| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
तस्मिन्महति संग्रामे दारुणे लोमहर्षणे ॥ शुक्रो दैत्यपतिर्विद्वान्भक्षितस्त्रिपुरारिणा ॥ १ ॥
तस्मिन् महति संग्रामे दारुणे लोम-हर्षणे ॥ शुक्रः दैत्यपतिः विद्वान् भक्षितः त्रिपुरारिणा ॥ १ ॥
tasmin mahati saṃgrāme dāruṇe loma-harṣaṇe .. śukraḥ daityapatiḥ vidvān bhakṣitaḥ tripurāriṇā .. 1 ..
इति श्रुतं समासान्मे तत्पुनर्ब्रूहि विस्तरात॥ किं चकार महायोगी जठरस्थः पिनाकिनः ॥ २॥
इति श्रुतम् समासात् मे तत् पुनर् ब्रूहि विस्तरात्॥ किम् चकार महा-योगी जठर-स्थः पिनाकिनः ॥ २॥
iti śrutam samāsāt me tat punar brūhi vistarāt.. kim cakāra mahā-yogī jaṭhara-sthaḥ pinākinaḥ .. 2..
न ददाह कथं शभोश्शुक्रं तं जठरानलः ॥ कल्पान्तदहनः कालो दीप्ततेजाश्च भार्गवः ॥ ३॥
न ददाह कथम् शभोः शुक्रम् तम् जठर-अनलः ॥ कल्प-अन्त-दहनः कालः दीप्त-तेजाः च भार्गवः ॥ ३॥
na dadāha katham śabhoḥ śukram tam jaṭhara-analaḥ .. kalpa-anta-dahanaḥ kālaḥ dīpta-tejāḥ ca bhārgavaḥ .. 3..
विनिष्क्रांतः कथं धीमाच्छंभोर्जठरपंजरात् ॥ कथमाराधयामास कियत्कालं स भार्गवः ॥ ४॥
विनिष्क्रांतः कथम् धीमात् शंभोः जठर-पंजरात् ॥ कथम् आराधयामास कियत्कालम् स भार्गवः ॥ ४॥
viniṣkrāṃtaḥ katham dhīmāt śaṃbhoḥ jaṭhara-paṃjarāt .. katham ārādhayāmāsa kiyatkālam sa bhārgavaḥ .. 4..
अथ च लब्धवान्विद्यां तां मृत्युशमनीं पराम्॥ का सा विद्या परा तात यथा मृत्युर्हि वार्यते ॥ ५॥
अथ च लब्धवान् विद्याम् ताम् मृत्यु-शमनीम् पराम्॥ का सा विद्या परा तात यथा मृत्युः हि वार्यते ॥ ५॥
atha ca labdhavān vidyām tām mṛtyu-śamanīm parām.. kā sā vidyā parā tāta yathā mṛtyuḥ hi vāryate .. 5..
लेभेन्धको गाणपत्यं कथं शूला द्विनिर्गतः ॥ देवदेवस्य वै शंभोर्मुनेर्लीलाविहारिणः ॥ ६ ॥
लेभ इन्धकः गाणपत्यम् कथम् शूलाः त्-विनिर्गतः ॥ देवदेवस्य वै शंभोः मुनेः लीला-विहारिणः ॥ ६ ॥
lebha indhakaḥ gāṇapatyam katham śūlāḥ t-vinirgataḥ .. devadevasya vai śaṃbhoḥ muneḥ līlā-vihāriṇaḥ .. 6 ..
एतत्सर्वमशेषेण महाधीमन् कृपां कुरु ॥ शिवलीलामृतं तात शृण्वत कथयस्व मे ॥ ७॥
एतत् सर्वम् अशेषेण महा-धीमन् कृपाम् कुरु ॥ शिव-लीला-अमृतम् तात शृण्वत कथयस्व मे ॥ ७॥
etat sarvam aśeṣeṇa mahā-dhīman kṛpām kuru .. śiva-līlā-amṛtam tāta śṛṇvata kathayasva me .. 7..
ब्रह्मोवाच ।।
इति तस्य वचः श्रुत्वा व्यासस्यामिततेजसः ॥ सनत्कुमारः प्रोवाच स्मृत्वा शिवपदांबुजम् ॥ ८॥
इति तस्य वचः श्रुत्वा व्यासस्य अमित-तेजसः ॥ सनत्कुमारः प्रोवाच स्मृत्वा शिव-पद-अंबुजम् ॥ ८॥
iti tasya vacaḥ śrutvā vyāsasya amita-tejasaḥ .. sanatkumāraḥ provāca smṛtvā śiva-pada-aṃbujam .. 8..
सनत्कुमार उवाच ।।
शृणु व्यास महाबुद्धे शिवलीलामृतं परम् ॥ धन्यस्त्वं शैवमुख्योसि ममानन्दकरः स्वतः ॥ ९ ॥
शृणु व्यास महाबुद्धे शिव-लीला-अमृतम् परम् ॥ धन्यः त्वम् शैव-मुख्यः असि मम आनन्द-करः स्वतस् ॥ ९ ॥
śṛṇu vyāsa mahābuddhe śiva-līlā-amṛtam param .. dhanyaḥ tvam śaiva-mukhyaḥ asi mama ānanda-karaḥ svatas .. 9 ..
प्रवर्तमाने समरे शंकरांधकयोस्तयोः ॥ अनिर्भेद्यपविव्यूहगिरिव्यूहाधिनाथयोः॥ 2.5.47.१०॥
प्रवर्तमाने समरे शंकर-अंधकयोः तयोः ॥ ॥ २।५।४७।१०॥
pravartamāne samare śaṃkara-aṃdhakayoḥ tayoḥ .. .. 2.5.47.10..
पुरा जयो बभूवापि दैत्यानां बलशालिनाम्॥ शिवप्रभा वादभवत्प्रमथानां मुने जयः ॥ ११॥
पुरा जयः बभूव अपि दैत्यानाम् बल-शालिनाम्॥ शिव-प्रभा वाद-भवत्-प्रमथानाम् मुने जयः ॥ ११॥
purā jayaḥ babhūva api daityānām bala-śālinām.. śiva-prabhā vāda-bhavat-pramathānām mune jayaḥ .. 11..
तच्छुत्वासीद्विषण्णो हि महादैत्योंधकासुरः॥ कथं स्यान्मे जय इति विचारणपरोऽभवत्॥ १२॥
तत् शुत्वा आसीत् विषण्णः हि॥ कथम् स्यात् मे जयः इति विचारण-परः अभवत्॥ १२॥
tat śutvā āsīt viṣaṇṇaḥ hi.. katham syāt me jayaḥ iti vicāraṇa-paraḥ abhavat.. 12..
अपसृत्य ततो युद्धादंधकः परबुद्धिमान् ॥ द्रुतमभ्यगमद्वीर एकलश्शुक्रसन्निधिम् ॥ १३॥
अपसृत्य ततस् युद्धात् अंधकः पर-बुद्धिमान् ॥ द्रुतम् अभ्यगमत् वीरः एकलः शुक्र-सन्निधिम् ॥ १३॥
apasṛtya tatas yuddhāt aṃdhakaḥ para-buddhimān .. drutam abhyagamat vīraḥ ekalaḥ śukra-sannidhim .. 13..
प्रणम्य स्वगुरुं काव्यमवरुह्य रथाच्च सः ॥ बभाषेदं विचार्याथ सांजलिर्नीतिवित्तमः ॥ १४॥
प्रणम्य स्व-गुरुम् काव्यम् अवरुह्य रथात् च सः ॥ बभाष इदम् विचार्य अथ स अंजलिः नीति-वित्तमः ॥ १४॥
praṇamya sva-gurum kāvyam avaruhya rathāt ca saḥ .. babhāṣa idam vicārya atha sa aṃjaliḥ nīti-vittamaḥ .. 14..
अंधक उवाच ।।
भगवंस्त्वामुपाश्रित्य गुरोर्भावं वहामहे ॥ पराजिता भवामो नो सर्वदा जयशालिनः ॥ १५ ॥
भगवन् त्वाम् उपाश्रित्य गुरोः भावम् वहामहे ॥ पराजिताः भवामः नः सर्वदा जय-शालिनः ॥ १५ ॥
bhagavan tvām upāśritya guroḥ bhāvam vahāmahe .. parājitāḥ bhavāmaḥ naḥ sarvadā jaya-śālinaḥ .. 15 ..
त्वत्प्रभावात्सदा देवान्समस्तान्सानुगान्वयम् ॥ मन्यामहे हरोषेन्द्रमुखानपि हि कत्तृणान् ॥ १६॥
त्वद्-प्रभावात् सदा देवान् समस्तान् स अनुगान् वयम् ॥ मन्यामहे हर-उषा-इन्द्र-मुखान् अपि हि कत्तृणान् ॥ १६॥
tvad-prabhāvāt sadā devān samastān sa anugān vayam .. manyāmahe hara-uṣā-indra-mukhān api hi kattṛṇān .. 16..
अस्मत्तो बिभ्यति सुरास्तदा भवदनुग्रहात् ॥ गजा इव हरिभ्यश्च तार्क्ष्येभ्य इव पन्नगाः ॥ १७ ॥
अस्मत्तः बिभ्यति सुराः तदा भवत्-अनुग्रहात् ॥ गजाः इव हरिभ्यः च तार्क्ष्येभ्यः इव पन्नगाः ॥ १७ ॥
asmattaḥ bibhyati surāḥ tadā bhavat-anugrahāt .. gajāḥ iva haribhyaḥ ca tārkṣyebhyaḥ iva pannagāḥ .. 17 ..
अनिर्भेद्यं पविव्यूहं विविशुर्दैत्य दानवाः ॥ प्रमथानीकमखिलं विधूय त्वदनुग्रहात् ॥ १८ ॥
अनिर्भेद्यम् पवि-व्यूहम् विविशुः दैत्य दानवाः ॥ प्रमथ-अनीकम् अखिलम् विधूय त्वद्-अनुग्रहात् ॥ १८ ॥
anirbhedyam pavi-vyūham viviśuḥ daitya dānavāḥ .. pramatha-anīkam akhilam vidhūya tvad-anugrahāt .. 18 ..
वयं त्वच्छरणा भूत्वा सदा गा इव निश्चलाः ॥ स्थित्वा चरामो निश्शंकमाजावपि हि भार्गव ॥ १९ ॥
वयम् त्वद्-शरणाः भूत्वा सदा गाः इव निश्चलाः ॥ स्थित्वा चरामः निश्शंकम् आजौ अपि हि भार्गव ॥ १९ ॥
vayam tvad-śaraṇāḥ bhūtvā sadā gāḥ iva niścalāḥ .. sthitvā carāmaḥ niśśaṃkam ājau api hi bhārgava .. 19 ..
रक्षरक्षाभितो विप्र प्रव्रज्य शरणागतान् ॥ असुराञ्छत्रुभिर्वीरैरर्दितांश्च मृतानपि ॥ 2.5.47.२० ॥
रक्ष-रक्ष अभितस् विप्र प्रव्रज्य शरण-आगतान् ॥ असुरान् शत्रुभिः वीरैः अर्दितान् च मृतान् अपि ॥ २।५।४७।२० ॥
rakṣa-rakṣa abhitas vipra pravrajya śaraṇa-āgatān .. asurān śatrubhiḥ vīraiḥ arditān ca mṛtān api .. 2.5.47.20 ..
प्रथमैर्भीमविक्रांतैः क्रांतान्मृत्युप्रमाथिभिः ॥ सूदितान्पतितान्पश्य हुंडादीन्मद्गणान्वरान् ॥ २१ ॥
प्रथमैः भीम-विक्रांतैः क्रांतान् मृत्यु-प्रमाथिभिः ॥ सूदितान् पतितान् पश्य हुंड-आदीन् मद्-गणान् वरान् ॥ २१ ॥
prathamaiḥ bhīma-vikrāṃtaiḥ krāṃtān mṛtyu-pramāthibhiḥ .. sūditān patitān paśya huṃḍa-ādīn mad-gaṇān varān .. 21 ..
यः पीत्वा कणधूमं वै सहस्रं शरदां पुरा ॥ त्वया प्राप्ता वरा विद्या तस्याः कालोयमागतः ॥ २२ ॥
यः पीत्वा कणधूमम् वै सहस्रम् शरदाम् पुरा ॥ त्वया प्राप्ता वरा विद्या तस्याः कालः यम् आगतः ॥ २२ ॥
yaḥ pītvā kaṇadhūmam vai sahasram śaradām purā .. tvayā prāptā varā vidyā tasyāḥ kālaḥ yam āgataḥ .. 22 ..
अद्य विद्याफलं तत्ते सर्वे पश्यंतु भार्गव ॥ प्रमथा असुरान्सर्वान् कृपया जीवयिष्यतः ॥ २३ ॥
अद्य विद्या-फलम् तत् ते सर्वे पश्यंतु भार्गव ॥ प्रमथाः असुरान् सर्वान् कृपया जीवयिष्यतः ॥ २३ ॥
adya vidyā-phalam tat te sarve paśyaṃtu bhārgava .. pramathāḥ asurān sarvān kṛpayā jīvayiṣyataḥ .. 23 ..
सनत्कुमार उवाच ।।
इत्थमन्धकवाक्यं स श्रुत्वा धीरो हि भार्गवः ॥ तदा विचारयामास दूयमानेन चेतसा ॥ २४ ॥
इत्थम् अन्धक-वाक्यम् स श्रुत्वा धीरः हि भार्गवः ॥ तदा विचारयामास दूयमानेन चेतसा ॥ २४ ॥
ittham andhaka-vākyam sa śrutvā dhīraḥ hi bhārgavaḥ .. tadā vicārayāmāsa dūyamānena cetasā .. 24 ..
किं कर्तव्यं मयाद्यापि क्षेमं मे स्यात्कथं त्विति ॥ सन्निपातविधिर्जीवः सर्वथानुचितो मम ॥ २५ ॥
किम् कर्तव्यम् मया अद्य अपि क्षेमम् मे स्यात् कथम् तु इति ॥ सन्निपात-विधिः जीवः सर्वथा अनुचितः मम ॥ २५ ॥
kim kartavyam mayā adya api kṣemam me syāt katham tu iti .. sannipāta-vidhiḥ jīvaḥ sarvathā anucitaḥ mama .. 25 ..
विधेयं शंकरात्प्राप्ता तद्गुणान् प्रति योजये ॥ तद्रणे मर्दितान्वीरः प्रमथैश्शंकरानुगैः ॥ २६ ॥
विधेयम् शंकरात् प्राप्ता तद्-गुणान् प्रति योजये ॥ तद्-रणे मर्दित वीरः प्रमथैः शंकर-अनुगैः ॥ २६ ॥
vidheyam śaṃkarāt prāptā tad-guṇān prati yojaye .. tad-raṇe mardita vīraḥ pramathaiḥ śaṃkara-anugaiḥ .. 26 ..
शरणागतधर्मोथ प्रवरस्सर्वतो हृदा॥ विचार्य शुक्रेण धिया तद्वाणी स्वीकृता तदा ॥ २७ ॥
शरण-आगत-धर्मः उथ प्रवरः सर्वतस् हृदा॥ विचार्य शुक्रेण धिया तद्-वाणी स्वीकृता तदा ॥ २७ ॥
śaraṇa-āgata-dharmaḥ utha pravaraḥ sarvatas hṛdā.. vicārya śukreṇa dhiyā tad-vāṇī svīkṛtā tadā .. 27 ..
किंचित्स्मितं तदा कृत्वा सोऽब्रवीद्दानवाधिपम् ॥ भार्गवश्शिवपादाब्जं सप्पा?? स्वस्थेन चेतसा ॥ २८ ॥
किंचिद् स्मितम् तदा कृत्वा सः अब्रवीत् दानव-अधिपम् ॥ भार्गवः शिव-पाद-अब्जम् सप्पा?? स्वस्थेन चेतसा ॥ २८ ॥
kiṃcid smitam tadā kṛtvā saḥ abravīt dānava-adhipam .. bhārgavaḥ śiva-pāda-abjam sappā?? svasthena cetasā .. 28 ..
शुक्र उवाच ।।
यत्त्वया भाषितं तात तत्सर्वं तथ्यमेव हि ॥ एतद्विद्योपार्जनं हि दानवार्थं कृतं?? मया ॥ २९ ॥
यत् त्वया भाषितम् तात तत् सर्वम् तथ्यम् एव हि ॥ एतद्-विद्या-उपार्जनम् हि दानव-अर्थम् कृतम्?? मया ॥ २९ ॥
yat tvayā bhāṣitam tāta tat sarvam tathyam eva hi .. etad-vidyā-upārjanam hi dānava-artham kṛtam?? mayā .. 29 ..
दुस्सहं कणधूमं वै पीत्वा वर्षसहस्रकम् ॥ विद्येयमीश्वरात्प्राप्ता बंधूनां सुखदा सदा ॥ 2.5.47.३० ॥
दुस्सहम् कणधूमम् वै पीत्वा वर्ष-सहस्रकम् ॥ विद्या इयम् ईश्वरात् प्राप्ता बंधूनाम् सुख-दा सदा ॥ २।५।४७।३० ॥
dussaham kaṇadhūmam vai pītvā varṣa-sahasrakam .. vidyā iyam īśvarāt prāptā baṃdhūnām sukha-dā sadā .. 2.5.47.30 ..
प्रमथैर्मथितान्दैत्यान्रणेहं विद्ययानया ॥ उत्थापयिष्ये म्लानानि शस्यानि जलभुग्यथा॥ ३१ ॥
प्रमथैः मथितान् दैत्यान् रण इहम् विद्यया अनया ॥ उत्थापयिष्ये म्लानानि शस्यानि जलभुज् यथा॥ ३१ ॥
pramathaiḥ mathitān daityān raṇa iham vidyayā anayā .. utthāpayiṣye mlānāni śasyāni jalabhuj yathā.. 31 ..
निर्व्रणान्नीरुजः स्वस्थान्सुप्त्वेव पुन रुत्थितान् ॥ मुहूर्तेस्मिंश्च द्रष्टासि दैत्यांस्तानुत्थितान्निजान् ॥ ३२ ॥
निर्व्रणान् नीरुजः स्वस्थान् सुप्त्वा इव पुनर् रुत्थितान् ॥ मुहूर्ते इस्मिन् च द्रष्टासि दैत्यान् तान् उत्थितान् निजान् ॥ ३२ ॥
nirvraṇān nīrujaḥ svasthān suptvā iva punar rutthitān .. muhūrte ismin ca draṣṭāsi daityān tān utthitān nijān .. 32 ..
सनत्कुमार उवाच ।।
इत्युक्त्वा सोधकं शुक्रो विद्यामावर्तयत्क विः ॥ एकैकं दैत्यमुद्दिश्य स्मृत्वा विद्येशमादरात् ॥ ३३ ॥
इति उक्त्वा सोधकम् शुक्रः विद्याम् आवर्तयत् क विः ॥ एकैकम् दैत्यम् उद्दिश्य स्मृत्वा विद्येशम् आदरात् ॥ ३३ ॥
iti uktvā sodhakam śukraḥ vidyām āvartayat ka viḥ .. ekaikam daityam uddiśya smṛtvā vidyeśam ādarāt .. 33 ..
विद्यावर्तनमात्रेण ते सर्वे दैत्यदानवाः ॥ उत्तस्थुर्युगपद्वीरास्सुप्ता इव धृतायुधाः ॥ ३४ ॥
विद्या-आवर्तन-मात्रेण ते सर्वे दैत्य-दानवाः ॥ उत्तस्थुः युगपद् वीराः सुप्ताः इव धृत-आयुधाः ॥ ३४ ॥
vidyā-āvartana-mātreṇa te sarve daitya-dānavāḥ .. uttasthuḥ yugapad vīrāḥ suptāḥ iva dhṛta-āyudhāḥ .. 34 ..
सदाभ्यस्ता यथा वेदास्समरे वा यथाम्बुदा ॥ श्रद्धयार्थास्तथा दत्ता ब्राह्मणेभ्यो यथापदि॥ ३५ ॥
सदा अभ्यस्ताः यथा वेदाः समरे वा यथा अम्बुदा ॥ श्रद्धया अर्थाः तथा दत्ताः ब्राह्मणेभ्यः यथा आपदि॥ ३५ ॥
sadā abhyastāḥ yathā vedāḥ samare vā yathā ambudā .. śraddhayā arthāḥ tathā dattāḥ brāhmaṇebhyaḥ yathā āpadi.. 35 ..
उज्जीवितांस्तु तान्दृष्ट्वा हुंडादींश्च महासुरान् ॥ विनेदुरसुराः सर्वे जलपूर्णा इवांबुदाः ॥ ३६ ॥
उज्जीवितान् तु तान् दृष्ट्वा हुंड-आदीन् च महा-असुरान् ॥ विनेदुः असुराः सर्वे जल-पूर्णाः इव अंबुदाः ॥ ३६ ॥
ujjīvitān tu tān dṛṣṭvā huṃḍa-ādīn ca mahā-asurān .. vineduḥ asurāḥ sarve jala-pūrṇāḥ iva aṃbudāḥ .. 36 ..
रणोद्यताः पुनश्चासन्गर्जंतो विकटान्रवान् ॥ प्रमथैस्सह निर्भीता महाबलपराक्रमाः ॥ ३७ ॥
रण-उद्यताः पुनर् च आसन् गर्जंतः विकटान् रवान् ॥ प्रमथैः सह निर्भीताः महा-बल-पराक्रमाः ॥ ३७ ॥
raṇa-udyatāḥ punar ca āsan garjaṃtaḥ vikaṭān ravān .. pramathaiḥ saha nirbhītāḥ mahā-bala-parākramāḥ .. 37 ..
शुक्रेणोज्जीवितान्दृष्ट्वा प्रमथा दैत्यदानवान् ॥ विसिष्मिरे ततस्सर्वे नंद्याद्या युद्धदुर्मदाः ॥ ३८ ॥
शुक्रेण उज्जीवितान् दृष्ट्वा प्रमथाः दैत्य-दानवान् ॥ विसिष्मिरे ततस् सर्वे नंदि-आद्याः युद्ध-दुर्मदाः ॥ ३८ ॥
śukreṇa ujjīvitān dṛṣṭvā pramathāḥ daitya-dānavān .. visiṣmire tatas sarve naṃdi-ādyāḥ yuddha-durmadāḥ .. 38 ..
विज्ञाप्यमेवं कर्मैतद्देवेशे शंकरेऽखिलम् ॥ विचार्य बुद्धिमंतश्च ह्येवं तेऽन्योन्यमब्रुवन् ॥ ३९॥
विज्ञाप्यम् एवम् कर्म एतत् देवेशे शंकरे अखिलम् ॥ विचार्य बुद्धिमंतः च हि एवम् ते अन्योन्यम् अब्रुवन् ॥ ३९॥
vijñāpyam evam karma etat deveśe śaṃkare akhilam .. vicārya buddhimaṃtaḥ ca hi evam te anyonyam abruvan .. 39..
आश्चर्यरूपे प्रमथेश्वराणां तस्मिंस्तथा वर्तति युद्धयज्ञे ॥ अमर्षितो भार्गवकर्म दृष्ट्वा शिलादपुत्रोऽभ्यगमन्महेशम्॥ 2.5.47.४०॥
आश्चर्य-रूपे प्रमथ-ईश्वराणाम् तस्मिन् तथा वर्तति युद्ध-यज्ञे ॥ अमर्षितः भार्गव-कर्म दृष्ट्वा शिलाद-पुत्रः अभ्यगमत् महेशम्॥ २।५।४७।४०॥
āścarya-rūpe pramatha-īśvarāṇām tasmin tathā vartati yuddha-yajñe .. amarṣitaḥ bhārgava-karma dṛṣṭvā śilāda-putraḥ abhyagamat maheśam.. 2.5.47.40..
जयेति चोक्त्वा जययोनिमुग्रमुवाच नंदी कनकावदातम् ॥ गणेश्वराणां रणकर्म देव देवैश्च सेन्द्रैरपि दुष्करं सत् ॥ ४१॥
जय इति च उक्त्वा जययोनिम् उग्रम् उवाच नंदी कनक-अवदातम् ॥ गणेश्वराणाम् रण-कर्म देव देवैः च स इन्द्रैः अपि दुष्करम् सत् ॥ ४१॥
jaya iti ca uktvā jayayonim ugram uvāca naṃdī kanaka-avadātam .. gaṇeśvarāṇām raṇa-karma deva devaiḥ ca sa indraiḥ api duṣkaram sat .. 41..
तद्भार्गवेणाद्य कृतं वृथा नस्संजीवतांस्तान्हि मृतान्विपक्षान्॥ आवर्त्य विद्यां मृतजीवदात्रीमेकेकमुद्दिश्य सहेलमीश ॥ ४२॥
तत् भार्गवेण अद्य कृतम् वृथा नः संजीवतान् तान् हि मृतान् विपक्षान्॥ आवर्त्य विद्याम् मृत-जीव-दात्रीम् एकेकम् उद्दिश्य स हेलम् ईश ॥ ४२॥
tat bhārgaveṇa adya kṛtam vṛthā naḥ saṃjīvatān tān hi mṛtān vipakṣān.. āvartya vidyām mṛta-jīva-dātrīm ekekam uddiśya sa helam īśa .. 42..
तुहुंडहुंडादिककुंभजंभविपा कपाकादिमहासुरेन्द्राः ॥ यमालयादद्य पुनर्निवृत्ता विद्रावयंतः प्रमथांश्चरंति ॥ ४३॥
तुहुंड-हुंड-आदिक-कुंभ-जंभ-विपा-कपाक-आदि-महा-असुर-इन्द्राः ॥ यम-आलयात् अद्य पुनर् निवृत्ताः विद्रावयंतः प्रमथान् चरंति ॥ ४३॥
tuhuṃḍa-huṃḍa-ādika-kuṃbha-jaṃbha-vipā-kapāka-ādi-mahā-asura-indrāḥ .. yama-ālayāt adya punar nivṛttāḥ vidrāvayaṃtaḥ pramathān caraṃti .. 43..
यदि ह्यसौ दैत्यवरान्निरस्तान्संजीवयेदत्र पुनः पुनस्तान्॥ जयः कुतो नो भविता महेश गणेश्वराणां कुत एव शांतिः ॥ ४४॥
यदि हि असौ दैत्य-वरान् निरस्तान् संजीवयेत् अत्र पुनर् पुनर् तान्॥ जयः कुतस् नः भविता महेश गणेश्वराणाम् कुतस् एव शांतिः ॥ ४४॥
yadi hi asau daitya-varān nirastān saṃjīvayet atra punar punar tān.. jayaḥ kutas naḥ bhavitā maheśa gaṇeśvarāṇām kutas eva śāṃtiḥ .. 44..
।। सनत्कुमार उवाच ।।
इत्येवमुक्तः प्रमथेश्वरेण स नंदिना वै प्रमथेश्वरेशः ॥ उवाच देवः प्रहसंस्तदानीं तं नंदिनं सर्वगणेशराजम् ॥ ४५ ॥
इति एवम् उक्तः प्रमथेश्वरेण स नंदिना वै प्रमथेश्वर-ईशः ॥ उवाच देवः प्रहसन् तदानीम् तम् नन्दिनम् सर्व-गणेश-राजम् ॥ ४५ ॥
iti evam uktaḥ pramatheśvareṇa sa naṃdinā vai pramatheśvara-īśaḥ .. uvāca devaḥ prahasan tadānīm tam nandinam sarva-gaṇeśa-rājam .. 45 ..
शिव उवाच ।।
नन्दिन्प्रयाहि त्वरितोऽति मात्रं द्विजेन्द्रवर्यं दितिनन्दनानाम् ॥ मध्यात्समुद्धृत्य तथा नयाशु श्येनो यथा लावकमंडजातम् ॥ ४६ ॥
नन्दिन् प्रयाहि त्वरितः अति मात्रम् द्विजेन्द्र-वर्यम् दिति-नन्दनानाम् ॥ मध्यात् समुद्धृत्य तथा नय आशु श्येनः यथा लाव-कमंड-जातम् ॥ ४६ ॥
nandin prayāhi tvaritaḥ ati mātram dvijendra-varyam diti-nandanānām .. madhyāt samuddhṛtya tathā naya āśu śyenaḥ yathā lāva-kamaṃḍa-jātam .. 46 ..
सनत्कुमार उवाच ।।
स एवमुक्तो वृषभध्वजेन ननाद नंदी वृषसिंहनादः ॥ जगाम तूर्णं च विगाह्य सेनां यत्राभवद्भार्गववंशदीपः ॥ ४७ ॥
सः एवम् उक्तः वृषभध्वजेन ननाद नंदी वृष-सिंह-नादः ॥ जगाम तूर्णम् च विगाह्य सेनाम् यत्र अभवत् भार्गव-वंश-दीपः ॥ ४७ ॥
saḥ evam uktaḥ vṛṣabhadhvajena nanāda naṃdī vṛṣa-siṃha-nādaḥ .. jagāma tūrṇam ca vigāhya senām yatra abhavat bhārgava-vaṃśa-dīpaḥ .. 47 ..
तं रक्ष्यमाणं दितिजैस्समस्तैः पाशासिवृक्षोपलशैलहस्तैः ॥ विक्षोभ्य दैत्यान्बलवाञ्जहार काव्यं स नन्दी शरभो यथेभम् ॥ ४८॥
तम् रक्ष्यमाणम् दितिजैः समस्तैः पाश-असि-वृक्ष-उपल-शैल-हस्तैः ॥ विक्षोभ्य दैत्यान् बलवान् जहार काव्यम् स नन्दी शरभः यथा इभम् ॥ ४८॥
tam rakṣyamāṇam ditijaiḥ samastaiḥ pāśa-asi-vṛkṣa-upala-śaila-hastaiḥ .. vikṣobhya daityān balavān jahāra kāvyam sa nandī śarabhaḥ yathā ibham .. 48..
स्रस्तांबरं विच्युतभूषणं च विमुक्तकेशं बलिना गृहीतम् ॥ विमोचयिष्यंत इवानुजग्मुः सुरारयस्सिंहरवांस्त्यजंतः ॥ ४९ ॥
स्रस्त-अंबरम् विच्युत-भूषणम् च विमुक्त-केशम् बलिना गृहीतम् ॥ विमोचयिष्यंतः इव अनुजग्मुः सुरारयः सिंह-रवान् त्यजंतः ॥ ४९ ॥
srasta-aṃbaram vicyuta-bhūṣaṇam ca vimukta-keśam balinā gṛhītam .. vimocayiṣyaṃtaḥ iva anujagmuḥ surārayaḥ siṃha-ravān tyajaṃtaḥ .. 49 ..
दंभोलि शूलासिपरश्वधानामुद्दंडचक्रोपलकंपनानाम् ॥ नंदीश्वरस्योपरि दानवेन्द्रा वर्षं ववर्षुर्जलदा इवोग्रम् ॥ 2.5.47.५० ॥
दंभोलि शूल-असि-परश्वधानाम् उद्दंड-चक्र-उपल-कंपनानाम् ॥ नंदीश्वरस्य उपरि दानव-इन्द्राः वर्षम् ववर्षुः जलदाः इव उग्रम् ॥ २।५।४७।५० ॥
daṃbholi śūla-asi-paraśvadhānām uddaṃḍa-cakra-upala-kaṃpanānām .. naṃdīśvarasya upari dānava-indrāḥ varṣam vavarṣuḥ jaladāḥ iva ugram .. 2.5.47.50 ..
तं भार्गवं प्राप्य गणाधिराजो मुखाग्निना शस्त्रशतानि दग्ध्वा ॥ आयात्प्रवृद्धेऽसुरदेवयुद्धे भवस्य पार्श्वे व्यथितारिपक्षः ॥ ५१ ॥
तम् भार्गवम् प्राप्य गणाधिराजः मुख-अग्निना शस्त्र-शतानि दग्ध्वा ॥ आयात् प्रवृद्धे असुर-देव-युद्धे भवस्य पार्श्वे व्यथित-अरि-पक्षः ॥ ५१ ॥
tam bhārgavam prāpya gaṇādhirājaḥ mukha-agninā śastra-śatāni dagdhvā .. āyāt pravṛddhe asura-deva-yuddhe bhavasya pārśve vyathita-ari-pakṣaḥ .. 51 ..
अयं स शुक्रो भगवन्नितीदं निवेदयामास भवाय शीघ्रम् ॥ जग्राह शुक्रं स च देवदेवो यथोपहारं शुचिना प्रदत्तम् ॥ ५२ ॥
अयम् स शुक्रः भगवन् इति इदम् निवेदयामास भवाय शीघ्रम् ॥ जग्राह शुक्रम् स च देवदेवः यथा उपहारम् शुचिना प्रदत्तम् ॥ ५२ ॥
ayam sa śukraḥ bhagavan iti idam nivedayāmāsa bhavāya śīghram .. jagrāha śukram sa ca devadevaḥ yathā upahāram śucinā pradattam .. 52 ..
न किंचिदुक्त्वा स हि भूतगोप्ता चिक्षेप वक्त्रे फलवत्कवीन्द्रम् ॥ हाहारवस्तैरसुरैस्समस्तैरुच्चैर्विमुक्तो हहहेति भूरि ॥ ५३ ॥
न किंचिद् उक्त्वा स हि भूतगोप्ता चिक्षेप वक्त्रे फलवत् कवि-इन्द्रम् ॥ हाहा-रवः तैः असुरैः समस्तैः उच्चैस् विमुक्तः हहह इति भूरि ॥ ५३ ॥
na kiṃcid uktvā sa hi bhūtagoptā cikṣepa vaktre phalavat kavi-indram .. hāhā-ravaḥ taiḥ asuraiḥ samastaiḥ uccais vimuktaḥ hahaha iti bhūri .. 53 ..
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे अंधकयुद्धे शुक्रनिगीर्णनवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् पञ्चमे युद्ध-खंडे अंधक-युद्धे शुक्रनिगीर्णनवर्णनम् नाम सप्तचत्वारिंशः अध्यायः ॥ ४७ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām pañcame yuddha-khaṃḍe aṃdhaka-yuddhe śukranigīrṇanavarṇanam nāma saptacatvāriṃśaḥ adhyāyaḥ .. 47 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In