This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे चतुःषष्ठितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ ..2..
वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः । विलपन्ने व धर्मात्मा कौसल्याम् पुन रब्रवीत् ॥२-६४-१॥
वधम् अप्रतिरूपम् तु महा-ऋषेः तस्य राघवः । विलपन् ए व धर्म-आत्मा कौसल्याम् पुनर् रब्रवीत् ॥२॥
vadham apratirūpam tu mahā-ṛṣeḥ tasya rāghavaḥ . vilapan e va dharma-ātmā kausalyām punar rabravīt ..2..
तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित इन्द्रियः । एकः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत् ॥२-६४-२॥
तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित-इन्द्रियः । एकः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत् ॥२॥
tat ajñānān mahat pāpam kṛtvā samkulita-indriyaḥ . ekaḥ tu acintayam buddhyā katham nu sukṛtam bhavet ..2..
ततः तम् घटम् आदय पूर्णम् परम वारिणा । आश्रमम् तम् अहम् प्राप्य यथा आख्यात पथम् गतः ॥२-६४-३॥
ततस् तम् घटम् आदय पूर्णम् परम-वारिणा । आश्रमम् तम् अहम् प्राप्य यथा आख्यात-पथम् गतः ॥२॥
tatas tam ghaṭam ādaya pūrṇam parama-vāriṇā . āśramam tam aham prāpya yathā ākhyāta-patham gataḥ ..2..
तत्र अहम् दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ । अपश्यम् तस्य पितरौ लून पक्षाव् इव द्विजौ ॥२-६४-४॥
तत्र अहम् दुर्बलौ अन्धौ वृद्धौ अपरिणायकौ । अपश्यम् तस्य पितरौ लून-पक्षौ इव द्विजौ ॥२॥
tatra aham durbalau andhau vṛddhau apariṇāyakau . apaśyam tasya pitarau lūna-pakṣau iva dvijau ..2..
तन् निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ । ताम् आशाम् मत् कृते हीनाव् उदासीनाव् अनाथवत् ॥२-६४-५॥
तद्-निमित्ताभिः आसीनौ कथाभिः अ परिक्रमौ । ताम् आशाम् मत् कृते हीनौ उदासीनौ अनाथ-वत् ॥२॥
tad-nimittābhiḥ āsīnau kathābhiḥ a parikramau . tām āśām mat kṛte hīnau udāsīnau anātha-vat ..2..
शोकोपहतचित्तश्च भयसम्त्रस्तचेतनः । तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः ॥२-६४-६॥
शोक-उपहत-चित्तः च भय-सम्त्रस्त-चेतनः । तत् च आश्रम-पदम् गत्वा भूयस् शोकम् अहम् गतः ॥२॥
śoka-upahata-cittaḥ ca bhaya-samtrasta-cetanaḥ . tat ca āśrama-padam gatvā bhūyas śokam aham gataḥ ..2..
पद शब्दम् तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत । किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय ॥२-६४-७॥
पद-शब्दम् तु मे श्रुत्वा मुनिः वाक्यम् अभाषत । किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय ॥२॥
pada-śabdam tu me śrutvā muniḥ vākyam abhāṣata . kim cirāyasi me putra pānīyam kṣipram ānaya ..2..
यन् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया । उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम् ॥२-६४-८॥
यत् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया । उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम् ॥२॥
yat nimittam idam tāta salile krīḍitam tvayā . utkaṇṭhitā te mātā iyam praviśa kṣipram āśramam ..2..
यद् व्यलीकम् कृतम् पुत्र मात्रा ते यदि वा मया । न तन् मनसि कर्तव्यम् त्वया तात तपस्विना ॥२-६४-९॥
यत् व्यलीकम् कृतम् पुत्र-मात्रा ते यदि वा मया । न तत् मनसि कर्तव्यम् त्वया तात तपस्विना ॥२॥
yat vyalīkam kṛtam putra-mātrā te yadi vā mayā . na tat manasi kartavyam tvayā tāta tapasvinā ..2..
त्वम् गतिस् तु अगतीनाम् च चक्षुस् त्वम् हीन चक्षुषाम् । समासक्ताः त्वयि प्राणाः किम्चिन् नौ न अभिभाषसे ॥२-६४-१०॥
त्वम् गतिः तु अगतीनाम् च चक्षुः त्वम् हीन-चक्षुषाम् । समासक्ताः त्वयि प्राणाः किम्चिद् नौ न अभिभाषसे ॥२॥
tvam gatiḥ tu agatīnām ca cakṣuḥ tvam hīna-cakṣuṣām . samāsaktāḥ tvayi prāṇāḥ kimcid nau na abhibhāṣase ..2..
मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया । हीन व्यन्जनया प्रेक्ष्य भीतः भीतैव अब्रुवम् ॥२-६४-११॥
मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया । हीन-व्यन्जनया प्रेक्ष्य भीतः भीता एव अब्रुवम् ॥२॥
munim avyaktayā vācā tam aham sajjamānayā . hīna-vyanjanayā prekṣya bhītaḥ bhītā eva abruvam ..2..
मनसः कर्म चेष्टाभिर् अभिसम्स्तभ्य वाग् बलम् । आचचक्षे तु अहम् तस्मै पुत्र व्यसनजम् भयम् ॥२-६४-१२॥
मनसः कर्म चेष्टाभिः अभिसम्स्तभ्य वाच् बलम् । आचचक्षे तु अहम् तस्मै पुत्र-व्यसनजम् भयम् ॥२॥
manasaḥ karma ceṣṭābhiḥ abhisamstabhya vāc balam . ācacakṣe tu aham tasmai putra-vyasanajam bhayam ..2..
क्षत्रियो अहम् दशरथो न अहम् पुत्रः महात्मनः । सज्जन अवमतम् दुह्खम् इदम् प्राप्तम् स्व कर्मजम् ॥२-६४-१३॥
क्षत्रियः अहम् दशरथः न अहम् पुत्रः महात्मनः । सज्जन-अवमतम् दुह्खम् इदम् प्राप्तम् स्व-कर्म-जम् ॥२॥
kṣatriyaḥ aham daśarathaḥ na aham putraḥ mahātmanaḥ . sajjana-avamatam duhkham idam prāptam sva-karma-jam ..2..
भगवमः च अपहस्तः अहम् सरयू तीरम् आगतः । जिघाम्सुः श्वा पदम् किम्चिन् निपाने वा आगतम् गजम् ॥२-६४-१४॥
भगवमः च अपहस्तः अहम् सरयू-तीरम् आगतः । जिघाम्सुः श्वा पदम् किम्चिद् निपाने वा आगतम् गजम् ॥२॥
bhagavamaḥ ca apahastaḥ aham sarayū-tīram āgataḥ . jighāmsuḥ śvā padam kimcid nipāne vā āgatam gajam ..2..
ततः श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः । द्विपो अयम् इति मत्वा हि बाणेन अभिहतः मया ॥२-६४-१५॥
ततस् श्रुतः मया शब्दः जले कुम्भस्य पूर्यतः । द्विपः अयम् इति मत्वा हि बाणेन अभिहतः मया ॥२॥
tatas śrutaḥ mayā śabdaḥ jale kumbhasya pūryataḥ . dvipaḥ ayam iti matvā hi bāṇena abhihataḥ mayā ..2..
गत्वा नद्याः ततः तीरम् अपश्यम् इषुणा हृदि । विनिर्भिन्नम् गत प्राणम् शयानम् भुवि तापसम् ॥२-६४-१६॥
गत्वा नद्याः ततस् तीरम् अपश्यम् इषुणा हृदि । विनिर्भिन्नम् गत-प्राणम् शयानम् भुवि तापसम् ॥२॥
gatvā nadyāḥ tatas tīram apaśyam iṣuṇā hṛdi . vinirbhinnam gata-prāṇam śayānam bhuvi tāpasam ..2..
भगवन् शब्दम् आलक्ष्य मया गज जिघाम्सुना । विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः ॥२-६४-१७॥
भगवन् शब्दम् आलक्ष्य मया गज-जिघाम्सुना । विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः ॥२॥
bhagavan śabdam ālakṣya mayā gaja-jighāmsunā . visṛṣṭaḥ ambhasi nārācaḥ tena te nihataḥ sutaḥ ..2..
ततस्तस्यैव वचनादुपेत्य परितप्यतः । स मया सहसा बण उद्धृतो मर्मतस्तदा ॥२-६४-१८॥
ततस् तस्य एव वचनात् उपेत्य परितप्यतः । स मया सहसा बणः उद्धृतः मर्मतः तदा ॥२॥
tatas tasya eva vacanāt upetya paritapyataḥ . sa mayā sahasā baṇaḥ uddhṛtaḥ marmataḥ tadā ..2..
स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः । भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च ॥२-६४-१९॥
स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः । भगवन्तौ उभौ शोचन् अन्धौ इति विलप्य च ॥२॥
sa ca uddhṛtena bāṇena tatra eva svargam āsthitaḥ . bhagavantau ubhau śocan andhau iti vilapya ca ..2..
अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया । शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥२-६४-२०॥
अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया । शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥२॥
ajñānāt bhavataḥ putraḥ sahasā abhihataḥ mayā . śeṣam evam gate yat syāt tat prasīdatu me muniḥ ..2..
स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक कर्शितः । नाशकत्तीव्रमायासमकर्तुम् भगवानृषिः ॥२-६४-२१॥
स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक-कर्शितः । न अशकत् तीव्रम् आयासम् अकर्तुम् भगवान् ऋषिः ॥२॥
sa tat śrutvā vacaḥ krūram nihśvasan śoka-karśitaḥ . na aśakat tīvram āyāsam akartum bhagavān ṛṣiḥ ..2..
सबाष्पपूर्णवदनो निःश्वसन् शोककर्शितः । माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-२२॥
स बाष्प-पूर्ण-वदनः निःश्वसन् शोक-कर्शितः । माम् उवाच महा-तेजाः कृत-अन्जलिम् उपस्थितम् ॥२॥
sa bāṣpa-pūrṇa-vadanaḥ niḥśvasan śoka-karśitaḥ . mām uvāca mahā-tejāḥ kṛta-anjalim upasthitam ..2..
यद्य् एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् । फलेन् मूर्धा स्म ते राजन् सद्यः शत सहस्रधा ॥२-६४-२३॥
यदि एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् । फलेत् मूर्धा स्म ते राजन् सद्यस् शत-सहस्रधा ॥२॥
yadi etat aśubham karma na sma me kathayeḥ svayam . phalet mūrdhā sma te rājan sadyas śata-sahasradhā ..2..
क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः । ज्ञान पूर्वम् कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् ॥२-६४-२४॥
क्षत्रियेण वधः राजन् वानप्रस्थे विशेषतः । ज्ञान-पूर्वम् कृतः स्थानात् च्यावयेत् अपि वज्रिणम् ॥२॥
kṣatriyeṇa vadhaḥ rājan vānaprasthe viśeṣataḥ . jñāna-pūrvam kṛtaḥ sthānāt cyāvayet api vajriṇam ..2..
सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति । ज्ञानाद्विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि ॥२-६४-२५॥
सप्तधा तु फलेत् मूर्धा मुनौ तपसि तिष्ठति । ज्ञानात् विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि ॥२॥
saptadhā tu phalet mūrdhā munau tapasi tiṣṭhati . jñānāt visṛjataḥ śastram tādṛśe brahmacāriṇi ..2..
अज्ञानाद्द् हि कृतम् यस्मात् इदम् तेन एव जीवसि । अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतः भवान् ॥२-६४-२६॥
अज्ञानात् हि कृतम् यस्मात् इदम् तेन एव जीवसि । अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतस् भवान् ॥२॥
ajñānāt hi kṛtam yasmāt idam tena eva jīvasi . api hi adya kulam nasyāt rāghavāṇām kutas bhavān ..2..
नय नौ नृप तम् देशम् इति माम् च अभ्यभाषत । अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम दर्शनम् ॥२-६४-२७॥
नय नौ नृप तम् देशम् इति माम् च अभ्यभाषत । अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम-दर्शनम् ॥२॥
naya nau nṛpa tam deśam iti mām ca abhyabhāṣata . adya tam draṣṭum iccāvaḥ putram paścima-darśanam ..2..
रुधिरेण अवसित अन्गम् प्रकीर्ण अजिन वाससम् । शयानम् भुवि निह्सम्ज्ञम् धर्म राज वशम् गतम् ॥२-६४-२८॥
रुधिरेण अवसित-अन्गम् प्रकीर्ण-अजिन-वाससम् । शयानम् भुवि निह्सम्ज्ञम् धर्म-राज-वशम् गतम् ॥२॥
rudhireṇa avasita-angam prakīrṇa-ajina-vāsasam . śayānam bhuvi nihsamjñam dharma-rāja-vaśam gatam ..2..
अथ अहम् एकः तम् देशम् नीत्वा तौ भृश दुह्खितौ । अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया ॥२-६४-२९॥
अथ अहम् एकः तम् देशम् नीत्वा तौ भृश-दुह्खितौ । अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया ॥२॥
atha aham ekaḥ tam deśam nītvā tau bhṛśa-duhkhitau . asparśayam aham putram tam munim saha bhāryayā ..2..
तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ । निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत् ॥२-६४-३०॥
तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ । निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत् ॥२॥
tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau . nipetatuḥ śarīre asya pitā ca asya idam abravīt ..2..
न न्व् अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक । किम् नु न आलिन्गसे पुत्र सुकुमार वचो वद ॥२-६४-३१॥
न नु अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक । किम् नु न आलिन्गसे पुत्र सुकुमार वचः वद ॥२॥
na nu aham te priyaḥ putra mātaram paśya dhārmika . kim nu na ālingase putra sukumāra vacaḥ vada ..2..
न त्वहम् ते प्रियः पुत्र मातरम् पस्य धार्मिक । किम् नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥२-६४-३२॥
न त्वहम् ते प्रियः पुत्र-मातरम् पस्य धार्मिक । किम् नु न आलिङ्गसे पुत्र सुकुमार वचः वद ॥२॥
na tvaham te priyaḥ putra-mātaram pasya dhārmika . kim nu na āliṅgase putra sukumāra vacaḥ vada ..2..
कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् । अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः ॥२-६४-३३॥
कस्य वा अपर-रात्रे अहम् श्रोष्यामि हृदयम् गमम् । अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः ॥२॥
kasya vā apara-rātre aham śroṣyāmi hṛdayam gamam . adhīyānasya madhuram śāstram vā anyad viśeṣataḥ ..2..
को माम् सम्ध्याम् उपास्य एव स्नात्वा हुत हुत अशनः । श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम् ॥२-६४-३४॥
कः माम् सम्ध्याम् उपास्य एव स्नात्वा हुत-हुत-अशनः । श्लाघयिष्यति उपासीनः पुत्र-शोक-भय-अर्दितम् ॥२॥
kaḥ mām samdhyām upāsya eva snātvā huta-huta-aśanaḥ . ślāghayiṣyati upāsīnaḥ putra-śoka-bhaya-arditam ..2..
कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् । भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् ॥२-६४-३५॥
कन्द-मूल-फलम् हृत्वा कः माम् प्रियम् इव अतिथिम् । भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् ॥२॥
kanda-mūla-phalam hṛtvā kaḥ mām priyam iva atithim . bhojayiṣyati akarmaṇyam apragraham anāyakam ..2..
इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् । कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् ॥२-६४-३६॥
इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् । कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् ॥२॥
imām andhām ca vṛddhām ca mātaram te tapasvinīm . katham putra bhariṣyāmi kṛpaṇām putra gardhinīm ..2..
तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति । श्वो मया सह गन्ता असि जनन्या च समेधितः ॥२-६४-३७॥
तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति । श्वस् मया सह गन्ता असि जनन्या च समेधितः ॥२॥
tiṣṭha mā mā gamaḥ putra yamasya sadanam prati . śvas mayā saha gantā asi jananyā ca samedhitaḥ ..2..
उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने । क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम् ॥२-६४-३८॥
उभौ अपि च शोके आर्तौ अनाथौ कृपणौ वने । क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम-क्षयम् ॥२॥
ubhau api ca śoke ārtau anāthau kṛpaṇau vane . kṣipram eva gamiṣyāvaḥ tvayā hīnau yama-kṣayam ..2..
ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् । क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम् ॥२-६४-३९॥
ततस् वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् । क्षमताम् धर्म राजः मे बिभृयात् पितरौ अयम् ॥२॥
tatas vaivasvatam dṛṣṭvā tam pravakṣyāmi bhāratīm . kṣamatām dharma rājaḥ me bibhṛyāt pitarau ayam ..2..
दातुमर्हति धर्मात्मा लोकपालो महायशाः । ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥२-६४-४०॥
दातुम् अर्हति धर्म-आत्मा लोकपालः महा-यशाः । ईदृषस्य मम अक्षय्याम् एकाम् अभय-दक्षिणाम् ॥२॥
dātum arhati dharma-ātmā lokapālaḥ mahā-yaśāḥ . īdṛṣasya mama akṣayyām ekām abhaya-dakṣiṇām ..2..
अपापो असि यथा पुत्र निहतः पाप कर्मणा । तेन सत्येन गच्च आशु ये लोकाः शस्त्र योधिनाम् ॥२-६४-४१॥
अपापः असि यथा पुत्र निहतः पाप-कर्मणा । तेन सत्येन गच्च आशु ये लोकाः शस्त्र-योधिनाम् ॥२॥
apāpaḥ asi yathā putra nihataḥ pāpa-karmaṇā . tena satyena gacca āśu ye lokāḥ śastra-yodhinām ..2..
यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः । हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज ॥२-६४-४२॥
यान्ति शूराः गतिम् याम् च सम्ग्रामेषु अनिवर्तिनः । हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज ॥२॥
yānti śūrāḥ gatim yām ca samgrāmeṣu anivartinaḥ . hatāḥ tu abhimukhāḥ putra gatim tām paramām vraja ..2..
याम् गतिम् सगरः शैब्यो दिलीपो जनमेजयः । नहुषो धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक ॥२-६४-४३॥
याम् गतिम् सगरः शैब्यः दिलीपः जनमेजयः । नहुषः धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक ॥२॥
yām gatim sagaraḥ śaibyaḥ dilīpaḥ janamejayaḥ . nahuṣaḥ dhundhumāraḥ ca prāptāḥ tām gacca putraka ..2..
या गतिः सर्व साधूनाम् स्वाध्यायात् पतसः च या । भूमिदस्य आहित अग्नेः चएक पत्नी व्रतस्य च ॥२-६४-४४॥
या गतिः सर्व-साधूनाम् स्वाध्यायात् पतसः च या । भूमिदस्य आहित-अग्नेः चएक-पत्नी-व्रतस्य च ॥२॥
yā gatiḥ sarva-sādhūnām svādhyāyāt patasaḥ ca yā . bhūmidasya āhita-agneḥ caeka-patnī-vratasya ca ..2..
गो सहस्र प्रदातृऋणाम् या या गुरुभृताम् अपि । देह न्यास कृताम् या च ताम् गतिम् गच्च पुत्रक ॥२-६४-४५॥
गो-सहस्र-प्रदातृऋणाम् या या गुरुभृताम् अपि । देह-न्यास-कृताम् या च ताम् गतिम् गच्च पुत्रक ॥२॥
go-sahasra-pradātṛṛṇām yā yā gurubhṛtām api . deha-nyāsa-kṛtām yā ca tām gatim gacca putraka ..2..
न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् । स तु यास्यति येन त्वम् निहतो मम बान्धवः ॥२-६४-४६॥
न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् । स तु यास्यति येन त्वम् निहतः मम बान्धवः ॥२॥
na hi tu asmin kule jātaḥ gaccati akuśalām gatim . sa tu yāsyati yena tvam nihataḥ mama bāndhavaḥ ..2..
एवम् स कृपणम् तत्र पर्यदेवयत असकृत् । ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया ॥२-६४-४७॥
एवम् स कृपणम् तत्र पर्यदेवयत असकृत् । ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया ॥२॥
evam sa kṛpaṇam tatra paryadevayata asakṛt . tataḥ asmai kartum udakam pravṛttaḥ saha bhāryayā ..2..
स तु दिव्येन रूपेण मुनि पुत्रः स्व कर्मभिः । स्वर्गमाध्यारुहत् ख्षिप्रम् शक्रेण सह खर्मवित् ॥२-६४-४८॥
स तु दिव्येन रूपेण मुनि-पुत्रः स्व-कर्मभिः । स्वर्गम् अध्यारुहत् ख्षिप्रम् शक्रेण सह खर्म-विद् ॥२॥
sa tu divyena rūpeṇa muni-putraḥ sva-karmabhiḥ . svargam adhyāruhat khṣipram śakreṇa saha kharma-vid ..2..
आबभाषे च वृद्धौ तौ सह शक्रेण तापसः । आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत् ॥२-६४-४९॥
आबभाषे च वृद्धौ तौ सह शक्रेण तापसः । आश्वास्य च मुहूर्तम् तु पितरा वाक्यम् अब्रवीत् ॥२॥
ābabhāṣe ca vṛddhau tau saha śakreṇa tāpasaḥ . āśvāsya ca muhūrtam tu pitarā vākyam abravīt ..2..
स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् । भवन्ताव् अपि च क्षिप्रम् मम मूलम् उपैष्यतः ॥२-६४-५०॥
स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् । भवन्तौ अपि च क्षिप्रम् मम मूलम् उपैष्यतः ॥२॥
sthānam asmi mahat prāptaḥ bhavatoh paricāraṇāt . bhavantau api ca kṣipram mama mūlam upaiṣyataḥ ..2..
एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता । आरुरोह दिवम् क्षिप्रम् मुनि पुत्रः जित इन्द्रियः ॥२-६४-५१॥
एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता । आरुरोह दिवम् क्षिप्रम् मुनि-पुत्रः जित-इन्द्रियः ॥२॥
evam uktvā tu divyena vimānena vapuṣmatā . āruroha divam kṣipram muni-putraḥ jita-indriyaḥ ..2..
स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया । माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-५२॥
स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया । माम् उवाच महा-तेजाः कृत-अन्जलिम् उपस्थितम् ॥२॥
sa kṛtvā tu udakam tūrṇam tāpasaḥ saha bhāryayā . mām uvāca mahā-tejāḥ kṛta-anjalim upasthitam ..2..
अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा । यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम् ॥२-६४-५३॥
अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा । यत् शरेण एक-पुत्रम् माम् त्वम् अकार्षीः अपुत्रकम् ॥२॥
adya eva jahi mām rājan maraṇe na asti me vyathā . yat śareṇa eka-putram mām tvam akārṣīḥ aputrakam ..2..
त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः । तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम् ॥२-६४-५४॥
त्वया तु यत् अविज्ञानात् निहतः मे सुतः शुचिः । तेन त्वाम् अभिशप्स्यामि सु दुह्खम् अति दारुणम् ॥२॥
tvayā tu yat avijñānāt nihataḥ me sutaḥ śuciḥ . tena tvām abhiśapsyāmi su duhkham ati dāruṇam ..2..
पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् । एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि ॥२-६४-५५॥
पुत्र व्यसन-जम् दुह्खम् यत् एतत् मम साम्प्रतम् । एवम् त्वम् पुत्र-शोकेन राजन् कालम् करिष्यसि ॥२॥
putra vyasana-jam duhkham yat etat mama sāmpratam . evam tvam putra-śokena rājan kālam kariṣyasi ..2..
अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः । तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप ॥२-६४-५६॥
अज्ञानात् तु हतः यस्मात् क्षत्रियेण त्वया मुनिः । तस्मात् त्वाम् न आविशति आशु ब्रह्महत्या नराधिप ॥२॥
ajñānāt tu hataḥ yasmāt kṣatriyeṇa tvayā muniḥ . tasmāt tvām na āviśati āśu brahmahatyā narādhipa ..2..
त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति । जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥२-६४-५७॥
त्वाम् अपि एतादृशः भावः क्षिप्रम् एव गमिष्यति । जीवितान्त-करः घोरः दातारम् इव दक्षिणा ॥२॥
tvām api etādṛśaḥ bhāvaḥ kṣipram eva gamiṣyati . jīvitānta-karaḥ ghoraḥ dātāram iva dakṣiṇā ..2..
एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु । चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् ॥२-६४-५८॥
एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु । चिताम् आरोप्य देहम् तत् मिथुनम् स्वर्गम् अभ्ययात् ॥२॥
evam śāpam mayi nyasya vilapya karuṇam bahu . citām āropya deham tat mithunam svargam abhyayāt ..2..
तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् । तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा ॥२-६४-५९॥
तत् एतत् चिन्तयानेन स्मऋतम् पापम् मया स्वयम् । तदा बाल्यात् कृतम् देवि शब्दवेधि-अनुकर्षिणा ॥२॥
tat etat cintayānena smaṛtam pāpam mayā svayam . tadā bālyāt kṛtam devi śabdavedhi-anukarṣiṇā ..2..
तस्यायम् कर्मणो देवि विपाकः समुपस्थितः । अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा ॥२-६४-६०॥
तस्य अयम् कर्मणः देवि विपाकः समुपस्थितः । अपथ्यैः सह सम्भुक्ते व्याधिः अन्न-रसे यथा ॥२॥
tasya ayam karmaṇaḥ devi vipākaḥ samupasthitaḥ . apathyaiḥ saha sambhukte vyādhiḥ anna-rase yathā ..2..
तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः । यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम् ॥२-६४-६१॥
तस्मात् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः । यत् अहम् पुत्र शोकेन सम्त्यक्ष्यामि अद्य जीवितम् ॥२॥
tasmāt mām āgatam bhadre tasya udārasya tat vacaḥ . yat aham putra śokena samtyakṣyāmi adya jīvitam ..2..
चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश । इत्युक्त्वा स रुदम्स्त्रस्तो भार्यामाह च भूमिपः ॥२-६४-६२॥
चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश । इति उक्त्वा स रुदन् त्रस्तः भार्याम् आह च भूमिपः ॥२॥
cakṣurbhyām tvām na paśyāmi kausalye sādhu māmsphṛśa . iti uktvā sa rudan trastaḥ bhāryām āha ca bhūmipaḥ ..2..
एतन्मे सदृशम् देवि यन्मया राघवे कृतम् । सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि ॥२-६४-६३॥
एतत् मे सदृशम् देवि यत् मया राघवे कृतम् । सदृशम् तत् तु तस्य एव यत् अनेन कृतम् मयि ॥२॥
etat me sadṛśam devi yat mayā rāghave kṛtam . sadṛśam tat tu tasya eva yat anena kṛtam mayi ..2..
दुर्वृत्तमपि कः पुत्रम् त्यजेद्भुवि विचक्षणः । कश्च प्रव्राज्यमानो वा नासूयेत्पितरम् सुतः ॥२-६४-६४॥
दुर्वृत्तम् अपि कः पुत्रम् त्यजेत् भुवि विचक्षणः । कः च प्रव्राज्यमानः वा न असूयेत् पितरम् सुतः ॥२॥
durvṛttam api kaḥ putram tyajet bhuvi vicakṣaṇaḥ . kaḥ ca pravrājyamānaḥ vā na asūyet pitaram sutaḥ ..2..
यदि माम् सम्स्पृशेद् रामः सकृदद्य लभेत वा । यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥२-६४-६५॥
यदि माम् सम्स्पृशेत् रामः सकृत् अद्य लभेत वा । यम-क्षयम् अनुप्राप्ताः द्रक्ष्यन्ति न हि मानवाः ॥२॥
yadi mām samspṛśet rāmaḥ sakṛt adya labheta vā . yama-kṣayam anuprāptāḥ drakṣyanti na hi mānavāḥ ..2..
चक्षुषा त्वाम् न पश्यामि स्मृतिर् मम विलुप्यते । दूता वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम् ॥२-६४-६६॥
चक्षुषा त्वाम् न पश्यामि स्मृतिः मम विलुप्यते । दूताः वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम् ॥२॥
cakṣuṣā tvām na paśyāmi smṛtiḥ mama vilupyate . dūtāḥ vaivasvatasya ete kausalye tvarayanti mām ..2..
अतः तु किम् दुह्खतरम् यद् अहम् जीवित क्षये । न हि पश्यामि धर्मज्ञम् रामम् सत्य पराक्यमम् ॥२-६४-६७॥
अतः तु किम् दुह्खतरम् यत् अहम् जीवित-क्षये । न हि पश्यामि धर्मज्ञम् रामम् सत्य-पराक्यमम् ॥२॥
ataḥ tu kim duhkhataram yat aham jīvita-kṣaye . na hi paśyāmi dharmajñam rāmam satya-parākyamam ..2..
तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः । उच्चोषयति मे प्राणान्वारि स्तोकमिवातवः ॥२-६४-६८॥
तस्य अ दर्शन-जः शोकः सुतस्य अ प्रतिकर्मणः । उच्चोषयति मे प्राणान् वारि स्तोकम् इव आतवः ॥२॥
tasya a darśana-jaḥ śokaḥ sutasya a pratikarmaṇaḥ . uccoṣayati me prāṇān vāri stokam iva ātavaḥ ..2..
न ते मनुष्या देवाः ते ये चारु शुभ कुण्डलम् । मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च दशे पुनः ॥२-६४-६९॥
न ते मनुष्याः देवाः ते ये चारु-शुभ-कुण्डलम् । मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च-दशे पुनः ॥२॥
na te manuṣyāḥ devāḥ te ye cāru-śubha-kuṇḍalam . mukham drakṣyanti rāmasya varṣe panca-daśe punaḥ ..2..
पद्म पत्र ईक्षणम् सुभ्रु सुदम्ष्ट्रम् चारु नासिकम् । धन्या द्रक्ष्यन्ति रामस्य तारा अधिप निभम् मुखम् ॥२-६४-७०॥
पद्म-पत्र-ईक्षणम् सुभ्रु-सुदम्ष्ट्रम् चारु-नासिकम् । धन्याः द्रक्ष्यन्ति रामस्य तारा-अधिप-निभम् मुखम् ॥२॥
padma-patra-īkṣaṇam subhru-sudamṣṭram cāru-nāsikam . dhanyāḥ drakṣyanti rāmasya tārā-adhipa-nibham mukham ..2..
सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च । सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन् मुखम् ॥२-६४-७१॥
सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च । सुगन्धि मम नाथस्य धन्याः द्रक्ष्यन्ति तत् मुखम् ॥२॥
sadṛśam śāradasya indoh phullasya kamalasya ca . sugandhi mama nāthasya dhanyāḥ drakṣyanti tat mukham ..2..
निवृत्त वन वासम् तम् अयोध्याम् पुनर् आगतम् । द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्ग गतम् यथा ॥२-६४-७२॥
निवृत्त-वन-वासम् तम् अयोध्याम् पुनर् आगतम् । द्रक्ष्यन्ति सुखिनः रामम् शुक्रम् मार्ग-गतम् यथा ॥२॥
nivṛtta-vana-vāsam tam ayodhyām punar āgatam . drakṣyanti sukhinaḥ rāmam śukram mārga-gatam yathā ..2..
कौसल्ये चित्त मोहेन हृदयम् सीदतीव मे । वेदये न च समुक्तान् शब्दस्पर्शरसानहम् ॥२-६४-७३॥
कौसल्ये चित्त-मोहेन हृदयम् सीदतीव मे । वेदये न च समुक्तान् शब्द-स्पर्श-रसान् अहम् ॥२॥
kausalye citta-mohena hṛdayam sīdatīva me . vedaye na ca samuktān śabda-sparśa-rasān aham ..2..
चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे । क्षिणस्नेहस्य दीपस्य सम्सक्ता रश्मयो यथा ॥२-६४-७४॥
चित्त-नाशात् विपद्यन्ते सर्वाणि एव इन्द्रियाणि मे । क्षिण-स्नेहस्य दीपस्य सम्सक्ताः रश्मयः यथा ॥२॥
citta-nāśāt vipadyante sarvāṇi eva indriyāṇi me . kṣiṇa-snehasya dīpasya samsaktāḥ raśmayaḥ yathā ..2..
अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् । सम्सादयति वेगेन यथा कूलम् नदी रयः ॥२-६४-७५॥
अयम् आत्म भवः शोकः माम् अनाथम् अचेतनम् । सम्सादयति वेगेन यथा कूलम् नदी-रयः ॥२॥
ayam ātma bhavaḥ śokaḥ mām anātham acetanam . samsādayati vegena yathā kūlam nadī-rayaḥ ..2..
हा राघव महा बाहो हा मम आयास नाशन । हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥२-६४-७६॥
हा राघव महा-बाहो हा मम आयास-नाशन । हा पितृ-प्रिय मे नाथ ह अद्य क्व असि गतः सुत ॥२॥
hā rāghava mahā-bāho hā mama āyāsa-nāśana . hā pitṛ-priya me nātha ha adya kva asi gataḥ suta ..2..
हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि । हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि ॥२-६४-७७॥
हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि । हा नृशम्से मम अमित्रे कैकेयि कुल-पाम्सनि ॥२॥
hā kausalye naśiṣyāmi hā sumitre tapasvini . hā nṛśamse mama amitre kaikeyi kula-pāmsani ..2..
इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ । राजा दशरथः शोचन् जीवित अन्तम् उपागमत् ॥२-६४-७८॥
इति रामस्य मातुः च सुमित्रायाः च सन्निधौ । राजा दशरथः शोचन् जीवित-अन्तम् उपागमत् ॥२॥
iti rāmasya mātuḥ ca sumitrāyāḥ ca sannidhau . rājā daśarathaḥ śocan jīvita-antam upāgamat ..2..
यथा तु दीनम् कथयन् नर अधिपः । प्रियस्य पुत्रस्य विवासन आतुरः । गते अर्ध रात्रे भृश दुह्ख पीडितः । तदा जहौ प्राणम् उदार दर्शनः ॥२-६४-७९॥
यथा तु दीनम् कथयन् नर-अधिपः । प्रियस्य पुत्रस्य विवासनः आतुरः । गते अर्ध-रात्रे भृश-दुह्ख-पीडितः । तदा जहौ प्राणम् उदार-दर्शनः ॥२॥
yathā tu dīnam kathayan nara-adhipaḥ . priyasya putrasya vivāsanaḥ āturaḥ . gate ardha-rātre bhṛśa-duhkha-pīḍitaḥ . tadā jahau prāṇam udāra-darśanaḥ ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In