This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकसप्ततितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekasaptatitamaḥ sargaḥ ..2..
स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् । ततः सुदामाम् द्युतिमान् सम्तीर्वावेक्ष्य ताम् नदीम् ॥२-७१-१॥
स प्रान्-मुखः राज-गृहात् अभिनिर्याय वीर्यवान् । ततस् सुदामाम् द्युतिमान् सम्तीर्वा अवेक्ष्य ताम् नदीम् ॥२॥
sa prān-mukhaḥ rāja-gṛhāt abhiniryāya vīryavān . tatas sudāmām dyutimān samtīrvā avekṣya tām nadīm ..2..
ह्लादिनीम् दूर पाराम् च प्रत्यक् स्रोतः तरन्गिणीम् । शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः ॥२-७१-२॥
ह्लादिनीम् दूर-पाराम् च प्रत्यक्-स्रोतः-तरन्गिणीम् । शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः ॥२॥
hlādinīm dūra-pārām ca pratyak-srotaḥ-tarangiṇīm . śatadrūm atarat śrīmān nadīm ikṣvāku nandanaḥ ..2..
एल धाने नदीम् तीर्त्वा प्राप्य च अपर पर्पटान् । शिलाम् आकुर्वतीम् तीर्त्वाआग्नेयम् शल्य कर्तनम् ॥२-७१-३॥
एल-धाने नदीम् तीर्त्वा प्राप्य च अपर-पर्पटान् । शिलाम् आकुर्वतीम् तीर्त्वाआग्नेयम् शल्य-कर्तनम् ॥२॥
ela-dhāne nadīm tīrtvā prāpya ca apara-parpaṭān . śilām ākurvatīm tīrtvāāgneyam śalya-kartanam ..2..
सत्य सम्धः शुचिः श्रीमान् प्रेक्षमाणः शिला वहाम् । अत्ययात् स महा शैलान् वनम् चैत्र रथम् प्रति ॥२-७१-४॥
सत्य-सम्धः शुचिः श्रीमान् प्रेक्षमाणः शिला-वहाम् । अत्ययात् स महा-शैलान् वनम् चैत्र-रथम् प्रति ॥२॥
satya-samdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilā-vahām . atyayāt sa mahā-śailān vanam caitra-ratham prati ..2..
सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च । उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम् ॥२-७१-५॥
सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च । उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशत् वनम् ॥२॥
sarasvatīm ca gaṅgām ca ugmena pratipadya ca . uttaram vīramatsyānām bhāruṇḍam prāviśat vanam ..2..
वेगिनीम् च कुलिन्ग आख्याम् ह्रादिनीम् पर्वत आवृताम् । यमुनाम् प्राप्य सम्तीर्णो बलम् आश्वासयत् तदा ॥२-७१-६॥
वेगिनीम् च कुलिन्ग-आख्याम् ह्रादिनीम् पर्वत-आवृताम् । यमुनाम् प्राप्य सम्तीर्णः बलम् आश्वासयत् तदा ॥२॥
veginīm ca kulinga-ākhyām hrādinīm parvata-āvṛtām . yamunām prāpya samtīrṇaḥ balam āśvāsayat tadā ..2..
शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः । तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम् ॥२-७१-७॥
शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः । तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम् ॥२॥
śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ . tatra snātvā ca pītvā ca prāyāt ādāya ca udakam ..2..
राज पुत्रः महा अरण्यम् अनभीक्ष्ण उपसेवितम् । भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात् ॥२-७१-८॥
राज-पुत्रः महा-अरण्यम् अनभीक्ष्ण-उपसेवितम् । भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात् ॥२॥
rāja-putraḥ mahā-araṇyam anabhīkṣṇa-upasevitam . bhadraḥ bhadreṇa yānena mārutaḥ kham iva atyayāt ..2..
भागीरथीम् दुष्प्रतरामम्शुधाने महानदीम् । उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे ॥२-७१-९॥
भागीरथीम् दुष्प्रतराम् अम्शुधाने महा-नदीम् । उपायात् राघवः तूर्णम् प्राच्-वटे विश्रुते पुरे ॥२॥
bhāgīrathīm duṣpratarām amśudhāne mahā-nadīm . upāyāt rāghavaḥ tūrṇam prāc-vaṭe viśrute pure ..2..
स गङ्गाम् प्राग्वट् तीर्त्वे समायात्कुटिकोष्ठिकाम् । सबलस्ताम् स तीर्त्वाथ समायाद्धर्मवर्धनम् ॥२-७१-१०॥
स गङ्गाम् प्राग्वट् तीर्त्वे समायात् कुटि-कोष्ठिकाम् । सबलः ताम् स तीर्त्वा अथ समायात् धर्मवर्धनम् ॥२॥
sa gaṅgām prāgvaṭ tīrtve samāyāt kuṭi-koṣṭhikām . sabalaḥ tām sa tīrtvā atha samāyāt dharmavardhanam ..2..
तोरणम् दक्षिण अर्धेन जम्बू प्रस्थम् उपागमत् । वरूथम् च ययौ रम्यम् ग्रामम् दशरथ आत्मजः ॥२-७१-११॥
तोरणम् दक्षिण-अर्धेन जम्बू-प्रस्थम् उपागमत् । वरूथम् च ययौ रम्यम् ग्रामम् दशरथ-आत्मजः ॥२॥
toraṇam dakṣiṇa-ardhena jambū-prastham upāgamat . varūtham ca yayau ramyam grāmam daśaratha-ātmajaḥ ..2..
तत्र रम्ये वने वासम् कृत्वा असौ प्रान् मुखो ययौ । उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः ॥२-७१-१२॥
तत्र रम्ये वने वासम् कृत्वा असौ प्रात् मुखः ययौ । उद्यानम् उज्जिहानायाः प्रियकाः यत्र पादपाः ॥२॥
tatra ramye vane vāsam kṛtvā asau prāt mukhaḥ yayau . udyānam ujjihānāyāḥ priyakāḥ yatra pādapāḥ ..2..
सालाम्स् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः । अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ ॥२-७१-१३॥
सालाम्स् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः । अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ ॥२॥
sālāms tu priyakān prāpya śīghrān āsthāya vājinaḥ . anujñāpya atha bharataḥ vāhinīm tvaritaḥ yayau ..2..
वासम् कृत्वा सर्व तीर्थे तीर्त्वा च उत्तानकाम् नदीम् । अन्या नदीः च विविधाः पार्वतीयैअः तुरम् गमैः ॥२-७१-१४॥
वासम् कृत्वा सर्व-तीर्थे तीर्त्वा च उत्तानकाम् नदीम् । अन्याः नदीः च विविधाः पार्वतीयैः तुरम् गमैः ॥२॥
vāsam kṛtvā sarva-tīrthe tīrtvā ca uttānakām nadīm . anyāḥ nadīḥ ca vividhāḥ pārvatīyaiḥ turam gamaiḥ ..2..
हस्ति पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत । ततार च नर व्याघ्रः लौहित्ये स कपीवतीम् ॥२-७१-१५॥
हस्ति-पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत । ततार च नर-व्याघ्रः लौहित्ये स कपीवतीम् ॥२॥
hasti-pṛṣṭhakam āsādya kuṭikām atyavartata . tatāra ca nara-vyāghraḥ lauhitye sa kapīvatīm ..2..
एक साले स्थाणुमतीम् विनते गोमतीम् नदीम् । कलिन्ग नगरे च अपि प्राप्य साल वनम् तदा ॥२-७१-१६॥
एक-साले स्थाणुमतीम् विनते गोमतीम् नदीम् । कलिन्ग-नगरे च अपि प्राप्य साल-वनम् तदा ॥२॥
eka-sāle sthāṇumatīm vinate gomatīm nadīm . kalinga-nagare ca api prāpya sāla-vanam tadā ..2..
भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त वाहनः । वनम् च समतीत्य आशु शर्वर्याम् अरुण उदये ॥२-७१-१७॥
भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त-वाहनः । वनम् च समतीत्य आशु शर्वर्याम् अरुण-उदये ॥२॥
bharataḥ kṣipram āgaccat supariśrānta-vāhanaḥ . vanam ca samatītya āśu śarvaryām aruṇa-udaye ..2..
अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह । ताम् पुरीम् पुरुष व्याघ्रः सप्त रात्र उषिटः पथि ॥२-७१-१८॥
अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह । ताम् पुरीम् पुरुष-व्याघ्रः सप्त-रात्र-उषिटः पथि ॥२॥
ayodhyām manunā rājñā nirmitām sa dadarśa ha . tām purīm puruṣa-vyāghraḥ sapta-rātra-uṣiṭaḥ pathi ..2..
अयोध्याम् अग्रतः दृष्ट्वा रथे सारथिम् अब्रवीत् । एषा न अतिप्रतीता मे पुण्य उद्याना यशस्विनी ॥२-७१-१९॥
अयोध्याम् अग्रतः दृष्ट्वा रथे सारथिम् अब्रवीत् । एषा न अतिप्रतीता मे पुण्य-उद्याना यशस्विनी ॥२॥
ayodhyām agrataḥ dṛṣṭvā rathe sārathim abravīt . eṣā na atipratītā me puṇya-udyānā yaśasvinī ..2..
अयोध्या दृश्यते दूरात् सारथे पाण्डु मृत्तिका । यज्वभिर् गुण सम्पन्नैः ब्राह्मणैः वेद पारगैः ॥२-७१-२०॥
अयोध्या दृश्यते दूरात् सारथे पाण्डु-मृत्तिका । यज्वभिः गुण-सम्पन्नैः ब्राह्मणैः वेद-पारगैः ॥२॥
ayodhyā dṛśyate dūrāt sārathe pāṇḍu-mṛttikā . yajvabhiḥ guṇa-sampannaiḥ brāhmaṇaiḥ veda-pāragaiḥ ..2..
भूयिष्ठम् ऋषैः आकीर्णा राज ऋषि वर पालिता । अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान् ॥२-७१-२१॥
भूयिष्ठम् ऋषैः आकीर्णा राज-ऋषि-वर-पालिता । अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलः महान् ॥२॥
bhūyiṣṭham ṛṣaiḥ ākīrṇā rāja-ṛṣi-vara-pālitā . ayodhyāyām purā śabdaḥ śrūyate tumulaḥ mahān ..2..
समन्तान् नर नारीणाम् तम् अद्य न शृणोम्य् अहम् । उद्यानानि हि साय अह्ने क्रीडित्वा उपरतैः नरैः ॥२-७१-२२॥
समन्तात् नर-नारीणाम् तम् अद्य न शृणोमि अहम् । उद्यानानि हि साय-अह्ने क्रीडित्वा उपरतैः नरैः ॥२॥
samantāt nara-nārīṇām tam adya na śṛṇomi aham . udyānāni hi sāya-ahne krīḍitvā uparataiḥ naraiḥ ..2..
समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा । तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः ॥२-७१-२३॥
समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा । तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः ॥२॥
samantāt vipradhāvadbhiḥ prakāśante mama anyadā . tāni adya anurudanti iva parityaktāni kāmibhiḥ ..2..
अरण्य भूता इव पुरी सारथे प्रतिभाति मे । न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः ॥२-७१-२४॥
अरण्य-भूता इव पुरी सारथे प्रतिभाति मे । न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः ॥२॥
araṇya-bhūtā iva purī sārathe pratibhāti me . na hi atra yānaiḥ dṛśyante na gajaiḥ na ca vājibhiḥ ..2..
निर्यान्तः वा अभियान्तः वा नर मुख्या यथा पुरम् । उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥२-७१-२५॥
निर्यान्तः वा अभियान्तः वा नर-मुख्याः यथा पुरम् । उद्यानानि पुरा भान्ति मत्त-प्रमुदितानि च ॥२॥
niryāntaḥ vā abhiyāntaḥ vā nara-mukhyāḥ yathā puram . udyānāni purā bhānti matta-pramuditāni ca ..2..
जनानाम् रतिसम्योगेष्वत्यन्तगुणवन्ति च । तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः ॥२-७१-२६॥
जनानाम् रति-सम्योगेषु अत्यन्त-गुणवन्ति च । तानि एतानि अद्य निरानन्दानि सर्वशस् ॥२॥
janānām rati-samyogeṣu atyanta-guṇavanti ca . tāni etāni adya nirānandāni sarvaśas ..2..
स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिव द्रुमैः । नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम् ॥२-७१-२७॥
स्रस्त-पर्णैः अनुपथम् विक्रोशद्भिः इव द्रुमैः । न अद्य अपि श्रूयते शब्दः मत्तानाम् मृग-पक्षिणाम् ॥२॥
srasta-parṇaiḥ anupatham vikrośadbhiḥ iva drumaiḥ . na adya api śrūyate śabdaḥ mattānām mṛga-pakṣiṇām ..2..
सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु । चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः ॥२-७१-२८॥
सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु । चन्दन-अगुरु-सम्पृक्तः धूप-सम्मूर्चितः अतुलः ॥२॥
samraktām madhurām vāṇīm kalam vyāharatām bahu . candana-aguru-sampṛktaḥ dhūpa-sammūrcitaḥ atulaḥ ..2..
प्रवाति पवनः श्रीमान् किम् नु नाद्य यथापुरम् । भेरीमृदङ्गवीणानाम् कोणसम्घट्टितः पुनः ॥२-७१-२९॥
प्रवाति पवनः श्रीमान् किम् नु न अद्य यथापुरम् । भेरी-मृदङ्ग-वीणानाम् कोण-सम्घट्टितः पुनर् ॥२॥
pravāti pavanaḥ śrīmān kim nu na adya yathāpuram . bherī-mṛdaṅga-vīṇānām koṇa-samghaṭṭitaḥ punar ..2..
किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा । अनिष्टानि च पापानि पश्यामि विविधानि च ॥२-७१-३०॥
किम् अद्य शब्दः विरतः सदा अदीन-गतिः पुरा । अनिष्टानि च पापानि पश्यामि विविधानि च ॥२॥
kim adya śabdaḥ virataḥ sadā adīna-gatiḥ purā . aniṣṭāni ca pāpāni paśyāmi vividhāni ca ..2..
निमित्तानि अमनोज्ञानि तेन सीदति ते मनः । सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु ॥२-७१-३१॥
निमित्तानि अमनोज्ञानि तेन सीदति ते मनः । सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु ॥२॥
nimittāni amanojñāni tena sīdati te manaḥ . sarvathā kuśalam sūta durlabham mama bandhuṣu ..2..
तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे । विषण्णः शान्तहृदयस्त्रस्तः सुलुलितेन्द्रियः ॥२-७१-३२॥
तथा हि असति सम्मोहे हृदयम् सीदति इव मे । विषण्णः शान्त-हृदयः त्रस्तः सुलुलित-इन्द्रियः ॥२॥
tathā hi asati sammohe hṛdayam sīdati iva me . viṣaṇṇaḥ śānta-hṛdayaḥ trastaḥ sululita-indriyaḥ ..2..
भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् । द्वारेण वैजयन्तेन प्राविशत् श्रान्त वाहनः ॥२-७१-३३॥
भरतः प्रविवेश आशु पुरीम् इक्ष्वाकु-पालिताम् । द्वारेण वैजयन्तेन प्राविशत् श्रान्त-वाहनः ॥२॥
bharataḥ praviveśa āśu purīm ikṣvāku-pālitām . dvāreṇa vaijayantena prāviśat śrānta-vāhanaḥ ..2..
द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ । स तु अनेक अग्र हृदयो द्वाह्स्थम् प्रत्यर्च्य तम् जनम् ॥२-७१-३४॥
द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ । स तु अनेक-अग्र-हृदयः द्वाह्स्थम् प्रत्यर्च्य तम् जनम् ॥२॥
dvāhsthaiḥ utthāya vijayam pṛṣṭaḥ taiḥ sahitaḥ yayau . sa tu aneka-agra-hṛdayaḥ dvāhstham pratyarcya tam janam ..2..
सूतम् अश्व पतेः क्लान्तम् अब्रवीत् तत्र राघवः । किमहम् त्वरयानीतः कारणेन विनानघ ॥२-७१-३५॥
सूतम् अश्व-पतेः क्लान्तम् अब्रवीत् तत्र राघवः । किम् अहम् त्वरया आनीतः कारणेन विना अनघ ॥२॥
sūtam aśva-pateḥ klāntam abravīt tatra rāghavaḥ . kim aham tvarayā ānītaḥ kāraṇena vinā anagha ..2..
अशुभाशङ्कि हृदयम् शीलम् च पततीव मे । श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने ॥२-७१-३६॥
अशुभ-आशङ्कि हृदयम् शीलम् च पतति इव मे । श्रुताः नः यादृशाः पूर्वम् नृपतीनाम् विनाशने ॥२॥
aśubha-āśaṅki hṛdayam śīlam ca patati iva me . śrutāḥ naḥ yādṛśāḥ pūrvam nṛpatīnām vināśane ..2..
आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे । सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥२-७१-३७॥
आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे । सम्मार्जन-विहीनानि परुषाणि उपलक्षये ॥२॥
ākārāḥ tān aham sarvān iha paśyāmi sārathe . sammārjana-vihīnāni paruṣāṇi upalakṣaye ..2..
असम्यतकवाटानि श्रीविहीनानि सर्वशः । बलिकर्मविहीनानि धूपसम्मेदनेन च ॥२-७१-३८॥
असम्यत-कवाटानि श्री-विहीनानि सर्वशस् । बलि-कर्म-विहीनानि धूप-सम्मेदनेन च ॥२॥
asamyata-kavāṭāni śrī-vihīnāni sarvaśas . bali-karma-vihīnāni dhūpa-sammedanena ca ..2..
अनाशितकुटुम्बानि प्रभाहीनजनानि च । अलक्स्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥२-७१-३९॥
अन् आशित-कुटुम्बानि प्रभा-हीन-जनानि च । अलक्स्मीकानि पश्यामि कुटुम्बि-भवनानि अहम् ॥२॥
an āśita-kuṭumbāni prabhā-hīna-janāni ca . alaksmīkāni paśyāmi kuṭumbi-bhavanāni aham ..2..
अपेतमाल्यशोभानि असम्मृष्टाजिराणि च । देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥२-७१-४०॥
अपेत-माल्य-शोभानि अ सम्मृष्ट-अजिराणि च । देवागाराणि शून्यानि न च आभान्ति यथापुरम् ॥२॥
apeta-mālya-śobhāni a sammṛṣṭa-ajirāṇi ca . devāgārāṇi śūnyāni na ca ābhānti yathāpuram ..2..
देवतार्चाः प्रविद्धाश्च यज्ञ्गोष्ठ्यस्तथाविधाः । माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥२-७१-४१॥
देवता-अर्चाः प्रविद्धाः च यज्ञ-गोष्ठ्यः तथाविधाः । माल्य-आपणेषु राजन्ते न अद्य पण्यानि वा तथा ॥२॥
devatā-arcāḥ praviddhāḥ ca yajña-goṣṭhyaḥ tathāvidhāḥ . mālya-āpaṇeṣu rājante na adya paṇyāni vā tathā ..2..
दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै । ध्यानसम्विग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥२-७१-४२॥
दृश्यन्ते वणिजः अपि अद्य न यथापूर्वम् अत्र वै । ध्यान-सम्विग्न-हृदयाः नष्ट-व्यापार-यन्त्रिताः ॥२॥
dṛśyante vaṇijaḥ api adya na yathāpūrvam atra vai . dhyāna-samvigna-hṛdayāḥ naṣṭa-vyāpāra-yantritāḥ ..2..
देवायतनचैत्येषुदीनाः पक्षिगणास्तथा ॥२-७१-४३॥
देवायतन-चैत्य-इषु-दीनाः पक्षि-गणाः तथा ॥२॥
devāyatana-caitya-iṣu-dīnāḥ pakṣi-gaṇāḥ tathā ..2..
मलिनम् च अश्रु पूर्ण अक्षम् दीनम् ध्यान परम् कृशम् । सस्त्री पुम्सम् च पश्यामि जनम् उत्कण्ठितम् पुरे ॥२-७१-४४॥
मलिनम् च अश्रु-पूर्ण-अक्षम् दीनम् ध्यान-परम् कृशम् । सस्त्री-पुम्सम् च पश्यामि जनम् उत्कण्ठितम् पुरे ॥२॥
malinam ca aśru-pūrṇa-akṣam dīnam dhyāna-param kṛśam . sastrī-pumsam ca paśyāmi janam utkaṇṭhitam pure ..2..
इति एवम् उक्त्वा भरतः सूतम् तम् दीन मानसः । तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज गृहम् ययौ ॥२-७१-४५॥
इति एवम् उक्त्वा भरतः सूतम् तम् दीन-मानसः । तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज-गृहम् ययौ ॥२॥
iti evam uktvā bharataḥ sūtam tam dīna-mānasaḥ . tāni aniṣṭāni ayodhyāyām prekṣya rāja-gṛham yayau ..2..
ताम् शून्य शृन्ग अटक वेश्म रथ्याम् । रजो अरुण द्वार कपाट यन्त्राम् । दृष्ट्वा पुरीम् इन्द्र पुरी प्रकाशाम् । दुह्खेन सम्पूर्णतरः बभूव ॥२-७१-४६॥
ताम् शून्य-शृन्ग-अटक-वेश्म-रथ्याम् । रजः-अरुण-द्वार-कपाट-यन्त्राम् । दृष्ट्वा पुरीम् इन्द्र पुरी-प्रकाशाम् । दुह्खेन सम्पूर्णतरः बभूव ॥२॥
tām śūnya-śṛnga-aṭaka-veśma-rathyām . rajaḥ-aruṇa-dvāra-kapāṭa-yantrām . dṛṣṭvā purīm indra purī-prakāśām . duhkhena sampūrṇataraḥ babhūva ..2..
बहूनि पश्यन् मनसो अप्रियाणि । यानि अन्न्यदा न अस्य पुरे बभूवुः । अवाक् शिरा दीन मना नहृष्टः । पितुर् महात्मा प्रविवेश वेश्म ॥२-७१-४७॥
बहूनि पश्यन् मनसः अप्रियाणि । यानि अन्न्यदा न अस्य पुरे बभूवुः । अवाक्-शिरा दीन-मना नहृष्टः । पितुः महात्मा प्रविवेश वेश्म ॥२॥
bahūni paśyan manasaḥ apriyāṇi . yāni annyadā na asya pure babhūvuḥ . avāk-śirā dīna-manā nahṛṣṭaḥ . pituḥ mahātmā praviveśa veśma ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe ekasaptatitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In