This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥२-७९॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकोनाशीतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekonāśītitamaḥ sargaḥ ..2..
ततः प्रभात समये दिवसे अथ चतुर्दशे । समेत्य राज कर्तारः भरतम् वाक्यम् अब्रुवन् ॥२-७९-१॥
ततस् प्रभात-समये दिवसे अथ चतुर्दशे । समेत्य राज-कर्तारः भरतम् वाक्यम् अब्रुवन् ॥२॥
tatas prabhāta-samaye divase atha caturdaśe . sametya rāja-kartāraḥ bharatam vākyam abruvan ..2..
गतः दशरथः स्वर्गम् यो नो गुरुतरः गुरुः । रामम् प्रव्राज्य वै ज्येष्ठम् लक्ष्मणम् च महा बलम् ॥२-७९-२॥
गतः दशरथः स्वर्गम् यः नः गुरुतरः गुरुः । रामम् प्रव्राज्य वै ज्येष्ठम् लक्ष्मणम् च महा-बलम् ॥२॥
gataḥ daśarathaḥ svargam yaḥ naḥ gurutaraḥ guruḥ . rāmam pravrājya vai jyeṣṭham lakṣmaṇam ca mahā-balam ..2..
त्वम् अद्य भव नो राजा राज पुत्र महा यशः । सम्गत्या न अपराध्नोति राज्यम् एतत् अनायकम् ॥२-७९-३॥
त्वम् अद्य भव नः राजा राज-पुत्र महा-यशः । सम्गत्या न अपराध्नोति राज्यम् एतत् अनायकम् ॥२॥
tvam adya bhava naḥ rājā rāja-putra mahā-yaśaḥ . samgatyā na aparādhnoti rājyam etat anāyakam ..2..
आभिषेचनिकम् सर्वम् इदम् आदाय राघव । प्रतीक्षते त्वाम् स्व जनः श्रेणयः च नृप आत्मज ॥२-७९-४॥
आभिषेचनिकम् सर्वम् इदम् आदाय राघव । प्रतीक्षते त्वाम् स्व-जनः श्रेणयः च नृप-आत्मज ॥२॥
ābhiṣecanikam sarvam idam ādāya rāghava . pratīkṣate tvām sva-janaḥ śreṇayaḥ ca nṛpa-ātmaja ..2..
राज्यम् गृहाण भरत पितृ पैतामहम् महत् । अभिषेचय च आत्मानम् पाहि च अस्मान् नर ऋषभ ॥२-७९-५॥
राज्यम् गृहाण भरत-पितृ-पैतामहम् महत् । अभिषेचय च आत्मानम् पाहि च अस्मान् नर-ऋषभ ॥२॥
rājyam gṛhāṇa bharata-pitṛ-paitāmaham mahat . abhiṣecaya ca ātmānam pāhi ca asmān nara-ṛṣabha ..2..
आभिषेचनिकम् भाण्डम् कृत्वा सर्वम् प्रदक्षिणम् । भरतः तम् जनम् सर्वम् प्रत्युवाच धृत व्रतः ॥२-७९-६॥
आभिषेचनिकम् भाण्डम् कृत्वा सर्वम् प्रदक्षिणम् । भरतः तम् जनम् सर्वम् प्रत्युवाच धृत-व्रतः ॥२॥
ābhiṣecanikam bhāṇḍam kṛtvā sarvam pradakṣiṇam . bharataḥ tam janam sarvam pratyuvāca dhṛta-vrataḥ ..2..
ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः । न एवम् भवन्तः माम् वक्तुम् अर्हन्ति कुशला जनाः ॥२-७९-७॥
ज्येष्ठस्य राज-ता नित्यम् उचिता हि कुलस्य नः । न एवम् भवन्तः माम् वक्तुम् अर्हन्ति कुशला जनाः ॥२॥
jyeṣṭhasya rāja-tā nityam ucitā hi kulasya naḥ . na evam bhavantaḥ mām vaktum arhanti kuśalā janāḥ ..2..
रामः पूर्वो हि नो भ्राता भविष्यति मही पतिः । अहम् तु अरण्ये वत्स्यामि वर्षाणि नव पन्च च ॥२-७९-८॥
रामः पूर्वः हि नः भ्राता भविष्यति मही पतिः । अहम् तु अरण्ये वत्स्यामि वर्षाणि नव पन्च च ॥२॥
rāmaḥ pūrvaḥ hi naḥ bhrātā bhaviṣyati mahī patiḥ . aham tu araṇye vatsyāmi varṣāṇi nava panca ca ..2..
युज्यताम् महती सेना चतुर् अन्ग महा बला । आनयिष्याम्य् अहम् ज्येष्ठम् भ्रातरम् राघवम् वनात् ॥२-७९-९॥
युज्यताम् महती सेना चतुर्-अन्ग महा-बला । आनयिष्यामि अहम् ज्येष्ठम् भ्रातरम् राघवम् वनात् ॥२॥
yujyatām mahatī senā catur-anga mahā-balā . ānayiṣyāmi aham jyeṣṭham bhrātaram rāghavam vanāt ..2..
आभिषेचनिकम् चैव सर्वम् एतत् उपस्कृतम् । पुरः कृत्य गमिष्यामि राम हेतोर् वनम् प्रति ॥२-७९-१०॥
आभिषेचनिकम् च एव सर्वम् एतत् उपस्कृतम् । पुरस् कृत्य गमिष्यामि राम हेतोः वनम् प्रति ॥२॥
ābhiṣecanikam ca eva sarvam etat upaskṛtam . puras kṛtya gamiṣyāmi rāma hetoḥ vanam prati ..2..
तत्र एव तम् नर व्याघ्रम् अभिषिच्य पुरः कृतम् । आनेष्यामि तु वै रामम् हव्य वाहम् इव अध्वरात् ॥२-७९-११॥
तत्र एव तम् नर-व्याघ्रम् अभिषिच्य पुरः कृतम् । आनेष्यामि तु वै रामम् हव्य-वाहम् इव अध्वरात् ॥२॥
tatra eva tam nara-vyāghram abhiṣicya puraḥ kṛtam . āneṣyāmi tu vai rāmam havya-vāham iva adhvarāt ..2..
न सकामा करिष्यामि स्वम् इमाम् मातृ गन्धिनीम् । वने वत्स्याम्य् अहम् दुर्गे रामः राजा भविष्यति ॥२-७९-१२॥
न स कामा करिष्यामि स्वम् इमाम् मातृ गन्धिनीम् । वने वत्स्यामि अहम् दुर्गे रामः राजा भविष्यति ॥२॥
na sa kāmā kariṣyāmi svam imām mātṛ gandhinīm . vane vatsyāmi aham durge rāmaḥ rājā bhaviṣyati ..2..
क्रियताम् शिल्पिभिः पन्थाः समानि विषमाणि च । रक्षिणः च अनुसम्यान्तु पथि दुर्ग विचारकाः ॥२-७९-१३॥
क्रियताम् शिल्पिभिः पन्थाः समानि विषमाणि च । रक्षिणः च अनुसम्यान्तु पथि दुर्ग-विचारकाः ॥२॥
kriyatām śilpibhiḥ panthāḥ samāni viṣamāṇi ca . rakṣiṇaḥ ca anusamyāntu pathi durga-vicārakāḥ ..2..
एवम् सम्भाषमाणम् तम् राम हेतोर् नृप आत्मजम् । प्रत्युवाच जनः सर्वः श्रीमद् वाक्यम् अनुत्तमम् ॥२-७९-१४॥
एवम् सम्भाषमाणम् तम् राम-हेतोः नृप-आत्मजम् । प्रत्युवाच जनः सर्वः श्रीमत् वाक्यम् अनुत्तमम् ॥२॥
evam sambhāṣamāṇam tam rāma-hetoḥ nṛpa-ātmajam . pratyuvāca janaḥ sarvaḥ śrīmat vākyam anuttamam ..2..
एवम् ते भाषमाणस्य पद्मा श्रीर् उपतिष्ठताम् । यः त्वम् ज्येष्ठे नृप सुते पृथिवीम् दातुम् इच्चसि ॥२-७९-१५॥
एवम् ते भाषमाणस्य पद्मा श्रीः उपतिष्ठताम् । यः त्वम् ज्येष्ठे नृप-सुते पृथिवीम् दातुम् इच्चसि ॥२॥
evam te bhāṣamāṇasya padmā śrīḥ upatiṣṭhatām . yaḥ tvam jyeṣṭhe nṛpa-sute pṛthivīm dātum iccasi ..2..
अनुत्तमम् तत् वचनम् नृप आत्मज । प्रभाषितम् सम्श्रवणे निशम्य च । प्रहर्षजाः तम् प्रति बाष्प बिन्दवो । निपेतुर् आर्य आनन नेत्र सम्भवाः ॥२-७९-१६॥
अनुत्तमम् तत् वचनम् नृप-आत्मज । प्रभाषितम् सम्श्रवणे निशम्य च । प्रहर्षजाः तम् प्रति बाष्प-बिन्दवः । निपेतुः आर्य आनन नेत्र सम्भवाः ॥२॥
anuttamam tat vacanam nṛpa-ātmaja . prabhāṣitam samśravaṇe niśamya ca . praharṣajāḥ tam prati bāṣpa-bindavaḥ . nipetuḥ ārya ānana netra sambhavāḥ ..2..
ऊचुस् ते वचनम् इदम् निशम्य हृष्टाः । सामात्याः सपरिषदो वियात शोकाः । पन्थानम् नर वर भक्तिमान् जनः च । व्यादिष्टः तव वचनाच् च शिल्पि वर्गः ॥२-७९-१७॥
ऊचुः ते वचनम् इदम् निशम्य हृष्टाः । स अमात्याः स परिषदः वियात शोकाः । पन्थानम् नर-वर भक्तिमान् जनः च । व्यादिष्टः तव वचनात् च शिल्पि-वर्गः ॥२॥
ūcuḥ te vacanam idam niśamya hṛṣṭāḥ . sa amātyāḥ sa pariṣadaḥ viyāta śokāḥ . panthānam nara-vara bhaktimān janaḥ ca . vyādiṣṭaḥ tava vacanāt ca śilpi-vargaḥ ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥२-७९॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe ekonāśītitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In