This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षष्ठः सर्गः ॥२-४॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे षष्ठः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ṣaṣṭhaḥ sargaḥ ..2..
गते पुरोहिते रामः स्नातो नियतमानसः।सह पत्न्या विशालाक्ष्या नारायणमुपागमत्॥ १॥
गते पुरोहिते रामः स्नातः नियत-मानसः।सह पत्न्या विशाल-अक्ष्या नारायणम् उपागमत्॥ १॥
gate purohite rāmaḥ snātaḥ niyata-mānasaḥ.saha patnyā viśāla-akṣyā nārāyaṇam upāgamat.. 1..
प्रगृह्य शिरसा पात्रीं हविषो विधिवत् ततः।महते दैवतायाज्यं जुहाव ज्वलितानले॥ २॥
प्रगृह्य शिरसा पात्रीम् हविषः विधिवत् ततस्।महते दैवताय आज्यम् जुहाव ज्वलित-अनले॥ २॥
pragṛhya śirasā pātrīm haviṣaḥ vidhivat tatas.mahate daivatāya ājyam juhāva jvalita-anale.. 2..
शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम्।ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे॥ ३॥
शेषम् च हविषः तस्य प्राश्य आशास्य आत्मनः प्रियम्।ध्यायन् नारायणम् देवम् सु आस्तीर्णे कुश-संस्तरे॥ ३॥
śeṣam ca haviṣaḥ tasya prāśya āśāsya ātmanaḥ priyam.dhyāyan nārāyaṇam devam su āstīrṇe kuśa-saṃstare.. 3..
वाग्यतः सह वैदेह्या भूत्वा नियतमानसः।श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः॥ ४॥
वाग्यतः सह वैदेह्या भूत्वा नियत-मानसः।श्रीमति आयतने विष्णोः शिश्ये नर-वर-आत्मजः॥ ४॥
vāgyataḥ saha vaidehyā bhūtvā niyata-mānasaḥ.śrīmati āyatane viṣṇoḥ śiśye nara-vara-ātmajaḥ.. 4..
एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः।अलंकारविधिं सम्यक् कारयामास वेश्मनः॥ ५॥
एक-याम-अवशिष्टायाम् रात्र्याम् प्रतिविबुध्य सः।अलंकार-विधिम् सम्यक् कारयामास वेश्मनः॥ ५॥
eka-yāma-avaśiṣṭāyām rātryām prativibudhya saḥ.alaṃkāra-vidhim samyak kārayāmāsa veśmanaḥ.. 5..
तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम्।पूर्वां संध्यामुपासीनो जजाप सुसमाहितः॥ ६॥
तत्र शृण्वन् सुखाः वाचः सूत-मागध-वन्दिनाम्।पूर्वाम् संध्याम् उपासीनः जजाप सु समाहितः॥ ६॥
tatra śṛṇvan sukhāḥ vācaḥ sūta-māgadha-vandinām.pūrvām saṃdhyām upāsīnaḥ jajāpa su samāhitaḥ.. 6..
तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम्।विमलक्षौमसंवीतो वाचयामास स द्विजान्॥ ७॥
तुष्टाव प्रणतः च एव शिरसा मधुसूदनम्।विमल-क्षौम-संवीतः वाचयामास स द्विजान्॥ ७॥
tuṣṭāva praṇataḥ ca eva śirasā madhusūdanam.vimala-kṣauma-saṃvītaḥ vācayāmāsa sa dvijān.. 7..
तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तथा।अयोध्यां पूरयामास तूर्यघोषानुनादितः॥ ८॥
तेषाम् पुण्य-अह-घोषः अथ गम्भीर-मधुरः तथा।अयोध्याम् पूरयामास तूर्य-घोष-अनुनादितः॥ ८॥
teṣām puṇya-aha-ghoṣaḥ atha gambhīra-madhuraḥ tathā.ayodhyām pūrayāmāsa tūrya-ghoṣa-anunāditaḥ.. 8..
कृतोपवासं तु तदा वैदेह्या सह राघवम्।अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः॥ ९॥
कृत-उपवासम् तु तदा वैदेह्या सह राघवम्।अयोध्या-निलयः श्रुत्वा सर्वः प्रमुदितः जनः॥ ९॥
kṛta-upavāsam tu tadā vaidehyā saha rāghavam.ayodhyā-nilayaḥ śrutvā sarvaḥ pramuditaḥ janaḥ.. 9..
ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम्।प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम्॥ १०॥
ततस् पौर-जनः सर्वः श्रुत्वा राम-अभिषेचनम्।प्रभाताम् रजनीम् दृष्ट्वा चक्रे शोभयितुम् पुरीम्॥ १०॥
tatas paura-janaḥ sarvaḥ śrutvā rāma-abhiṣecanam.prabhātām rajanīm dṛṣṭvā cakre śobhayitum purīm.. 10..
सिताभ्रशिखराभेषु देवतायतनेषु च।चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च॥ ११॥
सित-अभ्र-शिखर-आभेषु देवतायतनेषु च।चतुष्पथेषु रथ्यासु चैत्येषु अट्टालकेषु च॥ ११॥
sita-abhra-śikhara-ābheṣu devatāyataneṣu ca.catuṣpatheṣu rathyāsu caityeṣu aṭṭālakeṣu ca.. 11..
नानापण्यसमृद्धेषु वणिजामापणेषु च।कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च॥ १२॥
नाना पण्य-समृद्धेषु वणिजाम् आपणेषु च।कुटुम्बिनाम् समृद्धेषु श्रीमत्सु भवनेषु च॥ १२॥
nānā paṇya-samṛddheṣu vaṇijām āpaṇeṣu ca.kuṭumbinām samṛddheṣu śrīmatsu bhavaneṣu ca.. 12..
सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च।ध्वजाः समुच्छ्रिताः साधु पताकाश्चाभवंस्तथा॥ १३॥
सभासु च एव सर्वासु वृक्षेषु आलक्षितेषु च।ध्वजाः समुच्छ्रिताः साधु पताकाः च अभवन् तथा॥ १३॥
sabhāsu ca eva sarvāsu vṛkṣeṣu ālakṣiteṣu ca.dhvajāḥ samucchritāḥ sādhu patākāḥ ca abhavan tathā.. 13..
नटनर्तकसङ्घानां गायकानां च गायताम्।मनःकर्णसुखा वाचः शुश्राव जनता ततः॥ १४॥
नट-नर्तक-सङ्घानाम् गायकानाम् च गायताम्।मनः-कर्ण-सुखाः वाचः शुश्राव जनता ततस्॥ १४॥
naṭa-nartaka-saṅghānām gāyakānām ca gāyatām.manaḥ-karṇa-sukhāḥ vācaḥ śuśrāva janatā tatas.. 14..
रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः।रामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च॥ १५॥
राम-अभिषेक-युक्ताः च कथाः चक्रुः मिथस् जनाः।राम-अभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च॥ १५॥
rāma-abhiṣeka-yuktāḥ ca kathāḥ cakruḥ mithas janāḥ.rāma-abhiṣeke samprāpte catvareṣu gṛheṣu ca.. 15..
बाला अपि क्रीडमाना गृहद्वारेषु सङ्घशः।रामाभिषवसंयुक्ताश्चक्रुरेव कथा मिथः॥ १६॥
बालाः अपि क्रीडमानाः गृह-द्वारेषु सङ्घशस्।राम-अभिषव-संयुक्ताः चक्रुः एव कथाः मिथस्॥ १६॥
bālāḥ api krīḍamānāḥ gṛha-dvāreṣu saṅghaśas.rāma-abhiṣava-saṃyuktāḥ cakruḥ eva kathāḥ mithas.. 16..
कृतपुष्पोपहारश्च धूपगन्धाधिवासितः।राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने॥ १७॥
कृत-पुष्प-उपहारः च धूप-गन्ध-अधिवासितः।राजमार्गः कृतः श्रीमान् पौरैः राम-अभिषेचने॥ १७॥
kṛta-puṣpa-upahāraḥ ca dhūpa-gandha-adhivāsitaḥ.rājamārgaḥ kṛtaḥ śrīmān pauraiḥ rāma-abhiṣecane.. 17..
प्रकाशकरणार्थं च निशागमनशङ्कया।दीपवृक्षांस्तथा चक्रुरनुरथ्यासु सर्वशः॥ १८॥
प्रकाश-करण-अर्थम् च निशा-गमन-शङ्कया।दीपवृक्षान् तथा चक्रुः अनुरथ्यासु सर्वशस्॥ १८॥
prakāśa-karaṇa-artham ca niśā-gamana-śaṅkayā.dīpavṛkṣān tathā cakruḥ anurathyāsu sarvaśas.. 18..
अलंकारं पुरस्यैवं कृत्वा तत् पुरवासिनः।आकांक्षमाणा रामस्य यौवराज्याभिषेचनम्॥ १९॥
अलंकारम् पुरस्य एवम् कृत्वा तत् पुर-वासिनः।आकांक्षमाणाः रामस्य यौवराज्य-अभिषेचनम्॥ १९॥
alaṃkāram purasya evam kṛtvā tat pura-vāsinaḥ.ākāṃkṣamāṇāḥ rāmasya yauvarājya-abhiṣecanam.. 19..
समेत्य सङ्घशः सर्वे चत्वरेषु सभासु च।कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम्॥ २०॥
समेत्य सङ्घशस् सर्वे चत्वरेषु सभासु च।कथयन्तः मिथस् तत्र प्रशशंसुः जनाधिपम्॥ २०॥
sametya saṅghaśas sarve catvareṣu sabhāsu ca.kathayantaḥ mithas tatra praśaśaṃsuḥ janādhipam.. 20..
अहो महात्मा राजायमिक्ष्वाकुकुलनन्दनः।ज्ञात्वा वृद्धं स्वमात्मानं रामं राज्येऽभिषेक्ष्यति॥ २१॥
अहो महात्मा राजा अयम् इक्ष्वाकु-कुल-नन्दनः।ज्ञात्वा वृद्धम् स्वम् आत्मानम् रामम् राज्ये अभिषेक्ष्यति॥ २१॥
aho mahātmā rājā ayam ikṣvāku-kula-nandanaḥ.jñātvā vṛddham svam ātmānam rāmam rājye abhiṣekṣyati.. 21..
सर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः।चिराय भविता गोप्ता दृष्टलोकपरावरः॥ २२॥
सर्वे हि अनुगृहीताः स्म यत् नः रामः महीपतिः।चिराय भविता गोप्ता दृष्ट-लोक-परावरः॥ २२॥
sarve hi anugṛhītāḥ sma yat naḥ rāmaḥ mahīpatiḥ.cirāya bhavitā goptā dṛṣṭa-loka-parāvaraḥ.. 22..
अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः।यथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः॥ २३॥
अनुद्धत-मनाः विद्वान् धर्म-आत्मा भ्रातृ-वत्सलः।यथा च भ्रातृषु स्निग्धः तथा अस्मासु अपि राघवः॥ २३॥
anuddhata-manāḥ vidvān dharma-ātmā bhrātṛ-vatsalaḥ.yathā ca bhrātṛṣu snigdhaḥ tathā asmāsu api rāghavaḥ.. 23..
चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः।यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम्॥ २४॥
चिरम् जीवतु धर्म-आत्मा राजा दशरथः अनघः।यद्-प्रसादेन अभिषिक्तम् रामम् द्रक्ष्यामहे वयम्॥ २४॥
ciram jīvatu dharma-ātmā rājā daśarathaḥ anaghaḥ.yad-prasādena abhiṣiktam rāmam drakṣyāmahe vayam.. 24..
एवंविधं कथयतां पौराणां शुश्रुवुः परे।दिग्भ्यो विश्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः॥ २५॥
एवंविधम् कथयताम् पौराणाम् शुश्रुवुः परे।दिग्भ्यः विश्रुत-वृत्तान्ताः प्राप्ताः जानपदाः जनाः॥ २५॥
evaṃvidham kathayatām paurāṇām śuśruvuḥ pare.digbhyaḥ viśruta-vṛttāntāḥ prāptāḥ jānapadāḥ janāḥ.. 25..
ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम्।रामस्य पूरयामासुः पुरीं जानपदा जनाः॥ २६॥
ते तु दिग्भ्यः पुरीम् प्राप्ताः द्रष्टुम् राम-अभिषेचनम्।रामस्य पूरयामासुः पुरीम् जानपदाः जनाः॥ २६॥
te tu digbhyaḥ purīm prāptāḥ draṣṭum rāma-abhiṣecanam.rāmasya pūrayāmāsuḥ purīm jānapadāḥ janāḥ.. 26..
जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निःस्वनः।पर्वसूदीर्णवेगस्य सागरस्येव निःस्वनः॥ २७॥
जन-ओघैः तैः विसर्पद्भिः शुश्रुवे तत्र निःस्वनः।पर्वसु उदीर्ण-वेगस्य सागरस्य इव निःस्वनः॥ २७॥
jana-oghaiḥ taiḥ visarpadbhiḥ śuśruve tatra niḥsvanaḥ.parvasu udīrṇa-vegasya sāgarasya iva niḥsvanaḥ.. 27..
ततस्तदिन्द्रक्षयसंनिभं पुरं दिदृक्षुभिर्जानपदैरुपाहितैः।समन्ततः सस्वनमाकुलं बभौसमुद्रयादोभिरिवार्णवोदकम्॥ २८॥
ततस् तत् इन्द्र-क्षय-संनिभम् पुरम् दिदृक्षुभिः जानपदैः उपाहितैः।समन्ततः स स्वनम् आकुलम् बभौ समुद्र-यादोभिः इव अर्णव-उदकम्॥ २८॥
tatas tat indra-kṣaya-saṃnibham puram didṛkṣubhiḥ jānapadaiḥ upāhitaiḥ.samantataḥ sa svanam ākulam babhau samudra-yādobhiḥ iva arṇava-udakam.. 28..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In