This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तदशः सर्गः ॥१-१७॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे सप्तदशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe saptadaśaḥ sargaḥ ..1..
पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः । उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ॥१-१७-१॥
पुत्र-त्वम् तु गते विष्णौ राज्ञः तस्य महात्मनः । उवाच देवताः सर्वाः स्वयम्भूः भगवान् इदम् ॥१॥
putra-tvam tu gate viṣṇau rājñaḥ tasya mahātmanaḥ . uvāca devatāḥ sarvāḥ svayambhūḥ bhagavān idam ..1..
सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः । विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः ॥१-१७-२॥
सत्य-संधस्य वीरस्य सर्वेषाम् नः हित-एषिणः । विष्णोः सहायान् बलिनः सृजध्वम् कामरूपिणः ॥१॥
satya-saṃdhasya vīrasya sarveṣām naḥ hita-eṣiṇaḥ . viṣṇoḥ sahāyān balinaḥ sṛjadhvam kāmarūpiṇaḥ ..1..
मायाविदश्च शूरांश्च वायुवेगसमान् जवे । नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान् ॥१-१७-३॥
माया-विदः च शूरान् च वायु-वेग-समान् जवे । नय-ज्ञान् बुद्धि-सम्पन्नान् विष्णु-तुल्य-पराक्रमान् ॥१॥
māyā-vidaḥ ca śūrān ca vāyu-vega-samān jave . naya-jñān buddhi-sampannān viṣṇu-tulya-parākramān ..1..
असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान् । सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव ॥१-१७-४॥
असंहार्यान् उपाय-ज्ञान् दिव्य-संहनन-अन्वितान् । सर्व-अस्त्र-गुण-सम्पन्नान् अमृत-प्राशनान् इव ॥१॥
asaṃhāryān upāya-jñān divya-saṃhanana-anvitān . sarva-astra-guṇa-sampannān amṛta-prāśanān iva ..1..
अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च । यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च ॥१-१७-५॥
अप्सरस्सु च मुख्यासु गन्धर्वीणाम् तनूषु च । यक्ष-पन्नग-कन्यासु ऋक्ष-विद्याधरीषु च ॥१॥
apsarassu ca mukhyāsu gandharvīṇām tanūṣu ca . yakṣa-pannaga-kanyāsu ṛkṣa-vidyādharīṣu ca ..1..
किन्नरीणां च गात्रेषु वानरीणां तनूषु च । सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥१-१७-६॥
किन्नरीणाम् च गात्रेषु वानरीणाम् तनूषु च । सृजध्वम् हरि-रूपेण पुत्रान् तुल्य-पराक्रमान् ॥१॥
kinnarīṇām ca gātreṣu vānarīṇām tanūṣu ca . sṛjadhvam hari-rūpeṇa putrān tulya-parākramān ..1..
पूर्वम् एव मया सृष्टो जाम्बवान् ऋक्ष पुङ्गवः । जृम्भमाणस्य सहसा मम वक्रात् अजायत ॥१-१७-७॥
पूर्वम् एव मया सृष्टः जाम्बवान् ऋक्ष पुङ्गवः । जृम्भमाणस्य सहसा मम वक्रात् अजायत ॥१॥
pūrvam eva mayā sṛṣṭaḥ jāmbavān ṛkṣa puṅgavaḥ . jṛmbhamāṇasya sahasā mama vakrāt ajāyata ..1..
ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् । जनयामासुरेवं ते पुत्रान् वानररूपिणः ॥१-१७-८॥
ते तथा उक्ताः भगवता तत् प्रतिश्रुत्य शासनम् । जनयामासुः एवम् ते पुत्रान् वानर-रूपिणः ॥१॥
te tathā uktāḥ bhagavatā tat pratiśrutya śāsanam . janayāmāsuḥ evam te putrān vānara-rūpiṇaḥ ..1..
ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः । चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ॥१-१७-९॥
ऋषयः च महात्मानः सिद्ध-विद्याधर-उरगाः । चारणाः च सुतान् वीरान् ससृजुः वन-चारिणः ॥१॥
ṛṣayaḥ ca mahātmānaḥ siddha-vidyādhara-uragāḥ . cāraṇāḥ ca sutān vīrān sasṛjuḥ vana-cāriṇaḥ ..1..
वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमात्मजम् । सुग्रीवं जनयामास तपनस्तपतां वरः ॥१-१७-१०॥
वानर-इन्द्रम् महा-इन्द्र-आभम् इन्द्रः वालिनम् आत्मजम् । सुग्रीवम् जनयामास तपनः तपताम् वरः ॥१॥
vānara-indram mahā-indra-ābham indraḥ vālinam ātmajam . sugrīvam janayāmāsa tapanaḥ tapatām varaḥ ..1..
बृहस्पतिस्त्वजनयत् तारं नाम महाकपिम् । सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् ॥१-१७-११॥
बृहस्पतिः तु अजनयत् तारम् नाम महा-कपिम् । सर्व-वानर-मुख्यानाम् बुद्धिमन्तम् अनुत्तमम् ॥१॥
bṛhaspatiḥ tu ajanayat tāram nāma mahā-kapim . sarva-vānara-mukhyānām buddhimantam anuttamam ..1..
धनदस्य सुतः श्रीमान् वानरो गन्धमादनः । विश्वकर्मा त्वजनयन्नलं नाम महाकपिम् ॥१-१७-१२॥
धनदस्य सुतः श्रीमान् वानरः गन्धमादनः । विश्वकर्मा तु अजनयत् अलम् नाम महा-कपिम् ॥१॥
dhanadasya sutaḥ śrīmān vānaraḥ gandhamādanaḥ . viśvakarmā tu ajanayat alam nāma mahā-kapim ..1..
पावकस्य सुतः श्रीमान् नीलोऽग्निसदृशप्रभः । तेजसा यशसा वीर्यादत्यरिच्यत वीर्यवान् ॥१-१७-१३॥
पावकस्य सुतः श्रीमान् नीलः अग्नि-सदृश-प्रभः । तेजसा यशसा वीर्यात् अत्यरिच्यत वीर्यवान् ॥१॥
pāvakasya sutaḥ śrīmān nīlaḥ agni-sadṛśa-prabhaḥ . tejasā yaśasā vīryāt atyaricyata vīryavān ..1..
रूपद्रविणसम्पन्नावश्विनौ रूपसम्मतौ । मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥१-१७-१४॥
रूप-द्रविण-सम्पन्नौ अश्विनौ रूप-सम्मतौ । मैन्दम् च द्विविदम् च एव जनयामासतुः स्वयम् ॥१॥
rūpa-draviṇa-sampannau aśvinau rūpa-sammatau . maindam ca dvividam ca eva janayāmāsatuḥ svayam ..1..
वरुणो जनयामास सुषेणं नाम वानरम् । शरभं जनयामास पर्जन्यस्तु महाबलः ॥१-१७-१५॥
वरुणः जनयामास सुषेणम् नाम वानरम् । शरभम् जनयामास पर्जन्यः तु महा-बलः ॥१॥
varuṇaḥ janayāmāsa suṣeṇam nāma vānaram . śarabham janayāmāsa parjanyaḥ tu mahā-balaḥ ..1..
मारुतस्यौरसः श्रीमान् हनुमान् नाम वानरः । वज्रसंहननोपेतो वैनतेयसमो जवे ॥१-१७-१६॥
मारुतस्य औरसः श्रीमान् हनुमान् नाम वानरः । वज्र-संहनन-उपेतः वैनतेय-समः जवे ॥१॥
mārutasya aurasaḥ śrīmān hanumān nāma vānaraḥ . vajra-saṃhanana-upetaḥ vainateya-samaḥ jave ..1..
सर्ववानरमुख्येषु बुद्धिमान् बलवानपि । ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः ॥१-१७-१७॥
सर्व-वानर-मुख्येषु बुद्धिमान् बलवान् अपि । ते सृष्टाः बहु-साहस्राः दशग्रीव-वध-उद्यताः ॥१॥
sarva-vānara-mukhyeṣu buddhimān balavān api . te sṛṣṭāḥ bahu-sāhasrāḥ daśagrīva-vadha-udyatāḥ ..1..
अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः । ते गजाचलसंकाशा वपुष्मन्तो महाबलाः ॥१-१७-१८॥
अप्रमेय-बलाः वीराः विक्रान्ताः कामरूपिणः । ते गज-अचल-संकाशाः वपुष्मन्तः महा-बलाः ॥१॥
aprameya-balāḥ vīrāḥ vikrāntāḥ kāmarūpiṇaḥ . te gaja-acala-saṃkāśāḥ vapuṣmantaḥ mahā-balāḥ ..1..
ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे । यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ॥१-१७-१९॥
ऋक्ष-वानर-गोपुच्छाः क्षिप्रम् एव अभिजज्ञिरे । यस्य देवस्य यत् रूपम् वेषः यः च पराक्रमः ॥१॥
ṛkṣa-vānara-gopucchāḥ kṣipram eva abhijajñire . yasya devasya yat rūpam veṣaḥ yaḥ ca parākramaḥ ..1..
अजायत समं तेन तस्य तस्य पृथक् पृथक् । गोलाङ्गूलीषु चोत्पन्नाः किंचिदुन्नतविक्रमाः ॥१-१७-२०॥
अजायत समम् तेन तस्य तस्य पृथक् पृथक् । गो-लाङ्गूलीषु च उत्पन्नाः किंचिद् उन्नत-विक्रमाः ॥१॥
ajāyata samam tena tasya tasya pṛthak pṛthak . go-lāṅgūlīṣu ca utpannāḥ kiṃcid unnata-vikramāḥ ..1..
ऋक्षीषु च तथा जाता वानराः किन्नरीषु च । देवा महर्षिगन्धर्वास्तार्क्ष्ययक्षा यशस्विनः ॥१-१७-२१॥
ऋक्षीषु च तथा जाताः वानराः किन्नरीषु च । देवाः महा-ऋषि-गन्धर्वाः तार्क्ष्य-यक्षाः यशस्विनः ॥१॥
ṛkṣīṣu ca tathā jātāḥ vānarāḥ kinnarīṣu ca . devāḥ mahā-ṛṣi-gandharvāḥ tārkṣya-yakṣāḥ yaśasvinaḥ ..1..
नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः । बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः ॥१-१७-२२॥
नागाः किम्पुरुषाः च एव सिद्ध-विद्याधर-उरगाः । बहवः जनयामासुः हृष्टाः तत्र सहस्रशस् ॥१॥
nāgāḥ kimpuruṣāḥ ca eva siddha-vidyādhara-uragāḥ . bahavaḥ janayāmāsuḥ hṛṣṭāḥ tatra sahasraśas ..1..
चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः । वानरान् सुमहाकायान् सर्वान् वै वनचारिणः ॥१-१७-२३॥
चारणाः च सुतान् वीरान् ससृजुः वन-चारिणः । वानरान् सु महा-कायान् सर्वान् वै वन-चारिणः ॥१॥
cāraṇāḥ ca sutān vīrān sasṛjuḥ vana-cāriṇaḥ . vānarān su mahā-kāyān sarvān vai vana-cāriṇaḥ ..1..
अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च । नागकन्यासु च तदा गन्धर्वीणां तनूषु च । कामरूपबलोपेता यथाकामविचारिणः ॥१-१७-२४॥
अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च । नाग-कन्यासु च तदा गन्धर्वीणाम् तनूषु च । काम-रूप-बल-उपेताः यथाकाम-विचारिणः ॥१॥
apsarassu ca mukhyāsu tathā vidyādharīṣu ca . nāga-kanyāsu ca tadā gandharvīṇām tanūṣu ca . kāma-rūpa-bala-upetāḥ yathākāma-vicāriṇaḥ ..1..
सिंहशार्दूलसदृशा दर्पेण च बलेन च । शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः ॥१-१७-२५॥
सिंह-शार्दूल-सदृशाः दर्पेण च बलेन च । शिला-प्रहरणाः सर्वे सर्वे पादप-योधिनः ॥१॥
siṃha-śārdūla-sadṛśāḥ darpeṇa ca balena ca . śilā-praharaṇāḥ sarve sarve pādapa-yodhinaḥ ..1..
नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः । विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् ॥१-१७-२६॥
नख-दंष्ट्र-आयुधाः सर्वे सर्वे सर्व-अस्त्र-कोविदाः । विचालयेयुः शैल-इन्द्रान् भेदयेयुः स्थिरान् द्रुमान् ॥१॥
nakha-daṃṣṭra-āyudhāḥ sarve sarve sarva-astra-kovidāḥ . vicālayeyuḥ śaila-indrān bhedayeyuḥ sthirān drumān ..1..
क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् । दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवान् ॥१-१७-२७॥
क्षोभयेयुः च वेगेन समुद्रम् सरिताम् पतिम् । दारयेयुः क्षितिम् पद्भ्याम् आप्लवेयुः महा-अर्णवान् ॥१॥
kṣobhayeyuḥ ca vegena samudram saritām patim . dārayeyuḥ kṣitim padbhyām āplaveyuḥ mahā-arṇavān ..1..
नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान् । गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने ॥१-१७-२८॥
नभः-तलम् विशेयुः च गृह्णीयुः अपि तोयदान् । गृह्णीयुः अपि मातङ्गान् मत्तान् प्रव्रजतः वने ॥१॥
nabhaḥ-talam viśeyuḥ ca gṛhṇīyuḥ api toyadān . gṛhṇīyuḥ api mātaṅgān mattān pravrajataḥ vane ..1..
नर्दमानांश्च नादेन पातयेयुर्विहङ्गमान् । ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् ॥१-१७-२९॥
नर्दमानान् च नादेन पातयेयुः विहङ्गमान् । ईदृशानाम् प्रसूतानि हरीणाम् कामरूपिणाम् ॥१॥
nardamānān ca nādena pātayeyuḥ vihaṅgamān . īdṛśānām prasūtāni harīṇām kāmarūpiṇām ..1..
शतं शतसहस्राणि यूथपानां महात्मनाम् । ते प्रधानेषु यूथेषु हरीणां हरियूथपाः ॥१-१७-३०॥
शतम् शत-सहस्राणि यूथपानाम् महात्मनाम् । ते प्रधानेषु यूथेषु हरीणाम् हरि-यूथपाः ॥१॥
śatam śata-sahasrāṇi yūthapānām mahātmanām . te pradhāneṣu yūtheṣu harīṇām hari-yūthapāḥ ..1..
बभूवुर्यूथपश्रेष्ठान् वीरांश्चाजनयन् हरीन् । अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः ॥१-१७-३१॥
बभूवुः यूथप-श्रेष्ठान् वीरान् च अजनयन् हरीन् । अन्ये ऋक्षवतः प्रस्थान् उपतस्थुः सहस्रशस् ॥१॥
babhūvuḥ yūthapa-śreṣṭhān vīrān ca ajanayan harīn . anye ṛkṣavataḥ prasthān upatasthuḥ sahasraśas ..1..
अन्ये नानाविधाञ्छैलान् काननानि च भेजिरे । सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ॥१-१७-३२॥
अन्ये नानाविधान् शैलान् काननानि च भेजिरे । सूर्य-पुत्रम् च सुग्रीवम् शक्र-पुत्रम् च वालिनम् ॥१॥
anye nānāvidhān śailān kānanāni ca bhejire . sūrya-putram ca sugrīvam śakra-putram ca vālinam ..1..
भ्रातरावुपतस्थुस्ते सर्वे च हरियूथपाः । नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् ॥१-१७-३३॥
भ्रातरौ उपतस्थुः ते सर्वे च हरि-यूथपाः । नलम् नीलम् हनूमन्तम् अन्यान् च हरि-यूथपान् ॥१॥
bhrātarau upatasthuḥ te sarve ca hari-yūthapāḥ . nalam nīlam hanūmantam anyān ca hari-yūthapān ..1..
ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः । विचरन्तोऽर्दयन् सर्वान् सिंहव्याघ्रमहोरगान् ॥१-१७-३४॥
ते तार्क्ष्य-बल-सम्पन्नाः सर्वे युद्ध-विशारदाः । विचरन्तः अर्दयन् सर्वान् सिंह-व्याघ्र-महा-उरगान् ॥१॥
te tārkṣya-bala-sampannāḥ sarve yuddha-viśāradāḥ . vicarantaḥ ardayan sarvān siṃha-vyāghra-mahā-uragān ..1..
महाबलो महाबाहुर्वाली विपुलविक्रमः । जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥१-१७-३५॥
महा-बलः महा-बाहुः वाली विपुल-विक्रमः । जुगोप भुज-वीर्येण ऋक्ष-गोपुच्छ-वानरान् ॥१॥
mahā-balaḥ mahā-bāhuḥ vālī vipula-vikramaḥ . jugopa bhuja-vīryeṇa ṛkṣa-gopuccha-vānarān ..1..
तैरियं पृथिवी शूरैः सपर्वतवनार्णवा । कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ॥१-१७-३६॥
तैः इयम् पृथिवी शूरैः स पर्वत-वन-अर्णवा । कीर्णाः विविध-संस्थानैः नाना व्यञ्जन-लक्षणैः ॥१॥
taiḥ iyam pṛthivī śūraiḥ sa parvata-vana-arṇavā . kīrṇāḥ vividha-saṃsthānaiḥ nānā vyañjana-lakṣaṇaiḥ ..1..
तैर्मेघवृन्दाचलकूटसंनिभै- र्महाबलैर्वानरयूथपाधिपैः । बभूव भूर्भीमशरीररूपैः समावृता रामसहायहेतोः ॥१-१७-३७॥
तैः मेघ-वृन्द-अचल-कूट-संनिभैः महा-बलैः वानर-यूथप-अधिपैः । बभूव भूः भीम-शरीर-रूपैः समावृता राम-सहाय-हेतोः ॥१॥
taiḥ megha-vṛnda-acala-kūṭa-saṃnibhaiḥ mahā-balaiḥ vānara-yūthapa-adhipaiḥ . babhūva bhūḥ bhīma-śarīra-rūpaiḥ samāvṛtā rāma-sahāya-hetoḥ ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तदशः सर्गः ॥१-१७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तदशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptadaśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In