This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तनवतितम: सर्गः ॥२-९७॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे सप्तनवतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe saptanavatitamaḥ sargaḥ ..2..
सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्च्छितम्। रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥ २.९७.१ ॥
सु संरब्धम् तु सौमित्रिम् लक्ष्मणम् क्रोध-मूर्च्छितम्। रामः तु परिसान्त्व्य अथ वचनम् च इदम् अब्रवीत् ॥ २।९७।१ ॥
su saṃrabdham tu saumitrim lakṣmaṇam krodha-mūrcchitam. rāmaḥ tu parisāntvya atha vacanam ca idam abravīt .. 2.97.1 ..
किमत्र धनुषा कार्यमसिना वा सचर्मणा। महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥ २.९७.२ ॥
किम् अत्र धनुषा कार्यम् असिना वा स चर्मणा। महा-इष्वासे महा-प्राज्ञे भरते स्वयम् आगते ॥ २।९७।२ ॥
kim atra dhanuṣā kāryam asinā vā sa carmaṇā. mahā-iṣvāse mahā-prājñe bharate svayam āgate .. 2.97.2 ..
पितु: सत्यं प्रतिश्रुत्य हत्वा भरतमागतम्। किं करिष्ऺयामि राज्येन सापवादेन लक्ष्मण ॥ २.९७.३ ॥
पितुः सत्यम् प्रतिश्रुत्य हत्वा भरतम् आगतम्। किम् करिष्ठामि राज्येन स अपवादेन लक्ष्मण ॥ २।९७।३ ॥
pituḥ satyam pratiśrutya hatvā bharatam āgatam. kim kariṣṭhāmi rājyena sa apavādena lakṣmaṇa .. 2.97.3 ..
यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत्। नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ॥ २.९७.४ ॥
यत् द्रव्यम् बान्धवानाम् वा मित्राणाम् वा क्षये भवेत्। न अहम् तत् प्रतिगृह्णीयाम् भक्षान् विष-कृतान् इव ॥ २।९७।४ ॥
yat dravyam bāndhavānām vā mitrāṇām vā kṣaye bhavet. na aham tat pratigṛhṇīyām bhakṣān viṣa-kṛtān iva .. 2.97.4 ..
धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण। इच्छामि भवतामर्थे एतत् प्रतिश्रृणोमि ते ॥ २.९७.५ ॥
धर्मम् अर्थम् च कामम् च पृथिवीम् च अपि लक्ष्मण। इच्छामि भवताम् अर्थे एतत् प्रतिश्रृणोमि ते ॥ २।९७।५ ॥
dharmam artham ca kāmam ca pṛthivīm ca api lakṣmaṇa. icchāmi bhavatām arthe etat pratiśrṛṇomi te .. 2.97.5 ..
भ्रातऽणां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण। राज्यमप्यहमिच्छामि सत्येनायुधमालभे ॥ २.९७.६ ॥
भ्रातर् सङ्ग्रह-अर्थम् च सुख-अर्थम् च अपि लक्ष्मण। राज्यम् अपि अहम् इच्छामि सत्येन आयुधम् आलभे ॥ २।९७।६ ॥
bhrātar saṅgraha-artham ca sukha-artham ca api lakṣmaṇa. rājyam api aham icchāmi satyena āyudham ālabhe .. 2.97.6 ..
नेयं मम मही सौम्य दुर्ल्लभा सागराम्बरा। नहीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ॥ २.९७.७ ॥
न इयम् मम मही सौम्य दुर्ल्लभा सागराम्बरा। नहि इच्छेयम् अधर्मेण शक्र-त्वम् अपि लक्ष्मण ॥ २।९७।७ ॥
na iyam mama mahī saumya durllabhā sāgarāmbarā. nahi iccheyam adharmeṇa śakra-tvam api lakṣmaṇa .. 2.97.7 ..
यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद। भवेन्मम सुखं किञ्चिद्भस्म तत् कुरुतां शिखी ॥ २.९७.८ ॥
यत् विना भरतम् त्वाम् च शत्रुघ्नम् च अपि मानद। भवेत् मम सुखम् किञ्चिद् भस्म तत् कुरुताम् शिखी ॥ २।९७।८ ॥
yat vinā bharatam tvām ca śatrughnam ca api mānada. bhavet mama sukham kiñcid bhasma tat kurutām śikhī .. 2.97.8 ..
मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सल:। मम प्राणात् प्रियतर: कुलधर्ममनुस्मरन् ॥ २.९७.९ ॥
मन्ये अहम् आगतः अयोध्याम् भरतः भ्रातृ-वत्सलः। मम प्राणात् प्रियतरः कुल-धर्मम् अनुस्मरन् ॥ २।९७।९ ॥
manye aham āgataḥ ayodhyām bharataḥ bhrātṛ-vatsalaḥ. mama prāṇāt priyataraḥ kula-dharmam anusmaran .. 2.97.9 ..
श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम्। जानक्या सहितं वीर त्वया च पुरुषर्षभ ॥ २.९७.१० ॥
श्रुत्वा प्रव्राजितम् माम् हि जटा-वल्कल-धारिणम्। जानक्या सहितम् वीर त्वया च पुरुष-ऋषभ ॥ २।९७।१० ॥
śrutvā pravrājitam mām hi jaṭā-valkala-dhāriṇam. jānakyā sahitam vīra tvayā ca puruṣa-ṛṣabha .. 2.97.10 ..
स्नेहेनाक्रान्तहृदय: शोकेनाकुलितेन्द्रिय:। द्रष्टुमभ्यागतो ह्येष भरतो नान्यथा गत: ॥ २.९७.११ ॥
स्नेहेन आक्रान्त-हृदयः शोकेन आकुलित-इन्द्रियः। द्रष्टुम् अभ्यागतः हि एष भरतः न अन्यथा गत ॥ २।९७।११ ॥
snehena ākrānta-hṛdayaḥ śokena ākulita-indriyaḥ. draṣṭum abhyāgataḥ hi eṣa bharataḥ na anyathā gata .. 2.97.11 ..
अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन्। प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागत: ॥ २.९७.१२ ॥
अम्बाम् च कैकयीम् रुष्य परुषम् च अप्रियम् वदन्। प्रसाद्य पितरम् श्रीमान् राज्यम् मे दातुम् आगत ॥ २।९७।१२ ॥
ambām ca kaikayīm ruṣya paruṣam ca apriyam vadan. prasādya pitaram śrīmān rājyam me dātum āgata .. 2.97.12 ..
प्राप्तकालं यदेषोऽस्मान् भरतो द्रष्टुमिच्छति। अस्मासु मनसाप्येष नाप्रियं किञ्चिदाचरेत् ॥ २.९७.१३ ॥
प्राप्त-कालम् यत् एषः अस्मान् भरतः द्रष्टुम् इच्छति। अस्मासु मनसा अपि एष न अप्रियम् किञ्चिद् आचरेत् ॥ २।९७।१३ ॥
prāpta-kālam yat eṣaḥ asmān bharataḥ draṣṭum icchati. asmāsu manasā api eṣa na apriyam kiñcid ācaret .. 2.97.13 ..
विप्रियं कृतपूर्वं ते भरतेन कदा नु किम्। ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे ॥ २.९७.१४ ॥
विप्रियम् कृत-पूर्वम् ते भरतेन कदा नु किम्। ईदृशम् वा भयम् ते अद्य भरतम् यः अत्र शङ्कसे ॥ २।९७।१४ ॥
vipriyam kṛta-pūrvam te bharatena kadā nu kim. īdṛśam vā bhayam te adya bharatam yaḥ atra śaṅkase .. 2.97.14 ..
नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वच:। अहं ह्यप्रियमुक्त: स्यां भरतस्याप्रिये कृते ॥ २.९७.१५ ॥
नहि ते निष्ठुरम् वाच्यः भरतः न अप्रियम् वचः। अहम् हि अप्रिय-मुक्तः स्याम् भरतस्य अप्रिये कृते ॥ २।९७।१५ ॥
nahi te niṣṭhuram vācyaḥ bharataḥ na apriyam vacaḥ. aham hi apriya-muktaḥ syām bharatasya apriye kṛte .. 2.97.15 ..
कथं नु पुत्रा: पितरं हन्यु: कस्याञ्चिदापदि। भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मन: ॥ २.९७.१६ ॥
कथम् नु पुत्राः पितरम् हन्युः कस्याञ्चिद् आपदि। भ्राता वा भ्रातरम् हन्यात् सौमित्रे प्राणम् आत्मनः ॥ २।९७।१६ ॥
katham nu putrāḥ pitaram hanyuḥ kasyāñcid āpadi. bhrātā vā bhrātaram hanyāt saumitre prāṇam ātmanaḥ .. 2.97.16 ..
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे। वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥ २.९७.१७ ॥
यदि राज्यस्य हेतोः त्वम् इमाम् वाचम् प्रभाषसे। वक्ष्यामि भरतम् दृष्ट्वा राज्यम् अस्मै प्रदीयताम् ॥ २।९७।१७ ॥
yadi rājyasya hetoḥ tvam imām vācam prabhāṣase. vakṣyāmi bharatam dṛṣṭvā rājyam asmai pradīyatām .. 2.97.17 ..
उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वत:। राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ॥ २.९७.१८ ॥
उच्यमानः अपि भरतः मया लक्ष्मण तत्त्वतः। राज्यम् अस्मै प्रयच्छ इति बाढम् इति एव वक्ष्यति ॥ २।९७।१८ ॥
ucyamānaḥ api bharataḥ mayā lakṣmaṇa tattvataḥ. rājyam asmai prayaccha iti bāḍham iti eva vakṣyati .. 2.97.18 ..
तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रत:। लक्ष्मण: प्रविवेशेव स्वानि गात्राणि लज्जया ॥ २.९७.१९ ॥
तथा उक्तः धर्म-शीलेन भ्रात्रा तस्य हिते रतः। लक्ष्मणः प्रविवेश इव स्वानि गात्राणि लज्जया ॥ २।९७।१९ ॥
tathā uktaḥ dharma-śīlena bhrātrā tasya hite rataḥ. lakṣmaṇaḥ praviveśa iva svāni gātrāṇi lajjayā .. 2.97.19 ..
तद्वाक्यं लक्ष्मण: श्रुत्वा व्रीडित: प्रत्युवाच ह। त्वां मन्ये द्रष्टुमायात: पिता दशरथ: स्वयम् ॥ २.९७.२० ॥
तत् वाक्यम् लक्ष्मणः श्रुत्वा व्रीडितः प्रत्युवाच ह। त्वाम् मन्ये द्रष्टुम् आयातः पिता दशरथः स्वयम् ॥ २।९७।२० ॥
tat vākyam lakṣmaṇaḥ śrutvā vrīḍitaḥ pratyuvāca ha. tvām manye draṣṭum āyātaḥ pitā daśarathaḥ svayam .. 2.97.20 ..
व्रीडितं लक्ष्मणं दृष्ट्वा राघव: प्रत्युवाच ह। एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागत: ॥ २.९७.२१ ॥
व्रीडितम् लक्ष्मणम् दृष्ट्वा राघवः प्रत्युवाच ह। एष मन्ये महा-बाहुः इह अस्मान् द्रष्टुम् आगत ॥ २।९७।२१ ॥
vrīḍitam lakṣmaṇam dṛṣṭvā rāghavaḥ pratyuvāca ha. eṣa manye mahā-bāhuḥ iha asmān draṣṭum āgata .. 2.97.21 ..
अथवा नौ ध्रुवं मन्ये मन्यमान: सुखोचितौ। वनवासमनुध्याय गृहाय प्रतिनेष्यति ॥ २.९७.२२ ॥
अथवा नौ ध्रुवम् मन्ये मन्यमानः सुख-उचितौ। वन-वासम् अनुध्याय गृहाय प्रतिनेष्यति ॥ २।९७।२२ ॥
athavā nau dhruvam manye manyamānaḥ sukha-ucitau. vana-vāsam anudhyāya gṛhāya pratineṣyati .. 2.97.22 ..
इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम्। पिता मे राघव: श्रीमान् वनादादाय यास्यति ॥ २.९७.२३ ॥
इमाम् वा अपि एष वैदेहीम् अत्यन्त-सुख-सेविनीम्। पिता मे राघव श्रीमान् वनात् आदाय यास्यति ॥ २।९७।२३ ॥
imām vā api eṣa vaidehīm atyanta-sukha-sevinīm. pitā me rāghava śrīmān vanāt ādāya yāsyati .. 2.97.23 ..
एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ। वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ॥ २.९७.२४ ॥
एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ। वायु-वेग-समौ वीर जवनौ तुरग-उत्तमौ ॥ २।९७।२४ ॥
etau tau samprakāśete gotravantau manoramau. vāyu-vega-samau vīra javanau turaga-uttamau .. 2.97.24 ..
स एष सुमहाकाय: कम्पते वाहिनीमुखे। नाग: शत्रुञ्जयो नाम वृद्धस्तातस्य धीमत: ॥ २.९७.२५ ॥
सः एष सु महा-कायः कम्पते वाहिनी-मुखे। नागः शत्रुञ्जयः नाम वृद्धः तातस्य धीमतः ॥ २।९७।२५ ॥
saḥ eṣa su mahā-kāyaḥ kampate vāhinī-mukhe. nāgaḥ śatruñjayaḥ nāma vṛddhaḥ tātasya dhīmataḥ .. 2.97.25 ..
न तु पश्यामि तच्छत्ऺत्रं पाण्डरं लोकसत्कृतम्। पितुर्दिव्यं महाबाहो संशयो भवतीह मे ॥ २.९७.२६ ॥
न तु पश्यामि तत् शत्ऺत्रम् पाण्डरम् लोक-सत्कृतम्। पितुः दिव्यम् महा-बाहो संशयः भवति इह मे ॥ २।९७।२६ ॥
na tu paśyāmi tat śat_ötram pāṇḍaram loka-satkṛtam. pituḥ divyam mahā-bāho saṃśayaḥ bhavati iha me .. 2.97.26 ..
प्रथममर्धमुत्तरार्धेन योजनीयम् ॥ २.९७.२७ ॥
प्रथमम् अर्धम् उत्तर-अर्धेन योजनीयम् ॥ २।९७।२७ ॥
prathamam ardham uttara-ardhena yojanīyam .. 2.97.27 ..
अवतीर्य्य तु सालाग्रात्तस्मात्स समितिञ्जय:। लक्ष्मण: प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वत: ॥ २.९७.२८ ॥
अवतीर्य्य तु साल-अग्रात् तस्मात् स समितिञ्जयः। लक्ष्मणः प्राञ्जलिः भूत्वा तस्थौ रामस्य पार्श्वतस् ॥ २।९७।२८ ॥
avatīryya tu sāla-agrāt tasmāt sa samitiñjayaḥ. lakṣmaṇaḥ prāñjaliḥ bhūtvā tasthau rāmasya pārśvatas .. 2.97.28 ..
भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिऺति। समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ॥ २.९७.२९ ॥
भरतेन अपि सन्दिष्टा सम्मर्दः न भवेत् इति। समन्तात् तस्य शैलस्य सेना वासम् अकल्पयत् ॥ २।९७।२९ ॥
bharatena api sandiṣṭā sammardaḥ na bhavet iti. samantāt tasya śailasya senā vāsam akalpayat .. 2.97.29 ..
अध्यर्द्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा। पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ॥ २.९७.३० ॥
अध्यर्द्धम् इक्ष्वाकु-चमूः योजनम् पर्वतस्य सा। पार्श्वे न्यविशत् आवृत्य गज-वाजि-रथ-आकुला ॥ २।९७।३० ॥
adhyarddham ikṣvāku-camūḥ yojanam parvatasya sā. pārśve nyaviśat āvṛtya gaja-vāji-ratha-ākulā .. 2.97.30 ..
सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्प्पम्। प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता ॥ २.९७.३१ ॥
सा चित्रकूटे भरतेन सेना धर्मम् पुरस्कृत्य विधूय दर्प्पम्। प्रसादन-अर्थम् रघुनन्दनस्य विराजते नीतिमता प्रणीता ॥ २।९७।३१ ॥
sā citrakūṭe bharatena senā dharmam puraskṛtya vidhūya darppam. prasādana-artham raghunandanasya virājate nītimatā praṇītā .. 2.97.31 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तनवतितम: सर्ग: ॥ ९७ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे सप्तनवतितमः सर्गः ॥ ९७ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe saptanavatitamaḥ sargaḥ .. 97 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In