This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्विंशः सर्गः ॥२-२४॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे चतुर्विंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe caturviṃśaḥ sargaḥ ..2..
तं समीक्ष्य व्यवसितं पितुर्निर्देशपालने।कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत्॥ १॥
तम् समीक्ष्य व्यवसितम् पितुः निर्देश-पालने।कौसल्या बाष्प-संरुद्धा वचः धर्मिष्ठम् अब्रवीत्॥ १॥
tam samīkṣya vyavasitam pituḥ nirdeśa-pālane.kausalyā bāṣpa-saṃruddhā vacaḥ dharmiṣṭham abravīt.. 1..
अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः।मयि जातो दशरथात् कथमुञ्छेन वर्तयेत्॥ २॥
अदृष्ट-दुःखः धर्म-आत्मा सर्व-भूत-प्रियंवदः।मयि जातः दशरथात् कथम् उञ्छेन वर्तयेत्॥ २॥
adṛṣṭa-duḥkhaḥ dharma-ātmā sarva-bhūta-priyaṃvadaḥ.mayi jātaḥ daśarathāt katham uñchena vartayet.. 2..
यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते।कथं स भोक्ष्यते रामो वने मूलफलान्ययम्॥ ३॥
यस्य भृत्याः च दासाः च मृष्टानि अन्नानि भुञ्जते।कथम् स भोक्ष्यते रामः वने मूल-फलानि अयम्॥ ३॥
yasya bhṛtyāḥ ca dāsāḥ ca mṛṣṭāni annāni bhuñjate.katham sa bhokṣyate rāmaḥ vane mūla-phalāni ayam.. 3..
क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद् भयम्।गुणवान् दयितो राज्ञः काकुत्स्थो यद् विवास्यते॥ ४॥
कः एतत् श्रद्दधेत् श्रुत्वा कस्य वा न भवेत् भयम्।गुणवान् दयितः राज्ञः काकुत्स्थः यत् विवास्यते॥ ४॥
kaḥ etat śraddadhet śrutvā kasya vā na bhavet bhayam.guṇavān dayitaḥ rājñaḥ kākutsthaḥ yat vivāsyate.. 4..
नूनं तु बलवाँल्लोके कृतान्तः सर्वमादिशन्।लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि॥ ५॥
नूनम् तु बलवान् लोके कृतान्तः सर्वम् आदिशन्।लोके राम-अभिरामः त्वम् वनम् यत्र गमिष्यसि॥ ५॥
nūnam tu balavān loke kṛtāntaḥ sarvam ādiśan.loke rāma-abhirāmaḥ tvam vanam yatra gamiṣyasi.. 5..
अयं तु मामात्मभवस्तवादर्शनमारुतः।विलापदुःखसमिधो रुदिताश्रुहुताहुतिः॥ ६॥
अयम् तु माम् आत्मभवः तव अदर्शन-मारुतः।॥ ६॥
ayam tu mām ātmabhavaḥ tava adarśana-mārutaḥ... 6..
चिन्ताबाष्पमहाधूमस्तवागमनचिन्तजः।कर्शयित्वाधिकं पुत्र निःश्वासायाससम्भवः॥ ७॥
चिन्ता-बाष्प-महा-धूम-स्तव आगमन-चिन्त-जः।कर्शयित्वा अधिकम् पुत्र निःश्वास-आयास-सम्भवः॥ ७॥
cintā-bāṣpa-mahā-dhūma-stava āgamana-cinta-jaḥ.karśayitvā adhikam putra niḥśvāsa-āyāsa-sambhavaḥ.. 7..
त्वया विहीनामिह मां शोकाग्निरतुलो महान्।प्रधक्ष्यति यथा कक्ष्यं चित्रभानुर्हिमात्यये॥ ८॥
त्वया विहीनाम् इह माम् शोक-अग्निः अतुलः महान्।प्रधक्ष्यति यथा कक्ष्यम् चित्रभानुः हिम-अत्यये॥ ८॥
tvayā vihīnām iha mām śoka-agniḥ atulaḥ mahān.pradhakṣyati yathā kakṣyam citrabhānuḥ hima-atyaye.. 8..
कथं हि धेनुः स्वं वत्सं गच्छन्तमनुगच्छति।अहं त्वानुगमिष्यामि यत्र वत्स गमिष्यसि॥ ९॥
कथम् हि धेनुः स्वम् वत्सम् गच्छन्तम् अनुगच्छति।अहम् त्वा अनुगमिष्यामि यत्र वत्स गमिष्यसि॥ ९॥
katham hi dhenuḥ svam vatsam gacchantam anugacchati.aham tvā anugamiṣyāmi yatra vatsa gamiṣyasi.. 9..
यथा निगदितं मात्रा तद् वाक्यं पुरुषर्षभः।श्रुत्वा रामोऽब्रवीद् वाक्यं मातरं भृशदुःखिताम्॥ १०॥
यथा निगदितम् मात्रा तत् वाक्यम् पुरुष-ऋषभः।श्रुत्वा रामः अब्रवीत् वाक्यम् मातरम् भृश-दुःखिताम्॥ १०॥
yathā nigaditam mātrā tat vākyam puruṣa-ṛṣabhaḥ.śrutvā rāmaḥ abravīt vākyam mātaram bhṛśa-duḥkhitām.. 10..
कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते।भवत्या च परित्यक्तो न नूनं वर्तयिष्यति॥ ११॥
कैकेय्या वञ्चितः राजा मयि च अरण्यम् आश्रिते।भवत्या च परित्यक्तः न नूनम् वर्तयिष्यति॥ ११॥
kaikeyyā vañcitaḥ rājā mayi ca araṇyam āśrite.bhavatyā ca parityaktaḥ na nūnam vartayiṣyati.. 11..
भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः।स भवत्या न कर्तव्यो मनसापि विगर्हितः॥ १२॥
भर्तुः किल परित्यागः नृशंसः केवलम् स्त्रियाः।स भवत्या न कर्तव्यः मनसा अपि विगर्हितः॥ १२॥
bhartuḥ kila parityāgaḥ nṛśaṃsaḥ kevalam striyāḥ.sa bhavatyā na kartavyaḥ manasā api vigarhitaḥ.. 12..
यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः।शुश्रूषा क्रियतां तावत् स हि धर्मः सनातनः॥ १३॥
यावत् जीवति काकुत्स्थः पिता मे जगतीपतिः।शुश्रूषा क्रियताम् तावत् स हि धर्मः सनातनः॥ १३॥
yāvat jīvati kākutsthaḥ pitā me jagatīpatiḥ.śuśrūṣā kriyatām tāvat sa hi dharmaḥ sanātanaḥ.. 13..
एवमुक्ता तु रामेण कौसल्या शुभदर्शना।तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम्॥ १४॥
एवम् उक्ता तु रामेण कौसल्या शुभ-दर्शना।तथा इति उवाच सु प्रीता रामम् अक्लिष्ट-कारिणम्॥ १४॥
evam uktā tu rāmeṇa kausalyā śubha-darśanā.tathā iti uvāca su prītā rāmam akliṣṭa-kāriṇam.. 14..
एवमुक्तस्तु वचनं रामो धर्मभृतां वरः।भूयस्तामब्रवीद् वाक्यं मातरं भृशदुःखिताम्॥ १५॥
एवम् उक्तः तु वचनम् रामः धर्म-भृताम् वरः।भूयस् ताम् अब्रवीत् वाक्यम् मातरम् भृश-दुःखिताम्॥ १५॥
evam uktaḥ tu vacanam rāmaḥ dharma-bhṛtām varaḥ.bhūyas tām abravīt vākyam mātaram bhṛśa-duḥkhitām.. 15..
मया चैव भवत्या च कर्तव्यं वचनं पितुः।राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः॥ १६॥
मया च एव भवत्या च कर्तव्यम् वचनम् पितुः।राजा भर्ता गुरुः श्रेष्ठः सर्वेषाम् ईश्वरः प्रभुः॥ १६॥
mayā ca eva bhavatyā ca kartavyam vacanam pituḥ.rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ.. 16..
इमानि तु महारण्ये विहृत्य नव पञ्च च।वर्षाणि परमप्रीत्या स्थास्यामि वचने तव॥ १७॥
इमानि तु महा-अरण्ये विहृत्य नव पञ्च च।वर्षाणि परम-प्रीत्या स्थास्यामि वचने तव॥ १७॥
imāni tu mahā-araṇye vihṛtya nava pañca ca.varṣāṇi parama-prītyā sthāsyāmi vacane tava.. 17..
एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा।उवाच परमार्ता तु कौसल्या सुतवत्सला॥ १८॥
एवम् उक्ता प्रियम् पुत्रम् बाष्प-पूर्ण-आनना तदा।उवाच परम-आर्ता तु कौसल्या सुत-वत्सला॥ १८॥
evam uktā priyam putram bāṣpa-pūrṇa-ānanā tadā.uvāca parama-ārtā tu kausalyā suta-vatsalā.. 18..
आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम्।नय मामपि काकुत्स्थ वनं वन्यां मृगीमिव॥ १९॥
आसाम् राम सपत्नीनाम् वस्तुम् मध्ये न मे क्षमम्।नय माम् अपि काकुत्स्थ वनम् वन्याम् मृगीम् इव॥ १९॥
āsām rāma sapatnīnām vastum madhye na me kṣamam.naya mām api kākutstha vanam vanyām mṛgīm iva.. 19..
यदि ते गमने बुद्धिः कृता पितरपेक्षया।तां तथा रुदतीं रामो रुदन् वचनमब्रवीत्॥ २०॥
यदि ते गमने बुद्धिः कृता पितर्-अपेक्षया।ताम् तथा रुदतीम् रामः रुदन् वचनम् अब्रवीत्॥ २०॥
yadi te gamane buddhiḥ kṛtā pitar-apekṣayā.tām tathā rudatīm rāmaḥ rudan vacanam abravīt.. 20..
जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च।भवत्या मम चैवाद्य राजा प्रभवति प्रभुः॥ २१॥
जीवन्त्या हि स्त्रियाः भर्ता दैवतम् प्रभुः एव च।भवत्याः मम च एव अद्य राजा प्रभवति प्रभुः॥ २१॥
jīvantyā hi striyāḥ bhartā daivatam prabhuḥ eva ca.bhavatyāḥ mama ca eva adya rājā prabhavati prabhuḥ.. 21..
न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता।भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः॥ २२॥
न हि अनाथाः वयम् राज्ञा लोक-नाथेन धीमता।भरतः च अपि धर्म-आत्मा सर्व-भूत-प्रियंवदः॥ २२॥
na hi anāthāḥ vayam rājñā loka-nāthena dhīmatā.bharataḥ ca api dharma-ātmā sarva-bhūta-priyaṃvadaḥ.. 22..
भवतीमनुवर्तेत स हि धर्मरतः सदा।दारुणश्चाप्ययं शोको यथैनं न विनाशयेत्॥ २४॥
भवतीम् अनुवर्तेत स हि धर्म-रतः सदा।दारुणः च अपि अयम् शोकः यथा एनम् न विनाशयेत्॥ २४॥
bhavatīm anuvarteta sa hi dharma-rataḥ sadā.dāruṇaḥ ca api ayam śokaḥ yathā enam na vināśayet.. 24..
राज्ञो वृद्धस्य सततं हितं चर समाहिता।व्रतोपवासनिरता या नारी परमोत्तमा॥ २५॥
राज्ञः वृद्धस्य सततम् हितम् चर समाहिता।व्रत-उपवास-निरता या नारी परम-उत्तमा॥ २५॥
rājñaḥ vṛddhasya satatam hitam cara samāhitā.vrata-upavāsa-niratā yā nārī parama-uttamā.. 25..
भर्तारं नानुवर्तेत सा च पापगतिर्भवेत्।भर्तुः शुश्रूषया नारी लभते स्वर्गमुत्तमम्॥ २६॥
भर्तारम् न अनुवर्तेत सा च पाप-गतिः भवेत्।भर्तुः शुश्रूषया नारी लभते स्वर्गम् उत्तमम्॥ २६॥
bhartāram na anuvarteta sā ca pāpa-gatiḥ bhavet.bhartuḥ śuśrūṣayā nārī labhate svargam uttamam.. 26..
अपि या निर्नमस्कारा निवृत्ता देवपूजनात्।शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता॥ २७॥
अपि याः निर्नमस्काराः निवृत्ताः देव-पूजनात्।शुश्रूषाम् एव कुर्वीत भर्तुः प्रिय-हिते रता॥ २७॥
api yāḥ nirnamaskārāḥ nivṛttāḥ deva-pūjanāt.śuśrūṣām eva kurvīta bhartuḥ priya-hite ratā.. 27..
एष धर्मः स्त्रिया नित्यो वेदे लोके श्रुतः स्मृतः।अग्निकार्येषु च सदा सुमनोभिश्च देवताः॥ २८॥
एष धर्मः स्त्रियाः नित्यः वेदे लोके श्रुतः स्मृतः।अग्नि-कार्येषु च सदा सुमनोभिः च देवताः॥ २८॥
eṣa dharmaḥ striyāḥ nityaḥ vede loke śrutaḥ smṛtaḥ.agni-kāryeṣu ca sadā sumanobhiḥ ca devatāḥ.. 28..
पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सत्कृताः।एवं कालं प्रतीक्षस्व ममागमनकांक्षिणी॥ २९॥
पूज्याः ते मद्-कृते देवि ब्राह्मणाः च एव सत्कृताः।एवम् कालम् प्रतीक्षस्व मम आगमन-कांक्षिणी॥ २९॥
pūjyāḥ te mad-kṛte devi brāhmaṇāḥ ca eva satkṛtāḥ.evam kālam pratīkṣasva mama āgamana-kāṃkṣiṇī.. 29..
नियता नियताहारा भर्तृशुश्रूषणे रता।प्राप्स्यसे परमं कामं मयि पर्यागते सति॥ ३०॥
नियता नियत-आहारा भर्तृ-शुश्रूषणे रता।प्राप्स्यसे परमम् कामम् मयि पर्यागते सति॥ ३०॥
niyatā niyata-āhārā bhartṛ-śuśrūṣaṇe ratā.prāpsyase paramam kāmam mayi paryāgate sati.. 30..
यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम्।एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा॥ ३१॥
यदि धर्म-भृताम् श्रेष्ठः धारयिष्यति जीवितम्।एवम् उक्ता तु रामेण बाष्प-पर्याकुल-ईक्षणा॥ ३१॥
yadi dharma-bhṛtām śreṣṭhaḥ dhārayiṣyati jīvitam.evam uktā tu rāmeṇa bāṣpa-paryākula-īkṣaṇā.. 31..
कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत्।गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक॥ ३२॥
कौसल्या पुत्र-शोक-आर्ता रामम् वचनम् अब्रवीत्।गमने सु कृताम् बुद्धिम् न ते शक्नोमि पुत्रक॥ ३२॥
kausalyā putra-śoka-ārtā rāmam vacanam abravīt.gamane su kṛtām buddhim na te śaknomi putraka.. 32..
विनिवर्तयितुं वीर नूनं कालो दुरत्ययः।गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो॥ ३३॥
विनिवर्तयितुम् वीर नूनम् कालः दुरत्ययः।गच्छ पुत्र त्वम् एकाग्रः भद्रम् ते अस्तु सदा विभो॥ ३३॥
vinivartayitum vīra nūnam kālaḥ duratyayaḥ.gaccha putra tvam ekāgraḥ bhadram te astu sadā vibho.. 33..
पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा।प्रत्यागते महाभागे कृतार्थे चरितव्रते।पितुरानृण्यतां प्राप्ते स्वपिष्ये परमं सुखम्॥ ३४॥
पुनर् त्वयि निवृत्ते तु भविष्यामि गत-क्लमा।प्रत्यागते महाभागे कृतार्थे चरित-व्रते।पितुः आनृण्य-ताम् प्राप्ते स्वपिष्ये परमम् सुखम्॥ ३४॥
punar tvayi nivṛtte tu bhaviṣyāmi gata-klamā.pratyāgate mahābhāge kṛtārthe carita-vrate.pituḥ ānṛṇya-tām prāpte svapiṣye paramam sukham.. 34..
कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि।यस्त्वां संचोदयति मे वच आविध्य राघव॥ ३५॥
कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि।यः त्वाम् संचोदयति मे वचः आविध्य राघव॥ ३५॥
kṛtāntasya gatiḥ putra durvibhāvyā sadā bhuvi.yaḥ tvām saṃcodayati me vacaḥ āvidhya rāghava.. 35..
गच्छेदानीं महाबाहो क्षेमेण पुनरागतः।नन्दयिष्यसि मां पुत्र साम्ना श्लक्ष्णेन चारुणा॥ ३६॥
गच्छ इदानीम् महा-बाहो क्षेमेण पुनर् आगतः।नन्दयिष्यसि माम् पुत्र साम्ना श्लक्ष्णेन चारुणा॥ ३६॥
gaccha idānīm mahā-bāho kṣemeṇa punar āgataḥ.nandayiṣyasi mām putra sāmnā ślakṣṇena cāruṇā.. 36..
अपीदानीं स कालः स्याद् वनात् प्रत्यागतं पुनः।यत् त्वां पुत्रक पश्येयं जटावल्कलधारिणम्॥ ३७॥
अपि इदानीम् स कालः स्यात् वनात् प्रत्यागतम् पुनर्।यत् त्वाम् पुत्रक पश्येयम् जटा-वल्कल-धारिणम्॥ ३७॥
api idānīm sa kālaḥ syāt vanāt pratyāgatam punar.yat tvām putraka paśyeyam jaṭā-valkala-dhāriṇam.. 37..
तथा हि रामं वनवासनिश्चितं ददर्श देवी परमेण चेतसा।उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकांक्षिणी॥ ३८॥
तथा हि रामम् वन-वास-निश्चितम् ददर्श देवी परमेण चेतसा।उवाच रामम् शुभ-लक्षणम् वचः बभूव च स्वस्त्ययन-अभिकांक्षिणी॥ ३८॥
tathā hi rāmam vana-vāsa-niścitam dadarśa devī parameṇa cetasā.uvāca rāmam śubha-lakṣaṇam vacaḥ babhūva ca svastyayana-abhikāṃkṣiṇī.. 38..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्विंशः सर्गः ॥२-२४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे चतुर्विंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe caturviṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In