This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षोडशोत्तरशततम: सर्गः ॥२-११६॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे षोडशोत्तरशततमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ṣoḍaśottaraśatatamaḥ sargaḥ ..2..
प्रतिप्रयाते भरते वसन् रामस्तपोवने । लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ॥ २.११६.१ ॥
प्रतिप्रयाते भरते वसन् रामः तपः-वने । लक्षयामास स उद्वेगम् अथ औत्सुक्यम् तपस्विनाम् ॥ २।११६।१ ॥
pratiprayāte bharate vasan rāmaḥ tapaḥ-vane . lakṣayāmāsa sa udvegam atha autsukyam tapasvinām .. 2.116.1 ..
ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे । राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ॥ २.११६.२ ॥
ये तत्र चित्रकूटस्य पुरस्तात् तापस-आश्रमे । रामम् आश्रित्य निरताः तान् अलक्षयत् उत्सुकान् ॥ २।११६।२ ॥
ye tatra citrakūṭasya purastāt tāpasa-āśrame . rāmam āśritya niratāḥ tān alakṣayat utsukān .. 2.116.2 ..
नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किता: । अन्योन्यमुपजल्पन्त: शनैश्चक्रुर्मिथ: कथा: ॥ २.११६.३ ॥
नयनैः भुकुटीभिः च रामम् निर्दिश्य शङ्किता । अन्योन्यम् उपजल्पन्तः शनैस् चक्रुः मिथस् कथाः ॥ २।११६।३ ॥
nayanaiḥ bhukuṭībhiḥ ca rāmam nirdiśya śaṅkitā . anyonyam upajalpantaḥ śanais cakruḥ mithas kathāḥ .. 2.116.3 ..
तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कित: । कृताञ्जलिरुवाचेदमृषिं कुलपतिं तत: ॥ २.११६.४ ॥
तेषाम् औत्सुक्यम् आलक्ष्य रामः तु आत्मनि शङ्कितः । कृताञ्जलिः उवाच इदम् ऋषिम् कुल-पतिम् तत ॥ २।११६।४ ॥
teṣām autsukyam ālakṣya rāmaḥ tu ātmani śaṅkitaḥ . kṛtāñjaliḥ uvāca idam ṛṣim kula-patim tata .. 2.116.4 ..
न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि । दृश्यते विकृतं येन विक्रियन्ते तपस्विन: ॥ २.११६.५ ॥
न कच्चित् भगवन् किञ्चिद् पूर्व-वृत्तम् इदम् मयि । दृश्यते विकृतम् येन विक्रियन्ते तपस्विनः ॥ २।११६।५ ॥
na kaccit bhagavan kiñcid pūrva-vṛttam idam mayi . dṛśyate vikṛtam yena vikriyante tapasvinaḥ .. 2.116.5 ..
प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे । लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मन: ॥ २.११६.६ ॥
प्रमादात् चरितम् कच्चित् किञ्चिद् ना अवरजस्य मे । लक्ष्मणस्य ऋषिभिः दृष्टम् न अनुरूपम् इव आत्मनः ॥ २।११६।६ ॥
pramādāt caritam kaccit kiñcid nā avarajasya me . lakṣmaṇasya ṛṣibhiḥ dṛṣṭam na anurūpam iva ātmanaḥ .. 2.116.6 ..
कच्चिच्छुश्रूषमाणा व: शुश्रूषणपरा मयि । प्र(म)मादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥ २.११६.७ ॥
कच्चित् शुश्रूषमाणाः वः शुश्रूषण-पराः मयि । प्र(ममाद-अभ्युचिताम् वृत्तिम् सीता युक्तम् न वर्तते ॥ २।११६।७ ॥
kaccit śuśrūṣamāṇāḥ vaḥ śuśrūṣaṇa-parāḥ mayi . pra(mamāda-abhyucitām vṛttim sītā yuktam na vartate .. 2.116.7 ..
अथर्षिर्जरया वृद्धस्तपसा च जरां गत: । वेपमान इवोवाच रामं भूतदयापरम् ॥ २.११६.८ ॥
अथ ऋषिः जरया वृद्धः तपसा च जराम् गत । वेपमानः इव उवाच रामम् भूत-दया-परम् ॥ २।११६।८ ॥
atha ṛṣiḥ jarayā vṛddhaḥ tapasā ca jarām gata . vepamānaḥ iva uvāca rāmam bhūta-dayā-param .. 2.116.8 ..
कुत: कल्याणसत्त्वाया: कल्याणाभिरतेस्तथा । चलनं तात वैदेह्यास्तपस्विषु विशेषत: ॥ २.११६.९ ॥
कुतस् कल्याण-सत्त्वायाः कल्याण-अभिरतेः तथा । चलनम् तात वैदेह्याः तपस्विषु विशेषतः ॥ २।११६।९ ॥
kutas kalyāṇa-sattvāyāḥ kalyāṇa-abhirateḥ tathā . calanam tāta vaidehyāḥ tapasviṣu viśeṣataḥ .. 2.116.9 ..
त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते । रक्षोभ्यस्तेन संविग्ना: कथयन्ति मिथ: कथा: ॥ २.११६.१० ॥
त्वद्-निमित्तम् इदम् तावत् तापसान् प्रति वर्तते । रक्षोभ्यः तेन संविग्नाः कथयन्ति मिथस् कथाः ॥ २।११६।१० ॥
tvad-nimittam idam tāvat tāpasān prati vartate . rakṣobhyaḥ tena saṃvignāḥ kathayanti mithas kathāḥ .. 2.116.10 ..
रावणावरज: कश्चित् खरो नामेह राक्षस: । उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ॥ २.११६.११ ॥
रावण-अवरजः कश्चिद् खरः नाम इह राक्षसः । उत्पाट्य तापसान् सर्वान् जनस्थान-निकेतनान् ॥ २।११६।११ ॥
rāvaṇa-avarajaḥ kaścid kharaḥ nāma iha rākṣasaḥ . utpāṭya tāpasān sarvān janasthāna-niketanān .. 2.116.11 ..
धृष्टश्च जितकाशीं च नृशंस: पुरुषादक: । अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥ २.११६.१२ ॥
धृष्टः च जितकाशीम् च नृशंसः पुरुषादकः । अवलिप्तः च पापः च त्वाम् च तात न मृष्यते ॥ २।११६।१२ ॥
dhṛṣṭaḥ ca jitakāśīm ca nṛśaṃsaḥ puruṣādakaḥ . avaliptaḥ ca pāpaḥ ca tvām ca tāta na mṛṣyate .. 2.116.12 ..
त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे । तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥ २.११६.१३ ॥
त्वम् यदा प्रभृति हि अस्मिन् आश्रमे तात वर्तसे । तदा प्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥ २।११६।१३ ॥
tvam yadā prabhṛti hi asmin āśrame tāta vartase . tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān .. 2.116.13 ..
दर्शयन्ति हि बीभत्सै: क्रूरैर्भीषणकैरपि । नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनै: ॥ २.११६.१४ ॥
दर्शयन्ति हि बीभत्सैः क्रूरैः भीषणकैः अपि । नाना रूपैः विरूपैः च रूपैः विकृत-दर्शनैः ॥ २।११६।१४ ॥
darśayanti hi bībhatsaiḥ krūraiḥ bhīṣaṇakaiḥ api . nānā rūpaiḥ virūpaiḥ ca rūpaiḥ vikṛta-darśanaiḥ .. 2.116.14 ..
अप्रशस्तैरशुचिभि: सम्प्रयोज्य च तापसान् । प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्या: पुरत: स्थिता: ॥ २.११६.१५ ॥
अप्रशस्तैः अशुचिभिः सम्प्रयोज्य च तापसान् । प्रतिघ्नन्ति अपरान् क्षिप्रम् अनार्य्याः पुरतस् स्थिताः ॥ २।११६।१५ ॥
apraśastaiḥ aśucibhiḥ samprayojya ca tāpasān . pratighnanti aparān kṣipram anāryyāḥ puratas sthitāḥ .. 2.116.15 ..
तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च । रमन्ते तापसांस्तत्र नाशयन्तो ऽल्पयेतस: ॥ २.११६.१६ ॥
तेषु तेषु आश्रम-स्थानेषु अबुद्धम् अवलीय च । रमन्ते तापसान् तत्र नाशयन्तः अल्प-येतसः ॥ २।११६।१६ ॥
teṣu teṣu āśrama-sthāneṣu abuddham avalīya ca . ramante tāpasān tatra nāśayantaḥ alpa-yetasaḥ .. 2.116.16 ..
अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा । कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ॥ २.११६.१७ ॥
अपक्षिपन्ति स्रुच्-भाण्डान् अग्नीन् सिञ्चन्ति वारिणा । कलशान् च प्रमृद्नन्ति हवने समुपस्थिते ॥ २।११६।१७ ॥
apakṣipanti sruc-bhāṇḍān agnīn siñcanti vāriṇā . kalaśān ca pramṛdnanti havane samupasthite .. 2.116.17 ..
तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासव: । गमनायान्यदेशस्य चोदयन्त्यृषयो ऽद्य माम् ॥ २.११६.१८ ॥
तैः दुरात्मभिः आमृष्टान् आश्रमान् प्रजिहासवः । गमनाय अन्य-देशस्य चोदयन्ति ऋषयः अद्य माम् ॥ २।११६।१८ ॥
taiḥ durātmabhiḥ āmṛṣṭān āśramān prajihāsavaḥ . gamanāya anya-deśasya codayanti ṛṣayaḥ adya mām .. 2.116.18 ..
तत्पुरा राम शारीरीमुपहिंसां तपस्विषु । दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ॥ २.११६.१९ ॥
तत् पुरा राम शारीरीम् उपहिंसाम् तपस्विषु । दर्शयन्ति हि दुष्टाः ते त्यक्ष्यामः इमम् आश्रमम् ॥ २।११६।१९ ॥
tat purā rāma śārīrīm upahiṃsām tapasviṣu . darśayanti hi duṣṭāḥ te tyakṣyāmaḥ imam āśramam .. 2.116.19 ..
बहुमूलफलं चित्रमविदूरादितो वनम् । पुराणाश्रममेवाहं श्रयिष्ये सगण: पुन: ॥ २.११६.२० ॥
बहु-मूल-फलम् चित्रम् अविदूरात् इतस् वनम् । पुराण-आश्रमम् एव अहम् श्रयिष्ये स गणः पुनर् ॥ २।११६।२० ॥
bahu-mūla-phalam citram avidūrāt itas vanam . purāṇa-āśramam eva aham śrayiṣye sa gaṇaḥ punar .. 2.116.20 ..
खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते । सहास्माभिरितो गच्छ यदि बुद्धि: प्रवर्त्तते ॥ २.११६.२१ ॥
खरः त्वयि अपि च अयुक्तम् पुरा तात प्रवर्त्तते । सह अस्माभिः इतस् गच्छ यदि बुद्धिः प्रवर्त्तते ॥ २।११६।२१ ॥
kharaḥ tvayi api ca ayuktam purā tāta pravarttate . saha asmābhiḥ itas gaccha yadi buddhiḥ pravarttate .. 2.116.21 ..
सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव । समर्थस्यापि वसतो वासो दु:खमिहाद्य ते ॥ २.११६.२२ ॥
स कलत्रस्य सन्देहः नित्यम् यत् तस्य राघव । समर्थस्य अपि वसतः वासः दु:खम् इह अद्य ते ॥ २।११६।२२ ॥
sa kalatrasya sandehaḥ nityam yat tasya rāghava . samarthasya api vasataḥ vāsaḥ du:kham iha adya te .. 2.116.22 ..
इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् । न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुक: ॥ २.११६.२३ ॥
इति उक्तवन्तम् रामः तम् राज-पुत्रः तपस्विनम् । न शशाक उत्तरैः वाक्यैः अवरोद्धुम् समुत्सुकः ॥ २।११६।२३ ॥
iti uktavantam rāmaḥ tam rāja-putraḥ tapasvinam . na śaśāka uttaraiḥ vākyaiḥ avaroddhum samutsukaḥ .. 2.116.23 ..
अभिनन्द्य समापृच्छ्य समाधाय च राघवम् । स जगामाश्रमं त्यक्त्वा कुलै: कुलपति: सह ॥ २.११६.२४ ॥
अभिनन्द्य समापृच्छ्य समाधाय च राघवम् । स जगाम आश्रमम् त्यक्त्वा कुलैः कुल-पतिः सह ॥ २।११६।२४ ॥
abhinandya samāpṛcchya samādhāya ca rāghavam . sa jagāma āśramam tyaktvā kulaiḥ kula-patiḥ saha .. 2.116.24 ..
राम: संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् । सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थ: पुण्यं वासाय स्वनिलयमुपसम्पेदे ॥ २.११६.२५ ॥
रामः संसाध्य तु ऋषि-गणम् अनुगमनात् देशात् तस्मात् कुल-पतिम् अभिवाद्य ऋषिम् । सम्यक् प्रीतैः तैः अनुमतः उपदिष्ट-अर्थः पुण्यम् वासाय स्व-निलयम् उपसम्पेदे ॥ २।११६।२५ ॥
rāmaḥ saṃsādhya tu ṛṣi-gaṇam anugamanāt deśāt tasmāt kula-patim abhivādya ṛṣim . samyak prītaiḥ taiḥ anumataḥ upadiṣṭa-arthaḥ puṇyam vāsāya sva-nilayam upasampede .. 2.116.25 ..
आश्रमं त्वृषिविरहितं प्रभु: क्षणमपि न विजहौ स राघव: । राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणा: ॥ २.११६.२६ ॥
आश्रमम् तु ऋषि-विरहितम् प्रभुः क्षणम् अपि न विजहौ स राघवः । राघवम् हि सततम् अनुगताः तापसाः च आर्ष-चरित-धृत-गुणाः ॥ २।११६।२६ ॥
āśramam tu ṛṣi-virahitam prabhuḥ kṣaṇam api na vijahau sa rāghavaḥ . rāghavam hi satatam anugatāḥ tāpasāḥ ca ārṣa-carita-dhṛta-guṇāḥ .. 2.116.26 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षोडशोत्तरशततम: सर्ग: ॥ ११६ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे षोडशोत्तरशततमः सर्गः ॥ ११६ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe ṣoḍaśottaraśatatamaḥ sargaḥ .. 116 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In