This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तदशः सर्गः ॥२-१७॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे सप्तदशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe saptadaśaḥ sargaḥ ..2..
स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः।पताकाध्वजसम्पन्नं महार्हागुरुधूपितम्॥ १॥
स रामः रथम् आस्थाय सम्प्रहृष्ट-सुहृद्-जनः।पताका-ध्वज-सम्पन्नम् महार्ह-अगुरु-धूपितम्॥ १॥
sa rāmaḥ ratham āsthāya samprahṛṣṭa-suhṛd-janaḥ.patākā-dhvaja-sampannam mahārha-aguru-dhūpitam.. 1..
अपश्यन्नगरं श्रीमान् नानाजनसमन्वितम्।स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम्॥ २॥
अपश्यत् नगरम् श्रीमान् नाना जन-समन्वितम्।स गृहैः अभ्र-संकाशैः पाण्डुरैः उपशोभितम्॥ २॥
apaśyat nagaram śrīmān nānā jana-samanvitam.sa gṛhaiḥ abhra-saṃkāśaiḥ pāṇḍuraiḥ upaśobhitam.. 2..
राजमार्गं ययौ रामो मध्येनागुरुधूपितम्।चन्दनानां च मुख्यानामगुरूणां च संचयैः॥ ३॥
राजमार्गम् ययौ रामः मध्येन अगुरु-धूपितम्।चन्दनानाम् च मुख्यानाम् अगुरूणाम् च संचयैः॥ ३॥
rājamārgam yayau rāmaḥ madhyena aguru-dhūpitam.candanānām ca mukhyānām agurūṇām ca saṃcayaiḥ.. 3..
उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च।अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि॥ ४॥
उत्तमानाम् च गन्धानाम् क्षौम-कौश-अम्बरस्य च।अविद्धाभिः च मुक्ताभिः उत्तमैः स्फाटिकैः अपि॥ ४॥
uttamānām ca gandhānām kṣauma-kauśa-ambarasya ca.aviddhābhiḥ ca muktābhiḥ uttamaiḥ sphāṭikaiḥ api.. 4..
शोभमानमसम्बाधं तं राजपथमुत्तमम्।संवृतं विविधैः पुष्पैर्भक्ष्यैरुच्चावचैरपि॥ ५॥
शोभमानम् असम्बाधम् तम् राज-पथम् उत्तमम्।संवृतम् विविधैः पुष्पैः भक्ष्यैः उच्चावचैः अपि॥ ५॥
śobhamānam asambādham tam rāja-patham uttamam.saṃvṛtam vividhaiḥ puṣpaiḥ bhakṣyaiḥ uccāvacaiḥ api.. 5..
ददर्श तं राजपथं दिवि देवपतिर्यथा । दध्यक्षतहविर्लाजैर्धूपैरगुरुचन्दनैः॥ ६॥
ददर्श तम् राज-पथम् दिवि देवपतिः यथा । दधि-अक्षत-हविः-लाजैः धूपैः अगुरु-चन्दनैः॥ ६॥
dadarśa tam rāja-patham divi devapatiḥ yathā . dadhi-akṣata-haviḥ-lājaiḥ dhūpaiḥ aguru-candanaiḥ.. 6..
नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम्।आशीर्वादान् बहून् शृण्वन् सुहृद्भिः समुदीरितान्॥ ७॥
नाना माल्य-उपगन्धैः च सदा अभ्यर्चित-चत्वरम्।आशीर्वादान् बहून् शृण्वन् सुहृद्भिः समुदीरितान्॥ ७॥
nānā mālya-upagandhaiḥ ca sadā abhyarcita-catvaram.āśīrvādān bahūn śṛṇvan suhṛdbhiḥ samudīritān.. 7..
यथार्हं चापि सम्पूज्य सर्वानेव नरान् ययौ।पितामहैराचरितं तथैव प्रपितामहैः॥ ८॥
यथार्हम् च अपि सम्पूज्य सर्वान् एव नरान् ययौ।पितामहैः आचरितम् तथा एव प्रपितामहैः॥ ८॥
yathārham ca api sampūjya sarvān eva narān yayau.pitāmahaiḥ ācaritam tathā eva prapitāmahaiḥ.. 8..
अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय।यथा स्म पोषिताः पित्रा यथा सर्वैः पितामहैः।ततः सुखतरं सर्वे रामे वत्स्याम राजनि॥ ९॥
अद्या उपादाय तम् मार्गम् अभिषिक्तः अनुपालय।यथा स्म पोषिताः पित्रा यथा सर्वैः पितामहैः।ततस् सुखतरम् सर्वे रामे वत्स्याम राजनि॥ ९॥
adyā upādāya tam mārgam abhiṣiktaḥ anupālaya.yathā sma poṣitāḥ pitrā yathā sarvaiḥ pitāmahaiḥ.tatas sukhataram sarve rāme vatsyāma rājani.. 9..
अलमद्य हि भुक्तेन परमार्थैरलं च नः।यदि पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम्॥ १०॥
अलम् अद्य हि भुक्तेन परम-अर्थैः अलम् च नः।यदि पश्याम निर्यान्तम् रामम् राज्ये प्रतिष्ठितम्॥ १०॥
alam adya hi bhuktena parama-arthaiḥ alam ca naḥ.yadi paśyāma niryāntam rāmam rājye pratiṣṭhitam.. 10..
ततो हि नः प्रियतरं नान्यत् किंचिद् भविष्यति।यथाभिषेको रामस्य राज्येनामिततेजसः॥ ११॥
ततस् हि नः प्रियतरम् न अन्यत् किंचिद् भविष्यति।यथा अभिषेकः रामस्य राज्येन अमित-तेजसः॥ ११॥
tatas hi naḥ priyataram na anyat kiṃcid bhaviṣyati.yathā abhiṣekaḥ rāmasya rājyena amita-tejasaḥ.. 11..
एताश्चान्याश्च सुहृदामुदासीनः शुभाः कथाः।आत्मसम्पूजनीः शृण्वन् ययौ रामो महापथम्॥ १२॥
एताः च अन्याः च सुहृदाम् उदासीनः शुभाः कथाः।शृण्वन् ययौ रामः महापथम्॥ १२॥
etāḥ ca anyāḥ ca suhṛdām udāsīnaḥ śubhāḥ kathāḥ.śṛṇvan yayau rāmaḥ mahāpatham.. 12..
न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात्।नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे॥ १३॥
न हि तस्मात् मनः कश्चिद् चक्षुषी वा नरोत्तमात्।नरः शक्नोति अपाक्रष्टुम् अतिक्रान्ते अपि राघवे॥ १३॥
na hi tasmāt manaḥ kaścid cakṣuṣī vā narottamāt.naraḥ śaknoti apākraṣṭum atikrānte api rāghave.. 13..
यश्च रामं न पश्येत्तु यं च रामो न पश्यति।निन्दितः सर्वलोकेषु स्वात्माप्येनं विगर्हते॥ १४॥
यः च रामम् न पश्येत् तु यम् च रामः न पश्यति।निन्दितः सर्व-लोकेषु स्वात्मा अपि एनम् विगर्हते॥ १४॥
yaḥ ca rāmam na paśyet tu yam ca rāmaḥ na paśyati.ninditaḥ sarva-lokeṣu svātmā api enam vigarhate.. 14..
सर्वेषु स हि धर्मात्मा वर्णानां कुरुते दयाम्।चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः॥ १६॥
सर्वेषु स हि धर्म-आत्मा वर्णानाम् कुरुते दयाम्।चतुर्णाम् हि वयःस्थानाम् तेन ते तम् अनुव्रताः॥ १६॥
sarveṣu sa hi dharma-ātmā varṇānām kurute dayām.caturṇām hi vayaḥsthānām tena te tam anuvratāḥ.. 16..
चतुष्पथान् देवपथांश्चैत्यांश्चायतनानि च।प्रदक्षिणं परिहरज्जगाम नृपतेः सुतः॥ १६॥
चतुष्पथान् देव-पथान् चैत्यान् च आयतनानि च।प्रदक्षिणम् परिहरत् जगाम नृपतेः सुतः॥ १६॥
catuṣpathān deva-pathān caityān ca āyatanāni ca.pradakṣiṇam pariharat jagāma nṛpateḥ sutaḥ.. 16..
स राजकुलमासाद्य मेघसङ्घोपमैः शुभैः।प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः॥ १७॥
स राज-कुलम् आसाद्य मेघ-सङ्घ-उपमैः शुभैः।प्रासाद-शृङ्गैः विविधैः कैलास-शिखर-उपमैः॥ १७॥
sa rāja-kulam āsādya megha-saṅgha-upamaiḥ śubhaiḥ.prāsāda-śṛṅgaiḥ vividhaiḥ kailāsa-śikhara-upamaiḥ.. 17..
आवारयद्भिर्गगनं विमानैरिव पाण्डुरैः।वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः॥ १८॥
आवारयद्भिः गगनम् विमानैः इव पाण्डुरैः।वर्धमान-गृहैः च अपि रत्न-जाल-परिष्कृतैः॥ १८॥
āvārayadbhiḥ gaganam vimānaiḥ iva pāṇḍuraiḥ.vardhamāna-gṛhaiḥ ca api ratna-jāla-pariṣkṛtaiḥ.. 18..
तत् पृथिव्यां गृहवरं महेन्द्रसदनोपमम्।राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन्॥ १९॥
तत् पृथिव्याम् गृह-वरम् महा-इन्द्र-सदन-उपमम्।राज-पुत्रः पितुः वेश्म प्रविवेश श्रिया ज्वलन्॥ १९॥
tat pṛthivyām gṛha-varam mahā-indra-sadana-upamam.rāja-putraḥ pituḥ veśma praviveśa śriyā jvalan.. 19..
स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः।पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः॥ २०॥
स कक्ष्याः धन्विभिः गुप्ताः तिस्रः अतिक्रम्य वाजिभिः।पदातिः अपरे कक्ष्ये द्वे जगाम नर-उत्तमः॥ २०॥
sa kakṣyāḥ dhanvibhiḥ guptāḥ tisraḥ atikramya vājibhiḥ.padātiḥ apare kakṣye dve jagāma nara-uttamaḥ.. 20..
स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः।संनिवर्त्य जनं सर्वं शुद्धान्तःपुरमत्यगात्॥ २१॥
स सर्वाः समतिक्रम्य कक्ष्याः दशरथ-आत्मजः।संनिवर्त्य जनम् सर्वम् शुद्धान्तःपुरम् अत्यगात्॥ २१॥
sa sarvāḥ samatikramya kakṣyāḥ daśaratha-ātmajaḥ.saṃnivartya janam sarvam śuddhāntaḥpuram atyagāt.. 21..
तस्मिन् प्रविष्टे पितुरन्तिकं तदा जनः स सर्वो मुदितो नृपात्मजे।प्रतीक्षते तस्य पुनः स्म निर्गमं यथोदयं चन्द्रमसः सरित्पतिः॥ २२॥
तस्मिन् प्रविष्टे पितुः अन्तिकम् तदा जनः स सर्वः मुदितः नृप-आत्मजे।प्रतीक्षते तस्य पुनर् स्म निर्गमम् यथा उदयम् चन्द्रमसः सरित्पतिः॥ २२॥
tasmin praviṣṭe pituḥ antikam tadā janaḥ sa sarvaḥ muditaḥ nṛpa-ātmaje.pratīkṣate tasya punar sma nirgamam yathā udayam candramasaḥ saritpatiḥ.. 22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तदशः सर्गः ॥२-१७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे सप्तदशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe saptadaśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In