This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-५२॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे द्विपञ्चाशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe dvipañcāśaḥ sargaḥ ..2..
प्रभातायाम् तु शर्वर्याम् पृथु वृक्षा महा यशाः ।उवाच रामः सौमित्रिम् लक्ष्मणम् शुभ लक्षणम् ॥२-५२-१॥
प्रभातायाम् तु शर्वर्याम् पृथु-वृक्षा महा-यशाः ।उवाच रामः सौमित्रिम् लक्ष्मणम् शुभ-लक्षणम् ॥२॥
prabhātāyām tu śarvaryām pṛthu-vṛkṣā mahā-yaśāḥ .uvāca rāmaḥ saumitrim lakṣmaṇam śubha-lakṣaṇam ..2..
भास्कर उदय कालो अयम् गता भगवती निशा ।असौ सुकृष्णो विहगः कोकिलः तात कूजति ॥२-५२-२॥
भास्कर-उदय-कालः अयम् गता भगवती निशा ।असौ सु कृष्णः विहगः कोकिलः तात कूजति ॥२॥
bhāskara-udaya-kālaḥ ayam gatā bhagavatī niśā .asau su kṛṣṇaḥ vihagaḥ kokilaḥ tāta kūjati ..2..
बर्हिणानाम् च निर्घोषः श्रूयते नदताम् वने ।तराम जाह्नवीम् सौम्य शीघ्रगाम् सागरम् गमाम् ॥२-५२-३॥
बर्हिणानाम् च निर्घोषः श्रूयते नदताम् वने ।तराम जाह्नवीम् सौम्य शीघ्रगाम् सागरम् गमाम् ॥२॥
barhiṇānām ca nirghoṣaḥ śrūyate nadatām vane .tarāma jāhnavīm saumya śīghragām sāgaram gamām ..2..
विज्ञाय रामस्य वचः सौमित्रिर् मित्र नन्दनः ।गुहम् आमन्त्र्य सूतम् च सो अतिष्ठद् भ्रातुर् अग्रतः ॥२-५२-४॥
विज्ञाय रामस्य वचः सौमित्रिः मित्र नन्दनः ।गुहम् आमन्त्र्य सूतम् च सः अतिष्ठत् भ्रातुः अग्रतस् ॥२॥
vijñāya rāmasya vacaḥ saumitriḥ mitra nandanaḥ .guham āmantrya sūtam ca saḥ atiṣṭhat bhrātuḥ agratas ..2..
स तु रामस्य वचनम् निशम्य प्रतिगृह्य च ।स्थपतिस्तूर्णमाहुय सचिवानिदमब्रवीत् ॥२-५२-५॥
स तु रामस्य वचनम् निशम्य प्रतिगृह्य च ।स्थपतिः तूर्णम् आहुय सचिवान् इदम् अब्रवीत् ॥२॥
sa tu rāmasya vacanam niśamya pratigṛhya ca .sthapatiḥ tūrṇam āhuya sacivān idam abravīt ..2..
अस्य वाहनसम्युक्ताम् कर्णग्राहवतीम् शुभाम् ।सुप्रताराम् दृढाम् तीर्खे शीग्रम् नावमुपाहर ॥२-५२-६॥
अस्य वाहन-सम्युक्ताम् कर्णग्राहवतीम् शुभाम् ।सुप्रताराम् दृढाम् तीर्खे शीग्रम् नावम् उपाहर ॥२॥
asya vāhana-samyuktām karṇagrāhavatīm śubhām .supratārām dṛḍhām tīrkhe śīgram nāvam upāhara ..2..
तम् निशम्य समादेशम् गुहामात्यगणो महान् ।उपोह्य रुचिराम् नावम् गुहाय प्रत्यवेदयत् ॥२-५२-७॥
तम् निशम्य समादेशम् गुहा-अमात्य-गणः महान् ।उपोह्य रुचिराम् नावम् गुहाय प्रत्यवेदयत् ॥२॥
tam niśamya samādeśam guhā-amātya-gaṇaḥ mahān .upohya rucirām nāvam guhāya pratyavedayat ..2..
ततः सप्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् ।उपस्थितेयम् नौर्देव भूयः किम् करवाणि ते ॥२-५२-८॥
ततस् स प्राञ्जलिः भूत्वा गुहः राघवम् अब्रवीत् ।उपस्थिता इयम् नौः देव भूयस् किम् करवाणि ते ॥२॥
tatas sa prāñjaliḥ bhūtvā guhaḥ rāghavam abravīt .upasthitā iyam nauḥ deva bhūyas kim karavāṇi te ..2..
तवामरसुतप्रख्य तर्तुम् सागरगाम् नदीम् ।नौरियम् पुरुषव्याग्र! ताम् त्वमारोह सुव्रत! ॥२-५२-९॥
तव अमर-सुत-प्रख्य तर्तुम् सागरगाम् नदीम् ।नौः इयम् पुरुष-व्या अग्र! ताम् त्वम् आरोह सुव्रत! ॥२॥
tava amara-suta-prakhya tartum sāgaragām nadīm .nauḥ iyam puruṣa-vyā agra! tām tvam āroha suvrata! ..2..
अथोवाच महातेजा रामो गुहमिदम् वचः ।कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥२-५२-१०॥
अथा उवाच महा-तेजाः रामः गुहम् इदम् वचः ।कृत-कामः अस्मि भवता शीघ्रम् आरोप्यताम् इति ॥२॥
athā uvāca mahā-tejāḥ rāmaḥ guham idam vacaḥ .kṛta-kāmaḥ asmi bhavatā śīghram āropyatām iti ..2..
ततः कलापान् सम्नह्य खड्गौ बद्ध्वा च धन्विनौ ।जग्मतुर् येन तौ गन्गाम् सीतया सह राघवौ ॥२-५२-११॥
ततस् कलापान् सम्नह्य खड्गौ बद्ध्वा च धन्विनौ ।जग्मतुः येन तौ गन्गाम् सीतया सह राघवौ ॥२॥
tatas kalāpān samnahya khaḍgau baddhvā ca dhanvinau .jagmatuḥ yena tau gangām sītayā saha rāghavau ..2..
रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् ।किम् अहम् करवाणि इति सूतः प्रान्जलिर् अब्रवीत् ॥२-५२-१२॥
रामम् एव तु धर्म-ज्ञम् उपगम्य विनीत-वत् ।किम् अहम् करवाणि इति सूतः प्रान्जलिः अब्रवीत् ॥२॥
rāmam eva tu dharma-jñam upagamya vinīta-vat .kim aham karavāṇi iti sūtaḥ prānjaliḥ abravīt ..2..
ततोऽब्रवीद्दाशरथिः सुमन्त्रम् । स्पृशन् करेणोत्तमदक्षिणेन ।सुमन्त्र शीघ्रम् पुनरेव याहि । राज्ञः सकाशे भवचाप्रमत्तः ॥२-५२-१३॥
ततस् अब्रवीत् दाशरथिः सुमन्त्रम् । स्पृशन् करेण उत्तम-दक्षिणेन ।सुमन्त्र शीघ्रम् पुनर् एव याहि । राज्ञः सकाशे ॥२॥
tatas abravīt dāśarathiḥ sumantram . spṛśan kareṇa uttama-dakṣiṇena .sumantra śīghram punar eva yāhi . rājñaḥ sakāśe ..2..
निवर्तस्व इति उवाच एनम् एतावद्द् हि कृतम् मम ।रथम् विहाय पद्भ्याम् तु गमिष्यामि महावनम् ॥२-५२-१४॥
निवर्तस्व इति उवाच एनम् एतावत् हि कृतम् मम ।रथम् विहाय पद्भ्याम् तु गमिष्यामि महावनम् ॥२॥
nivartasva iti uvāca enam etāvat hi kṛtam mama .ratham vihāya padbhyām tu gamiṣyāmi mahāvanam ..2..
आत्मानम् तु अभ्यनुज्ञातम् अवेक्ष्य आर्तः स सारथिः ।सुमन्त्रः पुरुष व्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-५२-१५॥
आत्मानम् तु अभ्यनुज्ञातम् अवेक्ष्य आर्तः स सारथिः ।सुमन्त्रः पुरुष-व्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् ॥२॥
ātmānam tu abhyanujñātam avekṣya ārtaḥ sa sārathiḥ .sumantraḥ puruṣa-vyāghram aikṣvākam idam abravīt ..2..
न अतिक्रान्तम् इदम् लोके पुरुषेण इह केनचित् ।तव सभ्रातृ भार्यस्य वासः प्राकृतवद् वने ॥२-५२-१६॥
न अतिक्रान्तम् इदम् लोके पुरुषेण इह केनचिद् ।तव स भ्रातृ भार्यस्य वासः प्राकृत-वत् वने ॥२॥
na atikrāntam idam loke puruṣeṇa iha kenacid .tava sa bhrātṛ bhāryasya vāsaḥ prākṛta-vat vane ..2..
न मन्ये ब्रह्म चर्ये अस्ति स्वधीते वा फल उदयः ।मार्दव आर्जवयोः वा अपि त्वाम् चेद् व्यसनम् आगतम् ॥२-५२-१७॥
न मन्ये ब्रह्म-चर्ये अस्ति स्वधीते वा फल-उदयः ।मार्दव-आर्जवयोः वा अपि त्वाम् चेद् व्यसनम् आगतम् ॥२॥
na manye brahma-carye asti svadhīte vā phala-udayaḥ .mārdava-ārjavayoḥ vā api tvām ced vyasanam āgatam ..2..
सह राघव वैदेह्या भ्रात्रा चैव वने वसन् ।त्वम् गतिम् प्राप्स्यसे वीर त्रीम्ल् लोकाम्स् तु जयन्न् इव ॥२-५२-१८॥
सह राघव वैदेह्या भ्रात्रा च एव वने वसन् ।त्वम् गतिम् प्राप्स्यसे वीर त्रीम्ल् लोकाम्स् तु जयन् इव ॥२॥
saha rāghava vaidehyā bhrātrā ca eva vane vasan .tvam gatim prāpsyase vīra trīml lokāms tu jayan iva ..2..
वयम् खलु हता राम ये तया अपि उपवन्चिताः ।कैकेय्या वशम् एष्यामः पापाया दुह्ख भागिनः ॥२-५२-१९॥
वयम् खलु हता राम ये तया अपि उपवन्चिताः ।कैकेय्याः वशम् एष्यामः पापायाः दुह्ख-भागिनः ॥२॥
vayam khalu hatā rāma ye tayā api upavancitāḥ .kaikeyyāḥ vaśam eṣyāmaḥ pāpāyāḥ duhkha-bhāginaḥ ..2..
इति ब्रुवन्न् आत्म समम् सुमन्त्रः सारथिस् तदा ।दृष्ट्वा दुर गतम् रामम् दुह्ख आर्तः रुरुदे चिरम् ॥२-५२-२०॥
इति ब्रुवन् आत्म समम् सुमन्त्रः सारथिः तदा ।दृष्ट्वा दुर-गतम् रामम् दुह्ख-आर्तः रुरुदे चिरम् ॥२॥
iti bruvan ātma samam sumantraḥ sārathiḥ tadā .dṛṣṭvā dura-gatam rāmam duhkha-ārtaḥ rurude ciram ..2..
ततः तु विगते बाष्पे सूतम् स्पृष्ट उदकम् शुचिम् ।रामः तु मधुरम् वाक्यम् पुनः पुनर् उवाच तम् ॥२-५२-२१॥
ततस् तु विगते बाष्पे सूतम् स्पृष्ट-उदकम् शुचिम् ।रामः तु मधुरम् वाक्यम् पुनर् पुनर् उवाच तम् ॥२॥
tatas tu vigate bāṣpe sūtam spṛṣṭa-udakam śucim .rāmaḥ tu madhuram vākyam punar punar uvāca tam ..2..
इक्ष्वाकूणाम् त्वया तुल्यम् सुहृदम् न उपलक्षये ।यथा दशरथो राजा माम् न शोचेत् तथा कुरु ॥२-५२-२२॥
इक्ष्वाकूणाम् त्वया तुल्यम् सुहृदम् न उपलक्षये ।यथा दशरथः राजा माम् न शोचेत् तथा कुरु ॥२॥
ikṣvākūṇām tvayā tulyam suhṛdam na upalakṣaye .yathā daśarathaḥ rājā mām na śocet tathā kuru ..2..
शोक उपहत चेताः च वृद्धः च जगती पतिः ।काम भार अवसन्नः च तस्मात् एतत् ब्रवीमि ते ॥२-५२-२३॥
शोक-उपहत-चेताः च वृद्धः च जगती-पतिः ।काम-भार-अवसन्नः च तस्मात् एतत् ब्रवीमि ते ॥२॥
śoka-upahata-cetāḥ ca vṛddhaḥ ca jagatī-patiḥ .kāma-bhāra-avasannaḥ ca tasmāt etat bravīmi te ..2..
यद् यद् आज्ञापयेत् किम्चित् स महात्मा मही पतिः ।कैकेय्याः प्रिय काम अर्थम् कार्यम् तत् अविकान्क्षया ॥२-५२-२४॥
यत् यत् आज्ञापयेत् किम्चिद् स महात्मा मही पतिः ।कैकेय्याः प्रिय-काम-अर्थम् कार्यम् तत् अविकान्क्षया ॥२॥
yat yat ājñāpayet kimcid sa mahātmā mahī patiḥ .kaikeyyāḥ priya-kāma-artham kāryam tat avikānkṣayā ..2..
एतत् अर्थम् हि राज्यानि प्रशासति नर ईश्वराः ।यद् एषाम् सर्व कृत्येषु मनो न प्रतिहन्यते ॥२-५२-२५॥
एतद्-अर्थम् हि राज्यानि प्रशासति नर-ईश्वराः ।यत् एषाम् सर्व-कृत्येषु मनः न प्रतिहन्यते ॥२॥
etad-artham hi rājyāni praśāsati nara-īśvarāḥ .yat eṣām sarva-kṛtyeṣu manaḥ na pratihanyate ..2..
यद्यथा स महा राजो न अलीकम् अधिगच्चति ।न च ताम्यति दुह्खेन सुमन्त्र कुरु तत् तथा ॥२-५२-२६॥
यत् यथा स महा-राजः न अलीकम् अधिगच्छति ।न च ताम्यति दुह्खेन सुमन्त्र कुरु तत् तथा ॥२॥
yat yathā sa mahā-rājaḥ na alīkam adhigacchati .na ca tāmyati duhkhena sumantra kuru tat tathā ..2..
अदृष्ट दुह्खम् राजानम् वृद्धम् आर्यम् जित इन्द्रियम् ।ब्रूयाः त्वम् अभिवाद्य एव मम हेतोर् इदम् वचः ॥२-५२-२७॥
अदृष्ट-दुह्खम् राजानम् वृद्धम् आर्यम् जित-इन्द्रियम् ।ब्रूयाः त्वम् अभिवाद्य एव मम हेतोः इदम् वचः ॥२॥
adṛṣṭa-duhkham rājānam vṛddham āryam jita-indriyam .brūyāḥ tvam abhivādya eva mama hetoḥ idam vacaḥ ..2..
न एव अहम् अनुशोचामि लक्ष्मणो न च मैथिली ।अयोध्यायाः च्युताः च इति वने वत्स्यामह इति वा (महेति!)॥२-५२-२८॥
न एव अहम् अनुशोचामि लक्ष्मणः न च मैथिली ।अयोध्यायाः च्युताः च इति वने वत्स्यामह इति वा (महा इति!)॥२॥
na eva aham anuśocāmi lakṣmaṇaḥ na ca maithilī .ayodhyāyāḥ cyutāḥ ca iti vane vatsyāmaha iti vā (mahā iti!)..2..
चतुर् दशसु वर्षेषु निवृत्तेषु पुनः पुनः ।लक्ष्मणम् माम् च सीताम् च द्रक्ष्यसि क्षिप्रम् आगतान् ॥२-५२-२९॥
चतुः दशसु वर्षेषु निवृत्तेषु पुनर् पुनर् ।लक्ष्मणम् माम् च सीताम् च द्रक्ष्यसि क्षिप्रम् आगतान् ॥२॥
catuḥ daśasu varṣeṣu nivṛtteṣu punar punar .lakṣmaṇam mām ca sītām ca drakṣyasi kṣipram āgatān ..2..
एवम् उक्त्वा तु राजानम् मातरम् च सुमन्त्र मे ।अन्याः च देवीः सहिताः कैकेयीम् च पुनः पुनः ॥२-५२-३०॥
एवम् उक्त्वा तु राजानम् मातरम् च सुमन्त्र मे ।अन्याः च देवीः सहिताः कैकेयीम् च पुनर् पुनर् ॥२॥
evam uktvā tu rājānam mātaram ca sumantra me .anyāḥ ca devīḥ sahitāḥ kaikeyīm ca punar punar ..2..
आरोग्यम् ब्रूहि कौसल्याम् अथ पाद अभिवन्दनम् ।सीताया मम च आर्यस्य वचनाल् लक्ष्मणस्य च ॥२-५२-३१॥
आरोग्यम् ब्रूहि कौसल्याम् अथ पाद-अभिवन्दनम् ।सीतायाः मम च आर्यस्य वचनात् लक्ष्मणस्य च ॥२॥
ārogyam brūhi kausalyām atha pāda-abhivandanam .sītāyāḥ mama ca āryasya vacanāt lakṣmaṇasya ca ..2..
ब्रूयाः च हि महा राजम् भरतम् क्षिप्रम् आनय ।आगतः च अपि भरतः स्थाप्यो नृप मते पदे ॥२-५२-३२॥
ब्रूयाः च हि महा-राजम् भरतम् क्षिप्रम् आनय ।आगतः च अपि भरतः स्थाप्यः नृप-मते पदे ॥२॥
brūyāḥ ca hi mahā-rājam bharatam kṣipram ānaya .āgataḥ ca api bharataḥ sthāpyaḥ nṛpa-mate pade ..2..
भरतम् च परिष्वज्य यौवराज्ये अभिषिच्य च ।अस्मत् सम्तापजम् दुह्खम् न त्वाम् अभिभविष्यति ॥२-५२-३३॥
भरतम् च परिष्वज्य यौवराज्ये अभिषिच्य च ।अस्मत् सम्ताप-जम् दुह्खम् न त्वाम् अभिभविष्यति ॥२॥
bharatam ca pariṣvajya yauvarājye abhiṣicya ca .asmat samtāpa-jam duhkham na tvām abhibhaviṣyati ..2..
भरतः च अपि वक्तव्यो यथा राजनि वर्तसे ।तथा मातृषु वर्तेथाः सर्वास्व् एव अविशेषतः ॥२-५२-३४॥
भरतः च अपि वक्तव्यः यथा राजनि वर्तसे ।तथा मातृषु वर्तेथाः सर्वासु एव अविशेषतस् ॥२॥
bharataḥ ca api vaktavyaḥ yathā rājani vartase .tathā mātṛṣu vartethāḥ sarvāsu eva aviśeṣatas ..2..
यथा च तव कैकेयी सुमित्रा च अविशेषतः ।तथैव देवी कौसल्या मम माता विशेषतः ॥२-५२-३५॥
यथा च तव कैकेयी सुमित्रा च अविशेषतस् ।तथा एव देवी कौसल्या मम माता विशेषतः ॥२॥
yathā ca tava kaikeyī sumitrā ca aviśeṣatas .tathā eva devī kausalyā mama mātā viśeṣataḥ ..2..
तातस्य प्रियकामेन यौवराज्यमपेक्षता ।लोकयोरुभयोः शक्यम् त्वया यत्सुखमेधितुम् ॥२-५२-३६॥
तातस्य प्रिय-कामेन यौवराज्यम् अपेक्षता ।लोकयोः उभयोः शक्यम् त्वया यत् सुखम् एधितुम् ॥२॥
tātasya priya-kāmena yauvarājyam apekṣatā .lokayoḥ ubhayoḥ śakyam tvayā yat sukham edhitum ..2..
निवर्त्यमानो रामेण सुमन्त्रः शोक कर्शितः ।तत् सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् ॥२-५२-३७॥
निवर्त्यमानः रामेण सुमन्त्रः शोक-कर्शितः ।तत् सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् ॥२॥
nivartyamānaḥ rāmeṇa sumantraḥ śoka-karśitaḥ .tat sarvam vacanam śrutvā snehāt kākutstham abravīt ..2..
यद् अहम् न उपचारेण ब्रूयाम् स्नेहात् अविक्लवः ।भक्तिमान् इति तत् तावद् वाक्यम् त्वम् क्षन्तुम् अर्हसि ॥२-५२-३८॥
यत् अहम् न उपचारेण ब्रूयाम् स्नेहात् अविक्लवः ।भक्तिमान् इति तत् तावद् वाक्यम् त्वम् क्षन्तुम् अर्हसि ॥२॥
yat aham na upacāreṇa brūyām snehāt aviklavaḥ .bhaktimān iti tat tāvad vākyam tvam kṣantum arhasi ..2..
कथम् हि त्वद् विहीनो अहम् प्रतियास्यामि ताम् पुरीम् ।तव तात वियोगेन पुत्र शोक आकुलाम् इव ॥२-५२-३९॥
कथम् हि त्वत् विहीनः अहम् प्रतियास्यामि ताम् पुरीम् ।तव तात वियोगेन पुत्र-शोक-आकुलाम् इव ॥२॥
katham hi tvat vihīnaḥ aham pratiyāsyāmi tām purīm .tava tāta viyogena putra-śoka-ākulām iva ..2..
सरामम् अपि तावन् मे रथम् दृष्ट्वा तदा जनः ।विना रामम् रथम् दृष्ट्वा विदीर्येत अपि सा पुरी ॥२-५२-४०॥
सरामम् अपि तावत् मे रथम् दृष्ट्वा तदा जनः ।विना रामम् रथम् दृष्ट्वा विदीर्येत अपि सा पुरी ॥२॥
sarāmam api tāvat me ratham dṛṣṭvā tadā janaḥ .vinā rāmam ratham dṛṣṭvā vidīryeta api sā purī ..2..
दैन्यम् हि नगरी गच्चेद् दृष्ट्वा शून्यम् इमम् रथम् ।सूत अवशेषम् स्वम् सैन्यम् हत वीरम् इव आहवे ॥२-५२-४१॥
दैन्यम् हि नगरी गच्चेत् दृष्ट्वा शून्यम् इमम् रथम् ।सूत-अवशेषम् स्वम् सैन्यम् हत-वीरम् इव आहवे ॥२॥
dainyam hi nagarī gaccet dṛṣṭvā śūnyam imam ratham .sūta-avaśeṣam svam sainyam hata-vīram iva āhave ..2..
दूरे अपि निवसन्तम् त्वाम् मानसेन अग्रतः स्थितम् ।चिन्तयन्त्यो अद्य नूनम् त्वाम् निराहाराः कृताः प्रजाः ॥२-५२-४२॥
दूरे अपि निवसन्तम् त्वाम् मानसेन अग्रतः स्थितम् ।चिन्तयन्त्यः अद्य नूनम् त्वाम् निराहाराः कृताः प्रजाः ॥२॥
dūre api nivasantam tvām mānasena agrataḥ sthitam .cintayantyaḥ adya nūnam tvām nirāhārāḥ kṛtāḥ prajāḥ ..2..
दृष्टं तद्धि त्वया राम! यादृशम् त्वत्प्रवासने ।प्रजानाम् सम्कुलम् वृत्तम् त्वच्छोकक्लान्तचेतसाम् ॥२-५२-४३॥
दृष्टम् तत् हि त्वया राम! यादृशम् त्वद्-प्रवासने ।प्रजानाम् सम्कुलम् वृत्तम् त्वद्-शोक-क्लान्त-चेतसाम् ॥२॥
dṛṣṭam tat hi tvayā rāma! yādṛśam tvad-pravāsane .prajānām samkulam vṛttam tvad-śoka-klānta-cetasām ..2..
आर्त नादो हि यः पौरैः मुक्तः तत् विप्रवासने ।रथस्थम् माम् निशाम्य एव कुर्युः शत गुणम् ततः ॥२-५२-४४॥
आर्त-नादः हि यः पौरैः मुक्तः तत् विप्रवासने ।रथस्थम् माम् निशाम्य एव कुर्युः शत-गुणम् ततस् ॥२॥
ārta-nādaḥ hi yaḥ pauraiḥ muktaḥ tat vipravāsane .rathastham mām niśāmya eva kuryuḥ śata-guṇam tatas ..2..
अहम् किम् च अपि वक्ष्यामि देवीम् तव सुतः मया ।नीतः असौ मातुल कुलम् सम्तापम् मा कृथाइति ॥२-५२-४५॥
अहम् किम् च अपि वक्ष्यामि देवीम् तव सुतः मया ।नीतः असौ मातुल-कुलम् सम्तापम् मा कृथाइति ॥२॥
aham kim ca api vakṣyāmi devīm tava sutaḥ mayā .nītaḥ asau mātula-kulam samtāpam mā kṛthāiti ..2..
असत्यम् अपि न एव अहम् ब्रूयाम् वचनम् ईदृशम् ।कथम् अप्रियम् एव अहम् ब्रूयाम् सत्यम् इदम् वचः ॥२-५२-४६॥
असत्यम् अपि न एव अहम् ब्रूयाम् वचनम् ईदृशम् ।कथम् अप्रियम् एव अहम् ब्रूयाम् सत्यम् इदम् वचः ॥२॥
asatyam api na eva aham brūyām vacanam īdṛśam .katham apriyam eva aham brūyām satyam idam vacaḥ ..2..
मम तावन् नियोगस्थाः त्वद् बन्धु जन वाहिनः ।कथम् रथम् त्वया हीनम् प्रवक्ष्यन्ति हय उत्तमाः ॥२-५२-४७॥
मम तावन् नियोगस्थाः त्वद्-बन्धु-जन-वाहिनः ।कथम् रथम् त्वया हीनम् प्रवक्ष्यन्ति हय-उत्तमाः ॥२॥
mama tāvan niyogasthāḥ tvad-bandhu-jana-vāhinaḥ .katham ratham tvayā hīnam pravakṣyanti haya-uttamāḥ ..2..
तन्न शक्ष्याम्यहम् गन्तुमयोध्याम् त्वदृतेऽनघ ।वनवासानुयानाय मामनुज्ञातुमर्हसि ॥२-५२-४८॥
तत् न शक्ष्यामि अहम् गन्तुम् अयोध्याम् त्वत् ऋते अनघ ।वन-वास-अनुयानाय माम् अनुज्ञातुम् अर्हसि ॥२॥
tat na śakṣyāmi aham gantum ayodhyām tvat ṛte anagha .vana-vāsa-anuyānāya mām anujñātum arhasi ..2..
यदि मे याचमानस्य त्यागम् एव करिष्यसि ।सरथो अग्निम् प्रवेक्ष्यामि त्यक्त मात्रैह त्वया ॥२-५२-४९॥
यदि मे याचमानस्य त्यागम् एव करिष्यसि ।स रथः अग्निम् प्रवेक्ष्यामि त्यक्त-मात्रा इह त्वया ॥२॥
yadi me yācamānasya tyāgam eva kariṣyasi .sa rathaḥ agnim pravekṣyāmi tyakta-mātrā iha tvayā ..2..
भविष्यन्ति वने यानि तपो विघ्न कराणि ते ।रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥२-५२-५०॥
भविष्यन्ति वने यानि तपो-विघ्न-कराणि ते ।रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥२॥
bhaviṣyanti vane yāni tapo-vighna-karāṇi te .rathena pratibādhiṣye tāni sattvāni rāghava ..2..
तत् कृतेन मया प्राप्तम् रथ चर्या कृतम् सुखम् ।आशम्से त्वत् कृतेन अहम् वन वास कृतम् सुखम् ॥२-५२-५१॥
तत् कृतेन मया प्राप्तम् रथ-चर्या-कृतम् सुखम् ।आशम्से त्वत्-कृतेन अहम् वन-वास-कृतम् सुखम् ॥२॥
tat kṛtena mayā prāptam ratha-caryā-kṛtam sukham .āśamse tvat-kṛtena aham vana-vāsa-kṛtam sukham ..2..
प्रसीद इच्चामि ते अरण्ये भवितुम् प्रत्यनन्तरः ।प्रीत्या अभिहितम् इच्चामि भव मे पत्यनन्तरः ॥२-५२-५२॥
प्रसीद इच्चामि ते अरण्ये भवितुम् प्रत्यनन्तरः ।प्रीत्या अभिहितम् इच्चामि भव मे पति-अनन्तरः ॥२॥
prasīda iccāmi te araṇye bhavitum pratyanantaraḥ .prītyā abhihitam iccāmi bhava me pati-anantaraḥ ..2..
इमे चापि हया वीर यदि ते वनवासिनः ।परिचर्याम् करिष्यन्ति प्राप्स्यन्ति परमाम् गतिम् ॥२-५२-५३॥
इमे च अपि हयाः वीर यदि ते वन-वासिनः ।परिचर्याम् करिष्यन्ति प्राप्स्यन्ति परमाम् गतिम् ॥२॥
ime ca api hayāḥ vīra yadi te vana-vāsinaḥ .paricaryām kariṣyanti prāpsyanti paramām gatim ..2..
तव शुश्रूषणम् मूर्ध्ना करिष्यामि वने वसन् ।अयोध्याम् देव लोकम् वा सर्वथा प्रजहाम्य् अहम् ॥२-५२-५४॥
तव शुश्रूषणम् मूर्ध्ना करिष्यामि वने वसन् ।अयोध्याम् देव-लोकम् वा सर्वथा प्रजहामि अहम् ॥२॥
tava śuśrūṣaṇam mūrdhnā kariṣyāmi vane vasan .ayodhyām deva-lokam vā sarvathā prajahāmi aham ..2..
न हि शक्या प्रवेष्टुम् सा मया अयोध्या त्वया विना ।राज धानी महा इन्द्रस्य यथा दुष्कृत कर्मणा ॥२-५२-५५॥
न हि शक्या प्रवेष्टुम् सा मया अयोध्या त्वया विना ।राज-धानी महा इन्द्रस्य यथा दुष्कृत-कर्मणा ॥२॥
na hi śakyā praveṣṭum sā mayā ayodhyā tvayā vinā .rāja-dhānī mahā indrasya yathā duṣkṛta-karmaṇā ..2..
वन वासे क्षयम् प्राप्ते मम एष हि मनो रथः ।यद् अनेन रथेन एव त्वाम् वहेयम् पुरीम् पुनः ॥२-५२-५६॥
वन-वासे क्षयम् प्राप्ते मम एष हि मनः-रथः ।यत् अनेन रथेन एव त्वाम् वहेयम् पुरीम् पुनर् ॥२॥
vana-vāse kṣayam prāpte mama eṣa hi manaḥ-rathaḥ .yat anena rathena eva tvām vaheyam purīm punar ..2..
चतुर् दश हि वर्षाणि सहितस्य त्वया वने ।क्षण भूतानि यास्यन्ति शतशः तु ततः अन्यथा ॥२-५२-५७॥
चतुः दश हि वर्षाणि सहितस्य त्वया वने ।क्षण-भूतानि यास्यन्ति शतशस् तु ततस् अन्यथा ॥२॥
catuḥ daśa hi varṣāṇi sahitasya tvayā vane .kṣaṇa-bhūtāni yāsyanti śataśas tu tatas anyathā ..2..
भृत्य वत्सल तिष्ठन्तम् भर्तृ पुत्र गते पथि ।भक्तम् भृत्यम् स्थितम् स्थित्याम् त्वम् न माम् हातुम् अर्हसि ॥२-५२-५८॥
भृत्य-वत्सल तिष्ठन्तम् भर्तृ-पुत्र-गते पथि ।भक्तम् भृत्यम् स्थितम् स्थित्याम् त्वम् न माम् हातुम् अर्हसि ॥२॥
bhṛtya-vatsala tiṣṭhantam bhartṛ-putra-gate pathi .bhaktam bhṛtyam sthitam sthityām tvam na mām hātum arhasi ..2..
एवम् बहु विधम् दीनम् याचमानम् पुनः पुनः ।रामः भृत्य अनुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् ॥२-५२-५९॥
एवम् बहु-विधम् दीनम् याचमानम् पुनर् पुनर् ।रामः भृत्य-अनुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् ॥२॥
evam bahu-vidham dīnam yācamānam punar punar .rāmaḥ bhṛtya-anukampī tu sumantram idam abravīt ..2..
जानामि परमाम् भक्तिम् मयि ते भर्तृ वत्सल ।शृणु च अपि यद् अर्थम् त्वाम् प्रेषयामि पुरीम् इतः ॥२-५२-६०॥
जानामि परमाम् भक्तिम् मयि ते भर्तृ-वत्सल ।शृणु च अपि यद्-अर्थम् त्वाम् प्रेषयामि पुरीम् इतः ॥२॥
jānāmi paramām bhaktim mayi te bhartṛ-vatsala .śṛṇu ca api yad-artham tvām preṣayāmi purīm itaḥ ..2..
नगरीम् त्वाम् गतम् दृष्ट्वा जननी मे यवीयसी ।कैकेयी प्रत्ययम् गच्चेद् इति रामः वनम् गतः ॥२-५२-६१॥
नगरीम् त्वाम् गतम् दृष्ट्वा जननी मे यवीयसी ।कैकेयी प्रत्ययम् गच्चेद् इति रामः वनम् गतः ॥२॥
nagarīm tvām gatam dṛṣṭvā jananī me yavīyasī .kaikeyī pratyayam gacced iti rāmaḥ vanam gataḥ ..2..
परितुष्टा हि सा देवि वन वासम् गते मयि ।राजानम् न अतिशन्केत मिथ्या वादी इति धार्मिकम् ॥२-५२-६२॥
परितुष्टा हि सा देवि वन-वासम् गते मयि ।राजानम् न अतिशन्केत-मिथ्या वादी इति धार्मिकम् ॥२॥
parituṣṭā hi sā devi vana-vāsam gate mayi .rājānam na atiśanketa-mithyā vādī iti dhārmikam ..2..
एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी ।भरत आरक्षितम् स्फीतम् पुत्र राज्यम् अवाप्नुयात् ॥२-५२-६३॥
एष मे प्रथमः कल्पः यत् अम्बा मे यवीयसी ।भरत-आरक्षितम् स्फीतम् पुत्र-राज्यम् अवाप्नुयात् ॥२॥
eṣa me prathamaḥ kalpaḥ yat ambā me yavīyasī .bharata-ārakṣitam sphītam putra-rājyam avāpnuyāt ..2..
मम प्रिय अर्थम् राज्ञः च सरथः त्वम् पुरीम् व्रज ।सम्दिष्टः च असि या अनर्थाम्स् ताम्स् तान् ब्रूयाः तथा तथा ॥२-५२-६४॥
मम प्रिय-अर्थम् राज्ञः च सरथः त्वम् पुरीम् व्रज ।सम्दिष्टः च असि या अनर्थाम्स् ताम्स् तान् ब्रूयाः तथा तथा ॥२॥
mama priya-artham rājñaḥ ca sarathaḥ tvam purīm vraja .samdiṣṭaḥ ca asi yā anarthāms tāms tān brūyāḥ tathā tathā ..2..
इति उक्त्वा वचनम् सूतम् सान्त्वयित्वा पुनः पुनः ।गुहम् वचनम् अक्लीबम् रामः हेतुमद् अब्रवीत् ॥२-५२-६५॥
इति उक्त्वा वचनम् सूतम् सान्त्वयित्वा पुनर् पुनर् ।गुहम् वचनम् अक्लीबम् रामः हेतुमत् अब्रवीत् ॥२॥
iti uktvā vacanam sūtam sāntvayitvā punar punar .guham vacanam aklībam rāmaḥ hetumat abravīt ..2..
नेदानीम् गुह योग्योऽयम् वसो मे सजने वने ।अवश्यम् ह्याश्रमे वासह् कर्तव्यस्तद्गतो विधिः ॥२-५२-६६॥
न इदानीम् गुह योग्यः अयम् वसो मे सजने वने ।अवश्यम् हि आश्रमे कर्तव्यः तद्-गतः विधिः ॥२॥
na idānīm guha yogyaḥ ayam vaso me sajane vane .avaśyam hi āśrame kartavyaḥ tad-gataḥ vidhiḥ ..2..
सोऽहम् गृहीत्वा नियमम् तपस्विजनभूषणम् ।हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ॥२-५२-६७॥
सः अहम् गृहीत्वा नियमम् तपस्वि-जन-भूषणम् ।हित-कामः पितुः भूयस् सीतायाः लक्ष्मणस्य च ॥२॥
saḥ aham gṛhītvā niyamam tapasvi-jana-bhūṣaṇam .hita-kāmaḥ pituḥ bhūyas sītāyāḥ lakṣmaṇasya ca ..2..
जटाः कृत्वा गमिष्यामि न्यग्रोध क्षीरम् आनय ।तत् क्षीरम् राज पुत्राय गुहः क्षिप्रम् उपाहरत् ॥२-५२-६८॥
जटाः कृत्वा गमिष्यामि न्यग्रोध क्षीरम् आनय ।तत् क्षीरम् राज-पुत्राय गुहः क्षिप्रम् उपाहरत् ॥२॥
jaṭāḥ kṛtvā gamiṣyāmi nyagrodha kṣīram ānaya .tat kṣīram rāja-putrāya guhaḥ kṣipram upāharat ..2..
लक्ष्मणस्य आत्मनः चैव रामः तेन अकरोज् जटाः ।दीर्घबाहुर्नरव्याघ्रो जटिलत्व मधारयत् ॥२-५२-६९॥
लक्ष्मणस्य आत्मनः च एव रामः तेन अकरोत् जटाः ।दीर्घ-बाहुः नर-व्याघ्रः जटिल-त्व अधारयत् ॥२॥
lakṣmaṇasya ātmanaḥ ca eva rāmaḥ tena akarot jaṭāḥ .dīrgha-bāhuḥ nara-vyāghraḥ jaṭila-tva adhārayat ..2..
तौ तदा चीर वसनौ जटा मण्डल धारिणौ ।अशोभेताम् ऋषि समौ भ्रातरौ राम रक्ष्मणौ ॥२-५२-७०॥
तौ तदा चीर-वसनौ जटा-मण्डल-धारिणौ ।अशोभेताम् ऋषि-समौ भ्रातरौ राम-रक्ष्मणौ ॥२॥
tau tadā cīra-vasanau jaṭā-maṇḍala-dhāriṇau .aśobhetām ṛṣi-samau bhrātarau rāma-rakṣmaṇau ..2..
ततः वैखानसम् मार्गम् आस्थितः सह लक्ष्मणः ।व्रतम् आदिष्टवान् रामः सहायम् गुहम् अब्रवीत् ॥२-५२-७१॥
ततस् वैखानसम् मार्गम् आस्थितः सह लक्ष्मणः ।व्रतम् आदिष्टवान् रामः सहायम् गुहम् अब्रवीत् ॥२॥
tatas vaikhānasam mārgam āsthitaḥ saha lakṣmaṇaḥ .vratam ādiṣṭavān rāmaḥ sahāyam guham abravīt ..2..
अप्रमत्तः बले कोशे दुर्गे जन पदे तथा ।भवेथा गुह राज्यम् हि दुरारक्षतमम् मतम् ॥२-५२-७२॥
अप्रमत्तः बले कोशे दुर्गे जन-पदे तथा ।भवेथा गुह राज्यम् हि दुरारक्षतमम् मतम् ॥२॥
apramattaḥ bale kośe durge jana-pade tathā .bhavethā guha rājyam hi durārakṣatamam matam ..2..
ततः तम् समनुज्ञाय गुहम् इक्ष्वाकु नन्दनः ।जगाम तूर्णम् अव्यग्रः सभार्यः सह लक्ष्मणः ॥२-५२-७३॥
ततः तम् समनुज्ञाय गुहम् इक्ष्वाकु-नन्दनः ।जगाम तूर्णम् अव्यग्रः स भार्यः सह लक्ष्मणः ॥२॥
tataḥ tam samanujñāya guham ikṣvāku-nandanaḥ .jagāma tūrṇam avyagraḥ sa bhāryaḥ saha lakṣmaṇaḥ ..2..
स तु दृष्ट्वा नदी तीरे नावम् इक्ष्वाकु नन्दनः ।तितीर्षुः शीघ्रगाम् गन्गाम् इदम् लक्ष्मणम् अब्रवीत् ॥२-५२-७४॥
स तु दृष्ट्वा नदी-तीरे नावम् इक्ष्वाकु-नन्दनः ।तितीर्षुः शीघ्रगाम् गन्गाम् इदम् लक्ष्मणम् अब्रवीत् ॥२॥
sa tu dṛṣṭvā nadī-tīre nāvam ikṣvāku-nandanaḥ .titīrṣuḥ śīghragām gangām idam lakṣmaṇam abravīt ..2..
आरोह त्वम् नर व्याघ्र स्थिताम् नावम् इमाम् शनैः ।सीताम् च आरोपय अन्वक्षम् परिगृह्य मनस्विनीम् ॥२-५२-७५॥
आरोह त्वम् नर-व्याघ्र स्थिताम् नावम् इमाम् शनैः ।सीताम् च आरोपय अन्वक्षम् परिगृह्य मनस्विनीम् ॥२॥
āroha tvam nara-vyāghra sthitām nāvam imām śanaiḥ .sītām ca āropaya anvakṣam parigṛhya manasvinīm ..2..
स भ्रातुः शासनम् श्रुत्वा सर्वम् अप्रतिकूलयन् ।आरोप्य मैथिलीम् पूर्वम् आरुरोह आत्मवाम्स् ततः ॥२-५२-७६॥
स भ्रातुः शासनम् श्रुत्वा सर्वम् अप्रतिकूलयन् ।आरोप्य मैथिलीम् पूर्वम् आरुरोह आत्मवान् ततस् ॥२॥
sa bhrātuḥ śāsanam śrutvā sarvam apratikūlayan .āropya maithilīm pūrvam āruroha ātmavān tatas ..2..
अथ आरुरोह तेजस्वी स्वयम् लक्ष्मण पूर्वजः ।ततः निषाद अधिपतिर् गुहो ज्ञातीन् अचोदयत् ॥२-५२-७७॥
अथ आरुरोह तेजस्वी स्वयम् लक्ष्मण-पूर्वजः ।ततस् निषाद-अधिपतिः गुहः ज्ञातीन् अचोदयत् ॥२॥
atha āruroha tejasvī svayam lakṣmaṇa-pūrvajaḥ .tatas niṣāda-adhipatiḥ guhaḥ jñātīn acodayat ..2..
राघवोऽपि महातेजा नावमारुह्य ताम् ततः ।ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः ॥२-५२-७८॥
राघवः अपि महा-तेजाः नावम् आरुह्य ताम् ततस् ।ब्रह्मवत् क्षत्रवत् च एव जजाप हितम् आत्मनः ॥२॥
rāghavaḥ api mahā-tejāḥ nāvam āruhya tām tatas .brahmavat kṣatravat ca eva jajāpa hitam ātmanaḥ ..2..
आचम्य च यथाशास्त्रम् नदीम् ताम् सह सीतया ।प्राणमत्प्रीतिसम्हृष्टो लक्ष्मणश्चामितप्रभः ॥२-५२-७९॥
आचम्य च यथाशास्त्रम् नदीम् ताम् सह सीतया ।प्राणमत् प्रीति-सम्हृष्टः लक्ष्मणः च अमित-प्रभः ॥२॥
ācamya ca yathāśāstram nadīm tām saha sītayā .prāṇamat prīti-samhṛṣṭaḥ lakṣmaṇaḥ ca amita-prabhaḥ ..2..
अनुज्ञाय सुमन्त्रम् च सबलम् चैव तम् गुहम् ।आस्थाय नावम् रामः तु चोदयाम् आस नाविकान् ॥२-५२-८०॥
अनुज्ञाय सुमन्त्रम् च सबलम् च एव तम् गुहम् ।आस्थाय नावम् रामः तु चोदयाम् आस नाविकान् ॥२॥
anujñāya sumantram ca sabalam ca eva tam guham .āsthāya nāvam rāmaḥ tu codayām āsa nāvikān ..2..
ततः तैः चोदिता सा नौः कर्ण धार समाहिता ।शुभ स्फ्य वेग अभिहता शीघ्रम् सलिलम् अत्यगात् ॥२-५२-८१॥
ततस् तैः चोदिता सा नौः कर्ण-धार-समाहिता ।शुभ-स्फ्य-वेग-अभिहता शीघ्रम् सलिलम् अत्यगात् ॥२॥
tatas taiḥ coditā sā nauḥ karṇa-dhāra-samāhitā .śubha-sphya-vega-abhihatā śīghram salilam atyagāt ..2..
मध्यम् तु समनुप्राप्य भागीरथ्याः तु अनिन्दिता ।वैदेही प्रान्जलिर् भूत्वा ताम् नदीम् इदम् अब्रवीत् ॥२-५२-८२॥
मध्यम् तु समनुप्राप्य भागीरथ्याः तु अनिन्दिता ।वैदेही प्रान्जलिः भूत्वा ताम् नदीम् इदम् अब्रवीत् ॥२॥
madhyam tu samanuprāpya bhāgīrathyāḥ tu aninditā .vaidehī prānjaliḥ bhūtvā tām nadīm idam abravīt ..2..
पुत्रः दशरथस्य अयम् महा राजस्य धीमतः ।निदेशम् पालयतु एनम् गन्गे त्वद् अभिरक्षितः ॥२-५२-८३॥
पुत्रः दशरथस्य अयम् महा-राजस्य धीमतः ।निदेशम् पालयतु एनम् गन्गे त्वद्-अभिरक्षितः ॥२॥
putraḥ daśarathasya ayam mahā-rājasya dhīmataḥ .nideśam pālayatu enam gange tvad-abhirakṣitaḥ ..2..
चतुर् दश हि वर्षाणि समग्राणि उष्य कानने ।भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥२-५२-८४॥
चतुर्-दश हि वर्षाणि समग्राणि उष्य कानने ।भ्रात्रा सह मया च एव पुनर् प्रत्यागमिष्यति ॥२॥
catur-daśa hi varṣāṇi samagrāṇi uṣya kānane .bhrātrā saha mayā ca eva punar pratyāgamiṣyati ..2..
ततः त्वाम् देवि सुभगे क्षेमेण पुनर् आगता ।यक्ष्ये प्रमुदिता गन्गे सर्व काम समृद्धये ॥२-५२-८५॥
ततस् त्वाम् देवि सुभगे क्षेमेण पुनर् आगता ।यक्ष्ये प्रमुदिता गन्गे सर्व-काम-समृद्धये ॥२॥
tatas tvām devi subhage kṣemeṇa punar āgatā .yakṣye pramuditā gange sarva-kāma-samṛddhaye ..2..
त्वम् हि त्रिपथगा देवि ब्रह्म लोकम् समीक्षसे ।भार्या च उदधि राजस्य लोके अस्मिन् सम्प्रदृश्यसे ॥२-५२-८६॥
त्वम् हि त्रिपथगा देवि ब्रह्म-लोकम् समीक्षसे ।भार्या च उदधि-राजस्य लोके अस्मिन् सम्प्रदृश्यसे ॥२॥
tvam hi tripathagā devi brahma-lokam samīkṣase .bhāryā ca udadhi-rājasya loke asmin sampradṛśyase ..2..
सा त्वाम् देवि नमस्यामि प्रशम्सामि च शोभने ।प्राप्त राज्ये नर व्याघ्र शिवेन पुनर् आगते ॥२-५२-८७॥
सा त्वाम् देवि नमस्यामि प्रशम्सामि च शोभने ।प्राप्त-राज्ये नर-व्याघ्र शिवेन पुनर् आगते ॥२॥
sā tvām devi namasyāmi praśamsāmi ca śobhane .prāpta-rājye nara-vyāghra śivena punar āgate ..2..
गवाम् शत सहस्राणि वस्त्राणि अन्नम् च पेशलम् ।ब्राह्मणेभ्यः प्रदास्यामि तव प्रिय चिकीर्षया ॥२-५२-८८॥
गवाम् शत-सहस्राणि वस्त्राणि अन्नम् च पेशलम् ।ब्राह्मणेभ्यः प्रदास्यामि तव प्रिय-चिकीर्षया ॥२॥
gavām śata-sahasrāṇi vastrāṇi annam ca peśalam .brāhmaṇebhyaḥ pradāsyāmi tava priya-cikīrṣayā ..2..
सुराघटसहस्रेण माम्सभूतोदनेन च ।यक्ष्ये त्वाम् प्रयता देवि पुरीम् पुनरुपागता ॥२-५२-८९॥
सुरा-घट-सहस्रेण माम्स-भूतोदनेन च ।यक्ष्ये त्वाम् प्रयता देवि पुरीम् पुनर् उपागता ॥२॥
surā-ghaṭa-sahasreṇa māmsa-bhūtodanena ca .yakṣye tvām prayatā devi purīm punar upāgatā ..2..
यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि ।तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥२-५२-९०॥
यानि त्वद्-तीर-वासीनि दैवतानि च सन्ति हि ।तानि सर्वाणि यक्ष्यामि तीर्थानि आयतनानि च ॥२॥
yāni tvad-tīra-vāsīni daivatāni ca santi hi .tāni sarvāṇi yakṣyāmi tīrthāni āyatanāni ca ..2..
पुनरेव महाबाउर्मया भ्रात्रा च सम्गतः ।अयोध्याम् वनवासात्तु प्रविशत्वनघोऽनघे ॥२-५२-९१॥
पुनर् एव महाबाउः मया भ्रात्रा च सम्गतः ।अयोध्याम् वन-वासात् तु प्रविशतु अनघः अनघे ॥२॥
punar eva mahābāuḥ mayā bhrātrā ca samgataḥ .ayodhyām vana-vāsāt tu praviśatu anaghaḥ anaghe ..2..
तथा सम्भाषमाणा सा सीता गन्गाम् अनिन्दिता ।दक्षिणा दक्षिणम् तीरम् क्षिप्रम् एव अभ्युपागमत् ॥२-५२-९२॥
तथा सम्भाषमाणा सा सीता गन्गाम् अनिन्दिता ।दक्षिणा दक्षिणम् तीरम् क्षिप्रम् एव अभ्युपागमत् ॥२॥
tathā sambhāṣamāṇā sā sītā gangām aninditā .dakṣiṇā dakṣiṇam tīram kṣipram eva abhyupāgamat ..2..
तीरम् तु समनुप्राप्य नावम् हित्वा नर ऋषभः ।प्रातिष्ठत सह भ्रात्रा वैदेह्या च परम् तपः ॥२-५२-९३॥
तीरम् तु समनुप्राप्य नावम् हित्वा नर-ऋषभः ।प्रातिष्ठत सह भ्रात्रा वैदेह्या च परम् तपः ॥२॥
tīram tu samanuprāpya nāvam hitvā nara-ṛṣabhaḥ .prātiṣṭhata saha bhrātrā vaidehyā ca param tapaḥ ..2..
अथ अब्रवीन् महा बाहुः सुमित्र आनन्द वर्धनम् ।भव सम्रक्षणार्थाय सजने विजनेऽपि वा ॥२-५२-९४॥
अथ अब्रवीत् महा-बाहुः सुमित्र-आनन्द-वर्धनम् ।भव सम्रक्षण-अर्थाय स जने विजने अपि वा ॥२॥
atha abravīt mahā-bāhuḥ sumitra-ānanda-vardhanam .bhava samrakṣaṇa-arthāya sa jane vijane api vā ..2..
अवश्यम् रक्षणम् कार्यमदृष्टे विजने वने ।अग्रतः गच्च सौमित्रे सीता त्वाम् अनुगच्चतु ॥२-५२-९५॥
अवश्यम् रक्षणम् कार्यम् अदृष्टे विजने वने ।अग्रतः गच्च सौमित्रे सीता त्वाम् अनुगच्चतु ॥२॥
avaśyam rakṣaṇam kāryam adṛṣṭe vijane vane .agrataḥ gacca saumitre sītā tvām anugaccatu ..2..
पृष्ठतः अहम् गमिष्यामि त्वाम् च सीताम् च पालयन् ।अद्य दुह्खम् तु वैदेही वन वासस्य वेत्स्यति ॥२-५२-९६॥
पृष्ठतः अहम् गमिष्यामि त्वाम् च सीताम् च पालयन् ।अद्य दुह्खम् तु वैदेही वन-वासस्य वेत्स्यति ॥२॥
pṛṣṭhataḥ aham gamiṣyāmi tvām ca sītām ca pālayan .adya duhkham tu vaidehī vana-vāsasya vetsyati ..2..
न हि तावदतिक्रान्ता सुकरा काचन क्रिया ।अद्य दुःखम् तु वैदेही वनवासस्य वेत्स्यति ॥२-५२-९७॥
न हि तावत् अतिक्रान्ता सुकरा काचन क्रिया ।अद्य दुःखम् तु वैदेही वनवासस्य वेत्स्यति ॥२॥
na hi tāvat atikrāntā sukarā kācana kriyā .adya duḥkham tu vaidehī vanavāsasya vetsyati ..2..
प्रणष्टजनसम्बाधम् क्षेत्रारामविवर्बितम् ।विषमम् च प्रपातम् च वनमद्य प्रवेक्ष्यति ॥२-५२-९८॥
प्रणष्ट-जन-सम्बाधम् क्षेत्र-आराम-विवर्बितम् ।विषमम् च प्रपातम् च वनम् अद्य प्रवेक्ष्यति ॥२॥
praṇaṣṭa-jana-sambādham kṣetra-ārāma-vivarbitam .viṣamam ca prapātam ca vanam adya pravekṣyati ..2..
श्रुत्वा रामस्य वचनम् प्रतिस्थे लक्ष्मण्Oऽग्रतः ।अनन्तरम् च सीताया राघवो रघनन्धनः ॥२-५२-९९॥
श्रुत्वा रामस्य वचनम् प्रतिस्थे लक्ष्मणः अग्रतस् ।अनन्तरम् च सीतायाः राघवः ॥२॥
śrutvā rāmasya vacanam pratisthe lakṣmaṇaḥ agratas .anantaram ca sītāyāḥ rāghavaḥ ..2..
गतम् तु गन्गा पर पारम् आशु । रामम् सुमन्त्रः प्रततम् निरीक्ष्य ।अध्व प्रकर्षात् विनिवृत्त दृष्टिर् । र्मुमोच बाष्पम् व्यथितः तपस्वी ॥२-५२-१००॥
गतम् तु गन्गा पर-पारम् आशु । रामम् सुमन्त्रः प्रततम् निरीक्ष्य ।अध्व-प्रकर्षात् विनिवृत्त-दृष्टिः । र्मुमोच बाष्पम् व्यथितः तपस्वी ॥२॥
gatam tu gangā para-pāram āśu . rāmam sumantraḥ pratatam nirīkṣya .adhva-prakarṣāt vinivṛtta-dṛṣṭiḥ . rmumoca bāṣpam vyathitaḥ tapasvī ..2..
स लोकपालप्रतिमप्रभाववाम् । स्तीर्त्वा महात्मा वरदो महानदीम् ।ततः समृद्धान् शुभसस्यमालिनः । क्रमेण वत्सान् मुदितानुपागमत् ॥२-५२-१०१॥
स लोकपाल-प्रतिम-प्रभाववाम् । स्तीर्त्वा महात्मा वर-दः महा-नदीम् ।ततस् समृद्धान् शुभ-सस्य-मालिनः । क्रमेण वत्सान् मुदितान् उपागमत् ॥२॥
sa lokapāla-pratima-prabhāvavām . stīrtvā mahātmā vara-daḥ mahā-nadīm .tatas samṛddhān śubha-sasya-mālinaḥ . krameṇa vatsān muditān upāgamat ..2..
तौ तत्र हत्वा चतुरः महा मृगान् ।वराहम् ऋश्यम् पृषतम् महा रुरुम् ।आदाय मेध्यम् त्वरितम् बुभुक्षितौ। वासाय काले ययतुर् वनः पतिम् ॥२-५२-१०२॥
तौ तत्र हत्वा चतुरः महा-मृगान् ।वराहम् ऋश्यम् पृषतम् महा-रुरुम् ।आदाय मेध्यम् त्वरितम् बुभुक्षितौ। वासाय काले ययतुः वनः पतिम् ॥२॥
tau tatra hatvā caturaḥ mahā-mṛgān .varāham ṛśyam pṛṣatam mahā-rurum .ādāya medhyam tvaritam bubhukṣitau. vāsāya kāle yayatuḥ vanaḥ patim ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-५२॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe dvipañcāśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In