This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकनवतितम: सर्गः ॥२-९१॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकनवतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekanavatitamaḥ sargaḥ ..2..
तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् । निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ॥ २.९६.१ ॥
ताम् तथा दर्शयित्वा तु मैथिलीम् गिरि-निम्नगाम् । निषसाद गिरि-प्रस्थे सीताम् मांसेन छन्दयन् ॥ २।९६।१ ॥
tām tathā darśayitvā tu maithilīm giri-nimnagām . niṣasāda giri-prasthe sītām māṃsena chandayan .. 2.96.1 ..
इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना । एवमास्ते स धर्मात्मा सीतया सह राघव: ॥ २.९६.२ ॥
इदम् मेध्यम् इदम् स्वादु निष्टप्तम् इदम् अग्निना । एवम् आस्ते स धर्म-आत्मा सीतया सह राघवः ॥ २।९६।२ ॥
idam medhyam idam svādu niṣṭaptam idam agninā . evam āste sa dharma-ātmā sītayā saha rāghavaḥ .. 2.96.2 ..
तथा तत्रासतस्तस्य भरतस्योपयायिन: । सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्पृशौ ॥ २.९६.३ ॥
तथा तत्र आसतः तस्य भरतस्य उपयायिनः । सैन्य-रेणुः च शब्दः च प्रादुरास्ताम् नभः-स्पृशौ ॥ २।९६।३ ॥
tathā tatra āsataḥ tasya bharatasya upayāyinaḥ . sainya-reṇuḥ ca śabdaḥ ca prādurāstām nabhaḥ-spṛśau .. 2.96.3 ..
एतस्मिन्नन्तरे त्रस्ता: शब्देन महता तत: । अर्दिता यूथपा मत्ता: सयूथा दुद्रुवुर्दिश: ॥ २.९६.४ ॥
एतस्मिन् अन्तरे त्रस्ताः शब्देन महता ततस् । अर्दिताः यूथपाः मत्ताः स यूथाः दुद्रुवुः दिशः ॥ २।९६।४ ॥
etasmin antare trastāḥ śabdena mahatā tatas . arditāḥ yūthapāḥ mattāḥ sa yūthāḥ dudruvuḥ diśaḥ .. 2.96.4 ..
स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघव: । तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत ॥ २.९६.५ ॥
स तम् सैन्य-समुद्धूतम् शब्दम् शुश्राव राघवः । तान् च विप्रद्रुतान् सर्वान् यूथपान् अन्ववैक्षत ॥ २।९६।५ ॥
sa tam sainya-samuddhūtam śabdam śuśrāva rāghavaḥ . tān ca vipradrutān sarvān yūthapān anvavaikṣata .. 2.96.5 ..
तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् । उवाच राम: सौमित्रिं लक्ष्मणं दीप्ततेजसम् ॥ २.९६.६ ॥
तान् च विद्रवतः दृष्ट्वा तम् च श्रुत्वा च निस्वनम् । उवाच रामः सौमित्रिम् लक्ष्मणम् दीप्त-तेजसम् ॥ २।९६।६ ॥
tān ca vidravataḥ dṛṣṭvā tam ca śrutvā ca nisvanam . uvāca rāmaḥ saumitrim lakṣmaṇam dīpta-tejasam .. 2.96.6 ..
हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया । भीमस्तनितगम्भीरस्तुमुल: श्रूयते स्वन: ॥ २.९६.७ ॥
हन्त लक्ष्मण पश्य इह सुमित्रा सुप्रजाः त्वया । भीम-स्तनित-गम्भीरः तुमुलः श्रूयते स्वनः ॥ २।९६।७ ॥
hanta lakṣmaṇa paśya iha sumitrā suprajāḥ tvayā . bhīma-stanita-gambhīraḥ tumulaḥ śrūyate svanaḥ .. 2.96.7 ..
गजयूथानि वा ऽरण्ये महिषा वा महावने । वित्रासिता मृगा: सिंहै: सहसा प्रद्रुता दिश: ॥ २.९६.८ ॥
गज-यूथानि वा अरण्ये महिषाः वा महा-वने । वित्रासिताः मृगाः सिंहैः सहसा प्रद्रुताः दिशः ॥ २।९६।८ ॥
gaja-yūthāni vā araṇye mahiṣāḥ vā mahā-vane . vitrāsitāḥ mṛgāḥ siṃhaiḥ sahasā pradrutāḥ diśaḥ .. 2.96.8 ..
राजा वा राजमात्रो वा मृगयामटते वने । अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि ॥ २.९६.९ ॥
राजा वा राजमात्रः वा मृगयाम् अटते वने । अन्यत् वा श्वापदम् किञ्चिद् सौमित्रे ज्ञातुम् अर्हसि ॥ २।९६।९ ॥
rājā vā rājamātraḥ vā mṛgayām aṭate vane . anyat vā śvāpadam kiñcid saumitre jñātum arhasi .. 2.96.9 ..
सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण । सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ॥ २.९६.१० ॥
सु दुश्चरः गिरिः च अयम् पक्षिणाम् अपि लक्ष्मण । सर्वम् एतत् यथातत्त्वम् अचिरात् ज्ञातुम् अर्हसि ॥ २।९६।१० ॥
su duścaraḥ giriḥ ca ayam pakṣiṇām api lakṣmaṇa . sarvam etat yathātattvam acirāt jñātum arhasi .. 2.96.10 ..
स लक्ष्मण: संत्वरित: सालमारुह्य पुष्पितम् । प्रेक्षमाणो दिश: सर्वा: पूर्वां दिशमुदैक्षत ॥ २.९६.११ ॥
स लक्ष्मणः संत्वरितः सालम् आरुह्य पुष्पितम् । प्रेक्षमाणः दिशः सर्वाः पूर्वाम् दिशम् उदैक्षत ॥ २।९६।११ ॥
sa lakṣmaṇaḥ saṃtvaritaḥ sālam āruhya puṣpitam . prekṣamāṇaḥ diśaḥ sarvāḥ pūrvām diśam udaikṣata .. 2.96.11 ..
उदङ्मुख: प्रेक्षमाणो ददर्श महतीं चमूम् । रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभि: ॥ २.९६.१२ ॥
उदक्-मुखः प्रेक्षमाणः ददर्श महतीम् चमूम् । रथ-अश्व-गज-सम्बाधाम् यत्तैः युक्ताम् पदातिभिः ॥ २।९६।१२ ॥
udak-mukhaḥ prekṣamāṇaḥ dadarśa mahatīm camūm . ratha-aśva-gaja-sambādhām yattaiḥ yuktām padātibhiḥ .. 2.96.12 ..
तामश्वगजसम्पूर्णां रथध्वजविभूषिताम् । शशंस सेनां रामाय वचनं चेदमब्रीत् ॥ २.९६.१३ ॥
ताम् अश्व-गज-सम्पूर्णाम् रथ-ध्वज-विभूषिताम् । शशंस सेनाम् रामाय वचनम् च इदम् अब्रीत् ॥ २।९६।१३ ॥
tām aśva-gaja-sampūrṇām ratha-dhvaja-vibhūṣitām . śaśaṃsa senām rāmāya vacanam ca idam abrīt .. 2.96.13 ..
अग्निं संशमयत्वार्य: सीता च भजतां गुहाम् । सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ॥ २.९६.१४ ॥
अग्निम् संशमयतु आर्यः सीता च भजताम् गुहाम् । सज्यम् कुरुष्व चापम् च शरान् च कवचम् तथा ॥ २।९६।१४ ॥
agnim saṃśamayatu āryaḥ sītā ca bhajatām guhām . sajyam kuruṣva cāpam ca śarān ca kavacam tathā .. 2.96.14 ..
तं राम: पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह । अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम् ॥ २.९६.१५ ॥
तम् राम पुरुष-व्याघ्रः लक्ष्मणम् प्रत्युवाच ह । अङ्ग अवेक्षस्व सौमित्रे कस्य इमाम् मन्यसे चमूम् ॥ २।९६।१५ ॥
tam rāma puruṣa-vyāghraḥ lakṣmaṇam pratyuvāca ha . aṅga avekṣasva saumitre kasya imām manyase camūm .. 2.96.15 ..
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् । दिधक्षन्निव तां सेनां रुषित: पावको यथा ॥ २.९६.१६ ॥
एवम् उक्तः तु रामेण लक्ष्मणः वाक्यम् अब्रवीत् । दिधक्षन् इव ताम् सेनाम् रुषितः पावकः यथा ॥ २।९६।१६ ॥
evam uktaḥ tu rāmeṇa lakṣmaṇaḥ vākyam abravīt . didhakṣan iva tām senām ruṣitaḥ pāvakaḥ yathā .. 2.96.16 ..
सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् । आवां हन्तुं समभ्येति कैकेय्या भरत: सुत: ॥ २.९६.१७ ॥
सम्पन्नम् राज्यम् इच्छन् तु व्यक्तम् प्राप्य अभिषेचनम् । आवाम् हन्तुम् समभ्येति कैकेय्याः भरतः सुतः ॥ २।९६।१७ ॥
sampannam rājyam icchan tu vyaktam prāpya abhiṣecanam . āvām hantum samabhyeti kaikeyyāḥ bharataḥ sutaḥ .. 2.96.17 ..
एष वै सुमहान् श्रीमान् विटपी सम्प्रकाशते । विराजत्युद्गतस्कन्ध: कोविदारध्वजो रथे ॥ २.९६.१८ ॥
एष वै सु महान् श्रीमान् विटपी सम्प्रकाशते । विराजति उद्गत-स्कन्धः कोविदार-ध्वजः रथे ॥ २।९६।१८ ॥
eṣa vai su mahān śrīmān viṭapī samprakāśate . virājati udgata-skandhaḥ kovidāra-dhvajaḥ rathe .. 2.96.18 ..
भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान् । एते भ्राजन्ति संहृष्टा गजानारुह्य सादिन: ॥ २.९६.१९ ॥
भजन्ति एते यथा कामम् अश्वान् आरुह्य शीघ्र-गान् । एते भ्राजन्ति संहृष्टाः गजान् आरुह्य सादिनः ॥ २।९६।१९ ॥
bhajanti ete yathā kāmam aśvān āruhya śīghra-gān . ete bhrājanti saṃhṛṣṭāḥ gajān āruhya sādinaḥ .. 2.96.19 ..
गृहीतधनुषौ चावां गिरिं वीरश्रयावहै । अथवेहैव तिष्ठाव: सन्नद्धावुद्यतायुधौ ॥ २.९६.२० ॥
गृहीत-धनुषौ च आवाम् गिरिम् । अथवा इह एव तिष्ठाव सन्नद्धौ उद्यत-आयुधौ ॥ २।९६।२० ॥
gṛhīta-dhanuṣau ca āvām girim . athavā iha eva tiṣṭhāva sannaddhau udyata-āyudhau .. 2.96.20 ..
अपि नौ वशमागच्छेत् कोविदारध्वजो दणे ॥ २.९६.२१ ॥
अपि नौ वशम् आगच्छेत् कोविदार-ध्वजः दणे ॥ २।९६।२१ ॥
api nau vaśam āgacchet kovidāra-dhvajaḥ daṇe .. 2.96.21 ..
अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् । त्वया राघव सम्प्राप्तं सीतया च मया तथा ॥ २.९६.२२ ॥
अपि द्रक्ष्यामि भरतम् यत्कृते व्यसनम् महत् । त्वया राघव सम्प्राप्तम् सीतया च मया तथा ॥ २।९६।२२ ॥
api drakṣyāmi bharatam yatkṛte vyasanam mahat . tvayā rāghava samprāptam sītayā ca mayā tathā .. 2.96.22 ..
यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात् । सम्प्राप्तो ऽयमरिर्वीर भरतो वध्य एव मे ॥ २.९६.२३ ॥
यद्-निमित्तम् भवान् राज्यात् च्युतः राघव शाश्वतात् । सम्प्राप्तः अयम् अरिः वीर भरतः वध्यः एव मे ॥ २।९६।२३ ॥
yad-nimittam bhavān rājyāt cyutaḥ rāghava śāśvatāt . samprāptaḥ ayam ariḥ vīra bharataḥ vadhyaḥ eva me .. 2.96.23 ..
भरतस्य वधे दोषं नाहं पश्यामि राघव । पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ॥ २.९६.२४ ॥
भरतस्य वधे दोषम् न अहम् पश्यामि राघव । पूर्व-अपकारिणाम् त्यागे न हि अधर्मः विधीयते ॥ २।९६।२४ ॥
bharatasya vadhe doṣam na aham paśyāmi rāghava . pūrva-apakāriṇām tyāge na hi adharmaḥ vidhīyate .. 2.96.24 ..
पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव । एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम् ॥ २.९६.२५ ॥
पूर्व-अपकारी भरतः त्यक्त-धर्मः च राघव । एतस्मिन् निहते कृत्स्नाम् अनुशाधि वसुन्धराम् ॥ २।९६।२५ ॥
pūrva-apakārī bharataḥ tyakta-dharmaḥ ca rāghava . etasmin nihate kṛtsnām anuśādhi vasundharām .. 2.96.25 ..
अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका । मया पश्येत् सुदु:खार्त्ता हस्तिभग्नमिव द्रुमम् ॥ २.९६.२६ ॥
अद्य पुत्रम् हतम् सङ्ख्ये कैकेयी राज्य-कामुका । मया पश्येत् सु दु:ख-आर्त्ता हस्ति-भग्नम् इव द्रुमम् ॥ २।९६।२६ ॥
adya putram hatam saṅkhye kaikeyī rājya-kāmukā . mayā paśyet su du:kha-ārttā hasti-bhagnam iva drumam .. 2.96.26 ..
कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् । कलुषेणाद्य महता मेदिनी परिमुच्यताम् ॥ २.९६.२७ ॥
कैकेयीम् च वधिष्यामि स अनुबन्धाम् स बान्धवाम् । कलुषेण अद्य महता मेदिनी परिमुच्यताम् ॥ २।९६।२७ ॥
kaikeyīm ca vadhiṣyāmi sa anubandhām sa bāndhavām . kaluṣeṇa adya mahatā medinī parimucyatām .. 2.96.27 ..
अद्येमं संयतं क्रोधमसत्कारं च मानद । मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ॥ २.९६.२८ ॥
अद्य इमम् संयतम् क्रोधम् असत्कारम् च मानद । मोक्ष्यामि शत्रु-सैन्येषु कक्षेषु इव हुताशनम् ॥ २।९६।२८ ॥
adya imam saṃyatam krodham asatkāram ca mānada . mokṣyāmi śatru-sainyeṣu kakṣeṣu iva hutāśanam .. 2.96.28 ..
अद्यैतच्चित्रकूटस्य काननं निशितै: शरै: । भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥ २.९६.२९ ॥
अद्य एतत् चित्रकूटस्य काननम् निशितैः शरैः । भिन्दन् शत्रु-शरीराणि करिष्ये शोणित-उक्षितम् ॥ २।९६।२९ ॥
adya etat citrakūṭasya kānanam niśitaiḥ śaraiḥ . bhindan śatru-śarīrāṇi kariṣye śoṇita-ukṣitam .. 2.96.29 ..
शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा । श्वापदा: परिकर्षन्तु नरांश्च निहतान् मया ॥ २.९६.३० ॥
शरैः निर्भिन्न-हृदयान् कुञ्जरान् तुरगान् तथा । श्वापदाः परिकर्षन्तु नरान् च निहतान् मया ॥ २।९६।३० ॥
śaraiḥ nirbhinna-hṛdayān kuñjarān turagān tathā . śvāpadāḥ parikarṣantu narān ca nihatān mayā .. 2.96.30 ..
शराणां धनुषश्चाहमनृणो ऽस्मि महामृधे । ससैन्यं भरतं हत्वा भविष्यामि न संशय: ॥ २.९६.३१ ॥
शराणाम् धनुषः च अहम् अनृणः अस्मि महा-मृधे । स सैन्यम् भरतम् हत्वा भविष्यामि न संशयः ॥ २।९६।३१ ॥
śarāṇām dhanuṣaḥ ca aham anṛṇaḥ asmi mahā-mṛdhe . sa sainyam bharatam hatvā bhaviṣyāmi na saṃśayaḥ .. 2.96.31 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षण्णवतितम: सर्ग: ॥ ९६ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे षण्णवतितमः सर्गः ॥ ९६ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe ṣaṇṇavatitamaḥ sargaḥ .. 96 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In