This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥३-४३॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे त्रिचत्वारिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe tricatvāriṃśaḥ sargaḥ ..3..
सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती । हेमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम्॥ १॥
सा तम् सम्प्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती । हेम-राजत-वर्णाभ्याम् पार्श्वाभ्याम् उपशोभितम्॥ १॥
sā tam samprekṣya suśroṇī kusumāni vicinvatī . hema-rājata-varṇābhyām pārśvābhyām upaśobhitam.. 1..
प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी । भर्तारमपि चक्रन्द लक्ष्मणं चैव सायुधम्॥ २॥
प्रहृष्टा च अनवद्य-अङ्गी मृष्ट-हाटक-वर्णिनी । भर्तारम् अपि चक्रन्द लक्ष्मणम् च एव स आयुधम्॥ २॥
prahṛṣṭā ca anavadya-aṅgī mṛṣṭa-hāṭaka-varṇinī . bhartāram api cakranda lakṣmaṇam ca eva sa āyudham.. 2..
आहूयाहूय च पुनस्तं मृगं साधु वीक्षते । आगच्छागच्छ शीघ्रं वै आर्यपुत्र सहानुज॥ ३॥
आहूय आहूय च पुनर् तम् मृगम् साधु वीक्षते । आगच्छ आगच्छ शीघ्रम् वै आर्यपुत्र सहानुज॥ ३॥
āhūya āhūya ca punar tam mṛgam sādhu vīkṣate . āgaccha āgaccha śīghram vai āryaputra sahānuja.. 3..
तावाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ । वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम्॥ ४॥
तौ आहूतौ नर-व्याघ्रौ वैदेह्याः राम-लक्ष्मणौ । वीक्षमाणौ तु तम् देशम् तदा ददृशतुः मृगम्॥ ४॥
tau āhūtau nara-vyāghrau vaidehyāḥ rāma-lakṣmaṇau . vīkṣamāṇau tu tam deśam tadā dadṛśatuḥ mṛgam.. 4..
शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो वाक्यमब्रवीत् । तमेवैनमहं मन्ये मारीचं राक्षसं मृगम्॥ ५॥
शङ्कमानः तु तम् दृष्ट्वा लक्ष्मणः वाक्यम् अब्रवीत् । तम् एव एनम् अहम् मन्ये मारीचम् राक्षसम् मृगम्॥ ५॥
śaṅkamānaḥ tu tam dṛṣṭvā lakṣmaṇaḥ vākyam abravīt . tam eva enam aham manye mārīcam rākṣasam mṛgam.. 5..
चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने । अनेन निहता राम राजानः कामरूपिणा॥ ६॥
चरन्तः मृगयाम् हृष्टाः पापेन उपाधिना वने । अनेन निहताः राम राजानः कामरूपिणा॥ ६॥
carantaḥ mṛgayām hṛṣṭāḥ pāpena upādhinā vane . anena nihatāḥ rāma rājānaḥ kāmarūpiṇā.. 6..
अस्य मायाविदो माया मृगरूपमिदं कृतम् । भानुमत् पुरुषव्याघ्र गन्धर्वपुरसंनिभम्॥ ७॥
अस्य माया-विदः माया मृग-रूपम् इदम् कृतम् । भानुमत् पुरुष-व्याघ्र गन्धर्व-पुर-संनिभम्॥ ७॥
asya māyā-vidaḥ māyā mṛga-rūpam idam kṛtam . bhānumat puruṣa-vyāghra gandharva-pura-saṃnibham.. 7..
मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव । जगत्यां जगतीनाथ मायैषा हि न संशयः॥ ८॥
मृगः हि एवंविधः रत्न-विचित्रः ना अस्ति राघव । जगत्याम् जगती-नाथ माया एषा हि न संशयः॥ ८॥
mṛgaḥ hi evaṃvidhaḥ ratna-vicitraḥ nā asti rāghava . jagatyām jagatī-nātha māyā eṣā hi na saṃśayaḥ.. 8..
एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता । उवाच सीता संहृष्टा छद्मना हृतचेतना॥ ९॥
एवम् ब्रुवाणम् काकुत्स्थम् प्रतिवार्य शुचि-स्मिता । उवाच सीता संहृष्टा छद्मना हृत-चेतना॥ ९॥
evam bruvāṇam kākutstham prativārya śuci-smitā . uvāca sītā saṃhṛṣṭā chadmanā hṛta-cetanā.. 9..
आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः । आनयैनं महाबाहो क्रीडार्थं नो भविष्यति॥ १०॥
आर्य-पुत्र-अभिरामः असौ मृगः हरति मे मनः । आनय एनम् महा-बाहो क्रीडा-अर्थम् नः भविष्यति॥ १०॥
ārya-putra-abhirāmaḥ asau mṛgaḥ harati me manaḥ . ānaya enam mahā-bāho krīḍā-artham naḥ bhaviṣyati.. 10..
इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः । मृगाश्चरन्ति सहिताश्चमराः सृमरास्तथा॥ ११॥
इह आश्रम-पदे अस्माकम् बहवः पुण्य-दर्शनाः । मृगाः चरन्ति सहिताः चमराः सृमराः तथा॥ ११॥
iha āśrama-pade asmākam bahavaḥ puṇya-darśanāḥ . mṛgāḥ caranti sahitāḥ camarāḥ sṛmarāḥ tathā.. 11..
ऋक्षाः पृषतसङ्घाश्च वानराः किन्नरास्तथा । विहरन्ति महाबाहो रूपश्रेष्ठा महाबलाः॥ १२॥
ऋक्षाः पृषत-सङ्घाः च वानराः किन्नराः तथा । विहरन्ति महा-बाहो रूप-श्रेष्ठाः महा-बलाः॥ १२॥
ṛkṣāḥ pṛṣata-saṅghāḥ ca vānarāḥ kinnarāḥ tathā . viharanti mahā-bāho rūpa-śreṣṭhāḥ mahā-balāḥ.. 12..
न चान्यः सदृशो राजन् दृष्टः पूर्वं मृगो मया । तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः॥ १३॥
न च अन्यः सदृशः राजन् दृष्टः पूर्वम् मृगः मया । तेजसा क्षमया दीप्त्या यथा अयम् मृग-सत्तमः॥ १३॥
na ca anyaḥ sadṛśaḥ rājan dṛṣṭaḥ pūrvam mṛgaḥ mayā . tejasā kṣamayā dīptyā yathā ayam mṛga-sattamaḥ.. 13..
नानावर्णविचित्राङ्गो रत्नभूतो ममाग्रतः । द्योतयन् वनमव्यग्रं शोभते शशिसंनिभः॥ १४॥
नाना वर्ण-विचित्र-अङ्गः रत्न-भूतः मम अग्रतस् । द्योतयन् वनम् अव्यग्रम् शोभते शशि-संनिभः॥ १४॥
nānā varṇa-vicitra-aṅgaḥ ratna-bhūtaḥ mama agratas . dyotayan vanam avyagram śobhate śaśi-saṃnibhaḥ.. 14..
अहो रूपमहो लक्ष्मीः स्वरसम्पच्च शोभना । मृगोऽद्भुतो विचित्राङ्गो हृदयं हरतीव मे॥ १५॥
अहो रूपम् अहो लक्ष्मीः स्वर-सम्पद् च शोभना । मृगः अद्भुतः विचित्र-अङ्गः हृदयम् हरति इव मे॥ १५॥
aho rūpam aho lakṣmīḥ svara-sampad ca śobhanā . mṛgaḥ adbhutaḥ vicitra-aṅgaḥ hṛdayam harati iva me.. 15..
यदि ग्रहणमभ्येति जीवन् नेव मृगस्तव । आश्चर्यभूतं भवति विस्मयं जनयिष्यति॥ १६॥
यदि ग्रहणम् अभ्येति जीवन् ना इव मृगः तव । आश्चर्य-भूतम् भवति विस्मयम् जनयिष्यति॥ १६॥
yadi grahaṇam abhyeti jīvan nā iva mṛgaḥ tava . āścarya-bhūtam bhavati vismayam janayiṣyati.. 16..
समाप्तवनवासानां राज्यस्थानां च नः पुनः । अन्तःपुरे विभूषार्थो मृग एष भविष्यति॥ १७॥
समाप्त-वन-वासानाम् राज्य-स्थानाम् च नः पुनर् । अन्तःपुरे विभूषा-अर्थः मृगः एष भविष्यति॥ १७॥
samāpta-vana-vāsānām rājya-sthānām ca naḥ punar . antaḥpure vibhūṣā-arthaḥ mṛgaḥ eṣa bhaviṣyati.. 17..
भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो । मृगरूपमिदं दिव्यं विस्मयं जनयिष्यति॥ १८॥
भरतस्य अर्य-पुत्रस्य श्वश्रूणाम् मम च प्रभो । मृग-रूपम् इदम् दिव्यम् विस्मयम् जनयिष्यति॥ १८॥
bharatasya arya-putrasya śvaśrūṇām mama ca prabho . mṛga-rūpam idam divyam vismayam janayiṣyati.. 18..
जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः । अजिनं नरशार्दूल रुचिरं तु भविष्यति॥ १९॥
जीवन् न यदि ते अभ्येति ग्रहणम् मृग-सत्तमः । अजिनम् नर-शार्दूल रुचिरम् तु भविष्यति॥ १९॥
jīvan na yadi te abhyeti grahaṇam mṛga-sattamaḥ . ajinam nara-śārdūla ruciram tu bhaviṣyati.. 19..
निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि । शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम्॥ २०॥
निहतस्य अस्य सत्त्वस्य जाम्बूनद-मय-त्वचि । शष्पबृस्याम् विनीतायाम् इच्छामि अहम् उपासितुम्॥ २०॥
nihatasya asya sattvasya jāmbūnada-maya-tvaci . śaṣpabṛsyām vinītāyām icchāmi aham upāsitum.. 20..
कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् । वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम॥ २१॥
काम-वृत्तम् इदम् रौद्रम् स्त्रीणाम् असदृशम् मतम् । वपुषा तु अस्य सत्त्वस्य विस्मयः जनितः मम॥ २१॥
kāma-vṛttam idam raudram strīṇām asadṛśam matam . vapuṣā tu asya sattvasya vismayaḥ janitaḥ mama.. 21..
तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा । तरुणादित्यवर्णेन नक्षत्रपथवर्चसा॥ २२॥
तेन काञ्चन-रोम्णा तु मणि-प्रवर-शृङ्गिणा । तरुण-आदित्य-वर्णेन नक्षत्र-पथ-वर्चसा॥ २२॥
tena kāñcana-romṇā tu maṇi-pravara-śṛṅgiṇā . taruṇa-āditya-varṇena nakṣatra-patha-varcasā.. 22..
बभूव राघवस्यापि मनो विस्मयमागतम् । इति सीतावचः श्रुत्वा दृष्ट्वा च मृगमद्भुतम्॥ २३॥
बभूव राघवस्य अपि मनः विस्मयम् आगतम् । इति सीता-वचः श्रुत्वा दृष्ट्वा च मृगम् अद्भुतम्॥ २३॥
babhūva rāghavasya api manaḥ vismayam āgatam . iti sītā-vacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam.. 23..
लोभितस्तेन रूपेण सीतया च प्रचोदितः । उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः॥ २४॥
लोभितः तेन रूपेण सीतया च प्रचोदितः । उवाच राघवः हृष्टः भ्रातरम् लक्ष्मणम् वचः॥ २४॥
lobhitaḥ tena rūpeṇa sītayā ca pracoditaḥ . uvāca rāghavaḥ hṛṣṭaḥ bhrātaram lakṣmaṇam vacaḥ.. 24..
पश्य लक्ष्मण वैदेह्याः स्पृहामुल्लसितामिमाम् । रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति॥ २५॥
पश्य लक्ष्मण वैदेह्याः स्पृहाम् उल्लसिताम् इमाम् । रूप-श्रेष्ठ-तया हि एष मृगः अद्य न भविष्यति॥ २५॥
paśya lakṣmaṇa vaidehyāḥ spṛhām ullasitām imām . rūpa-śreṣṭha-tayā hi eṣa mṛgaḥ adya na bhaviṣyati.. 25..
न वने नन्दनोद्देशे न चैत्ररथसंश्रये । कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित् समो मृगः॥ २६॥
न वने नन्दन-उद्देशे न चैत्ररथ-संश्रये । कुतस् पृथिव्याम् सौमित्रे यः अस्य कश्चिद् समः मृगः॥ २६॥
na vane nandana-uddeśe na caitraratha-saṃśraye . kutas pṛthivyām saumitre yaḥ asya kaścid samaḥ mṛgaḥ.. 26..
प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः । शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः॥ २७॥
प्रतिलोम-अनुलोमाः च रुचिराः रोमराजयः । शोभन्ते मृगम् आश्रित्य चित्राः कनक-बिन्दुभिः॥ २७॥
pratiloma-anulomāḥ ca rucirāḥ romarājayaḥ . śobhante mṛgam āśritya citrāḥ kanaka-bindubhiḥ.. 27..
पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम् । जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम्॥ २८॥
पश्य अस्य जृम्भमाणस्य दीप्ताम् अग्नि-शिखा-उपमाम् । जिह्वाम् मुखात् निःसरन्तीम् मेघात् इव शतह्रदाम्॥ २८॥
paśya asya jṛmbhamāṇasya dīptām agni-śikhā-upamām . jihvām mukhāt niḥsarantīm meghāt iva śatahradām.. 28..
मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः । कस्य नामानिरूप्योऽसौ न मनो लोभयेन्मृगः॥ २९॥
। कस्य नाम अनिरूप्यः असौ न मनः लोभयेत् मृगः॥ २९॥
. kasya nāma anirūpyaḥ asau na manaḥ lobhayet mṛgaḥ.. 29..
कस्य रूपमिदं दृष्ट्वा जाम्बूनदमयप्रभम् । नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत्॥ ३०॥
कस्य रूपम् इदम् दृष्ट्वा जाम्बूनद-मय-प्रभम् । नाना रत्न-मयम् दिव्यम् न मनः विस्मयम् व्रजेत्॥ ३०॥
kasya rūpam idam dṛṣṭvā jāmbūnada-maya-prabham . nānā ratna-mayam divyam na manaḥ vismayam vrajet.. 30..
मांसहेतोरपि मृगान् विहारार्थं च धन्विनः । घ्नन्ति लक्ष्मण राजानो मृगयायां महावने॥ ३१॥
मांस-हेतोः अपि मृगान् विहार-अर्थम् च धन्विनः । घ्नन्ति लक्ष्मण राजानः मृगयायाम् महा-वने॥ ३१॥
māṃsa-hetoḥ api mṛgān vihāra-artham ca dhanvinaḥ . ghnanti lakṣmaṇa rājānaḥ mṛgayāyām mahā-vane.. 31..
धनानि व्यवसायेन विचीयन्ते महावने । धातवो विविधाश्चापि मणिरत्नसुवर्णिनः॥ ३२॥
धनानि व्यवसायेन विचीयन्ते महा-वने । धातवः विविधाः च अपि मणि-रत्न-सुवर्णिनः॥ ३२॥
dhanāni vyavasāyena vicīyante mahā-vane . dhātavaḥ vividhāḥ ca api maṇi-ratna-suvarṇinaḥ.. 32..
तत् सारमखिलं नॄणां धनं निचयवर्धनम् । मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण॥ ३३॥
तत् सारम् अखिलम् नॄणाम् धनम् निचय-वर्धनम् । मनसा चिन्तितम् सर्वम् यथा शुक्रस्य लक्ष्मण॥ ३३॥
tat sāram akhilam nṝṇām dhanam nicaya-vardhanam . manasā cintitam sarvam yathā śukrasya lakṣmaṇa.. 33..
अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् । तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याः सुलक्ष्मण॥ ३४॥
अर्थी येन अर्थ-कृत्येन संव्रजति अ विचारयन् । तम् अर्थम् अर्थ-शास्त्र-ज्ञाः प्राहुः अर्थ्याः सु लक्ष्मण॥ ३४॥
arthī yena artha-kṛtyena saṃvrajati a vicārayan . tam artham artha-śāstra-jñāḥ prāhuḥ arthyāḥ su lakṣmaṇa.. 34..
एतस्य मृगरत्नस्य परार्घ्ये काञ्चनत्वचि । उपवेक्ष्यति वैदेही मया सह सुमध्यमा॥ ३५॥
एतस्य मृग-रत्नस्य पर-अर्घ्ये काञ्चन-त्वचि । उपवेक्ष्यति वैदेही मया सह सुमध्यमा॥ ३५॥
etasya mṛga-ratnasya para-arghye kāñcana-tvaci . upavekṣyati vaidehī mayā saha sumadhyamā.. 35..
न कादली न प्रियकी न प्रवेणी न चाविकी । भवेदेतस्य सदृशी स्पर्शेऽनेनेति मे मतिः॥ ३६॥
न कादली न प्रियकी न प्रवेणी न च आविकी । भवेत् एतस्य सदृशी स्पर्शे अनेन इति मे मतिः॥ ३६॥
na kādalī na priyakī na praveṇī na ca āvikī . bhavet etasya sadṛśī sparśe anena iti me matiḥ.. 36..
एष चैव मृगः श्रीमान् यश्च दिव्यो नभश्चरः । उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ॥ ३७॥
एष च एव मृगः श्रीमान् यः च दिव्यः नभश्चरः । उभौ एतौ मृगौ दिव्यौ तारामृग-महीमृगौ॥ ३७॥
eṣa ca eva mṛgaḥ śrīmān yaḥ ca divyaḥ nabhaścaraḥ . ubhau etau mṛgau divyau tārāmṛga-mahīmṛgau.. 37..
यदि वायं तथा यन्मां भवेद् वदसि लक्ष्मण । मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया॥ ३८॥
यदि वा अयम् तथा यत् माम् भवेत् वदसि लक्ष्मण । माया एषा राक्षसस्य इति कर्तव्यः अस्य वधः मया॥ ३८॥
yadi vā ayam tathā yat mām bhavet vadasi lakṣmaṇa . māyā eṣā rākṣasasya iti kartavyaḥ asya vadhaḥ mayā.. 38..
एतेन हि नृशंसेन मारीचेनाकृतात्मना । वने विचरता पूर्वं हिंसिता मुनिपुंगवाः॥ ३९॥
एतेन हि नृशंसेन मारीचेन अकृतात्मना । वने विचरता पूर्वम् हिंसिताः मुनि-पुंगवाः॥ ३९॥
etena hi nṛśaṃsena mārīcena akṛtātmanā . vane vicaratā pūrvam hiṃsitāḥ muni-puṃgavāḥ.. 39..
उत्थाय बहवोऽनेन मृगयायां जनाधिपाः । निहताः परमेष्वासास्तस्माद् वध्यस्त्वयं मृगः॥ ४०॥
उत्थाय बहवः अनेन मृगयायाम् जनाधिपाः । निहताः परम-इष्वासाः तस्मात् वध्यः तु अयम् मृगः॥ ४०॥
utthāya bahavaḥ anena mṛgayāyām janādhipāḥ . nihatāḥ parama-iṣvāsāḥ tasmāt vadhyaḥ tu ayam mṛgaḥ.. 40..
पुरस्तादिह वातापिः परिभूय तपस्विनः । उदरस्थो द्विजान् हन्ति स्वगर्भोऽश्वतरीमिव॥ ४१॥
पुरस्तात् इह वातापिः परिभूय तपस्विनः । उदर-स्थः द्विजान् हन्ति स्व-गर्भः अश्वतरीम् इव॥ ४१॥
purastāt iha vātāpiḥ paribhūya tapasvinaḥ . udara-sthaḥ dvijān hanti sva-garbhaḥ aśvatarīm iva.. 41..
स कदाचिच्चिराल्लोभादाससाद महामुनिम् । अगस्त्यं तेजसा युक्तं भक्ष्यस्तस्य बभूव ह॥ ४२॥
स कदाचिद् चिरात् लोभात् आससाद महा-मुनिम् । अगस्त्यम् तेजसा युक्तम् भक्ष्यः तस्य बभूव ह॥ ४२॥
sa kadācid cirāt lobhāt āsasāda mahā-munim . agastyam tejasā yuktam bhakṣyaḥ tasya babhūva ha.. 42..
समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तम् । उत्स्मयित्वा तु भगवान् वातापिमिदमब्रवीत्॥ ४३॥
समुत्थाने च तद्-रूपम् कर्तु-कामम् समीक्ष्य तम् । उत्स्मयित्वा तु भगवान् वातापिम् इदम् अब्रवीत्॥ ४३॥
samutthāne ca tad-rūpam kartu-kāmam samīkṣya tam . utsmayitvā tu bhagavān vātāpim idam abravīt.. 43..
त्वयाविगण्य वातापे परिभूताश्च तेजसा । जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः॥ ४४॥
त्वया अ विगण्य वात-आपे परिभूताः च तेजसा । जीव-लोके द्विजश्रेष्ठाः तस्मात् असि जराम् गतः॥ ४४॥
tvayā a vigaṇya vāta-āpe paribhūtāḥ ca tejasā . jīva-loke dvijaśreṣṭhāḥ tasmāt asi jarām gataḥ.. 44..
तद् रक्षो न भवेदेव वातापिरिव लक्ष्मण । मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम्॥ ४५॥
तत् रक्षः न भवेत् एव वातापिः इव लक्ष्मण । मद्विधम् यः अतिमन्येत धर्म-नित्यम् जित-इन्द्रियम्॥ ४५॥
tat rakṣaḥ na bhavet eva vātāpiḥ iva lakṣmaṇa . madvidham yaḥ atimanyeta dharma-nityam jita-indriyam.. 45..
भवेद्धतोऽयं वातापिरगस्त्येनेव मा गतः । इह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम्॥ ४६॥
भवेत् हतः अयम् वातापिः अगस्त्येन इव मा गतः । इह त्वम् भव संनद्धः यन्त्रितः रक्ष मैथिलीम्॥ ४६॥
bhavet hataḥ ayam vātāpiḥ agastyena iva mā gataḥ . iha tvam bhava saṃnaddhaḥ yantritaḥ rakṣa maithilīm.. 46..
अस्यामायत्तमस्माकं यत् कृत्यं रघुनन्दन । अहमेनं वधिष्यामि ग्रहीष्याम्यथवा मृगम्॥ ४७॥
अस्याम् आयत्तम् अस्माकम् यत् कृत्यम् रघुनन्दन । अहम् एनम् वधिष्यामि ग्रहीष्यामि अथवा मृगम्॥ ४७॥
asyām āyattam asmākam yat kṛtyam raghunandana . aham enam vadhiṣyāmi grahīṣyāmi athavā mṛgam.. 47..
यावद् गच्छामि सौमित्रे मृगमानयितुं द्रुतम् । पश्य लक्ष्मण वैदेह्या मृगत्वचि गतां स्पृहाम्॥ ४८॥
यावत् गच्छामि सौमित्रे मृगम् आनयितुम् द्रुतम् । पश्य लक्ष्मण वैदेह्याः मृग-त्वचि गताम् स्पृहाम्॥ ४८॥
yāvat gacchāmi saumitre mṛgam ānayitum drutam . paśya lakṣmaṇa vaidehyāḥ mṛga-tvaci gatām spṛhām.. 48..
त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति । अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया॥ ४९॥
त्वचा प्रधानया हि एष मृगः अद्य न भविष्यति । अप्रमत्तेन ते भाव्यम् आश्रम-स्थेन सीतया॥ ४९॥
tvacā pradhānayā hi eṣa mṛgaḥ adya na bhaviṣyati . apramattena te bhāvyam āśrama-sthena sītayā.. 49..
यावत् पृषतमेकेन सायकेन निहन्म्यहम् । हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण॥ ५०॥
यावत् पृषतम् एकेन सायकेन निहन्मि अहम् । हत्वा एतत् चर्म च आदाय शीघ्रम् एष्यामि लक्ष्मण॥ ५०॥
yāvat pṛṣatam ekena sāyakena nihanmi aham . hatvā etat carma ca ādāya śīghram eṣyāmi lakṣmaṇa.. 50..
प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण । भवाप्रमत्तः प्रतिगृह्य मैथिलीं प्रतिक्षणं सर्वत एव शङ्कितः॥ ५१॥
प्रदक्षिणेन अतिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण । भव अप्रमत्तः प्रतिगृह्य मैथिलीम् प्रतिक्षणम् सर्वतस् एव शङ्कितः॥ ५१॥
pradakṣiṇena atibalena pakṣiṇā jaṭāyuṣā buddhimatā ca lakṣmaṇa . bhava apramattaḥ pratigṛhya maithilīm pratikṣaṇam sarvatas eva śaṅkitaḥ.. 51..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥३-४३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे त्रिचत्वारिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe tricatvāriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In