This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टोत्तरशततम:: सर्गः ॥२-१०८॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे अष्टोत्तरशततमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe aṣṭottaraśatatamaḥ sargaḥ ..2..
आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तम: । उवाच रामं धर्मज्ञं धर्मापेतमिदं वच: ॥ २.१०८.१ ॥
आश्वासयन्तम् भरतम् जाबालिः ब्राह्मण-उत्तमः । उवाच रामम् धर्म-ज्ञम् धर्म-अपेतम् इदम् वचः ॥ २।१०८।१ ॥
āśvāsayantam bharatam jābāliḥ brāhmaṇa-uttamaḥ . uvāca rāmam dharma-jñam dharma-apetam idam vacaḥ .. 2.108.1 ..
साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका । प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विन: ॥ २.१०८.२ ॥
साधु राघव मा अभूत् ते बुद्धिः एवम् निरर्थिका । प्राकृतस्य नरस्य इव हि आर्य-बुद्धेः मनस्विनः ॥ २।१०८।२ ॥
sādhu rāghava mā abhūt te buddhiḥ evam nirarthikā . prākṛtasya narasya iva hi ārya-buddheḥ manasvinaḥ .. 2.108.2 ..
क: कस्य पुरुषो बन्धु: किमाप्यं कस्य केनचित् । यदेको जायते जन्तुरेक एव विनश्यति ॥ २.१०८.३ ॥
कः कस्य पुरुषः बन्धु किम् आप्यम् कस्य केनचिद् । यत् एकः जायते जन्तुः एकः एव विनश्यति ॥ २।१०८।३ ॥
kaḥ kasya puruṣaḥ bandhu kim āpyam kasya kenacid . yat ekaḥ jāyate jantuḥ ekaḥ eva vinaśyati .. 2.108.3 ..
तस्मान्माता पिता चेति राम सज्जेतयो नर: । उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥ २.१०८.४ ॥
तस्मात् माता पिता च इति राम सज्ज-ईतयः नरः । उन्मत्तः इव स ज्ञेयः ना अस्ति कश्चिद् हि कस्यचिद् ॥ २।१०८।४ ॥
tasmāt mātā pitā ca iti rāma sajja-ītayaḥ naraḥ . unmattaḥ iva sa jñeyaḥ nā asti kaścid hi kasyacid .. 2.108.4 ..
यथा ग्रामान्तरं गच्छन् नर: कश्चित् क्वचिद्वसेत् । उत्सृज्य च तमावासं प्रतिष्ठेतापरे ऽहनि ॥ २.१०८.५ ॥
यथा ग्राम-अन्तरम् गच्छन् कश्चिद् क्वचिद् वसेत् । उत्सृज्य च तम् आवासम् प्रतिष्ठेत अपरे अहनि ॥ २।१०८।५ ॥
yathā grāma-antaram gacchan kaścid kvacid vaset . utsṛjya ca tam āvāsam pratiṣṭheta apare ahani .. 2.108.5 ..
एवमेव मनुष्याणां पिता माता गृहं वसु । आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जना: ॥ २.१०८.६ ॥
एवम् एव मनुष्याणाम् पिता माता गृहम् वसु । आवास-मात्रम् काकुत्स्थ सज्जन्ते न अत्र सत्-जनाः ॥ २।१०८।६ ॥
evam eva manuṣyāṇām pitā mātā gṛham vasu . āvāsa-mātram kākutstha sajjante na atra sat-janāḥ .. 2.108.6 ..
पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम । आस्थातुं कापथं दु:खं विषमं बहुकण्टकम् ॥ २.१०८.७ ॥
पित्र्यम् राज्यम् परित्यज्य स ना अर्हसि नरोत्तम । आस्थातुम् कापथम् दुःखम् विषमम् बहु-कण्टकम् ॥ २।१०८।७ ॥
pitryam rājyam parityajya sa nā arhasi narottama . āsthātum kāpatham duḥkham viṣamam bahu-kaṇṭakam .. 2.108.7 ..
समृद्धायामयोध्यायामात्मानमभिषेचय । एकवेणी धरा हि त्वां नगरी सम्प्रतीक्षते ॥ २.१०८.८ ॥
समृद्धायाम् अयोध्यायाम् आत्मानम् अभिषेचय । एकवेणी धरा हि त्वाम् नगरी सम्प्रतीक्षते ॥ २।१०८।८ ॥
samṛddhāyām ayodhyāyām ātmānam abhiṣecaya . ekaveṇī dharā hi tvām nagarī sampratīkṣate .. 2.108.8 ..
राजभोगाननुभवन् महार्हान् पार्थिवात्मज । विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥ २.१०८.९ ॥
राज-भोगान् अनुभवन् महार्हान् पार्थिव-आत्मज । विहर त्वम् अयोध्यायाम् यथा शक्रः त्रिविष्टपे ॥ २।१०८।९ ॥
rāja-bhogān anubhavan mahārhān pārthiva-ātmaja . vihara tvam ayodhyāyām yathā śakraḥ triviṣṭape .. 2.108.9 ..
न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन । अन्यो राजा त्वमन्य: स तस्मात् कुरु यदुच्यते ॥ २.१०८.१० ॥
न ते कश्चिद् दशरथः त्वम् च तस्य न कश्चन । अन्यः राजा त्वम् अन्यः स तस्मात् कुरु यत् उच्यते ॥ २।१०८।१० ॥
na te kaścid daśarathaḥ tvam ca tasya na kaścana . anyaḥ rājā tvam anyaḥ sa tasmāt kuru yat ucyate .. 2.108.10 ..
बीजमात्रं पिता जन्तो: शुक्लं रुधिरमेव च । संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ २.१०८.११ ॥
बीज-मात्रम् पिता जन्तो शुक्लम् रुधिरम् एव च । संयुक्तम् ऋतुमत् मात्रा पुरुषस्य इह जन्म तत् ॥ २।१०८।११ ॥
bīja-mātram pitā janto śuklam rudhiram eva ca . saṃyuktam ṛtumat mātrā puruṣasya iha janma tat .. 2.108.11 ..
गत: स नृपतिस्तत्र गन्तव्यं यत्र तेन वै । प्रवृत्तिरेषा मर्त्त्यानां त्वं तु मिथ्या विहन्यसे ॥ २.१०८.१२ ॥
गत स नृपतिः तत्र गन्तव्यम् यत्र तेन वै । प्रवृत्तिः एषा मर्त्त्यानाम् त्वम् तु मिथ्या विहन्यसे ॥ २।१०८।१२ ॥
gata sa nṛpatiḥ tatra gantavyam yatra tena vai . pravṛttiḥ eṣā marttyānām tvam tu mithyā vihanyase .. 2.108.12 ..
अर्थधर्मपरा ये ये तांस्तान् शोचामि नेतरान् । ते हि दु:खमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥ २.१०८.१३ ॥
अर्थ-धर्म-पराः ये ये तान् तान् शोचामि न इतरान् । ते हि दु:खम् इह प्राप्य विनाशम् प्रेत्य भेजिरे ॥ २।१०८।१३ ॥
artha-dharma-parāḥ ye ye tān tān śocāmi na itarān . te hi du:kham iha prāpya vināśam pretya bhejire .. 2.108.13 ..
अष्टका पितृदैवत्यमित्ययं प्रसृतो जन: । अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ २.१०८.१४ ॥
अष्टका पितृ-दैवत्यम् इति अयम् प्रसृतः जनः । अन्नस्य उपद्रवम् पश्य मृतः हि किम् अशिष्यति ॥ २।१०८।१४ ॥
aṣṭakā pitṛ-daivatyam iti ayam prasṛtaḥ janaḥ . annasya upadravam paśya mṛtaḥ hi kim aśiṣyati .. 2.108.14 ..
यदि भुक्तमिहान्येन देहमन्यस्य गच्छति । दद्यात् प्रवसत: श्राद्धं न तत् पथ्यशनं भवेत् ॥ २.१०८.१५ ॥
यदि भुक्तम् इह अन्येन देहम् अन्यस्य गच्छति । दद्यात् प्रवसतः श्राद्धम् न तत् पथि अशनम् भवेत् ॥ २।१०८।१५ ॥
yadi bhuktam iha anyena deham anyasya gacchati . dadyāt pravasataḥ śrāddham na tat pathi aśanam bhavet .. 2.108.15 ..
दानसंवनना ह्येते ग्रन्था मेधाविभि: कृता: । यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ॥ २.१०८.१६ ॥
दान-संवननाः हि एते ग्रन्थाः मेधाविभिः कृताः । यजस्व देहि दीक्षस्व तपः तप्यस्व सन्त्यज ॥ २।१०८।१६ ॥
dāna-saṃvananāḥ hi ete granthāḥ medhāvibhiḥ kṛtāḥ . yajasva dehi dīkṣasva tapaḥ tapyasva santyaja .. 2.108.16 ..
स नास्ति परमित्येव कुरु बुद्धिं महामते । प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठत: कुरु ॥ २.१०८.१७ ॥
स ना अस्ति परम् इति एव कुरु बुद्धिम् महामते । प्रत्यक्षम् यत् तत् आतिष्ठ परोक्षम् पृष्ठतस् कुरु ॥ २।१०८।१७ ॥
sa nā asti param iti eva kuru buddhim mahāmate . pratyakṣam yat tat ātiṣṭha parokṣam pṛṣṭhatas kuru .. 2.108.17 ..
स तां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् । राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादित: ॥ २.१०८.१८ ॥
स ताम् बुद्धिम् पुरस्कृत्य सर्व-लोक-निदर्शिनीम् । राज्यम् त्वम् प्रतिगृह्णीष्व भरतेन प्रसादित ॥ २।१०८।१८ ॥
sa tām buddhim puraskṛtya sarva-loka-nidarśinīm . rājyam tvam pratigṛhṇīṣva bharatena prasādita .. 2.108.18 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टोत्तरशततम: सर्ग: ॥ १०८ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे अष्टोत्तरशततमः सर्गः ॥ १०८ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe aṣṭottaraśatatamaḥ sargaḥ .. 108 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In