत-अभिधः प्रभो ॥ यत् उक्तम् शंकरेण एव तत् शृणु त्वम् ब्रवीमि ते ॥ २।५।१० ॥
rāja-indra śiva-dūtaḥ aham puṣpadaṃta-abhidhaḥ prabho .. yat uktam śaṃkareṇa eva tat śṛṇu tvam bravīmi te .. 2.5.10 ..
शिव उवाच
राज्यं देहि च देवानामधिकारं हि सांप्रतम् ॥ नोचेत्कुरु रणं सार्द्धं परेण च मया सताम् ॥ ११ ॥
राज्यम् देहि च देवानाम् अधिकारम् हि सांप्रतम् ॥ नो चेद् कुरु रणम् सार्द्धम् परेण च मया सताम् ॥ ११ ॥
rājyam dehi ca devānām adhikāram hi sāṃpratam .. no ced kuru raṇam sārddham pareṇa ca mayā satām .. 11 ..
देवा मां शरणापन्ना देवेशं शंकरं सताम् ॥ अहं क्रुद्धो महारुद्रस्त्वां वधिष्याम्यसंशयम् ॥ १२ ॥
देवाः माम् शरण-आपन्नाः देवेशम् शंकरम् सताम् ॥ अहम् क्रुद्धः महा-रुद्रः त्वाम् वधिष्यामि असंशयम् ॥ १२ ॥
devāḥ mām śaraṇa-āpannāḥ deveśam śaṃkaram satām .. aham kruddhaḥ mahā-rudraḥ tvām vadhiṣyāmi asaṃśayam .. 12 ..
हरोऽस्मि सर्वदेवेभ्यो ह्यभयं दत्तवानहम्॥ खलदंडधरोऽहं वै शरणागतवत्सलः ॥ १३ ॥
हरः अस्मि सर्व-देवेभ्यः हि अभयम् दत्तवान् अहम्॥ खल-दंड-धरः अहम् वै शरण-आगत-वत्सलः ॥ १३ ॥
haraḥ asmi sarva-devebhyaḥ hi abhayam dattavān aham.. khala-daṃḍa-dharaḥ aham vai śaraṇa-āgata-vatsalaḥ .. 13 ..
राज्यं दास्यसि किं वा त्वं करिष्यसि रणं च किम् ॥ तत्त्वं ब्रूहि द्वयोरेकं दानवेन्द्र विचार्य वै ॥ १४ ॥
राज्यम् दास्यसि किम् वा त्वम् करिष्यसि रणम् च किम् ॥ तत् त्वम् ब्रूहि द्वयोः एकम् दानव-इन्द्र विचार्य वै ॥ १४ ॥
rājyam dāsyasi kim vā tvam kariṣyasi raṇam ca kim .. tat tvam brūhi dvayoḥ ekam dānava-indra vicārya vai .. 14 ..
पुष्पदंत उवाच ।।
इत्युक्तं यन्महेशेन तुभ्यं तन्मे निवेदितम् ॥ वितथं शंभुवाक्यं न कदापि दनुजाधिप ॥ १५ ॥
इति उक्तम् यत् महेशेन तुभ्यम् तत् मे निवेदितम् ॥ वितथम् शंभु-वाक्यम् न कदापि दनुज-अधिप ॥ १५ ॥
iti uktam yat maheśena tubhyam tat me niveditam .. vitatham śaṃbhu-vākyam na kadāpi danuja-adhipa .. 15 ..
अहं स्वस्वामिनं गंतुमिच्छामि त्वरितं हरम् ॥ गत्वा वक्ष्यामि किं शंभोस्तथा त्वं वद मामिह ॥ १६ ॥
अहम् स्व-स्वामिनम् गंतुम् इच्छामि त्वरितम् हरम् ॥ गत्वा वक्ष्यामि किम् शंभोः तथा त्वम् वद माम् इह ॥ १६ ॥
aham sva-svāminam gaṃtum icchāmi tvaritam haram .. gatvā vakṣyāmi kim śaṃbhoḥ tathā tvam vada mām iha .. 16 ..
।। सनत्कुमार उवाच
इत्थं च पुष्पदंतस्य शिवदूतस्य सत्पतेः ॥ आकर्ण्य वचनं राजा हसित्वा तमुवाच सः ॥ १७ ॥
इत्थम् च पुष्पदंतस्य शिव-दूतस्य सत्-पतेः ॥ आकर्ण्य वचनम् राजा हसित्वा तम् उवाच सः ॥ १७ ॥
ittham ca puṣpadaṃtasya śiva-dūtasya sat-pateḥ .. ākarṇya vacanam rājā hasitvā tam uvāca saḥ .. 17 ..
शंखचूड उवाच ।।
राज्यं दास्ये न देवेभ्यो वीरभोग्या वसुंधरा ॥ रणं दास्यामि ते रुद्र देवानां पक्षपातिने ॥ १८॥
राज्यम् दास्ये न देवेभ्यः वीर-भोग्या वसुंधरा ॥ रणम् दास्यामि ते रुद्र देवानाम् पक्षपातिने ॥ १८॥
rājyam dāsye na devebhyaḥ vīra-bhogyā vasuṃdharā .. raṇam dāsyāmi te rudra devānām pakṣapātine .. 18..
यस्योपरि प्रयायी स्यात्स वीरो भुवेनऽधमः।अतः पूर्वमहं रुद्र त्वां गमिष्याम्यसंशयम्॥ १९॥
यस्य उपरि प्रयायी स्यात् स वीरः भुवेन अधमः।अतस् पूर्वम् अहम् रुद्र त्वाम् गमिष्यामि असंशयम्॥ १९॥
yasya upari prayāyī syāt sa vīraḥ bhuvena adhamaḥ.atas pūrvam aham rudra tvām gamiṣyāmi asaṃśayam.. 19..
प्रभात आगमिष्यामि वीरयात्रा विचारतः ॥ त्वं गच्छाचक्ष्व रुद्राय हीदृशं वचनं मम ॥ 2.5.२० ॥ ॥
प्रभाते आगमिष्यामि वीरयात्रा विचारतः ॥ त्वम् गच्छ आचक्ष्व रुद्राय हि ईदृशम् वचनम् मम ॥ २।५।२० ॥ ॥
prabhāte āgamiṣyāmi vīrayātrā vicārataḥ .. tvam gaccha ācakṣva rudrāya hi īdṛśam vacanam mama .. 2.5.20 .. ..
इति श्रुत्वा शंखचूडवचनं सुप्रहस्य सः ॥ उवाच दानवेन्द्रं स शंभुदूतस्तु गर्वितम् ॥ २१॥
इति श्रुत्वा शंखचूड-वचनम् सु प्रहस्य सः ॥ उवाच दानव-इन्द्रम् स शंभु-दूतः तु गर्वितम् ॥ २१॥
iti śrutvā śaṃkhacūḍa-vacanam su prahasya saḥ .. uvāca dānava-indram sa śaṃbhu-dūtaḥ tu garvitam .. 21..
अन्येषामपि राजेन्द्र गणानां शंकरस्य च ॥ न स्थातुं संमुखे योग्यः किं पुनस्तस्य संमुखम् ॥ २२॥
अन्येषाम् अपि राज-इन्द्र गणानाम् शंकरस्य च ॥ न स्थातुम् संमुखे योग्यः किम् पुनर् तस्य संमुखम् ॥ २२॥
anyeṣām api rāja-indra gaṇānām śaṃkarasya ca .. na sthātum saṃmukhe yogyaḥ kim punar tasya saṃmukham .. 22..
स त्वं देहि च देवानामधिकाराणि सर्वशः ॥ त्वमरे गच्छ पातालं यदि जीवितुमिच्छसि॥ २३॥
स त्वम् देहि च देवानाम् अधिकाराणि सर्वशस् ॥ त्वम् अरे गच्छ पातालम् यदि जीवितुम् इच्छसि॥ २३॥
sa tvam dehi ca devānām adhikārāṇi sarvaśas .. tvam are gaccha pātālam yadi jīvitum icchasi.. 23..
सामान्यममरं तं नो विद्धि दानवसत्तम॥ शंकरः परमात्मा हि सर्वेषामीश्वरेश्वरः॥ २४॥
सामान्यम् अमरम् तम् नः विद्धि दानव-सत्तम॥ शंकरः परमात्मा हि सर्वेषाम् ईश्वर-ईश्वरः॥ २४॥
sāmānyam amaram tam naḥ viddhi dānava-sattama.. śaṃkaraḥ paramātmā hi sarveṣām īśvara-īśvaraḥ.. 24..
इन्द्राद्यास्सकला देवा यस्याज्ञावर्तिनस्सदा॥ सप्रजापतयस्सिद्धा मुनयश्चाप्यहीश्वराः ॥ २५॥
इन्द्र-आद्याः सकलाः देवाः यस्य आज्ञा-वर्तिनः सदा॥ स प्रजापतयः सिद्धाः मुनयः च अपि अहि-ईश्वराः ॥ २५॥
indra-ādyāḥ sakalāḥ devāḥ yasya ājñā-vartinaḥ sadā.. sa prajāpatayaḥ siddhāḥ munayaḥ ca api ahi-īśvarāḥ .. 25..
हरेर्विधेश्च स स्वामी निर्गुणस्सगुणस्स हि ॥ यस्य भ्रूभंगमात्रेण सर्वेषां प्रलयो भवेत् ॥ २६॥
हरेः विधेः च स स्वामी निर्गुणः स गुणः स हि ॥ यस्य भ्रू-भंग-मात्रेण सर्वेषाम् प्रलयः भवेत् ॥ २६॥
hareḥ vidheḥ ca sa svāmī nirguṇaḥ sa guṇaḥ sa hi .. yasya bhrū-bhaṃga-mātreṇa sarveṣām pralayaḥ bhavet .. 26..
शिवस्य पूर्णरूपश्च लोकसंहारकारकः॥ सतां गतिर्दुष्टहंता निर्विकारः परात्परः ॥ २७॥
शिवस्य पूर्ण-रूपः च लोक-संहार-कारकः॥ सताम् गतिः दुष्ट-हंता निर्विकारः परात्परः ॥ २७॥
śivasya pūrṇa-rūpaḥ ca loka-saṃhāra-kārakaḥ.. satām gatiḥ duṣṭa-haṃtā nirvikāraḥ parātparaḥ .. 27..
ब्रह्मणोधिपतिस्सोऽपि हरेरपि महेश्वरः॥ अवमान्या न वै तस्य शासना दानवर्षभ॥ २८॥
ब्रह्मणः अधिपतिः सः अपि हरेः अपि महेश्वरः॥ अवमान्याः न वै तस्य शासना दानव-ऋषभ॥ २८॥
brahmaṇaḥ adhipatiḥ saḥ api hareḥ api maheśvaraḥ.. avamānyāḥ na vai tasya śāsanā dānava-ṛṣabha.. 28..
किं बहूक्तेन राजेन्द्र मनसा संविचार्य च ॥ रुद्रं विद्धि महेशानं परं ब्रह्म चिदात्मकम् ॥ २९॥
किम् बहु-उक्तेन राज-इन्द्र मनसा संविचार्य च ॥ रुद्रम् विद्धि महेशानम् परम् ब्रह्म चित्-आत्मकम् ॥ २९॥
kim bahu-uktena rāja-indra manasā saṃvicārya ca .. rudram viddhi maheśānam param brahma cit-ātmakam .. 29..
देहि राज्यं हि देवानामधिकारांश्च सर्वशः ॥ एवं ते कुशलं तात भविष्यत्यन्यथा भयम् ।2.5.३०।
देहि राज्यम् हि देवानाम् अधिकारान् च सर्वशस् ॥ एवम् ते कुशलम् तात भविष्यति अन्यथा भयम् ।२।५।३०।
dehi rājyam hi devānām adhikārān ca sarvaśas .. evam te kuśalam tāta bhaviṣyati anyathā bhayam .2.5.30.
सन्त्कुमार उवाच।।
इति श्रुत्वा दानवेंद्रः शंखचूडः प्रतापवान् ॥ उवाच शिवदूतं तं भवितव्यविमोहितः॥ ३१॥
इति श्रुत्वा दानव-इंद्रः शंखचूडः प्रतापवान् ॥ उवाच शिव-दूतम् तम् भवितव्य-विमोहितः॥ ३१॥
iti śrutvā dānava-iṃdraḥ śaṃkhacūḍaḥ pratāpavān .. uvāca śiva-dūtam tam bhavitavya-vimohitaḥ.. 31..
शंखचूड उवाच ।।
स्वतो राज्यं न दास्यामि नाधिकारान् विनिश्चयात् ॥ विना युद्धं महेशेन सत्यमेतद्ब्रवीम्यहम् ॥ ३२ ॥
स्वतस् राज्यम् न दास्यामि न अधिकारान् विनिश्चयात् ॥ विना युद्धम् महेशेन सत्यम् एतत् ब्रवीमि अहम् ॥ ३२ ॥
svatas rājyam na dāsyāmi na adhikārān viniścayāt .. vinā yuddham maheśena satyam etat bravīmi aham .. 32 ..
कालाधीनं जगत्सर्वं विज्ञेयं सचराचरम्॥ कालाद्भवति सर्वं हि विनश्यति च कालतः॥ ३३॥
काल-अधीनम् जगत् सर्वम् विज्ञेयम् सचराचरम्॥ कालात् भवति सर्वम् हि विनश्यति च कालतः॥ ३३॥
kāla-adhīnam jagat sarvam vijñeyam sacarācaram.. kālāt bhavati sarvam hi vinaśyati ca kālataḥ.. 33..
त्वं गच्छ शंकरं रुद्रं मयोक्तं वद तत्त्वत॥ स च युक्तं करोत्वेवं बहुवार्तां कुरुष्व नो ॥ ३४ ॥
त्वम् गच्छ शंकरम् रुद्रम् मया उक्तम् वद तत्त्वत॥ स च युक्तम् करोतु एवम् बहु-वार्ताम् कुरुष्व नः ॥ ३४ ॥
tvam gaccha śaṃkaram rudram mayā uktam vada tattvata.. sa ca yuktam karotu evam bahu-vārtām kuruṣva naḥ .. 34 ..
सनत्कुमार उवाच।।
इत्युक्त्वा शिवदूतोऽसौ जगाम स्वामिनं निजम् ॥ यथार्थं कथयामास पुष्पदंतश्च सन्मुने ॥ ३५ ॥
इति उक्त्वा शिव-दूतः असौ जगाम स्वामिनम् निजम् ॥ यथार्थम् कथयामास पुष्पदंतः च सत्-मुने ॥ ३५ ॥
iti uktvā śiva-dūtaḥ asau jagāma svāminam nijam .. yathārtham kathayāmāsa puṣpadaṃtaḥ ca sat-mune .. 35 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शंखचूडवधे दूतगमनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खण्डे शंखचूडवधे दूतगमनम् नाम द्वात्रिंशः अध्यायः ॥ ३२ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṇḍe śaṃkhacūḍavadhe dūtagamanam nāma dvātriṃśaḥ adhyāyaḥ .. 32 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In