| |
|

This overlay will guide you through the buttons:

ओङ्कारेश्वरे पार्थिवलिङ्गस्यार्चनम्१॥
ओङ्कार-ईश्वरे पार्थिव-लिङ्गस्य अर्चनम्॥
oṅkāra-īśvare pārthiva-liṅgasya arcanam..
सूत उवाच ।
अथ वैदिकभक्तानां पार्थिवार्चां निगद्यते ॥ वैदिकेनैव मार्गेण भुक्तिमुक्तिप्रदायिनी ॥ २॥
अथ वैदिक-भक्तानाम् पार्थिव-अर्चाम् निगद्यते ॥ वैदिकेन एव मार्गेण भुक्ति-मुक्ति-प्रदायिनी ॥ २॥
atha vaidika-bhaktānām pārthiva-arcām nigadyate .. vaidikena eva mārgeṇa bhukti-mukti-pradāyinī .. 2..
सूत्रोक्तविधिना स्नात्वा संध्यां कृत्वा यथाविधि ॥ ब्रह्मयज्ञं विधायादौ ततस्तर्प्पणमाचरेत् ॥ ३॥
सूत्र-उक्त-विधिना स्नात्वा संध्याम् कृत्वा यथाविधि ॥ ब्रह्मयज्ञम् विधाय आदौ ततस् तर्प्पणम् आचरेत् ॥ ३॥
sūtra-ukta-vidhinā snātvā saṃdhyām kṛtvā yathāvidhi .. brahmayajñam vidhāya ādau tatas tarppaṇam ācaret .. 3..
नैत्यिकं सकलं कामं विधायानंतरं पुमान् ॥ शिवस्मरणपूर्वं हि भस्मरुद्रा क्षधारकः ॥ ४॥
नैत्यिकम् सकलम् कामम् विधाय अनन्तरम् पुमान् ॥ शिव-स्मरण-पूर्वम् हि भस्मरुद्रा क्ष-धारकः ॥ ४॥
naityikam sakalam kāmam vidhāya anantaram pumān .. śiva-smaraṇa-pūrvam hi bhasmarudrā kṣa-dhārakaḥ .. 4..
वेदोक्ताविधिना सम्यक्संपूर्णफलसिद्धये ॥ पूजयेत्परया भक्त्या पार्थिवं लिंगमुत्तमम् ॥ ५॥
वेद-उक्ता-विधिना सम्यक् संपूर्ण-फल-सिद्धये ॥ पूजयेत् परया भक्त्या पार्थिवम् लिंगम् उत्तमम् ॥ ५॥
veda-uktā-vidhinā samyak saṃpūrṇa-phala-siddhaye .. pūjayet parayā bhaktyā pārthivam liṃgam uttamam .. 5..
नदीतीरे तडागे च पर्वते काननेऽपि च ॥ शिवालये शुचौ देशे पार्थिवार्चा विधीयते ॥ ६॥
नदी-तीरे तडागे च पर्वते कानने अपि च ॥ शिव-आलये शुचौ देशे पार्थिव-अर्चा विधीयते ॥ ६॥
nadī-tīre taḍāge ca parvate kānane api ca .. śiva-ālaye śucau deśe pārthiva-arcā vidhīyate .. 6..
शुद्धप्रदेशसंभूतां मृदमाहृत्य यत्नतः ॥ शिवलिंगं प्रकल्पेत सावधानतया द्विजाः ॥ ७॥
शुद्ध-प्रदेश-संभूताम् मृदम् आहृत्य यत्नतः ॥ शिव-लिंगम् प्रकल्पेत सावधान-तया द्विजाः ॥ ७॥
śuddha-pradeśa-saṃbhūtām mṛdam āhṛtya yatnataḥ .. śiva-liṃgam prakalpeta sāvadhāna-tayā dvijāḥ .. 7..
विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका ॥ वैश्ये कृष्णा पादजाते ह्यथवा यत्र या भवेत् ॥ ८॥
विप्रे गौरा स्मृता शोणा बाहुजे पीत-वर्णका ॥ वैश्ये कृष्णा पाद-जाते हि अथवा यत्र या भवेत् ॥ ८॥
vipre gaurā smṛtā śoṇā bāhuje pīta-varṇakā .. vaiśye kṛṣṇā pāda-jāte hi athavā yatra yā bhavet .. 8..
संगृह्य मृत्तिकां लिंगनिर्माणार्थं प्रयत्नतः ॥ अतीव शुभदेशे च स्थापयेत्तां मृदं शुभाम् ॥ ९॥
संगृह्य मृत्तिकाम् लिंग-निर्माण-अर्थम् प्रयत्नतः ॥ अतीव शुभ-देशे च स्थापयेत् ताम् मृदम् शुभाम् ॥ ९॥
saṃgṛhya mṛttikām liṃga-nirmāṇa-artham prayatnataḥ .. atīva śubha-deśe ca sthāpayet tām mṛdam śubhām .. 9..
संशोध्य च जलेनापि पिंडीकृत्य शनैः शनैः ॥ विधीयेत शुभं लिंगं पार्थिवं वेदमार्गतः ॥ १०॥
संशोध्य च जलेन अपि पिंडीकृत्य शनैस् शनैस् ॥ विधीयेत शुभम् लिंगम् पार्थिवम् वेद-मार्गतः ॥ १०॥
saṃśodhya ca jalena api piṃḍīkṛtya śanais śanais .. vidhīyeta śubham liṃgam pārthivam veda-mārgataḥ .. 10..
ततः संपूजयेद्भक्त्या भुक्तिमुक्तिफलाप्तये ॥ तत्प्रकारमहं वच्मि शृणुध्वं संविधानतः १.२०. ॥ ११॥
ततस् संपूजयेत् भक्त्या भुक्ति-मुक्ति-फल-आप्तये ॥ तद्-प्रकारम् अहम् वच्मि शृणुध्वम् संविधानतः।२०। ॥ ११॥
tatas saṃpūjayet bhaktyā bhukti-mukti-phala-āptaye .. tad-prakāram aham vacmi śṛṇudhvam saṃvidhānataḥ.20. .. 11..
नमः शिवाय मंत्रेणार्चनद्र व्यं च प्रोक्षयेत् ॥ भूरसीति च मंत्रेण क्षेत्रसिद्धिं प्रकारयेत् ॥ १२॥
नमः शिवाय मंत्रेण अर्चन-द्र च प्रोक्षयेत् ॥ भूः असि इति च मंत्रेण क्षेत्र-सिद्धिम् प्रकारयेत् ॥ १२॥
namaḥ śivāya maṃtreṇa arcana-dra ca prokṣayet .. bhūḥ asi iti ca maṃtreṇa kṣetra-siddhim prakārayet .. 12..
आपोस्मानिति मंत्रेण जलसंस्कारमाचरेत् ॥ नमस्ते रुद्र मंत्रेण फाटिकाबंधमुच्यते ॥ १३॥
मंत्रेण जल-संस्कारम् आचरेत् ॥ नमः ते रुद्र मंत्रेण फाटिकाबंधम् उच्यते ॥ १३॥
maṃtreṇa jala-saṃskāram ācaret .. namaḥ te rudra maṃtreṇa phāṭikābaṃdham ucyate .. 13..
शंभवायेति मंत्रेण क्षेत्रशुद्धिं प्रकारयेत् ॥ नमः पूर्वेण कुर्यात्पंचामृतस्यापि प्रोक्षणम् ॥ १४॥
शंभवाय इति मंत्रेण क्षेत्र-शुद्धिम् प्रकारयेत् ॥ नमः पूर्वेण कुर्यात् पंचामृतस्य अपि प्रोक्षणम् ॥ १४॥
śaṃbhavāya iti maṃtreṇa kṣetra-śuddhim prakārayet .. namaḥ pūrveṇa kuryāt paṃcāmṛtasya api prokṣaṇam .. 14..
नीलग्रीवाय मंत्रेण नमःपूर्वेण भक्तिमान् ॥ चरेच्छंकरलिंगस्य प्रतिष्ठापनमुत्तमम् ॥ १५॥
नीलग्रीवाय मंत्रेण नमः-पूर्वेण भक्तिमान् ॥ चरेत् शंकर-लिंगस्य प्रतिष्ठापनम् उत्तमम् ॥ १५॥
nīlagrīvāya maṃtreṇa namaḥ-pūrveṇa bhaktimān .. caret śaṃkara-liṃgasya pratiṣṭhāpanam uttamam .. 15..
भक्तितस्तत एतत्ते रुद्रा येति च मंत्रतः ॥ आसनं रमणीयं वै दद्याद्वैदिकमार्गकृत् ॥ १६॥
भक्तितः ततस् एतत् ते रुद्राः या इति च मंत्रतः ॥ आसनम् रमणीयम् वै दद्यात् वैदिक-मार्ग-कृत् ॥ १६॥
bhaktitaḥ tatas etat te rudrāḥ yā iti ca maṃtrataḥ .. āsanam ramaṇīyam vai dadyāt vaidika-mārga-kṛt .. 16..
मानो महन्तमिति च मंत्रेणावाहनं चरेत् ॥ याते रुद्रे ण मंत्रेण संचरेदुपवेशनम् ॥ १७॥
मानः महन्तम् इति च मंत्रेण आवाहनम् चरेत् ॥ याते रुद्रे मंत्रेण संचरेत् उपवेशनम् ॥ १७॥
mānaḥ mahantam iti ca maṃtreṇa āvāhanam caret .. yāte rudre maṃtreṇa saṃcaret upaveśanam .. 17..
मंत्रेण यामिषुमिति न्यासं कुर्य्याच्छिवस्य च ॥ अध्यवोचदिति प्रेम्णाधिवासं मनुनाचरेत् ॥ १८॥
मंत्रेण याम् इषुम् इति न्यासम् कुर्यात् शिवस्य च ॥ अध्यवोचत् इति प्रेम्णा अधिवासम् मनुना आचरेत् ॥ १८॥
maṃtreṇa yām iṣum iti nyāsam kuryāt śivasya ca .. adhyavocat iti premṇā adhivāsam manunā ācaret .. 18..
मनुना सौजीव इति देवतान्यासमाचरेत् ॥ असौ योवसर्पतीति चाचरेदपसर्पणम् ॥ १९॥
मनुना सौजीवः इति देवतान्यासम् आचरेत् ॥ असौ यः उ असर्पति इति च आचरेत् अपसर्पणम् ॥ १९॥
manunā saujīvaḥ iti devatānyāsam ācaret .. asau yaḥ u asarpati iti ca ācaret apasarpaṇam .. 19..
नमोस्तु नीलग्रीवायेति पाद्यं मनुनाहरेत् ॥ अर्घ्यं च रुद्र गायत्र्! याऽचमनं त्र्! यंबकेण च ॥ २०॥
नमः अस्तु नीलग्रीवाय इति पाद्यम् मनुना आहरेत् ॥ अर्घ्यम् च रुद्र गायत्र! या आ आचमनम् त्र्! यंबकेण च ॥ २०॥
namaḥ astu nīlagrīvāya iti pādyam manunā āharet .. arghyam ca rudra gāyatra! yā ā ācamanam tr! yaṃbakeṇa ca .. 20..
पयः पृथिव्यामिति च पयसा स्नानमाचरेत् ॥ दधिक्राव्णेतिमंत्रेण दधिस्नानं च कारयेत् १.२०. ॥ २१॥
पयः पृथिव्याम् इति च पयसा स्नानम् आचरेत् ॥ दधिक्राव्णा इति मंत्रेण दधि-स्नानम् च कारयेत्।२०। ॥ २१॥
payaḥ pṛthivyām iti ca payasā snānam ācaret .. dadhikrāvṇā iti maṃtreṇa dadhi-snānam ca kārayet.20. .. 21..
घृटं स्नाने खलु घृतं घृतं यावेति मंत्रतः ॥ मधुवाता मधुनक्तं मधुमान्न इति त्र्! यृचा ॥ २२॥
घृटम् स्नाने खलु घृतम् घृतम् याव इति मंत्रतः ॥ मधु-वाता मधुनक्तम् मधुमान् नः इति त्रिस्! यृचा ॥ २२॥
ghṛṭam snāne khalu ghṛtam ghṛtam yāva iti maṃtrataḥ .. madhu-vātā madhunaktam madhumān naḥ iti tris! yṛcā .. 22..
मधुखंडस्नपनं प्रोक्तमिति पंचामृतं स्मृतम् ॥ अथवा पाद्यमंत्रेण स्नानं पंचामृतेन च ॥ २३॥
मधुखंडस्नपनम् प्रोक्तम् इति पंचामृतम् स्मृतम् ॥ अथवा पाद्य-मंत्रेण स्नानम् पंचामृतेन च ॥ २३॥
madhukhaṃḍasnapanam proktam iti paṃcāmṛtam smṛtam .. athavā pādya-maṃtreṇa snānam paṃcāmṛtena ca .. 23..
मानस्तोके इति प्रेम्णा मंत्रेण कटिबंधनम् ॥ नमो धृष्णवे इति वा उत्तरीयं च धापयेत् ॥ २४॥
मान-स्तोके इति प्रेम्णा मंत्रेण कटिबंधनम् ॥ नमः धृष्णवे इति वै उत्तरीयम् च धापयेत् ॥ २४॥
māna-stoke iti premṇā maṃtreṇa kaṭibaṃdhanam .. namaḥ dhṛṣṇave iti vai uttarīyam ca dhāpayet .. 24..
या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः ॥ शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम् ॥ २५॥
या ते हेतिः इति प्रेम्णा ऋक्-चतुष्केण वैदिकः ॥ शिवाय विधिना भक्तः चरेत् वस्त्र-समर्पणम् ॥ २५॥
yā te hetiḥ iti premṇā ṛk-catuṣkeṇa vaidikaḥ .. śivāya vidhinā bhaktaḥ caret vastra-samarpaṇam .. 25..
नमः श्वभ्य इति प्रेम्णा गंधं दद्यादृचा सुधीः ॥ नमस्तक्षभ्य इति चाक्षतान्मंत्रेण चार्पयेत् ॥ २६॥
नमः श्वभ्यः इति प्रेम्णा गंधम् दद्यात् ऋचा सुधीः ॥ नमः तक्षभ्यः इति च अक्षतान् मंत्रेण च अर्पयेत् ॥ २६॥
namaḥ śvabhyaḥ iti premṇā gaṃdham dadyāt ṛcā sudhīḥ .. namaḥ takṣabhyaḥ iti ca akṣatān maṃtreṇa ca arpayet .. 26..
नमः पार्याय इति वा पुष्प मंत्रेण चार्पयेत् ॥ नमः पर्ण्याय इति वा बिल्बपत्रसमर्पणम् ॥ २७॥
नमः पार्याय इति वा पुष्प-मंत्रेण च अर्पयेत् ॥ नमः पर्ण्याय इति वा बिल्ब-पत्र-समर्पणम् ॥ २७॥
namaḥ pāryāya iti vā puṣpa-maṃtreṇa ca arpayet .. namaḥ parṇyāya iti vā bilba-patra-samarpaṇam .. 27..
नमः कपर्दिने चेति धूपं दद्याद्यथाविधि ॥ दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा ॥ २८॥
नमः कपर्दिने च इति धूपम् दद्यात् यथाविधि ॥ दीपम् दद्यात् यथोक्तम् तु नमः आशवे इति ऋचा ॥ २८॥
namaḥ kapardine ca iti dhūpam dadyāt yathāvidhi .. dīpam dadyāt yathoktam tu namaḥ āśave iti ṛcā .. 28..
नमो ज्येष्ठाय मंत्रेण दद्यान्नैवेद्यमुत्तमम् ॥ मनुना त्र्! यम्बकमिति पुनराचमनं स्मृतम् ॥ २९॥
नमः ज्येष्ठाय मंत्रेण दद्यात् नैवेद्यम् उत्तमम् ॥ मनुना त्र्! यम्बकम् इति पुनराचमनम् स्मृतम् ॥ २९॥
namaḥ jyeṣṭhāya maṃtreṇa dadyāt naivedyam uttamam .. manunā tr! yambakam iti punarācamanam smṛtam .. 29..
इमा रुद्रा येति ऋचा कुर्यात्फलसमर्पणम् ॥ नमो व्रज्यायेति ऋचा सकलं शंभवेर्पयेत् ॥ ३०॥
इमाः रुद्राः या इति ऋचा कुर्यात् फल-समर्पणम् ॥ नमः व्रज्याय इति ऋचा सकलम् शंभव ईर्पयेत् ॥ ३०॥
imāḥ rudrāḥ yā iti ṛcā kuryāt phala-samarpaṇam .. namaḥ vrajyāya iti ṛcā sakalam śaṃbhava īrpayet .. 30..
मानो महांतमिति च मानस्तोके इति ततः ॥ मंत्रद्वयेनैकदशाक्षतै रुद्रा न्प्रपूजयेत् १.२०. ॥ ३१॥
मानः महांतम् इति च मान-स्तोके इति ततस् ॥ मंत्र-द्वयेन एक-दश-अक्षतैः रुद्रान् प्रपूजयेत्।२०। ॥ ३१॥
mānaḥ mahāṃtam iti ca māna-stoke iti tatas .. maṃtra-dvayena eka-daśa-akṣataiḥ rudrān prapūjayet.20. .. 31..
हिरण्यगर्भ इति त्र्! यृचा दक्षिणां हि समर्पयेत् ॥ देवस्य त्वेति मंत्रेण ह्यभिषेकं चरेद्बुधः ॥ ३२॥
हिरण्य-गर्भः इति त्रिस्! यृचा दक्षिणाम् हि समर्पयेत् ॥ देवस्य त्वा इति मंत्रेण हि अभिषेकम् चरेत् बुधः ॥ ३२॥
hiraṇya-garbhaḥ iti tris! yṛcā dakṣiṇām hi samarpayet .. devasya tvā iti maṃtreṇa hi abhiṣekam caret budhaḥ .. 32..
दीपमंत्रेण वा शंभोर्नीराजनविधिं चरेत् ॥ पुष्पांजलिं चरेद्भक्त्या इमा रुद्रा य च त्र्! यृचा ॥ ३३॥
दीप-मंत्रेण वा शंभोः नीराजन-विधिम् चरेत् ॥ पुष्प-अंजलिम् चरेत् भक्त्या इमाः रुद्राः च! यृचा ॥ ३३॥
dīpa-maṃtreṇa vā śaṃbhoḥ nīrājana-vidhim caret .. puṣpa-aṃjalim caret bhaktyā imāḥ rudrāḥ ca! yṛcā .. 33..
मानो महान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् ॥ मानस्तोकेति मंत्रेण साष्टाण्गं प्रणमेत्सुधीः ॥ ३४॥
मानः महान्तम् इति च चरेत् प्राज्ञः प्रदक्षिणाम् ॥ मान-स्तोक-इति मंत्रेण स अष्टाण्गम् प्रणमेत् सुधीः ॥ ३४॥
mānaḥ mahāntam iti ca caret prājñaḥ pradakṣiṇām .. māna-stoka-iti maṃtreṇa sa aṣṭāṇgam praṇamet sudhīḥ .. 34..
एषते इति मंत्रेण शिवमुद्रा ं! प्रदर्शयेत् ॥ यतोयत इत्यभयां ज्ञानाख्यां त्र्! यंबकेण च ॥ ३५॥
इति मंत्रेण शिवमुद्रा! प्रदर्शयेत् ॥ यतस् यतस् इति अभयाम् ज्ञान-आख्याम् त्रिस्! यंबकेण च ॥ ३५॥
iti maṃtreṇa śivamudrā! pradarśayet .. yatas yatas iti abhayām jñāna-ākhyām tris! yaṃbakeṇa ca .. 35..
नमःसेनेति मंत्रेण महामुद्रा ं! प्रदर्शयेत् ॥ दर्शयेद्धेनुमुद्रा ं! च नमो गोभ्य ऋचानया ॥ ३६॥
नमः सेना इति मंत्रेण महामुद्रा! प्रदर्शयेत् ॥ दर्शयेत् धेनुमुद्राः! च नमः गोभ्यः ऋचा अनया ॥ ३६॥
namaḥ senā iti maṃtreṇa mahāmudrā! pradarśayet .. darśayet dhenumudrāḥ! ca namaḥ gobhyaḥ ṛcā anayā .. 36..
पंचमुद्रा ः! प्रदर्श्याथ शिवमंत्रजपं चरेत् ॥ शतरुद्रि यमंत्रेण जपेद्वेदविचक्षणः ॥ ३७॥
पंच-मुद्राः! प्रदर्श्य अथ शिव-मंत्र-जपम् चरेत् ॥ शतरुद्रि य-मंत्रेण जपेत् वेद-विचक्षणः ॥ ३७॥
paṃca-mudrāḥ! pradarśya atha śiva-maṃtra-japam caret .. śatarudri ya-maṃtreṇa japet veda-vicakṣaṇaḥ .. 37..
ततः पंचाण्गपाठं च कुर्य्याद्वेदविचक्षणः ॥ देवागात्विति मंत्रेण कुर्याच्छंभोर्विसर्जनम् ॥ ३८॥
ततस् पंचाण्ग-पाठम् च कुर्यात् वेद-विचक्षणः ॥ देव आगातु इति मंत्रेण कुर्यात् शंभोः विसर्जनम् ॥ ३८॥
tatas paṃcāṇga-pāṭham ca kuryāt veda-vicakṣaṇaḥ .. deva āgātu iti maṃtreṇa kuryāt śaṃbhoḥ visarjanam .. 38..
इत्युक्तः शिवपूजाया व्यासतो वैदिकोविधिः ॥ समासतश्च शृणुत वैदिकं विधिमुत्तमम् ॥ ३९॥
इति उक्तः शिव-पूजायाः व्यासतः वैदिकः विधिः ॥ समासतस् च शृणुत वैदिकम् विधिम् उत्तमम् ॥ ३९॥
iti uktaḥ śiva-pūjāyāḥ vyāsataḥ vaidikaḥ vidhiḥ .. samāsatas ca śṛṇuta vaidikam vidhim uttamam .. 39..
ऋचा सद्योजातमिति मृदाहरणमाचरेत् ॥ वामदेवाय इति च जलप्रक्षेपमाचरेत् ॥ ४०॥
ऋचा सद्योजातम् इति मृदा आहरणम् आचरेत् ॥ वामदेवाय इति च जल-प्रक्षेपम् आचरेत् ॥ ४०॥
ṛcā sadyojātam iti mṛdā āharaṇam ācaret .. vāmadevāya iti ca jala-prakṣepam ācaret .. 40..
अघोरेण च मंत्रेण लिंगनिर्माणमाचरेत् ॥ तत्पुरुषाय मंत्रेणाह्वानं कुर्याद्यथाविधि १.२०. ॥ ४१॥
अघोरेण च मंत्रेण लिंग-निर्माणम् आचरेत् ॥ तत्पुरुषाय मंत्रेण आह्वानम् कुर्यात् यथाविधि।२०। ॥ ४१॥
aghoreṇa ca maṃtreṇa liṃga-nirmāṇam ācaret .. tatpuruṣāya maṃtreṇa āhvānam kuryāt yathāvidhi.20. .. 41..
संयोजयेद्वेदिकायामीशानमनुना हरम् ॥ अन्यत्सर्वं विधानं च कुर्य्यात्संक्षेपतः सुधीः ॥ ४२॥
संयोजयेत् वेदिकायाम् ईशान-मनुना हरम् ॥ अन्यत् सर्वम् विधानम् च कुर्य्यात् संक्षेपतः सुधीः ॥ ४२॥
saṃyojayet vedikāyām īśāna-manunā haram .. anyat sarvam vidhānam ca kuryyāt saṃkṣepataḥ sudhīḥ .. 42..
पंचाक्षरेण मंत्रेण गुरुदत्तेन वा तथा ॥ कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः ॥ ४३॥
पंचाक्षरेण मंत्रेण गुरु-दत्तेन वा तथा ॥ कुर्यात् पूजाम् षोडश-उपचारेण विधिवत् सुधीः ॥ ४३॥
paṃcākṣareṇa maṃtreṇa guru-dattena vā tathā .. kuryāt pūjām ṣoḍaśa-upacāreṇa vidhivat sudhīḥ .. 43..
भवाय भवनाशाय महादेवाय धीमहि ॥ उग्राय उग्रनाशाय शर्वाय शशिमौलिने ॥ ४४॥
भवाय भव-नाशाय महादेवाय धीमहि ॥ उग्राय उग्रनाशाय शर्वाय शशिमौलिने ॥ ४४॥
bhavāya bhava-nāśāya mahādevāya dhīmahi .. ugrāya ugranāśāya śarvāya śaśimauline .. 44..
अनेन मनुना वापि पूजयेच्छंकरं सुधीः ॥ सुभक्त्या च भ्रमं त्यक्त्वा भक्त्यैव फलदः शिवः ॥ ४५॥
अनेन मनुना वा अपि पूजयेत् शंकरम् सुधीः ॥ सु भक्त्या च भ्रमम् त्यक्त्वा भक्त्या एव फल-दः शिवः ॥ ४५॥
anena manunā vā api pūjayet śaṃkaram sudhīḥ .. su bhaktyā ca bhramam tyaktvā bhaktyā eva phala-daḥ śivaḥ .. 45..
इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम् ॥ प्रोच्यतेन्यविधिः सम्यक्साधारणतया द्विजः ॥ ४६॥
इति अपि प्रोक्तम् आदृत्य वैदिक-क्रम-पूजनम् ॥ सम्यक् साधारण-तया द्विजः ॥ ४६॥
iti api proktam ādṛtya vaidika-krama-pūjanam .. samyak sādhāraṇa-tayā dvijaḥ .. 46..
पूजा पार्थिवलिंगस्य संप्रोक्ता शिवनामभिः ॥ तां शृणुध्वं मुनिश्रेष्ठाः सर्वकामप्रदायिनीम् ॥ ४७॥
पूजा पार्थिव-लिंगस्य संप्रोक्ता शिव-नामभिः ॥ ताम् शृणुध्वम् मुनि-श्रेष्ठाः सर्व-काम-प्रदायिनीम् ॥ ४७॥
pūjā pārthiva-liṃgasya saṃproktā śiva-nāmabhiḥ .. tām śṛṇudhvam muni-śreṣṭhāḥ sarva-kāma-pradāyinīm .. 47..
हरो महेश्वरः शंभुः शूलपाणिः पिनाकधृक् ॥ शिवः पशुपतिश्चैव महादेव इति क्रमात् ॥ ४८॥
हरः महेश्वरः शंभुः शूलपाणिः पिनाकधृक् ॥ शिवः पशुपतिः च एव महादेवः इति क्रमात् ॥ ४८॥
haraḥ maheśvaraḥ śaṃbhuḥ śūlapāṇiḥ pinākadhṛk .. śivaḥ paśupatiḥ ca eva mahādevaḥ iti kramāt .. 48..
मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च ॥ स्नपनं पूजनं चैव क्षमस्वेति विसर्जनम् ॥ ४९॥
मृद्-आहरण-संघट्ट-प्रतिष्ठा-आह्वानम् एव च ॥ स्नपनम् पूजनम् च एव क्षमस्व इति विसर्जनम् ॥ ४९॥
mṛd-āharaṇa-saṃghaṭṭa-pratiṣṭhā-āhvānam eva ca .. snapanam pūjanam ca eva kṣamasva iti visarjanam .. 49..
ॐकारादिचतुर्थ्यंतैर्नमोन्तैर्नामभिः क्रमात् ॥ कर्तव्या च क्रिया सर्वा भक्त्या परमया मुदा ॥ ५०॥
ओंकार-आदि-चतुर्थी-अंतैः नमः-न्तैः नामभिः क्रमात् ॥ कर्तव्या च क्रिया सर्वा भक्त्या परमया मुदा ॥ ५०॥
oṃkāra-ādi-caturthī-aṃtaiḥ namaḥ-ntaiḥ nāmabhiḥ kramāt .. kartavyā ca kriyā sarvā bhaktyā paramayā mudā .. 50..
कृत्वा न्यासविधिं सम्यक्षडण्गकरयोस्तथा ॥ षडक्षरेण मंत्रेण ततो ध्यानं समाचरेत् १.२०. ॥ ५१॥
कृत्वा न्यास-विधिम् सम्यक् षष्-अण्ग-करयोः तथा ॥ षडक्षरेण मंत्रेण ततस् ध्यानम् समाचरेत्।२०। ॥ ५१॥
kṛtvā nyāsa-vidhim samyak ṣaṣ-aṇga-karayoḥ tathā .. ṣaḍakṣareṇa maṃtreṇa tatas dhyānam samācaret.20. .. 51..
कैलासपीठासनमध्यसंस्थं भक्तैः सनंदादिभिरर्च्यमानम् ॥ भक्तार्तिदावानलमप्रमेयं ध्यायेदुमालिंगितविश्वभूषणम् ॥ ५२॥
कैलास-पीठ-आसन-मध्य-संस्थम् भक्तैः स नंद-आदिभिः अर्च्यमानम् ॥ भक्त-आर्ति-दाव-अनलम् अप्रमेयम् ध्यायेत् उमा-आलिंगित-विश्व-भूषणम् ॥ ५२॥
kailāsa-pīṭha-āsana-madhya-saṃstham bhaktaiḥ sa naṃda-ādibhiḥ arcyamānam .. bhakta-ārti-dāva-analam aprameyam dhyāyet umā-āliṃgita-viśva-bhūṣaṇam .. 52..
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचंद्रा वतंसं रत्नाकल्पोज्ज्वलांगं परशुमृगवराभीतिहस्तं प्रसन्नम् ॥ पद्मासीनं समंतात्स्थितममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पंचवक्त्रं त्रिनेत्रम् ॥ ५३॥
ध्यायेत् नित्यम् महेशम् रजत-गिरि-निभम् चारु-चंद्रा वतंसम् रत्न-आकल्प-उज्ज्वल-अंगम् परशु-मृग-वर-अभीति-हस्तम् प्रसन्नम् ॥ पद्म-आसीनम् समंतात् स्थितम् अमर-गणैः व्याघ्र-कृत्तिम् वसानम् विश्व-आद्यम् विश्व-बीजम् निखिल-भय-हरम् पंचवक्त्रम् त्रिनेत्रम् ॥ ५३॥
dhyāyet nityam maheśam rajata-giri-nibham cāru-caṃdrā vataṃsam ratna-ākalpa-ujjvala-aṃgam paraśu-mṛga-vara-abhīti-hastam prasannam .. padma-āsīnam samaṃtāt sthitam amara-gaṇaiḥ vyāghra-kṛttim vasānam viśva-ādyam viśva-bījam nikhila-bhaya-haram paṃcavaktram trinetram .. 53..
इति ध्यात्वा च संपूज्य पार्थिवं लिंगमुत्तमम् ॥ जपेत्पंचाक्षरं मंत्रं गुरुदत्तं यथाविधि ॥ ५४॥
इति ध्यात्वा च संपूज्य पार्थिवम् लिंगम् उत्तमम् ॥ जपेत् पंचाक्षरम् मंत्रम् गुरु-दत्तम् यथाविधि ॥ ५४॥
iti dhyātvā ca saṃpūjya pārthivam liṃgam uttamam .. japet paṃcākṣaram maṃtram guru-dattam yathāvidhi .. 54..
स्तुतिभिश्चैव देवेशं स्तुवीत प्रणमन्सुधीः ॥ नानाभिधाभिर्विप्रेन्द्रा ः! पठेद्वै शतरुद्रि यम् ॥ ५५॥
स्तुतिभिः च एव देवेशम् स्तुवीत प्रणमन् सुधीः ॥ नाना अभिधाभिः विप्र-इन्द्राः! पठेत् वै शतरुद्रि यम् ॥ ५५॥
stutibhiḥ ca eva deveśam stuvīta praṇaman sudhīḥ .. nānā abhidhābhiḥ vipra-indrāḥ! paṭhet vai śatarudri yam .. 55..
ततः साक्षतपुष्पाणि गृहीत्वांजलिना मुदा ॥ प्रार्थयेच्छंकरं भक्त्या मंत्रैरेभिः सुभक्तितः ॥ ५६॥
ततस् स अक्षत-पुष्पाणि गृहीत्वा अंजलिना मुदा ॥ प्रार्थयेत् शंकरम् भक्त्या मंत्रैः एभिः सु भक्तितः ॥ ५६॥
tatas sa akṣata-puṣpāṇi gṛhītvā aṃjalinā mudā .. prārthayet śaṃkaram bhaktyā maṃtraiḥ ebhiḥ su bhaktitaḥ .. 56..
तावकस्त्वद्गुणप्राणस्त्वच्चित्तोहं सदा मृड ॥ कृपानिध इति ज्ञात्वा भूतनाथ प्रसीद मे ॥ ५७॥
तावकः त्वद्-गुण-प्राणः त्वद्-चित्तः उहम् सदा मृड ॥ कृपा-निधे इति ज्ञात्वा भूतनाथ प्रसीद मे ॥ ५७॥
tāvakaḥ tvad-guṇa-prāṇaḥ tvad-cittaḥ uham sadā mṛḍa .. kṛpā-nidhe iti jñātvā bhūtanātha prasīda me .. 57..
अज्ञानाद्यदि वा ज्ञानाज्जप पूजादिकं मया ॥ कृतं तदस्तु सफलं कृपया तव शंकर ॥ ५८॥
अज्ञानात् यदि वा ज्ञानात् जप पूजा-आदिकम् मया ॥ कृतम् तत् अस्तु सफलम् कृपया तव शंकर ॥ ५८॥
ajñānāt yadi vā jñānāt japa pūjā-ādikam mayā .. kṛtam tat astu saphalam kṛpayā tava śaṃkara .. 58..
अहं पापी महानद्य पावनश्च भवान्महान् ॥ इति विज्ञाय गौरीश यदिच्छसि तथा कुरु ॥ ५९॥
अहम् पापी महान् अद्य पावनः च भवान् महान् ॥ इति विज्ञाय गौरीश यत् इच्छसि तथा कुरु ॥ ५९॥
aham pāpī mahān adya pāvanaḥ ca bhavān mahān .. iti vijñāya gaurīśa yat icchasi tathā kuru .. 59..
वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि ॥ न ज्ञातोसि महादेव कुतोहं त्वं महाशिव ॥ ६०॥
वेदैः पुराणैः सिद्धान्तैः ऋषिभिः विविधैः अपि ॥ न ज्ञातः असि महादेव कुतस् हम् त्वम् महाशिव ॥ ६०॥
vedaiḥ purāṇaiḥ siddhāntaiḥ ṛṣibhiḥ vividhaiḥ api .. na jñātaḥ asi mahādeva kutas ham tvam mahāśiva .. 60..
यथा तथा त्वदीयोस्मि सर्वभावैर्महेश्वर ॥ रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर १.२०. ॥ ६१॥
यथा तथा त्वदीयः अस्मि सर्व-भावैः महेश्वर ॥ रक्षणीयः त्वया अहम् वै प्रसीद परमेश्वर।२०। ॥ ६१॥
yathā tathā tvadīyaḥ asmi sarva-bhāvaiḥ maheśvara .. rakṣaṇīyaḥ tvayā aham vai prasīda parameśvara.20. .. 61..
इत्येवं चाक्षतान्पुष्पानारोप्य च शिवोपरि ॥ प्रणमेद्भक्तितश्शंभुं साष्टांगं विधिवन्मुने ॥ ६२॥
इति एवम् च अक्षतान् पुष्पान् आरोप्य च शिव-उपरि ॥ प्रणमेत् भक्तितः शंभुम् स अष्टांगम् विधिवत् मुने ॥ ६२॥
iti evam ca akṣatān puṣpān āropya ca śiva-upari .. praṇamet bhaktitaḥ śaṃbhum sa aṣṭāṃgam vidhivat mune .. 62..
ततः प्रदक्षिणां कुर्याद्यथोक्तविधिना सुधीः ॥ पुनः स्तुवीत देवेशं स्तुतिभिः श्रद्धयान्वितः ॥ ६३॥
ततस् प्रदक्षिणाम् कुर्यात् यथा उक्त-विधिना सुधीः ॥ पुनर् स्तुवीत देवेशम् स्तुतिभिः श्रद्धया अन्वितः ॥ ६३॥
tatas pradakṣiṇām kuryāt yathā ukta-vidhinā sudhīḥ .. punar stuvīta deveśam stutibhiḥ śraddhayā anvitaḥ .. 63..
ततो गलरवं कृत्वा प्रणमेच्छुचिनम्रधीः ॥ कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत् ॥ ६४॥
ततस् गल-रवम् कृत्वा प्रणमेत् शुचि-नम्र-धीः ॥ कुर्यात् विज्ञप्तिम् आदृत्य विसर्जनम् अथ आचरेत् ॥ ६४॥
tatas gala-ravam kṛtvā praṇamet śuci-namra-dhīḥ .. kuryāt vijñaptim ādṛtya visarjanam atha ācaret .. 64..
इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः ॥ भुक्तिदा मुक्तिदा चैव शिवभक्तिविवर्धिनी ॥ ६५॥
इति उक्ता मुनि-शार्दूलाः पार्थिव-अर्चा विधानतः ॥ भुक्ति-दा मुक्ति-दा च एव शिव-भक्ति-विवर्धिनी ॥ ६५॥
iti uktā muni-śārdūlāḥ pārthiva-arcā vidhānataḥ .. bhukti-dā mukti-dā ca eva śiva-bhakti-vivardhinī .. 65..
इत्यध्यायं सुचित्तेन यः पठेच्छृणुयादपि ॥ सर्वपापविशुद्धात्मासर्वान्कामानवाप्नुयात् ॥ ६६॥
इति अध्यायम् सु चित्तेन यः पठेत् शृणुयात् अपि ॥ सर्व-पाप-विशुद्ध-आत्मा सर्वान् कामान् अवाप्नुयात् ॥ ६६॥
iti adhyāyam su cittena yaḥ paṭhet śṛṇuyāt api .. sarva-pāpa-viśuddha-ātmā sarvān kāmān avāpnuyāt .. 66..
आयुरायोग्यदं चैव यशस्यं स्वर्ग्यमेव च ॥ पुत्रपौत्रादिसुखदमाख्यानमिदमुत्तमम् ॥ ६७॥
आयुः आयोग्य-दम् च एव यशस्यम् स्वर्ग्यम् एव च ॥ पुत्र-पौत्र-आदि-सुख-दम् आख्यानम् इदम् उत्तमम् ॥ ६७॥
āyuḥ āyogya-dam ca eva yaśasyam svargyam eva ca .. putra-pautra-ādi-sukha-dam ākhyānam idam uttamam .. 67..
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवशिवलिंगपूजाविधिवर्णनं नाम विंशोऽध्यायः ॥ ६८॥
इति श्री-शिवमहापुराणे विद्येश्वरसंहितायाम् साध्यसाधन-खण्डे पार्थिवशिवलिंगपूजाविधिवर्णनम् नाम विंशः अध्यायः ॥ ६८॥
iti śrī-śivamahāpurāṇe vidyeśvarasaṃhitāyām sādhyasādhana-khaṇḍe pārthivaśivaliṃgapūjāvidhivarṇanam nāma viṃśaḥ adhyāyaḥ .. 68..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In