| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच।।
एकादशवतारान्वै शृण्वथो शांकरान्वरान् ॥ याञ्छ्रुत्वा न हि बाध्येत बाधासत्यादिसम्भवा ॥ १॥
पुरा सर्वे सुराश्शक्रमुखा दैत्यपराजिताः ॥ त्यक्त्वामरावतीम्भीत्याऽपलायन्त निजाम्पुरीम् ॥ २ ॥
दैत्यप्रपीडिता देवा जग्मुस्ते कश्यपा न्तिकम् ॥ बद्ध्वा करान्नतस्कन्धाः प्रणेमुस्तं सुविह्वलम् ॥ ३ ॥
सुनुत्वा तं सुरास्सर्व्वे कृत्वा विज्ञप्तिमादरात् ॥ सर्वं निवेदयामा स्स्वदुःखन्तत्पराजयम् ॥ ४॥
ततस्स कश्यपस्तात तत्पिता शिवसक्तधीः ॥ तदाकर्ण्यामराकं वै दुखितोभून्न चाधिकम् ॥ ५ ॥
तानाश्वास्य मुनिस्सोऽथ धैर्यमाधाय शान्तधीः ॥ काशीं जगाम सुप्रीत्या विश्वेश्वरपुरीम्मुने ॥ ६॥
गंगाम्भसि ततः स्नात्वा कृत्वा तं विधिमादरात् ॥ विश्वेश्वरं समानर्च साम्बं सर्वेश्वरम्प्रभुम् ॥ ७॥
शिवलिंगं सुसंस्थाप्य चकार विपुलन्तपः ॥ शम्भुमुद्दिश्य सुप्रीत्या देवानां हितकाम्यया ॥ ८॥
महान्कालो व्यतीयाय तपतस्तस्य वै मुनेः ॥ शिवपादाम्बुजासक्तमनसो धैर्य्यशालिनः ॥ ९॥
अथ प्रादुरभूच्छम्भुर्वरन्दातुन्तदर्षये ॥ स्वपदासक्तमनसे दीनबन्धुस्सतांगतिः ॥ 3.18.१० ॥
वरम्ब्रूहीति चोवाच सुप्रसन्नो महेश्वरः ॥ कश्यपं मुनिशार्दूलं स्वभक्तं भक्तवत्सलः ॥ १ १॥
दृष्ट्वाथ तं महेशानं स प्रणम्य कृताञ्जलिः ॥ तुष्टाव कश्यपो हृष्टो देवतातः प्रस न्नधीः ॥ १२॥
कश्यप उवाच ।।
देवदेव महेशान शरणागतवत्सल ॥ सर्वेश्वरः परात्मा त्वं ध्यानगम्योद्वयोऽव्ययः ॥ १३॥
बलनिग्रह कर्ता त्वं महेश्वर सतां गतिः ॥ दीनबन्धुर्दयासिन्धुर्भक्तरक्षणदक्षधीः ॥ १४॥
एते सुरास्त्वदीया हि त्वद्भक्ताश्च विशेषतः ॥ दैत्यैः पराजिताश्चाथ पाहि तान्दुःखितान् प्रभो ॥ १५॥
असमर्थो रमेशोपि दुःखदस्ते मुहुर्मुहुः ॥ अतः सुरा मच्छरणा वेदयन्तोऽसुखं च तत् ॥ १६॥
तदर्थं देवदेवेश देवदुःखविनाशकः ॥ तत्पूरितुं तपोनिष्ठां प्रसन्नार्थं तवासदम् ॥ १७॥
शरणं ते प्रपन्नोऽस्मि सर्वथाहं महेश्वर ॥ कामं मे पूरय स्वामिन्देवदुःखं विनाशय ॥ १८॥
पुत्रदुःखैश्च देवेश दुःखितोऽहं विशेषतः ॥ सुखिनं कुरु मामीश सहाय स्त्वन्दिवौकसाम् ॥ १९॥
भूत्वा मम सुतो नाथ देवा यक्षाः पराजिताः ॥ दैत्यैर्महाबलैश्शम्भो सुरानन्दप्रदो भव ॥ 3.18.२०॥
सदैवास्तु महेशान सर्वलेखसहायकः ॥ यथा दैत्यकृता बाधा न बाधेत सुरान्प्रभो ॥ २१ ॥
नंदीश्वर उवाच ।।
इत्युक्तस्स तु सर्वेशस्तथेति प्रोच्य शंकरः ॥ पश्यतस्तस्य भगवांस्तत्रैवांतर्दधे हरः ॥ २२॥
कश्यपोऽपि महाहृष्टः स्वस्थानमगमद्द्रुतम् ॥ देवेशः कथयामास सर्ववृत्तान्तमादरात् ॥ २३ ॥
ततस्स शंकरश्शर्वस्सत्यं कर्तुं स्वकं वचः ॥ सुरभ्यां कश्यपाज्जज्ञे एकादशस्वरूपवान् ॥ २४ ॥
महोत्सवस्तदासीद्वे सर्वं शिवमयं त्वभूत् ॥ आसन्हृष्टाः सुराश्चाथ मुनिना कश्यपेन च ॥ २५ ॥
कपाली १ पिंगलो २ भीमो ३ विरूपाक्षो ४ विलोहितः ५ ॥
शास्ताऽ ६ जपाद ७ हिर्बुध्न्य ८ श्शंभु ९ श्चण्डो १० भवस्तथा ११ ॥ २६ ॥
एकादशैते रुद्रास्तु सुरभतिनयाः स्मृताः ॥ देवकार्य्यार्थमुत्पन्नाश्शिवरूपास्सुखास्पदम् ॥ २७ ॥
ते रुद्राः काश्यपा वीरा महाबलपराक्रमाः ॥ दैत्याञ्जघ्नुश्च संग्रामे देवसाहाय्यकारिणः ॥ २८ ॥
तद्रुद्रकृपया देवा दैत्याञ्जित्वा च निर्भयाः ॥ चक्रु- स्वराज्यं सर्वे ते शक्राद्यास्स्वस्थमानसाः ॥ २९ ॥
अद्यापि ते महारुद्रास्सर्वे शिवस्वरूपकाः ॥ देवानां रक्षणार्थाय विराजन्ते सदा दिवि ॥ 3.18.३० ॥
ऐशान्याम्पुरि ते वासं चक्रिरे भक्तवत्सलाः ॥ विरमन्ते सदा तत्र नानालीलाविशारदाः ॥ ३१ ॥
तेषामनुचरा रुद्राः कोटिशः परिकीर्तिताः ॥ सर्वत्र संस्थितास्तत्र त्रिलोकेष्वभिभागशः ॥ ३२ ॥
इति ते वर्णितास्तातावताराश्शंकरस्य वै ॥ एकादशमिता रुद्रास्सर्वलोकसुखावहाः ॥ ३३ ॥
इदमाख्यानममलं सर्वपापप्रणाशकम् ॥ धन्यं यशस्यमायुष्यं सर्वकामप्रदायकम् ॥ ३४ ॥
य इदं शृणुयात्तात श्रावयेद्वै समाहितः ॥ इह सर्वसुखम्भुक्त्वा ततो मुक्तिं लभेत सः ॥ ३५ ॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां एकादशावतारवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In