This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे विंशः सर्गः ॥१-२०॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे विंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe viṃśaḥ sargaḥ ..1..
तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् । मुहूर्तमिव निःसंज्ञः संज्ञावानिदमब्रवीत् ॥१-२०-१॥
तत् श्रुत्वा राज-शार्दूलः विश्वामित्रस्य भाषितम् । मुहूर्तम् इव निःसंज्ञः संज्ञावान् इदम् अब्रवीत् ॥१॥
tat śrutvā rāja-śārdūlaḥ viśvāmitrasya bhāṣitam . muhūrtam iva niḥsaṃjñaḥ saṃjñāvān idam abravīt ..1..
ऊनषोडशवर्षो मे रामो राजीवलोचनः । न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥१-२०-२॥
ऊन-षोडश-वर्षः मे रामः राजीव-लोचनः । न युद्ध-योग्य-ताम् अस्य पश्यामि सह राक्षसैः ॥१॥
ūna-ṣoḍaśa-varṣaḥ me rāmaḥ rājīva-locanaḥ . na yuddha-yogya-tām asya paśyāmi saha rākṣasaiḥ ..1..
इयमक्षौहिणी सेना यस्याहं पतिरीश्वरः । अनया सहितो गत्वा योद्धाहं तैर्निशाचरैः ॥१-२०-३॥
इयम् अक्षौहिणी सेना यस्य अहम् पतिः ईश्वरः । अनया सहितः गत्वा योद्धा अहम् तैः निशाचरैः ॥१॥
iyam akṣauhiṇī senā yasya aham patiḥ īśvaraḥ . anayā sahitaḥ gatvā yoddhā aham taiḥ niśācaraiḥ ..1..
इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः । योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि ॥१-२०-४॥
इमे शूराः च विक्रान्ताः भृत्याः मे अस्त्र-विशारदाः । योग्याः रक्षः-गणैः योद्धुम् न रामम् नेतुम् अर्हसि ॥१॥
ime śūrāḥ ca vikrāntāḥ bhṛtyāḥ me astra-viśāradāḥ . yogyāḥ rakṣaḥ-gaṇaiḥ yoddhum na rāmam netum arhasi ..1..
अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि । यावत् प्राणान् धरिष्यामि तावद् योत्स्ये निशाचरैः ॥१-२०-५॥
अहम् एव धनुष्पाणिः गोप्ता समर-मूर्धनि । यावत् प्राणान् धरिष्यामि तावत् योत्स्ये निशाचरैः ॥१॥
aham eva dhanuṣpāṇiḥ goptā samara-mūrdhani . yāvat prāṇān dhariṣyāmi tāvat yotsye niśācaraiḥ ..1..
निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता । अहं तत्र गमिष्यामि न रामं नेतुमर्हसि ॥१-२०-६॥
निर्विघ्ना व्रत-चर्या सा भविष्यति सु रक्षिता । अहम् तत्र गमिष्यामि न रामम् नेतुम् अर्हसि ॥१॥
nirvighnā vrata-caryā sā bhaviṣyati su rakṣitā . aham tatra gamiṣyāmi na rāmam netum arhasi ..1..
बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् । न चास्त्रबलसंयुक्तो न च युद्धविशारदः ॥१-२०-७॥
बालः हि अकृत-विद्यः च न च वेत्ति बलाबलम् । न च अस्त्र-बल-संयुक्तः न च युद्ध-विशारदः ॥१॥
bālaḥ hi akṛta-vidyaḥ ca na ca vetti balābalam . na ca astra-bala-saṃyuktaḥ na ca yuddha-viśāradaḥ ..1..
न चासौ रक्षसां योग्यः कूटयुद्धा हि राक्षसाः । विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ॥१-२०-८॥
न च असौ रक्षसाम् योग्यः कूट-युद्धाः हि राक्षसाः । विप्रयुक्तः हि रामेण मुहूर्तम् अपि ना उत्सहे ॥१॥
na ca asau rakṣasām yogyaḥ kūṭa-yuddhāḥ hi rākṣasāḥ . viprayuktaḥ hi rāmeṇa muhūrtam api nā utsahe ..1..
जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि । यदि वा राघवं ब्रह्मन् नेतुमिच्छसि सुव्रत ॥१-२०-९॥
जीवितुम् मुनि-शार्दूल न रामम् नेतुम् अर्हसि । यदि वा राघवम् ब्रह्मन् नेतुम् इच्छसि सुव्रत ॥१॥
jīvitum muni-śārdūla na rāmam netum arhasi . yadi vā rāghavam brahman netum icchasi suvrata ..1..
चतुरङ्गसमायुक्तं मया सह च तं नय । षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक ॥१-२०-१०॥
चतुर्-अङ्ग-समायुक्तम् मया सह च तम् नय । षष्टिः वर्ष-सहस्राणि जातस्य मम कौशिक ॥१॥
catur-aṅga-samāyuktam mayā saha ca tam naya . ṣaṣṭiḥ varṣa-sahasrāṇi jātasya mama kauśika ..1..
कृच्छ्रेणोत्पादितश्चायं न रामं नेतुमर्हसि । चतुर्णामात्मजानां हि प्रीतिः परमिका मम ॥१-२०-११॥
कृच्छ्रेण उत्पादितः च अयम् न रामम् नेतुम् अर्हसि । चतुर्णाम् आत्मजानाम् हि प्रीतिः परमिका मम ॥१॥
kṛcchreṇa utpāditaḥ ca ayam na rāmam netum arhasi . caturṇām ātmajānām hi prītiḥ paramikā mama ..1..
ज्येष्ठे धर्मप्रधानेच न रामं नेतुमर्हसि । किंवीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते ॥१-२०-१२॥
ज्येष्ठे धर्म-प्रधाना इच न रामम् नेतुम् अर्हसि । किंवीर्याः राक्षसाः ते च कस्य पुत्राः च के च ते ॥१॥
jyeṣṭhe dharma-pradhānā ica na rāmam netum arhasi . kiṃvīryāḥ rākṣasāḥ te ca kasya putrāḥ ca ke ca te ..1..
कथं प्रमाणाः के चैतान् रक्षन्ति मुनिपुंगव । कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् ॥१-२०-१३॥
कथम् प्रमाणाः के च एतान् रक्षन्ति मुनि-पुंगव । कथम् च प्रतिकर्तव्यम् तेषाम् रामेण रक्षसाम् ॥१॥
katham pramāṇāḥ ke ca etān rakṣanti muni-puṃgava . katham ca pratikartavyam teṣām rāmeṇa rakṣasām ..1..
मामकैर्वा बलैर्ब्रह्मन् मया वा कूटयोधिनाम् । सर्वं मे शंस भगवन् कथं तेषां मया रणे ॥१-२०-१४॥
मामकैः वा बलैः ब्रह्मन् मया वा कूट-योधिनाम् । सर्वम् मे शंस भगवन् कथम् तेषाम् मया रणे ॥१॥
māmakaiḥ vā balaiḥ brahman mayā vā kūṭa-yodhinām . sarvam me śaṃsa bhagavan katham teṣām mayā raṇe ..1..
स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः । तस्य तद् वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत ॥१-२०-१५॥
स्थातव्यम् दुष्ट-भावानाम् वीर्य-उत्सिक्ताः हि राक्षसाः । तस्य तत् वचनम् श्रुत्वा विश्वामित्रः अभ्यभाषत ॥१॥
sthātavyam duṣṭa-bhāvānām vīrya-utsiktāḥ hi rākṣasāḥ . tasya tat vacanam śrutvā viśvāmitraḥ abhyabhāṣata ..1..
पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः । स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ॥१-२०-१६॥
पौलस्त्य-वंश-प्रभवः रावणः नाम राक्षसः । स ब्रह्मणा दत्त-वरः त्रैलोक्यम् बाधते भृशम् ॥१॥
paulastya-vaṃśa-prabhavaḥ rāvaṇaḥ nāma rākṣasaḥ . sa brahmaṇā datta-varaḥ trailokyam bādhate bhṛśam ..1..
महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः । श्रूयते च महाराज रावणो राक्षसाधिपः ॥१-२०-१७॥
महा-बलः महा-वीर्यः राक्षसैः बहुभिः वृतः । श्रूयते च महा-राज रावणः राक्षस-अधिपः ॥१॥
mahā-balaḥ mahā-vīryaḥ rākṣasaiḥ bahubhiḥ vṛtaḥ . śrūyate ca mahā-rāja rāvaṇaḥ rākṣasa-adhipaḥ ..1..
साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः । यदा न खलु यज्ञस्य विघ्नकर्ता महाबलः ॥१-२०-१८॥
साक्षात् वैश्रवण-भ्राता पुत्रः विश्रवसः मुनेः । यदा न खलु यज्ञस्य विघ्न-कर्ता महा-बलः ॥१॥
sākṣāt vaiśravaṇa-bhrātā putraḥ viśravasaḥ muneḥ . yadā na khalu yajñasya vighna-kartā mahā-balaḥ ..1..
तेन संचोदितौ तौ तु राक्षसौ सुमहाबलौ । मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः ॥१-२०-१९॥
तेन संचोदितौ तौ तु राक्षसौ सु महा-बलौ । मारीचः च सुबाहुः च यज्ञ-विघ्नम् करिष्यतः ॥१॥
tena saṃcoditau tau tu rākṣasau su mahā-balau . mārīcaḥ ca subāhuḥ ca yajña-vighnam kariṣyataḥ ..1..
इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा । नहि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः ॥१-२०-२०॥
इति उक्तः मुनिना तेन राजा उवाच मुनिम् तदा । नहि शक्तः अस्मि संग्रामे स्थातुम् तस्य दुरात्मनः ॥१॥
iti uktaḥ muninā tena rājā uvāca munim tadā . nahi śaktaḥ asmi saṃgrāme sthātum tasya durātmanaḥ ..1..
स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके । मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः ॥१-२०-२१॥
स त्वम् प्रसादम् धर्म-ज्ञ कुरुष्व मम पुत्रके । मम च एव अल्पभाग्यस्य दैवतम् हि भवान् गुरुः ॥१॥
sa tvam prasādam dharma-jña kuruṣva mama putrake . mama ca eva alpabhāgyasya daivatam hi bhavān guruḥ ..1..
देवदानवगन्धर्वा यक्षाः पतगपन्नगाः । न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ॥१-२०-२२॥
देव-दानव-गन्धर्वाः यक्षाः पतग-पन्नगाः । न शक्ताः रावणम् सोढुम् किम् पुनर् मानवाः युधि ॥१॥
deva-dānava-gandharvāḥ yakṣāḥ pataga-pannagāḥ . na śaktāḥ rāvaṇam soḍhum kim punar mānavāḥ yudhi ..1..
स तु वीर्यवतां वीर्यमादत्ते युधि रावणः । तेन चाहं न शक्तोऽस्मि संयोद्धुं तस्य वा बलैः ॥१-२०-२३॥
स तु वीर्यवताम् वीर्यम् आदत्ते युधि रावणः । तेन च अहम् न शक्तः अस्मि संयोद्धुम् तस्य वा बलैः ॥१॥
sa tu vīryavatām vīryam ādatte yudhi rāvaṇaḥ . tena ca aham na śaktaḥ asmi saṃyoddhum tasya vā balaiḥ ..1..
सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः । कथमप्यमरप्रख्यं संग्रामाणामकोविदम् ॥१-२०-२४॥
स बलः वा मुनि-श्रेष्ठ सहितः वा मम आत्मजैः । कथम् अपि अमर-प्रख्यम् संग्रामाणाम् अकोविदम् ॥१॥
sa balaḥ vā muni-śreṣṭha sahitaḥ vā mama ātmajaiḥ . katham api amara-prakhyam saṃgrāmāṇām akovidam ..1..
बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम् । अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः ॥१-२०-२५॥
बालम् मे तनयम् ब्रह्मन् ना एव दास्यामि पुत्रकम् । अथ काल-उपमौ युद्धे सुतौ सुन्द-उपसुन्दयोः ॥१॥
bālam me tanayam brahman nā eva dāsyāmi putrakam . atha kāla-upamau yuddhe sutau sunda-upasundayoḥ ..1..
यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् । मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ॥१-२०-२६॥
यज्ञ-विघ्न-करौ तौ ते ना एव दास्यामि पुत्रकम् । मारीचः च सुबाहुः च वीर्यवन्तौ सु शिक्षितौ ॥१॥
yajña-vighna-karau tau te nā eva dāsyāmi putrakam . mārīcaḥ ca subāhuḥ ca vīryavantau su śikṣitau ..1..
तयोरन्यतरं योद्धुं यास्यामि ससुहृद्गणः । अन्यथा त्वनुनेष्यामि भवन्तं सहबान्धवः ॥१-२०-२७॥
तयोः अन्यतरम् योद्धुम् यास्यामि स सुहृद्-गणः । अन्यथा तु अनुनेष्यामि भवन्तम् सहबान्धवः ॥१॥
tayoḥ anyataram yoddhum yāsyāmi sa suhṛd-gaṇaḥ . anyathā tu anuneṣyāmi bhavantam sahabāndhavaḥ ..1..
इति नरपतिजल्पनात् द्विजेन्द्रं कुशिकसुतं सुमहान् विवेश मन्युः । सुहुत इव मखेऽग्निराज्यसिक्तः समभवदुज्ज्वलितो महर्षिवह्निः ॥१-२०-२८॥
इति नरपति-जल्पनात् द्विजेन्द्रम् कुशिक-सुतम् सु महान् विवेश मन्युः । सु हुते इव मखे अग्निः आज्य-सिक्तः समभवत् उज्ज्वलितः महा-ऋषि-वह्निः ॥१॥
iti narapati-jalpanāt dvijendram kuśika-sutam su mahān viveśa manyuḥ . su hute iva makhe agniḥ ājya-siktaḥ samabhavat ujjvalitaḥ mahā-ṛṣi-vahniḥ ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे विंशः सर्गः ॥१-२०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे विंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe viṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In