This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तदशोत्तरशततम सर्गः ॥२-११७॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे सप्तदश-उत्तर-शततम सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe saptadaśa-uttara-śatatama sargaḥ ..2..
राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् । न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥ २.११७.१ ॥
राघवः तु अथ यातेषु तपस्विषु विचिन्तयन् । न तत्र अरोचयत् वासम् कारणैः बहुभिः तदा ॥ २।११७।१ ॥
rāghavaḥ tu atha yāteṣu tapasviṣu vicintayan . na tatra arocayat vāsam kāraṇaiḥ bahubhiḥ tadā .. 2.117.1 ..
इह मे भरतो दृष्टो मातरश्च सनागरा: । सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचत: ॥ २.११७.२ ॥
इह मे भरतः दृष्टः मातरः च स नागराः । सा च मे स्मृतिः अन्वेति तान् नित्यम् अनुशोचतः ॥ २।११७।२ ॥
iha me bharataḥ dṛṣṭaḥ mātaraḥ ca sa nāgarāḥ . sā ca me smṛtiḥ anveti tān nityam anuśocataḥ .. 2.117.2 ..
स्कन्धावारनिवेशेन तेन तस्य महात्मन: । हयहस्तिकरीषैश्च उपमर्द्द: कृतो भृशम् ॥ २.११७.३ ॥
स्कन्धावार-निवेशेन तेन तस्य महात्मनः । हय-हस्ति-करीषैः च उपमर्दः कृतः भृशम् ॥ २।११७।३ ॥
skandhāvāra-niveśena tena tasya mahātmanaḥ . haya-hasti-karīṣaiḥ ca upamardaḥ kṛtaḥ bhṛśam .. 2.117.3 ..
तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघव: । प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गत: ॥ २.११७.४ ॥
तस्मात् अन्यत्र गच्छामः इति सञ्चिन्त्य राघवः । प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः ॥ २।११७।४ ॥
tasmāt anyatra gacchāmaḥ iti sañcintya rāghavaḥ . prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṅgataḥ .. 2.117.4 ..
सो ऽत्रेराश्रममासाद्य तं ववन्दे महायशा: । तं चापि भगवानत्रि: पुत्रवत् प्रत्यपद्यत ॥ २.११७.५ ॥
सः अत्रेः आश्रमम् आसाद्य तम् ववन्दे महा-यशाः । तम् च अपि भगवान् अत्रि पुत्र-वत् प्रत्यपद्यत ॥ २।११७।५ ॥
saḥ atreḥ āśramam āsādya tam vavande mahā-yaśāḥ . tam ca api bhagavān atri putra-vat pratyapadyata .. 2.117.5 ..
स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् । सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥ २.११७.६ ॥
स्वयम् आतिथ्यम् आदिश्य सर्वम् अस्य सु सत्कृतम् । सौमित्रिम् च महाभागाम् सीताम् च समसान्त्वयत् ॥ २।११७।६ ॥
svayam ātithyam ādiśya sarvam asya su satkṛtam . saumitrim ca mahābhāgām sītām ca samasāntvayat .. 2.117.6 ..
पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् । सान्त्वयामास धर्मज्ञ: सर्वभूतहिते रत: ॥ २.११७.७ ॥
पत्नीम् च समनुप्राप्ताम् वृद्धाम् आमन्त्र्य सत्कृताम् । सान्त्वयामास धर्म-ज्ञः सर्व-भूत-हिते रतः ॥ २।११७।७ ॥
patnīm ca samanuprāptām vṛddhām āmantrya satkṛtām . sāntvayāmāsa dharma-jñaḥ sarva-bhūta-hite rataḥ .. 2.117.7 ..
अनसूयां महाभागां तापसीं धर्मचारिणीम् । प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तम: । रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ॥ २.११७.८ ॥
अनसूयाम् महाभागाम् तापसीम् धर्म-चारिणीम् । प्रतिगृह्णीष्व वैदेहीम् अब्रवीत् ऋषि-सत्तमः । रामाय च आचचक्षे ताम् तापसीम् धर्म-चारिणीम् ॥ २।११७।८ ॥
anasūyām mahābhāgām tāpasīm dharma-cāriṇīm . pratigṛhṇīṣva vaidehīm abravīt ṛṣi-sattamaḥ . rāmāya ca ācacakṣe tām tāpasīm dharma-cāriṇīm .. 2.117.8 ..
दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् । यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता ॥ २.११७.९ ॥
दश-वर्षाणि अनावृष्ट्या दग्धे लोके निरन्तरम् । यया मूल-फले सृष्टे जाह्नवी च प्रवर्त्तिता ॥ २।११७।९ ॥
daśa-varṣāṇi anāvṛṣṭyā dagdhe loke nirantaram . yayā mūla-phale sṛṣṭe jāhnavī ca pravarttitā .. 2.117.9 ..
उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता । दशवर्षसहस्राणि यया तप्तं महत्तप: ॥ २.११७.१० ॥
उग्रेण तपसा युक्ता नियमैः च अपि अलङ्कृता । दश-वर्ष-सहस्राणि यया तप्तम् महत् तपः ॥ २।११७।१० ॥
ugreṇa tapasā yuktā niyamaiḥ ca api alaṅkṛtā . daśa-varṣa-sahasrāṇi yayā taptam mahat tapaḥ .. 2.117.10 ..
अनसूया व्रतै: स्नाता प्रत्यूहाश्च निवर्त्तिता: । देवकार्यनिमित्तं च यया संत्वरमाणया । दशरात्रं कृता रात्रि: सेयं मातेव ते ऽनघ ॥ २.११७.११ ॥
अनसूया व्रतैः स्नाता प्रत्यूहाः च निवर्त्तिताः । देव-कार्य-निमित्तम् च यया संत्वरमाणया । दश-रात्रम् कृता रात्रि सा इयम् माता इव ते अनघ ॥ २।११७।११ ॥
anasūyā vrataiḥ snātā pratyūhāḥ ca nivarttitāḥ . deva-kārya-nimittam ca yayā saṃtvaramāṇayā . daśa-rātram kṛtā rātri sā iyam mātā iva te anagha .. 2.117.11 ..
तामिमां सर्वभूतानां नमस्कार्य्यां यशस्विनीम् । अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा । अनसूयेति या लोके कर्मभि: ख्यातिमागता ॥ २.११७.१२ ॥
ताम् इमाम् सर्व-भूतानाम् नमस्कार्य्याम् यशस्विनीम् । अभिगच्छतु वैदेही वृद्धाम् अक्रोधनाम् सदा । अनसूया इति या लोके कर्मभिः ख्यातिम् आगता ॥ २।११७।१२ ॥
tām imām sarva-bhūtānām namaskāryyām yaśasvinīm . abhigacchatu vaidehī vṛddhām akrodhanām sadā . anasūyā iti yā loke karmabhiḥ khyātim āgatā .. 2.117.12 ..
एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघव: । सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥ २.११७.१३ ॥
एवम् ब्रुवाणम् तम् ऋषिम् तथा इति उक्त्वा स राघवः । सीताम् उवाच धर्म-ज्ञाम् इदम् वचनम् उत्तमम् ॥ २।११७।१३ ॥
evam bruvāṇam tam ṛṣim tathā iti uktvā sa rāghavaḥ . sītām uvāca dharma-jñām idam vacanam uttamam .. 2.117.13 ..
राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् । श्रेयोर्थमात्मन: श्रीघ्रमभिगच्छ तपस्विनीम् ॥ २.११७.१४ ॥
राज-पुत्रि श्रुतम् तु एतत् मुनेः अस्य समीरितम् । श्रेयः-र्थम् आत्मनः श्रीघ्रम् अभिगच्छ तपस्विनीम् ॥ २।११७।१४ ॥
rāja-putri śrutam tu etat muneḥ asya samīritam . śreyaḥ-rtham ātmanaḥ śrīghram abhigaccha tapasvinīm .. 2.117.14 ..
सीता त्वेतद्वच: श्रुत्वा राघवस्य हितैषिण: । तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ॥ २.११७.१५ ॥
सीता तु एतत् वचः श्रुत्वा राघवस्य हित-एषिणः । ताम् अत्रि-पत्नीम् धर्म-ज्ञाम् अभिचक्राम मैथिली ॥ २।११७।१५ ॥
sītā tu etat vacaḥ śrutvā rāghavasya hita-eṣiṇaḥ . tām atri-patnīm dharma-jñām abhicakrāma maithilī .. 2.117.15 ..
शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम् । सततं वेपमानाङ्गी प्रवाते कदली यथा ॥ २.११७.१६ ॥
शिथिलाम् वलिताम् वृद्धाम् जरा-पाण्डर-मूर्द्धजाम् । सततम् वेपमान-अङ्गी प्रवाते कदली यथा ॥ २।११७।१६ ॥
śithilām valitām vṛddhām jarā-pāṇḍara-mūrddhajām . satatam vepamāna-aṅgī pravāte kadalī yathā .. 2.117.16 ..
तां तु सीता महाभागामनसूयां पतिव्रताम् । अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ॥ २.११७.१७ ॥
ताम् तु सीता महाभागाम् अनसूयाम् पतिव्रताम् । अभ्यवादयत् अव्यग्रा स्व-नाम समुदाहरत् ॥ २।११७।१७ ॥
tām tu sītā mahābhāgām anasūyām pativratām . abhyavādayat avyagrā sva-nāma samudāharat .. 2.117.17 ..
अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् । बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ॥ २.११७.१८ ॥
अभिवाद्य च वैदेही तापसीम् ताम् अनिन्दिताम् । बद्धाञ्जलि-पुटा हृष्टा पर्यपृच्छत् अनामयम् ॥ २।११७।१८ ॥
abhivādya ca vaidehī tāpasīm tām aninditām . baddhāñjali-puṭā hṛṣṭā paryapṛcchat anāmayam .. 2.117.18 ..
तत: सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् । सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ॥ २.११७.१९ ॥
ततस् सीताम् महाभागाम् दृष्ट्वा ताम् धर्म-चारिणीम् । सान्त्वयन्ती अब्रवीत् हृष्टा दिष्ट्या धर्मम् अवेक्षसे ॥ २।११७।१९ ॥
tatas sītām mahābhāgām dṛṣṭvā tām dharma-cāriṇīm . sāntvayantī abravīt hṛṣṭā diṣṭyā dharmam avekṣase .. 2.117.19 ..
त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि । अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥ २.११७.२० ॥
त्यक्त्वा ज्ञाति-जनम् सीते मानम् ऋद्धिम् च भामिनि । अवरुद्धम् वने रामम् दिष्ट्या त्वम् अनुगच्छसि ॥ २।११७।२० ॥
tyaktvā jñāti-janam sīte mānam ṛddhim ca bhāmini . avaruddham vane rāmam diṣṭyā tvam anugacchasi .. 2.117.20 ..
नगरस्थो वनस्थो वा पापो वा यदि वा शुभ: । यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदया: ॥ २.११७.२१ ॥
नगर-स्थः वन-स्थः वा पापः वा यदि वा । यासाम् स्त्रीणाम् प्रियः भर्ता तासाम् लोकाः महा-उदयाः ॥ २।११७।२१ ॥
nagara-sthaḥ vana-sthaḥ vā pāpaḥ vā yadi vā . yāsām strīṇām priyaḥ bhartā tāsām lokāḥ mahā-udayāḥ .. 2.117.21 ..
दु:शील: कामवृत्तो वा धनैवा परिवर्जित: । स्त्रीणामार्यस्वभावानां परमं दैवतं पति: ॥ २.११७.२२ ॥
काम-वृत्तः वा परिवर्जितः । स्त्रीणाम् आर्य-स्वभावानाम् परमम् दैवतम् पतिः ॥ २।११७।२२ ॥
kāma-vṛttaḥ vā parivarjitaḥ . strīṇām ārya-svabhāvānām paramam daivatam patiḥ .. 2.117.22 ..
नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् । सर्वत्रयोग्यं वैदेहि तप:कृतमिवाव्ययम् ॥ २.११७.२३ ॥
न अतस् विशिष्टम् पश्यामि बान्धवम् विमृशन्ती अहम् । सर्वत्र योग्यम् वैदेहि तपः-कृतम् इव अव्ययम् ॥ २।११७।२३ ॥
na atas viśiṣṭam paśyāmi bāndhavam vimṛśantī aham . sarvatra yogyam vaidehi tapaḥ-kṛtam iva avyayam .. 2.117.23 ..
न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रिय: । कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति या: ॥ २.११७.२४ ॥
न तु एनम् अवगच्छन्ति गुण-दोषम् असत्-स्त्रियः । काम-वक्तव्यहृदया भर्तृ-नाथा श्चरन्ति याः ॥ २।११७।२४ ॥
na tu enam avagacchanti guṇa-doṣam asat-striyaḥ . kāma-vaktavyahṛdayā bhartṛ-nāthā ścaranti yāḥ .. 2.117.24 ..
प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि । अकार्यवशमापन्ना: स्त्रियो या: खलु तद्विधा: ॥ २.११७.२५ ॥
प्राप्नुवन्ति अयशः च एव धर्म-भ्रंशम् च मैथिलि । अकार्य-वशम् आपन्नाः स्त्रियः याः खलु तद्विधाः ॥ २।११७।२५ ॥
prāpnuvanti ayaśaḥ ca eva dharma-bhraṃśam ca maithili . akārya-vaśam āpannāḥ striyaḥ yāḥ khalu tadvidhāḥ .. 2.117.25 ..
त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावरा: । स्त्रिय: स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ॥ २.११७.२६ ॥
त्वद्विधाः तु गुणैः युक्ताः दृष्ट-लोक-परावराः । स्त्रियः स्वग चरिष्यन्ति यथा धर्म-कृतः तथा ॥ २।११७।२६ ॥
tvadvidhāḥ tu guṇaiḥ yuktāḥ dṛṣṭa-loka-parāvarāḥ . striyaḥ svaga cariṣyanti yathā dharma-kṛtaḥ tathā .. 2.117.26 ..
तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी । भवस्व भर्त्तु: सहधर्मचारिणी यशश्च धर्मं च तत: समाप्स्यसि ॥ २.११७.२७ ॥
तत् एवम् एनम् त्वम् अनुव्रता सती पतिव्रतानाम् समय-अनुवर्तिनी । भवस्व भर्त्तुः सह धर्मचारिणी यशः च धर्मम् च ततस् समाप्स्यसि ॥ २।११७।२७ ॥
tat evam enam tvam anuvratā satī pativratānām samaya-anuvartinī . bhavasva bharttuḥ saha dharmacāriṇī yaśaḥ ca dharmam ca tatas samāpsyasi .. 2.117.27 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तदशोत्तरशततम: सर्ग: ॥ ११७ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे सप्तदश-उत्तर-शततमः सर्गः ॥ ११७ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe saptadaśa-uttara-śatatamaḥ sargaḥ .. 117 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In