This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकपञ्चाशः सर्गः ॥३-५१॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे एकपञ्चाशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ekapañcāśaḥ sargaḥ ..3..
इत्युक्तः क्रोधताम्राक्षस्तप्तकाञ्चनकुण्डलः । राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः॥ १॥
इति उक्तः क्रोध-ताम्र-अक्षः तप्त-काञ्चन-कुण्डलः । राक्षस-इन्द्रः अभिदुद्राव पतग-इन्द्रम् अमर्षणः॥ १॥
iti uktaḥ krodha-tāmra-akṣaḥ tapta-kāñcana-kuṇḍalaḥ . rākṣasa-indraḥ abhidudrāva pataga-indram amarṣaṇaḥ.. 1..
स सम्प्रहारस्तुमुलस्तयोस्तस्मिन् महामृधे । बभूव वातोद्धुतयोर्मेघयोर्गगने यथा॥ २॥
स सम्प्रहारः तुमुलः तयोः तस्मिन् महा-मृधे । बभूव वात-उद्धुतयोः मेघयोः गगने यथा॥ २॥
sa samprahāraḥ tumulaḥ tayoḥ tasmin mahā-mṛdhe . babhūva vāta-uddhutayoḥ meghayoḥ gagane yathā.. 2..
तद् बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा । सपक्षयोर्माल्यवतोर्महापर्वतयोरिव॥ ३॥
तत् बभूव अद्भुतम् युद्धम् गृध्र-राक्षसयोः तदा । सपक्षयोः माल्यवतोः महा-पर्वतयोः इव॥ ३॥
tat babhūva adbhutam yuddham gṛdhra-rākṣasayoḥ tadā . sapakṣayoḥ mālyavatoḥ mahā-parvatayoḥ iva.. 3..
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः । अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलम्॥ ४॥
ततस् नालीक-नाराचैः तीक्ष्ण-अग्रैः च विकर्णिभिः । अभ्यवर्षत् महा-घोरैः गृध्र-राजम् महा-बलम्॥ ४॥
tatas nālīka-nārācaiḥ tīkṣṇa-agraiḥ ca vikarṇibhiḥ . abhyavarṣat mahā-ghoraiḥ gṛdhra-rājam mahā-balam.. 4..
स तानि शरजालानि गृध्रः पत्ररथेश्वरः । जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे॥ ५॥
स तानि शर-जालानि गृध्रः पत्ररथ-ईश्वरः । जटायुः प्रतिजग्राह रावण-अस्त्राणि संयुगे॥ ५॥
sa tāni śara-jālāni gṛdhraḥ patraratha-īśvaraḥ . jaṭāyuḥ pratijagrāha rāvaṇa-astrāṇi saṃyuge.. 5..
तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः । चकार बहुधा गात्रे व्रणान् पतगसत्तमः॥ ६॥
तस्य तीक्ष्ण-नखाभ्याम् तु चरणाभ्याम् महा-बलः । चकार बहुधा गात्रे व्रणान् पतग-सत्तमः॥ ६॥
tasya tīkṣṇa-nakhābhyām tu caraṇābhyām mahā-balaḥ . cakāra bahudhā gātre vraṇān pataga-sattamaḥ.. 6..
अथ क्रोधाद् दशग्रीवो जग्राह दश मार्गणान् । मृत्युदण्डनिभान् घोरान् शत्रोर्निधनकांक्षया॥ ७॥
अथ क्रोधात् दशग्रीवः जग्राह दश मार्गणान् । मृत्यु-दण्ड-निभान् घोरान् शत्रोः निधन-कांक्षया॥ ७॥
atha krodhāt daśagrīvaḥ jagrāha daśa mārgaṇān . mṛtyu-daṇḍa-nibhān ghorān śatroḥ nidhana-kāṃkṣayā.. 7..
स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः । बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैः शिलीमुखैः॥ ८॥
स तैः बाणैः महा-वीर्यः पूर्ण-मुक्तैः अजिह्मगैः । बिभेद निशितैः तीक्ष्णैः गृध्रम् घोरैः शिलीमुखैः॥ ८॥
sa taiḥ bāṇaiḥ mahā-vīryaḥ pūrṇa-muktaiḥ ajihmagaiḥ . bibheda niśitaiḥ tīkṣṇaiḥ gṛdhram ghoraiḥ śilīmukhaiḥ.. 8..
स राक्षसरथे पश्यञ्जानकीं बाष्पलोचनाम् । अचिन्तयित्वा बाणांस्तान् राक्षसं समभिद्रवत्॥ ९॥
स राक्षस-रथे पश्यन् जानकीम् बाष्प-लोचनाम् । अ चिन्तयित्वा बाणान् तान् राक्षसम् समभिद्रवत्॥ ९॥
sa rākṣasa-rathe paśyan jānakīm bāṣpa-locanām . a cintayitvā bāṇān tān rākṣasam samabhidravat.. 9..
ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् । चरणाभ्यां महातेजा बभञ्ज पतगोत्तमः॥ १०॥
ततस् अस्य स शरम् चापम् मुक्तामणि-विभूषितम् । चरणाभ्याम् महा-तेजाः बभञ्ज पतग-उत्तमः॥ १०॥
tatas asya sa śaram cāpam muktāmaṇi-vibhūṣitam . caraṇābhyām mahā-tejāḥ babhañja pataga-uttamaḥ.. 10..
ततोऽन्यद् धनुरादाय रावणः क्रोधमूर्च्छितः । ववर्ष शरवर्षाणि शतशोऽथ सहस्रशः॥ ११॥
ततस् अन्यत् धनुः आदाय रावणः क्रोध-मूर्च्छितः । ववर्ष शर-वर्षाणि शतशस् अथ सहस्रशस्॥ ११॥
tatas anyat dhanuḥ ādāya rāvaṇaḥ krodha-mūrcchitaḥ . vavarṣa śara-varṣāṇi śataśas atha sahasraśas.. 11..
शरैरावारितस्तस्य संयुगे पतगेश्वरः । कुलायमभिसम्प्राप्तः पक्षिवच्च बभौ तदा॥ १२॥
शरैः आवारितः तस्य संयुगे पतग-ईश्वरः । कुलायम् अभिसम्प्राप्तः पक्षि-वत् च बभौ तदा॥ १२॥
śaraiḥ āvāritaḥ tasya saṃyuge pataga-īśvaraḥ . kulāyam abhisamprāptaḥ pakṣi-vat ca babhau tadā.. 12..
स तानि शरजालानि पक्षाभ्यां तु विधूय ह । चरणाभ्यां महातेजा बभञ्जास्य महद् धनुः॥ १३॥
स तानि शर-जालानि पक्षाभ्याम् तु विधूय ह । चरणाभ्याम् महा-तेजाः बभञ्ज अस्य महत् धनुः॥ १३॥
sa tāni śara-jālāni pakṣābhyām tu vidhūya ha . caraṇābhyām mahā-tejāḥ babhañja asya mahat dhanuḥ.. 13..
तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् । पक्षाभ्यां च महातेजा व्यधुनोत् पतगेश्वरः॥ १४॥
तत् च अग्नि-सदृशम् दीप्तम् रावणस्य शरावरम् । पक्षाभ्याम् च महा-तेजाः व्यधुनोत् पतग-ईश्वरः॥ १४॥
tat ca agni-sadṛśam dīptam rāvaṇasya śarāvaram . pakṣābhyām ca mahā-tejāḥ vyadhunot pataga-īśvaraḥ.. 14..
काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान् । तांश्चास्य जवसम्पन्नाञ्जघान समरे बली॥ १५॥
काञ्चन-उरश्छदान् दिव्यान् पिशाच-वदनान् खरान् । तान् च अस्य जव-सम्पन्नान् जघान समरे बली॥ १५॥
kāñcana-uraśchadān divyān piśāca-vadanān kharān . tān ca asya java-sampannān jaghāna samare balī.. 15..
अथ त्रिवेणुसम्पन्नं कामगं पावकार्चिषम् । मणिसोपानचित्राङ्गं बभञ्ज च महारथम्॥ १६॥
अथ त्रिवेणु-सम्पन्नम् काम-गम् । मणि-सोपान-चित्र-अङ्गम् बभञ्ज च महा-रथम्॥ १६॥
atha triveṇu-sampannam kāma-gam . maṇi-sopāna-citra-aṅgam babhañja ca mahā-ratham.. 16..
पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह । पातयामास वेगेन ग्राहिभी राक्षसैः सह॥ १७॥
पूर्ण-चन्द्र-प्रतीकाशम् छत्रम् च व्यजनैः सह । पातयामास वेगेन ग्राहिभिः राक्षसैः सह॥ १७॥
pūrṇa-candra-pratīkāśam chatram ca vyajanaiḥ saha . pātayāmāsa vegena grāhibhiḥ rākṣasaiḥ saha.. 17..
सारथेश्चास्य वेगेन तुण्डेन च महच्छिरः । पुनर्व्यपहनच्छ्रीमान् पक्षिराजो महाबलः॥ १८॥
सारथेः च अस्य वेगेन तुण्डेन च महत् शिरः । पुनर् व्यपहनत् श्रीमान् पक्षिराजः महा-बलः॥ १८॥
sāratheḥ ca asya vegena tuṇḍena ca mahat śiraḥ . punar vyapahanat śrīmān pakṣirājaḥ mahā-balaḥ.. 18..
स भग्नधन्वा विरथो हताश्वो हतसारथिः । अङ्केनादाय वैदेहीं पपात भुवि रावणः॥ १९॥
स भग्नधन्वा विरथः हत-अश्वः हत-सारथिः । अङ्केन आदाय वैदेहीम् पपात भुवि रावणः॥ १९॥
sa bhagnadhanvā virathaḥ hata-aśvaḥ hata-sārathiḥ . aṅkena ādāya vaidehīm papāta bhuvi rāvaṇaḥ.. 19..
दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम् । साधु साध्विति भूतानि गृध्रराजमपूजयन्॥ २०॥
दृष्ट्वा निपतितम् भूमौ रावणम् भग्न-वाहनम् । साधु साधु इति भूतानि गृध्र-राजम् अपूजयन्॥ २०॥
dṛṣṭvā nipatitam bhūmau rāvaṇam bhagna-vāhanam . sādhu sādhu iti bhūtāni gṛdhra-rājam apūjayan.. 20..
परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् । उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः॥ २१॥
परिश्रान्तम् तु तम् दृष्ट्वा जरया पक्षि-यूथपम् । उत्पपात पुनर् हृष्टः मैथिलीम् गृह्य रावणः॥ २१॥
pariśrāntam tu tam dṛṣṭvā jarayā pakṣi-yūthapam . utpapāta punar hṛṣṭaḥ maithilīm gṛhya rāvaṇaḥ.. 21..
तं प्रहृष्टं निधायाङ्के रावणं जनकात्मजाम् । गच्छन्तं खड्गशेषं च प्रणष्टहतसाधनम्॥ २२॥
तम् प्रहृष्टम् निधाय अङ्के रावणम् जनकात्मजाम् । गच्छन्तम् खड्ग-शेषम् च प्रणष्ट-हत-साधनम्॥ २२॥
tam prahṛṣṭam nidhāya aṅke rāvaṇam janakātmajām . gacchantam khaḍga-śeṣam ca praṇaṣṭa-hata-sādhanam.. 22..
गृध्रराजः समुत्पत्य रावणं समभिद्रवत् । समावार्य महातेजा जटायुरिदमब्रवीत्॥ २३॥
गृध्र-राजः समुत्पत्य रावणम् समभिद्रवत् । समावार्य महा-तेजाः जटायुः इदम् अब्रवीत्॥ २३॥
gṛdhra-rājaḥ samutpatya rāvaṇam samabhidravat . samāvārya mahā-tejāḥ jaṭāyuḥ idam abravīt.. 23..
वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण । अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम्॥ २४॥
वज्र-संस्पर्श-बाणस्य भार्याम् रामस्य रावण । अल्पबुद्धे हरसि एनाम् वधाय खलु रक्षसाम्॥ २४॥
vajra-saṃsparśa-bāṇasya bhāryām rāmasya rāvaṇa . alpabuddhe harasi enām vadhāya khalu rakṣasām.. 24..
समित्रबन्धुः सामात्यः सबलः सपरिच्छदः । विषपानं पिबस्येतत् पिपासित इवोदकम्॥ २५॥
स मित्र-बन्धुः स अमात्यः स बलः स परिच्छदः । विष-पानम् पिबसि एतत् पिपासितः इव उदकम्॥ २५॥
sa mitra-bandhuḥ sa amātyaḥ sa balaḥ sa paricchadaḥ . viṣa-pānam pibasi etat pipāsitaḥ iva udakam.. 25..
अनुबन्धमजानन्तः कर्मणामविचक्षणाः । शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि॥ २६॥
अनुबन्धम् अ जानन्तः कर्मणाम् अविचक्षणाः । शीघ्रम् एव विनश्यन्ति यथा त्वम् विनशिष्यसि॥ २६॥
anubandham a jānantaḥ karmaṇām avicakṣaṇāḥ . śīghram eva vinaśyanti yathā tvam vinaśiṣyasi.. 26..
बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे । वधाय बडिशं गृह्य सामिषं जलजो यथा॥ २७॥
बद्धः त्वम् काल-पाशेन क्व गतः तस्य मोक्ष्यसे । वधाय बडिशम् गृह्य स आमिषम् जलजः यथा॥ २७॥
baddhaḥ tvam kāla-pāśena kva gataḥ tasya mokṣyase . vadhāya baḍiśam gṛhya sa āmiṣam jalajaḥ yathā.. 27..
नहि जातु दुराधर्षौ काकुत्स्थौ तव रावण । धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ॥ २८॥
नहि जातु दुराधर्षौ काकुत्स्थौ तव रावण । धर्षणम् च आश्रमस्य अस्य क्षमिष्येते तु राघवौ॥ २८॥
nahi jātu durādharṣau kākutsthau tava rāvaṇa . dharṣaṇam ca āśramasya asya kṣamiṣyete tu rāghavau.. 28..
यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् । तस्कराचरितो मार्गो नैष वीरनिषेवितः॥ २९॥
यथा त्वया कृतम् कर्म भीरुणा लोक-गर्हितम् । तस्कर-आचरितः मार्गः न एष वीर-निषेवितः॥ २९॥
yathā tvayā kṛtam karma bhīruṇā loka-garhitam . taskara-ācaritaḥ mārgaḥ na eṣa vīra-niṣevitaḥ.. 29..
युद्ध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण । शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा॥ ३०॥
युद्ध्यस्व यदि शूरः असि मुहूर्तम् तिष्ठ रावण । शयिष्यसे हतः भूमौ यथा भ्राता खरः तथा॥ ३०॥
yuddhyasva yadi śūraḥ asi muhūrtam tiṣṭha rāvaṇa . śayiṣyase hataḥ bhūmau yathā bhrātā kharaḥ tathā.. 30..
परेतकाले पुरुषो यत् कर्म प्रतिपद्यते । विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत्॥ ३१॥
परेत-काले पुरुषः यत् कर्म प्रतिपद्यते । विनाशाय आत्मनः अधर्म्यम् प्रतिपन्नः असि कर्म तत्॥ ३१॥
pareta-kāle puruṣaḥ yat karma pratipadyate . vināśāya ātmanaḥ adharmyam pratipannaḥ asi karma tat.. 31..
पापानुबन्धो वै यस्य कर्मणः को नु तत् पुमान् । कुर्वीत लोकाधिपतिः स्वयंभूर्भगवानपि॥ ३२॥
पाप-अनुबन्धः वै यस्य कर्मणः कः नु तत् पुमान् । कुर्वीत लोक-अधिपतिः स्वयंभूः भगवान् अपि॥ ३२॥
pāpa-anubandhaḥ vai yasya karmaṇaḥ kaḥ nu tat pumān . kurvīta loka-adhipatiḥ svayaṃbhūḥ bhagavān api.. 32..
एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः । निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान्॥ ३३॥
एवम् उक्त्वा शुभम् वाक्यम् जटायुः तस्य रक्षसः । निपपात भृशम् पृष्ठे दशग्रीवस्य वीर्यवान्॥ ३३॥
evam uktvā śubham vākyam jaṭāyuḥ tasya rakṣasaḥ . nipapāta bhṛśam pṛṣṭhe daśagrīvasya vīryavān.. 33..
तं गृहीत्वा नखैस्तीक्ष्णैर्विददार समन्ततः । अधिरूढो गजारोहो यथा स्याद् दुष्टवारणम्॥ ३४॥
तम् गृहीत्वा नखैः तीक्ष्णैः विददार समन्ततः । अधिरूढः गज-आरोहः यथा स्यात् दुष्ट-वारणम्॥ ३४॥
tam gṛhītvā nakhaiḥ tīkṣṇaiḥ vidadāra samantataḥ . adhirūḍhaḥ gaja-ārohaḥ yathā syāt duṣṭa-vāraṇam.. 34..
विददार नखैरस्य तुण्डं पृष्ठे समर्पयन् । केशांश्चोत्पाटयामास नखपक्षमुखायुधः॥ ३५॥
विददार नखैः अस्य तुण्डम् पृष्ठे समर्पयन् । केशान् च उत्पाटयामास नख-पक्ष-मुख-आयुधः॥ ३५॥
vidadāra nakhaiḥ asya tuṇḍam pṛṣṭhe samarpayan . keśān ca utpāṭayāmāsa nakha-pakṣa-mukha-āyudhaḥ.. 35..
स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः । अमर्षस्फुरितोष्ठः सन् प्राकम्पत च राक्षसः॥ ३६॥
स तथा गृध्र-राजेन क्लिश्यमानः मुहुर् मुहुर् । अमर्ष-स्फुरित-उष्ठः सन् प्राकम्पत च राक्षसः॥ ३६॥
sa tathā gṛdhra-rājena kliśyamānaḥ muhur muhur . amarṣa-sphurita-uṣṭhaḥ san prākampata ca rākṣasaḥ.. 36..
सम्परिष्वज्य वैदेहीं वामेनाङ्केन रावणः । तलेनाभिजघानार्तो जटायुं क्रोधमूर्च्छितः॥ ३७॥
सम्परिष्वज्य वैदेहीम् वामेन अङ्केन रावणः । तलेन अभिजघान आर्तः जटायुम् क्रोध-मूर्च्छितः॥ ३७॥
sampariṣvajya vaidehīm vāmena aṅkena rāvaṇaḥ . talena abhijaghāna ārtaḥ jaṭāyum krodha-mūrcchitaḥ.. 37..
जटायुस्तमतिक्रम्य तुण्डेनास्य खगाधिपः । वामबाहून् दश तदा व्यपाहरदरिंदमः॥ ३८॥
जटायुः तम् अतिक्रम्य तुण्डेन अस्य खग-अधिपः । वाम-बाहून् दश तदा व्यपाहरत् अरिंदमः॥ ३८॥
jaṭāyuḥ tam atikramya tuṇḍena asya khaga-adhipaḥ . vāma-bāhūn daśa tadā vyapāharat ariṃdamaḥ.. 38..
संछिन्नबाहोः सद्यो वै बाहवः सहसाभवन् । विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः॥ ३९॥
संछिन्न-बाहोः सद्यस् वै बाहवः सहसा अभवन् । विष-ज्वाला-आवली-युक्ताः वल्मीकात् इव पन्नगाः॥ ३९॥
saṃchinna-bāhoḥ sadyas vai bāhavaḥ sahasā abhavan . viṣa-jvālā-āvalī-yuktāḥ valmīkāt iva pannagāḥ.. 39..
ततः क्रोधाद् दशग्रीवः सीतामुत्सृज्य वीर्यवान् । मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत्॥ ४०॥
ततस् क्रोधात् दशग्रीवः सीताम् उत्सृज्य वीर्यवान् । मुष्टिभ्याम् चरणाभ्याम् च गृध्र-राजम् अपोथयत्॥ ४०॥
tatas krodhāt daśagrīvaḥ sītām utsṛjya vīryavān . muṣṭibhyām caraṇābhyām ca gṛdhra-rājam apothayat.. 40..
ततो मुहूर्तं संग्रामो बभूवातुलवीर्ययोः । राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च॥ ४१॥
ततस् मुहूर्तम् संग्रामः बभूव अतुल-वीर्ययोः । राक्षसानाम् च मुख्यस्य पक्षिणाम् प्रवरस्य च॥ ४१॥
tatas muhūrtam saṃgrāmaḥ babhūva atula-vīryayoḥ . rākṣasānām ca mukhyasya pakṣiṇām pravarasya ca.. 41..
तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः । पक्षौ पादौ च पार्श्वौ च खड्गमुद्धृत्य सोऽच्छिनत्॥ ४२॥
तस्य व्यायच्छमानस्य रामस्य अर्थे स रावणः । पक्षौ पादौ च पार्श्वौ च खड्गम् उद्धृत्य सः अच्छिनत्॥ ४२॥
tasya vyāyacchamānasya rāmasya arthe sa rāvaṇaḥ . pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya saḥ acchinat.. 42..
स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा । निपपात महागृध्रो धरण्यामल्पजीवितः॥ ४३॥
स छिन्न-पक्षः सहसा रक्षसा रौद्र-कर्मणा । निपपात महा-गृध्रः धरण्याम् अल्प-जीवितः॥ ४३॥
sa chinna-pakṣaḥ sahasā rakṣasā raudra-karmaṇā . nipapāta mahā-gṛdhraḥ dharaṇyām alpa-jīvitaḥ.. 43..
तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् । अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता॥ ४४॥
तम् दृष्ट्वा पतितम् भूमौ क्षतज-आर्द्रम् जटायुषम् । अभ्यधावत वैदेही स्व-बन्धुम् इव दुःखिता॥ ४४॥
tam dṛṣṭvā patitam bhūmau kṣataja-ārdram jaṭāyuṣam . abhyadhāvata vaidehī sva-bandhum iva duḥkhitā.. 44..
तं नीलजीमूतनिकाशकल्पं सपाण्डुरोरस्कमुदारवीर्यम् । ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम्॥ ४५॥
तम् नील-जीमूत-निकाश-कल्पम् स पाण्डुर-उरस्कम् उदार-वीर्यम् । ददर्श लङ्काधिपतिः पृथिव्याम् जटायुषम् शान्तम् इव अग्नि-दावम्॥ ४५॥
tam nīla-jīmūta-nikāśa-kalpam sa pāṇḍura-uraskam udāra-vīryam . dadarśa laṅkādhipatiḥ pṛthivyām jaṭāyuṣam śāntam iva agni-dāvam.. 45..
ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम् । पुनश्च संगृह्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा॥ ४६॥
ततस् तु तम् पत्ररथम् मही-तले निपातितम् रावण-वेग-मर्दितम् । पुनर् च संगृह्य शशि-प्रभा-आनना रुरोद सीता जनकात्मजा तदा॥ ४६॥
tatas tu tam patraratham mahī-tale nipātitam rāvaṇa-vega-marditam . punar ca saṃgṛhya śaśi-prabhā-ānanā ruroda sītā janakātmajā tadā.. 46..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकपञ्चाशः सर्गः ॥३-५१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे एकपञ्चाशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ekapañcāśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In