This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे बालकाण्डे षड्विंशः सर्गः ॥१-२६॥
श्रीमत्-वाल्मीकीय-रामायणे बाल-काण्डे षड्विंशः सर्गः ॥१॥
śrīmat-vālmīkīya-rāmāyaṇe bāla-kāṇḍe ṣaḍviṃśaḥ sargaḥ ..1..
मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः । राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ॥१-२६-१॥
मुनेः वचनम् अक्लीबम् श्रुत्वा नर-वर-आत्मजः । राघवः प्राञ्जलिः भूत्वा प्रत्युवाच दृढ-व्रतः ॥१॥
muneḥ vacanam aklībam śrutvā nara-vara-ātmajaḥ . rāghavaḥ prāñjaliḥ bhūtvā pratyuvāca dṛḍha-vrataḥ ..1..
पितुर्वचननिर्देशात् पितुर्वचनगौरवात् । वचनं कौशिकस्येति कर्तव्यमविशङ्कया ॥१-२६-२॥
पितुः वचन-निर्देशात् पितुः वचन-गौरवात् । वचनम् कौशिकस्य इति कर्तव्यम् अविशङ्कया ॥१॥
pituḥ vacana-nirdeśāt pituḥ vacana-gauravāt . vacanam kauśikasya iti kartavyam aviśaṅkayā ..1..
अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना । पित्रा दशरथेनाहं नावज्ञेयं हि तद्वचः ॥१-२६-१३
अनुशिष्टः अस्मि अयोध्यायाम् गुरु-मध्ये महात्मना । पित्रा दशरथेन अहम् न अवज्ञेयम् हि तत् वचः ॥१
anuśiṣṭaḥ asmi ayodhyāyām guru-madhye mahātmanā . pitrā daśarathena aham na avajñeyam hi tat vacaḥ ..1
सोऽहं पितुर्वचः श्रुत्वा शासनाद् ब्रह्मवादिनः । करिष्यामि न संदेहस्ताटकावधमुत्तमम् ॥१-२६-४॥
सः अहम् पितुः वचः श्रुत्वा शासनात् ब्रह्म-वादिनः । करिष्यामि न संदेहः ताटका-वधम् उत्तमम् ॥१॥
saḥ aham pituḥ vacaḥ śrutvā śāsanāt brahma-vādinaḥ . kariṣyāmi na saṃdehaḥ tāṭakā-vadham uttamam ..1..
गोब्राह्मणहितार्थाय देशस्य च हिताय च । तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः ॥१-२६-५॥
गो-ब्राह्मण-हित-अर्थाय देशस्य च हिताय च । तव च एव अप्रमेयस्य वचनम् कर्तुम् उद्यतः ॥१॥
go-brāhmaṇa-hita-arthāya deśasya ca hitāya ca . tava ca eva aprameyasya vacanam kartum udyataḥ ..1..
एवमुक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिमरिन्दमः । ज्याघोषमकरोत् तीव्रं दिशः शब्देन नादयन् ॥१-२६-६॥
एवम् उक्त्वा धनुः-मध्ये बद्ध्वा मुष्टिम् अरिन्दमः । ज्या-घोषम् अकरोत् तीव्रम् दिशः शब्देन नादयन् ॥१॥
evam uktvā dhanuḥ-madhye baddhvā muṣṭim arindamaḥ . jyā-ghoṣam akarot tīvram diśaḥ śabdena nādayan ..1..
तेन शब्देन वित्रस्तास्ताटकावनवासिनः । ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता ॥१-२६-७॥
तेन शब्देन वित्रस्ताः ताटका-वन-वासिनः । ताटका च सु संक्रुद्धा तेन शब्देन मोहिता ॥१॥
tena śabdena vitrastāḥ tāṭakā-vana-vāsinaḥ . tāṭakā ca su saṃkruddhā tena śabdena mohitā ..1..
तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्छिता । श्रुत्वा चाभ्यद्रवत् क्रुद्धा यत्र शब्दो विनिःसृतः ॥१-२६-८॥
तम् शब्दम् अभिनिध्याय राक्षसी क्रोध-मूर्छिता । श्रुत्वा च अभ्यद्रवत् क्रुद्धा यत्र शब्दः विनिःसृतः ॥१॥
tam śabdam abhinidhyāya rākṣasī krodha-mūrchitā . śrutvā ca abhyadravat kruddhā yatra śabdaḥ viniḥsṛtaḥ ..1..
तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् । प्रमाणेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत ॥१-२६-९॥
ताम् दृष्ट्वा राघवः क्रुद्धाम् विकृताम् विकृत-आननाम् । प्रमाणेन अति वृद्धाम् च लक्ष्मणम् सः अभ्यभाषत ॥१॥
tām dṛṣṭvā rāghavaḥ kruddhām vikṛtām vikṛta-ānanām . pramāṇena ati vṛddhām ca lakṣmaṇam saḥ abhyabhāṣata ..1..
पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः । भिद्येरन् दर्शनादस्या भीरूणां हृदयानि च ॥१-२६-१०॥
पश्य लक्ष्मण यक्षिण्याः भैरवम् दारुणम् वपुः । भिद्येरन् दर्शनात् अस्याः भीरूणाम् हृदयानि च ॥१॥
paśya lakṣmaṇa yakṣiṇyāḥ bhairavam dāruṇam vapuḥ . bhidyeran darśanāt asyāḥ bhīrūṇām hṛdayāni ca ..1..
एतां पश्य दुराधर्षां मायाबलसमन्विताम् । विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् ॥१-२६-११॥
एताम् पश्य दुराधर्षाम् माया-बल-समन्विताम् । विनिवृत्ताम् करोमि अद्य हृत-कर्ण-अग्र-नासिकाम् ॥१॥
etām paśya durādharṣām māyā-bala-samanvitām . vinivṛttām karomi adya hṛta-karṇa-agra-nāsikām ..1..
न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् । वीर्यं चास्या गतिं चैव हन्यामिति हि मे मतिः ॥१-२६-१२॥
न हि एनाम् उत्सहे हन्तुम् स्त्री-स्वभावेन रक्षिताम् । वीर्यम् च अस्याः गतिम् च एव हन्याम् इति हि मे मतिः ॥१॥
na hi enām utsahe hantum strī-svabhāvena rakṣitām . vīryam ca asyāḥ gatim ca eva hanyām iti hi me matiḥ ..1..
एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्छिता । उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत ॥१-२६-१३॥
एवम् ब्रुवाणे रामे तु ताटका क्रोध-मूर्छिता । उद्यम्य बाहू गर्जन्ती रामम् एव अभ्यधावत ॥१॥
evam bruvāṇe rāme tu tāṭakā krodha-mūrchitā . udyamya bāhū garjantī rāmam eva abhyadhāvata ..1..
विश्वामित्रस्तु ब्रह्मर्षिर्हुंकारेणाभिभर्त्स्य ताम् । स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ॥१-२६-१४॥
विश्वामित्रः तु ब्रह्मर्षिः हुंकारेण अभिभर्त्स्य ताम् । स्वस्ति राघवयोः अस्तु जयम् च एव अभ्यभाषत ॥१॥
viśvāmitraḥ tu brahmarṣiḥ huṃkāreṇa abhibhartsya tām . svasti rāghavayoḥ astu jayam ca eva abhyabhāṣata ..1..
उद्धुन्वाना रजो घोरं ताटका राघवावुभौ । रजोमेघेन महता मुहूर्तं सा व्यमोहयत् ॥१-२६-१५॥
उद्धुन्वानाः रजः घोरम् ताटकाः राघवौ उभौ । रजः-मेघेन महता मुहूर्तम् सा व्यमोहयत् ॥१॥
uddhunvānāḥ rajaḥ ghoram tāṭakāḥ rāghavau ubhau . rajaḥ-meghena mahatā muhūrtam sā vyamohayat ..1..
ततो मायां समास्थाय शिलावर्षेण राघवौ । अवाकिरत् सुमहता ततश्चुक्रोध राघवः ॥१-२६-१६॥
ततस् मायाम् समास्थाय शिला-वर्षेण राघवौ । अवाकिरत् सु महता ततस् चुक्रोध राघवः ॥१॥
tatas māyām samāsthāya śilā-varṣeṇa rāghavau . avākirat su mahatā tatas cukrodha rāghavaḥ ..1..
शिलावर्षं महत् तस्याः शरवर्षेण राघवः । प्रतिवार्योपधावन्त्याः करौ चिच्छेद पत्रिभिः ॥१-२६-१७॥
शिला-वर्षम् महत् तस्याः शर-वर्षेण राघवः । प्रतिवार्य उपधावन्त्याः करौ चिच्छेद पत्रिभिः ॥१॥
śilā-varṣam mahat tasyāḥ śara-varṣeṇa rāghavaḥ . prativārya upadhāvantyāḥ karau ciccheda patribhiḥ ..1..
ततश्च्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम् । सौमित्रिरकरोत् क्रोधाद्धृतकर्णाग्रनासिकाम् ॥१-२६-१८॥
ततस् छिन्न-भुजाम् श्रान्ताम् अभ्याशे परिगर्जतीम् । सौमित्रिः अकरोत् क्रोधात् हृत-कर्ण-अग्र-नासिकाम् ॥१॥
tatas chinna-bhujām śrāntām abhyāśe parigarjatīm . saumitriḥ akarot krodhāt hṛta-karṇa-agra-nāsikām ..1..
कामरूपधरा सा तु कृत्वा रूपाण्यनेकशः । अन्तर्धानं गता यक्षी मोहयन्ती स्वमायया ॥१-२६-१९॥
काम-रूप-धरा सा तु कृत्वा रूपाणि अनेकशस् । अन्तर्धानम् गता यक्षी मोहयन्ती स्व-मायया ॥१॥
kāma-rūpa-dharā sā tu kṛtvā rūpāṇi anekaśas . antardhānam gatā yakṣī mohayantī sva-māyayā ..1..
अश्मवर्षं विमुञ्चन्ती भैरवं विचचार सा ॥ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः ॥१-२६-२०॥
अश्म-वर्षम् विमुञ्चन्ती भैरवम् विचचार सा ॥ततस् तौ अश्म-वर्षेण कीर्यमाणौ समन्ततः ॥१॥
aśma-varṣam vimuñcantī bhairavam vicacāra sā ..tatas tau aśma-varṣeṇa kīryamāṇau samantataḥ ..1..
दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत् । अलं ते घृणया राम पापैषा दुष्टचारिणी ॥१-२६-२१॥
दृष्ट्वा गाधि-सुतः श्रीमान् इदम् वचनम् अब्रवीत् । अलम् ते घृणया राम पापा एषा दुष्ट-चारिणी ॥१॥
dṛṣṭvā gādhi-sutaḥ śrīmān idam vacanam abravīt . alam te ghṛṇayā rāma pāpā eṣā duṣṭa-cāriṇī ..1..
यज्ञविघ्नकरी यक्षी पुरा वर्धेत मायया । वध्यतां तावदेवैषा पुरा संध्या प्रवर्तते ॥१-२६-२२॥
यज्ञ-विघ्न-करी यक्षी पुरा वर्धेत मायया । वध्यताम् तावत् एव एषा पुरा संध्या प्रवर्तते ॥१॥
yajña-vighna-karī yakṣī purā vardheta māyayā . vadhyatām tāvat eva eṣā purā saṃdhyā pravartate ..1..
रक्षांसि संध्याकाले तु दुर्धर्षाणि भवन्ति हि । इत्युक्तः स तु तां यक्षीमश्मवृष्ट्याभिवर्षणीम् ॥१-२६-२३॥
रक्षांसि संध्या-काले तु दुर्धर्षाणि भवन्ति हि । इति उक्तः स तु ताम् यक्षीम् अश्म-वृष्ट्या अभिवर्षणीम् ॥१॥
rakṣāṃsi saṃdhyā-kāle tu durdharṣāṇi bhavanti hi . iti uktaḥ sa tu tām yakṣīm aśma-vṛṣṭyā abhivarṣaṇīm ..1..
दर्शयञ्शब्दवेधित्वं तां रुरोध स सायकैः । सा रुद्धा बाणजालेन मायाबलसमन्विता ॥१-२६-२४॥
दर्शयन् शब्दवेधि-त्वम् ताम् रुरोध स सायकैः । सा रुद्धा बाण-जालेन माया-बल-समन्विता ॥१॥
darśayan śabdavedhi-tvam tām rurodha sa sāyakaiḥ . sā ruddhā bāṇa-jālena māyā-bala-samanvitā ..1..
अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेषुदी । तामापतन्तीं वेगेन विक्रान्तामशनीमिव ॥१-२६-२५॥
अभिदुद्राव काकुत्स्थम् लक्ष्मणम् च विनेषुदी । ताम् आपतन्तीम् वेगेन विक्रान्ताम् अशनीम् इव ॥१॥
abhidudrāva kākutstham lakṣmaṇam ca vineṣudī . tām āpatantīm vegena vikrāntām aśanīm iva ..1..
शरेणोरसि विव्याध सा पपात ममार च । तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस्तदा ॥१-२६-२६॥
शरेण उरसि विव्याध सा पपात ममार च । ताम् हताम् भीम-संकाशाम् दृष्ट्वा सुरपतिः तदा ॥१॥
śareṇa urasi vivyādha sā papāta mamāra ca . tām hatām bhīma-saṃkāśām dṛṣṭvā surapatiḥ tadā ..1..
साधु साध्विति काकुत्स्थं सुराश्चाप्यभिपूजयन् । उवाच परमप्रीतः सहस्राक्षः पुरन्दरः ॥१-२६-२७॥
साधु साधु इति काकुत्स्थम् सुराः च अपि अभिपूजयन् । उवाच परम-प्रीतः सहस्राक्षः पुरन्दरः ॥१॥
sādhu sādhu iti kākutstham surāḥ ca api abhipūjayan . uvāca parama-prītaḥ sahasrākṣaḥ purandaraḥ ..1..
सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन् । मुने कौशिक भद्रं ते सेन्द्राः सर्वे मरुद्गणाः ॥१-२६-२८॥
सुराः च सर्वे संहृष्टाः विश्वामित्रम् अथ अब्रुवन् । मुने कौशिक भद्रम् ते स इन्द्राः सर्वे मरुत्-गणाः ॥१॥
surāḥ ca sarve saṃhṛṣṭāḥ viśvāmitram atha abruvan . mune kauśika bhadram te sa indrāḥ sarve marut-gaṇāḥ ..1..
तोषिताः कर्मणानेन स्नेहं दर्शय राघवे । प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान् ॥१-२६-२९॥
तोषिताः कर्मणा अनेन स्नेहम् दर्शय राघवे । प्रजापतेः कृशाश्वस्य पुत्रान् सत्य-पराक्रमान् ॥१॥
toṣitāḥ karmaṇā anena sneham darśaya rāghave . prajāpateḥ kṛśāśvasya putrān satya-parākramān ..1..
तपोबलभृतो ब्रह्मन् राघवाय निवेदय । पात्रभूतश्च ते ब्रह्मंस्तवानुगमने रतः ॥१-२६-३०॥
तपः-बल-भृतः ब्रह्मन् राघवाय निवेदय । पात्र-भूतः च ते ब्रह्मन् तव अनुगमने रतः ॥१॥
tapaḥ-bala-bhṛtaḥ brahman rāghavāya nivedaya . pātra-bhūtaḥ ca te brahman tava anugamane rataḥ ..1..
कर्तव्यं सुमहत् कर्म सुराणां राजसूनुना । एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा विहायसम् ॥१-२६-३१॥
कर्तव्यम् सु महत् कर्म सुराणाम् राज-सूनुना । एवम् उक्त्वा सुराः सर्वे जग्मुः हृष्टाः विहायसम् ॥१॥
kartavyam su mahat karma surāṇām rāja-sūnunā . evam uktvā surāḥ sarve jagmuḥ hṛṣṭāḥ vihāyasam ..1..
विश्वामित्रं पूजयन्तस्ततः संध्या प्रवर्तते । ततो मुनिवरः प्रीतस्ताटकावधतोषितः ॥१-२६-३२॥
विश्वामित्रम् पूजयन्तः ततस् संध्या प्रवर्तते । ततस् मुनि-वरः प्रीतः ताटका-वध-तोषितः ॥१॥
viśvāmitram pūjayantaḥ tatas saṃdhyā pravartate . tatas muni-varaḥ prītaḥ tāṭakā-vadha-toṣitaḥ ..1..
मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् । इहाद्य रजनीं राम वसाम शुभदर्शन ॥१-२६-३३॥
मूर्ध्नि रामम् उपाघ्राय इदम् वचनम् अब्रवीत् । इह अद्य रजनीम् राम वसाम शुभ-दर्शन ॥१॥
mūrdhni rāmam upāghrāya idam vacanam abravīt . iha adya rajanīm rāma vasāma śubha-darśana ..1..
श्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम । विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः ॥१-२६-३४॥
श्वस् प्रभाते गमिष्यामः तत् आश्रम-पदम् मम । विश्वामित्र-वचः श्रुत्वा हृष्टः दशरथ-आत्मजः ॥१॥
śvas prabhāte gamiṣyāmaḥ tat āśrama-padam mama . viśvāmitra-vacaḥ śrutvā hṛṣṭaḥ daśaratha-ātmajaḥ ..1..
उवास रजनीं तत्र ताटकाया वने सुखम् । मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि । रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥१-२६-३५॥
उवास रजनीम् तत्र ताटकायाः वने सुखम् । मुक्त-शापम् वनम् तत् च तस्मिन् एव तदा अहनि । रमणीयम् विबभ्राज यथा चैत्ररथम् वनम् ॥१॥
uvāsa rajanīm tatra tāṭakāyāḥ vane sukham . mukta-śāpam vanam tat ca tasmin eva tadā ahani . ramaṇīyam vibabhrāja yathā caitraratham vanam ..1..
निहत्य तां यक्षसुतां स रामः प्रशस्यमानः सुरसिद्धसङ्घैः । उवास तस्मिन् मुनिना सहैव प्रभातवेलां प्रतिबोध्यमानः ॥१-२६-३६॥
निहत्य ताम् यक्षसुताम् स रामः प्रशस्यमानः सुर-सिद्ध-सङ्घैः । उवास तस्मिन् मुनिना सह एव प्रभात-वेलाम् प्रतिबोध्यमानः ॥१॥
nihatya tām yakṣasutām sa rāmaḥ praśasyamānaḥ sura-siddha-saṅghaiḥ . uvāsa tasmin muninā saha eva prabhāta-velām pratibodhyamānaḥ ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षड्विंशः सर्गः ॥१-२६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षड्विंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaḍviṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In