This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्थः सर्गः ॥२-४॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे चतुर्थः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe caturthaḥ sargaḥ ..2..
गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः।मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः स निश्चयम्॥ १॥
गतेषु अथ नृपः भूयस् पौरेषु सह मन्त्रिभिः।मन्त्रयित्वा ततस् चक्रे निश्चय-ज्ञः स निश्चयम्॥ १॥
gateṣu atha nṛpaḥ bhūyas paureṣu saha mantribhiḥ.mantrayitvā tatas cakre niścaya-jñaḥ sa niścayam.. 1..
श्व एव पुष्यो भविता श्वोऽभिषेच्यस्तु मे सुतः।रामो राजीवपत्राक्षो युवराज इति प्रभुः॥ २॥
श्वस् एव पुष्यः भविता श्वस् अभिषेच्यः तु मे सुतः।रामः राजीव-पत्र-अक्षः युवराजः इति प्रभुः॥ २॥
śvas eva puṣyaḥ bhavitā śvas abhiṣecyaḥ tu me sutaḥ.rāmaḥ rājīva-patra-akṣaḥ yuvarājaḥ iti prabhuḥ.. 2..
अथान्तर्गृहमाविश्य राजा दशरथस्तदा।सूतमामन्त्रयामास रामं पुनरिहानय॥ ३॥
अथ अन्तर्गृहम् आविश्य राजा दशरथः तदा।सूतम् आमन्त्रयामास रामम् पुनर् इह आनय॥ ३॥
atha antargṛham āviśya rājā daśarathaḥ tadā.sūtam āmantrayāmāsa rāmam punar iha ānaya.. 3..
प्रतिगृह्य तु तद्वाक्यं सूतः पुनरुपाययौ।रामस्य भवनं शीघ्रं राममानयितुं पुनः॥ ४॥
प्रतिगृह्य तु तत् वाक्यम् सूतः पुनर् उपाययौ।रामस्य भवनम् शीघ्रम् रामम् आनयितुम् पुनर्॥ ४॥
pratigṛhya tu tat vākyam sūtaḥ punar upāyayau.rāmasya bhavanam śīghram rāmam ānayitum punar.. 4..
द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः।श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत्॥ ५॥
द्वाःस्थैः आवेदितम् तस्य रामाय आगमनम् पुनर्।श्रुत्वा एव च अपि रामः तम् प्राप्तम् शङ्का-अन्वितः अभवत्॥ ५॥
dvāḥsthaiḥ āveditam tasya rāmāya āgamanam punar.śrutvā eva ca api rāmaḥ tam prāptam śaṅkā-anvitaḥ abhavat.. 5..
प्रवेश्य चैनं त्वरितो रामो वचनमब्रवीत्।यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः॥ ६॥
प्रवेश्य च एनम् त्वरितः रामः वचनम् अब्रवीत्।यत् आगमन-कृत्यम् ते भूयस् तत् ब्रूहि अशेषतस्॥ ६॥
praveśya ca enam tvaritaḥ rāmaḥ vacanam abravīt.yat āgamana-kṛtyam te bhūyas tat brūhi aśeṣatas.. 6..
तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति।श्रुत्वा प्रमाणं तत्र त्वं गमनायेतराय वा॥ ७॥
तम् उवाच ततस् सूतः राजा त्वाम् द्रष्टुम् इच्छति।श्रुत्वा प्रमाणम् तत्र त्वम् गमनाय इतराय वा॥ ७॥
tam uvāca tatas sūtaḥ rājā tvām draṣṭum icchati.śrutvā pramāṇam tatra tvam gamanāya itarāya vā.. 7..
इति सूतवचः श्रुत्वा रामोऽपि त्वरयान्वितः।प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम्॥ ८॥
इति सूत-वचः श्रुत्वा रामः अपि त्वरया अन्वितः।प्रययौ राज-भवनम् पुनर् द्रष्टुम् नरेश्वरम्॥ ८॥
iti sūta-vacaḥ śrutvā rāmaḥ api tvarayā anvitaḥ.prayayau rāja-bhavanam punar draṣṭum nareśvaram.. 8..
तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः।प्रवेशयामास गृहं विवक्षुः प्रियमुत्तमम्॥ ९॥
तम् श्रुत्वा समनुप्राप्तम् रामम् दशरथः नृपः।प्रवेशयामास गृहम् विवक्षुः प्रियम् उत्तमम्॥ ९॥
tam śrutvā samanuprāptam rāmam daśarathaḥ nṛpaḥ.praveśayāmāsa gṛham vivakṣuḥ priyam uttamam.. 9..
प्रविशन्नेव च श्रीमान् राघवो भवनं पितुः।ददर्श पितरं दूरात् प्रणिपत्य कृताञ्जलिः॥ १०॥
प्रविशन् एव च श्रीमान् राघवः भवनम् पितुः।ददर्श पितरम् दूरात् प्रणिपत्य कृताञ्जलिः॥ १०॥
praviśan eva ca śrīmān rāghavaḥ bhavanam pituḥ.dadarśa pitaram dūrāt praṇipatya kṛtāñjaliḥ.. 10..
प्रणमन्तं तमुत्थाप्य सम्परिष्वज्य भूमिपः।प्रदिश्य चासनं चास्मै रामं च पुनरब्रवीत्॥ ११॥
प्रणमन्तम् तम् उत्थाप्य सम्परिष्वज्य भूमिपः।प्रदिश्य च आसनम् च अस्मै रामम् च पुनर् अब्रवीत्॥ ११॥
praṇamantam tam utthāpya sampariṣvajya bhūmipaḥ.pradiśya ca āsanam ca asmai rāmam ca punar abravīt.. 11..
राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा यथेप्सिताः।अन्नवद्भिः क्रतुशतैर्यथेष्टं भूरिदक्षिणैः॥ १२॥
राम वृद्धः अस्मि दीर्घ-आयुः भुक्ताः भोगाः यथा ईप्सिताः।अन्नवद्भिः क्रतु-शतैः यथेष्टम् भूरि-दक्षिणैः॥ १२॥
rāma vṛddhaḥ asmi dīrgha-āyuḥ bhuktāḥ bhogāḥ yathā īpsitāḥ.annavadbhiḥ kratu-śataiḥ yatheṣṭam bhūri-dakṣiṇaiḥ.. 12..
जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि।दत्तमिष्टमधीतं च मया पुरुषसत्तम॥ १३॥
जातम् इष्टम् अपत्यम् मे त्वम् अद्य अनुपमम् भुवि।दत्तम् इष्टम् अधीतम् च मया पुरुष-सत्तम॥ १३॥
jātam iṣṭam apatyam me tvam adya anupamam bhuvi.dattam iṣṭam adhītam ca mayā puruṣa-sattama.. 13..
अनुभूतानि चेष्टानि मया वीर सुखान्यपि।देवर्षिपितृविप्राणामनृणोऽस्मि तथाऽऽत्मनः॥ १४॥
अनुभूतानि च इष्टानि मया वीर सुखानि अपि।देव-ऋषि-पितृ-विप्राणाम् अनृणः अस्मि तथा आत्मनः॥ १४॥
anubhūtāni ca iṣṭāni mayā vīra sukhāni api.deva-ṛṣi-pitṛ-viprāṇām anṛṇaḥ asmi tathā ātmanaḥ.. 14..
न किंचिन्मम कर्तव्यं तवान्यत्राभिषेचनात्।अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि॥ १५॥
न किंचिद् मम कर्तव्यम् तव अन्यत्र अभिषेचनात्।अतस् यत् त्वाम् अहम् ब्रूयाम् तत् मे त्वम् कर्तुम् अर्हसि॥ १५॥
na kiṃcid mama kartavyam tava anyatra abhiṣecanāt.atas yat tvām aham brūyām tat me tvam kartum arhasi.. 15..
अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम्।अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक॥ १६॥
अद्य प्रकृतयः सर्वाः त्वाम् इच्छन्ति नराधिपम्।अतस् त्वाम् युवराजानम् अभिषेक्ष्यामि पुत्रक॥ १६॥
adya prakṛtayaḥ sarvāḥ tvām icchanti narādhipam.atas tvām yuvarājānam abhiṣekṣyāmi putraka.. 16..
अपि चाद्याशुभान् राम स्वप्नान् पश्यामि राघव।सनिर्घाता दिवोल्काश्च पतन्ति हि महास्वनाः॥ १७॥
अपि च अद्य अशुभान् राम स्वप्नान् पश्यामि राघव।स निर्घाताः दिवा उल्काः च पतन्ति हि महा-स्वनाः॥ १७॥
api ca adya aśubhān rāma svapnān paśyāmi rāghava.sa nirghātāḥ divā ulkāḥ ca patanti hi mahā-svanāḥ.. 17..
अवष्टब्धं च मे राम नक्षत्रं दारुणग्रहैः।आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः॥ १८॥
अवष्टब्धम् च मे राम नक्षत्रम् दारुण-ग्रहैः।आवेदयन्ति दैवज्ञाः सूर्य-अङ्गारक-राहुभिः॥ १८॥
avaṣṭabdham ca me rāma nakṣatram dāruṇa-grahaiḥ.āvedayanti daivajñāḥ sūrya-aṅgāraka-rāhubhiḥ.. 18..
प्रायेण च निमित्तानामीदृशानां समुद्भवे।राजा हि मृत्युमाप्नोति घोरां चापदमृच्छति॥ १९॥
प्रायेण च निमित्तानाम् ईदृशानाम् समुद्भवे।राजा हि मृत्युम् आप्नोति घोराम् च आपदम् ऋच्छति॥ १९॥
prāyeṇa ca nimittānām īdṛśānām samudbhave.rājā hi mṛtyum āpnoti ghorām ca āpadam ṛcchati.. 19..
तद् यावदेव मे चेतो न विमुह्यति राघव।तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः॥ २०॥
तत् यावत् एव मे चेतः न विमुह्यति राघव।तावत् एव अभिषिञ्चस्व चला हि प्राणिनाम् मतिः॥ २०॥
tat yāvat eva me cetaḥ na vimuhyati rāghava.tāvat eva abhiṣiñcasva calā hi prāṇinām matiḥ.. 20..
अद्य चन्द्रोऽभ्युपगमत् पुष्यात् पूर्वं पुनर्वसुम्।श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः॥ २१॥
अद्य चन्द्रः अभ्युपगमत् पुष्यात् पूर्वम् पुनर्वसुम्।श्वस् पुष्य-योगम् नियतम् वक्ष्यन्ते दैव-चिन्तकाः॥ २१॥
adya candraḥ abhyupagamat puṣyāt pūrvam punarvasum.śvas puṣya-yogam niyatam vakṣyante daiva-cintakāḥ.. 21..
तत्र पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम्।श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप॥ २२॥
तत्र पुष्ये अभिषिञ्चस्व मनः त्वरयति इव माम्।श्वस् त्वा अहम् अभिषेक्ष्यामि यौवराज्ये परंतप॥ २२॥
tatra puṣye abhiṣiñcasva manaḥ tvarayati iva mām.śvas tvā aham abhiṣekṣyāmi yauvarājye paraṃtapa.. 22..
तस्मात् त्वयाद्यप्रभृति निशेयं नियतात्मना।सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना॥ २३॥
तस्मात् त्वया अद्य प्रभृति निशा इयम् नियत-आत्मना।सह वध्वा उपवस्तव्या दर्भ-प्रस्तर-शायिना॥ २३॥
tasmāt tvayā adya prabhṛti niśā iyam niyata-ātmanā.saha vadhvā upavastavyā darbha-prastara-śāyinā.. 23..
सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः।भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि॥ २४॥
सुहृदः च अप्रमत्ताः त्वाम् रक्षन्तु अद्य समन्ततः।भवन्ति बहु-विघ्नानि कार्याणि एवंविधानि हि॥ २४॥
suhṛdaḥ ca apramattāḥ tvām rakṣantu adya samantataḥ.bhavanti bahu-vighnāni kāryāṇi evaṃvidhāni hi.. 24..
विप्रोषितश्च भरतो यावदेव पुरादितः।तावदेवाभिषेकस्ते प्राप्तकालो मतो मम॥ २५॥
विप्रोषितः च भरतः यावत् एव पुरा आदितस्।तावत् एव अभिषेकः ते प्राप्त-कालः मतः मम॥ २५॥
viproṣitaḥ ca bharataḥ yāvat eva purā āditas.tāvat eva abhiṣekaḥ te prāpta-kālaḥ mataḥ mama.. 25..
कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः।ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः॥ २६॥
कामम् खलु सताम् वृत्ते भ्राता ते भरतः स्थितः।ज्येष्ठ-अनुवर्ती धर्म-आत्मा स अनुक्रोशः जित-इन्द्रियः॥ २६॥
kāmam khalu satām vṛtte bhrātā te bharataḥ sthitaḥ.jyeṣṭha-anuvartī dharma-ātmā sa anukrośaḥ jita-indriyaḥ.. 26..
किं नु चित्तं मनुष्याणामनित्यमिति मे मतम्।सतां च धर्मनित्यानां कृतशोभि च राघव॥ २७॥
किम् नु चित्तम् मनुष्याणाम् अनित्यम् इति मे मतम्।सताम् च धर्म-नित्यानाम् कृत-शोभि च राघव॥ २७॥
kim nu cittam manuṣyāṇām anityam iti me matam.satām ca dharma-nityānām kṛta-śobhi ca rāghava.. 27..
इत्युक्तः सोऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने।व्रजेति रामः पितरमभिवाद्याभ्ययाद् गृहम्॥ २८॥
इति उक्तः सः अभ्यनुज्ञातः श्वस् भाविनि अभिषेचने।व्रज इति रामः पितरम् अभिवाद्य अभ्ययात् गृहम्॥ २८॥
iti uktaḥ saḥ abhyanujñātaḥ śvas bhāvini abhiṣecane.vraja iti rāmaḥ pitaram abhivādya abhyayāt gṛham.. 28..
प्रविश्य चात्मनो वेश्म राज्ञाऽऽदिष्टेऽभिषेचने।तत्क्षणादेव निष्क्रम्य मातुरन्तःपुरं ययौ॥ २९॥
प्रविश्य च आत्मनः वेश्म राज्ञा आदिष्टे अभिषेचने।तद्-क्षणात् एव निष्क्रम्य मातुः अन्तःपुरम् ययौ॥ २९॥
praviśya ca ātmanaḥ veśma rājñā ādiṣṭe abhiṣecane.tad-kṣaṇāt eva niṣkramya mātuḥ antaḥpuram yayau.. 29..
तत्र तां प्रवणामेव मातरं क्षौमवासिनीम्।वाग्यतां देवतागारे ददर्शायाचतीं श्रियम्॥ ३०॥
तत्र ताम् प्रवणाम् एव मातरम् क्षौम-वासिनीम्।वाग्यताम् देवतागारे ददर्श अ याचतीम् श्रियम्॥ ३०॥
tatra tām pravaṇām eva mātaram kṣauma-vāsinīm.vāgyatām devatāgāre dadarśa a yācatīm śriyam.. 30..
प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तथा।सीता चानयिता श्रुत्वा प्रियं रामाभिषेचनम्॥ ३१॥
प्राक् एव च आगता तत्र सुमित्रा लक्ष्मणः तथा।सीता च अनयिता श्रुत्वा प्रियम् राम-अभिषेचनम्॥ ३१॥
prāk eva ca āgatā tatra sumitrā lakṣmaṇaḥ tathā.sītā ca anayitā śrutvā priyam rāma-abhiṣecanam.. 31..
तस्मिन् कालेऽपि कौसल्या तस्थावामीलितेक्षणा।सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च॥ ३२॥
तस्मिन् काले अपि कौसल्या तस्थौ आमीलित-ईक्षणा।सुमित्रया अन्वास्यमाना सीतया लक्ष्मणेन च॥ ३२॥
tasmin kāle api kausalyā tasthau āmīlita-īkṣaṇā.sumitrayā anvāsyamānā sītayā lakṣmaṇena ca.. 32..
श्रुत्वा पुष्ये च पुत्रस्य यौवराज्येऽभिषेचनम्।प्राणायामेन पुरुषं ध्यायमाना जनार्दनम्॥ ३३॥
श्रुत्वा पुष्ये च पुत्रस्य यौवराज्ये अभिषेचनम्।प्राणायामेन पुरुषम् ध्यायमानाः जनार्दनम्॥ ३३॥
śrutvā puṣye ca putrasya yauvarājye abhiṣecanam.prāṇāyāmena puruṣam dhyāyamānāḥ janārdanam.. 33..
तथा सनियमामेव सोऽभिगम्याभिवाद्य च।उवाच वचनं रामो हर्षयंस्तामिदं वरम्॥ ३४॥
तथा स नियमाम् एव सः अभिगम्य अभिवाद्य च।उवाच वचनम् रामः हर्षयन् ताम् इदम् वरम्॥ ३४॥
tathā sa niyamām eva saḥ abhigamya abhivādya ca.uvāca vacanam rāmaḥ harṣayan tām idam varam.. 34..
अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि।भविता श्वोऽभिषेको मे यथा मे शासनं पितुः॥ ३५॥
अम्ब पित्रा नियुक्तः अस्मि प्रजा-पालन-कर्मणि।भविता श्वस् अभिषेकः मे यथा मे शासनम् पितुः॥ ३५॥
amba pitrā niyuktaḥ asmi prajā-pālana-karmaṇi.bhavitā śvas abhiṣekaḥ me yathā me śāsanam pituḥ.. 35..
सीतयाप्युपवस्तव्या रजनीयं मया सह।एवमुक्तमुपाध्यायैः स हि मामुक्तवान् पिता॥ ३६॥
सीतया अपि उपवस्तव्या रजनीयम् मया सह।एवम् उक्तम् उपाध्यायैः स हि माम् उक्तवान् पिता॥ ३६॥
sītayā api upavastavyā rajanīyam mayā saha.evam uktam upādhyāyaiḥ sa hi mām uktavān pitā.. 36..
यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने।तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय॥ ३७॥
यानि यानि अत्र योग्यानि श्वस् भाविनि अभिषेचने।तानि मे मङ्गलानि अद्य वैदेह्याः च एव कारय॥ ३७॥
yāni yāni atra yogyāni śvas bhāvini abhiṣecane.tāni me maṅgalāni adya vaidehyāḥ ca eva kāraya.. 37..
एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकांक्षितम्।हर्षबाष्पाकुलं वाक्यमिदं राममभाषत॥ ३८॥
एतत् श्रुत्वा तु कौसल्या चिर-काल-अभिकांक्षितम्।हर्ष-बाष्प-आकुलम् वाक्यम् इदम् रामम् अभाषत॥ ३८॥
etat śrutvā tu kausalyā cira-kāla-abhikāṃkṣitam.harṣa-bāṣpa-ākulam vākyam idam rāmam abhāṣata.. 38..
वत्स राम चिरं जीव हतास्ते परिपन्थिनः।ज्ञातीन् मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय॥ ३९॥
वत्स राम चिरम् जीव हताः ते परिपन्थिनः।ज्ञातीन् मे त्वम् श्रिया युक्तः सुमित्रायाः च नन्दय॥ ३९॥
vatsa rāma ciram jīva hatāḥ te paripanthinaḥ.jñātīn me tvam śriyā yuktaḥ sumitrāyāḥ ca nandaya.. 39..
कल्याणे बत नक्षत्रे मया जातोऽसि पुत्रक।येन त्वया दशरथो गुणैराराधितः पिता॥ ४०॥
कल्याणे बत नक्षत्रे मया जातः असि पुत्रक।येन त्वया दशरथः गुणैः आराधितः पिता॥ ४०॥
kalyāṇe bata nakṣatre mayā jātaḥ asi putraka.yena tvayā daśarathaḥ guṇaiḥ ārādhitaḥ pitā.. 40..
अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे।येयमिक्ष्वाकुराजश्रीः पुत्र त्वां संश्रयिष्यति॥ ४१॥
अमोघम् बत मे क्षान्तम् पुरुषे पुष्कर-ईक्षणे।या इयम् इक्ष्वाकु-राज-श्रीः पुत्र त्वाम् संश्रयिष्यति॥ ४१॥
amogham bata me kṣāntam puruṣe puṣkara-īkṣaṇe.yā iyam ikṣvāku-rāja-śrīḥ putra tvām saṃśrayiṣyati.. 41..
इत्येवमुक्तो मात्रा तु रामो भ्रातरमब्रवीत्।प्राञ्जलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव॥ ४२॥
इति एवम् उक्तः मात्रा तु रामः भ्रातरम् अब्रवीत्।प्राञ्जलिम् प्रह्वम् आसीनम् अभिवीक्ष्य स्मयन् इव॥ ४२॥
iti evam uktaḥ mātrā tu rāmaḥ bhrātaram abravīt.prāñjalim prahvam āsīnam abhivīkṣya smayan iva.. 42..
लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम्।द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता॥ ४३॥
लक्ष्मण इमाम् मया सार्धम् प्रशाधि त्वम् वसुंधराम्।द्वितीयम् मे अन्तरात्मानम् त्वाम् इयम् श्रीः उपस्थिता॥ ४३॥
lakṣmaṇa imām mayā sārdham praśādhi tvam vasuṃdharām.dvitīyam me antarātmānam tvām iyam śrīḥ upasthitā.. 43..
सौमित्रे भुङ्क्ष्व भोगांस्त्वमिष्टान् राज्यफलानिच।जीवितं चापि राज्यं च त्वदर्थमभिकामये॥ ४४॥
सौमित्रे भुङ्क्ष्व भोगान् त्वम् इष्टान् राज्य-फलानि च।जीवितम् च अपि राज्यम् च त्वद्-अर्थम् अभिकामये॥ ४४॥
saumitre bhuṅkṣva bhogān tvam iṣṭān rājya-phalāni ca.jīvitam ca api rājyam ca tvad-artham abhikāmaye.. 44..
इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च।अभ्यनुज्ञाप्य सीतां च ययौ स्वं च निवेशनम्॥ ४५॥
इति उक्त्वा लक्ष्मणम् रामः मातरौ अभिवाद्य च।अभ्यनुज्ञाप्य सीताम् च ययौ स्वम् च निवेशनम्॥ ४५॥
iti uktvā lakṣmaṇam rāmaḥ mātarau abhivādya ca.abhyanujñāpya sītām ca yayau svam ca niveśanam.. 45..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्थः सर्गः ॥२-४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे चतुर्थः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe caturthaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In