This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वात्रिंशः सर्गः ॥१-३२॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे द्वात्रिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe dvātriṃśaḥ sargaḥ ..1..
ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः । अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥१-३२-१॥
ब्रह्म-योनिः महान् आसीत् कुशः नाम महा-तपाः । ॥१॥
brahma-yoniḥ mahān āsīt kuśaḥ nāma mahā-tapāḥ . ..1..
स महात्मा कुलीनायां युक्तायां सुमहाबलान् । वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान् ॥१-३२-२॥
स महात्मा कुलीनायाम् युक्तायाम् सु महा-बलान् । वैदर्भ्याम् जनयामास चतुरः सदृशान् सुतान् ॥१॥
sa mahātmā kulīnāyām yuktāyām su mahā-balān . vaidarbhyām janayāmāsa caturaḥ sadṛśān sutān ..1..
कुशाम्बं कुशनाभं च असूर्तरजसं वसुम् । दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥१-३२-३॥
कुशाम्बम् कुशनाभम् च असूर्तरजसम् वसुम् । दीप्ति-युक्तान् महा-उत्साहान् क्षत्र-धर्म-चिकीर्षया ॥१॥
kuśāmbam kuśanābham ca asūrtarajasam vasum . dīpti-yuktān mahā-utsāhān kṣatra-dharma-cikīrṣayā ..1..
तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः । क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् ॥१-३२-४॥
तान् उवाच कुशः पुत्रान् धर्मिष्ठान् सत्य-वादिनः । क्रियताम् पालनम् पुत्राः धर्मम् प्राप्स्यथ पुष्कलम् ॥१॥
tān uvāca kuśaḥ putrān dharmiṣṭhān satya-vādinaḥ . kriyatām pālanam putrāḥ dharmam prāpsyatha puṣkalam ..1..
कुशस्य वचनं श्रुत्वा चत्वारो लोकसत्तमाः । निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥१-३२-५॥
कुशस्य वचनम् श्रुत्वा चत्वारः लोक-सत्तमाः । निवेशम् चक्रिरे सर्वे पुराणाम् नृ-वराः तदा ॥१॥
kuśasya vacanam śrutvā catvāraḥ loka-sattamāḥ . niveśam cakrire sarve purāṇām nṛ-varāḥ tadā ..1..
कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत् पुरीम् । कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥१-३२-६॥
कुशाम्बः तु महा-तेजाः कौशाम्बीम् अकरोत् पुरीम् । कुशनाभः तु धर्म-आत्मा पुरम् चक्रे महा-उदयम् ॥१॥
kuśāmbaḥ tu mahā-tejāḥ kauśāmbīm akarot purīm . kuśanābhaḥ tu dharma-ātmā puram cakre mahā-udayam ..1..
असूर्तरजसो नाम धर्मारण्यं महीपतिः । चक्रे पुरवरं राजा वसुनाम गिरिव्रजम् ॥१-३२-७॥
असूर्तरजसः नाम धर्मारण्यम् महीपतिः । चक्रे पुर-वरम् राजा वसु-नाम गिरिव्रजम् ॥१॥
asūrtarajasaḥ nāma dharmāraṇyam mahīpatiḥ . cakre pura-varam rājā vasu-nāma girivrajam ..1..
एषा वसुमती राम वसोस्तस्य महात्मनः । एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥१-३२-८॥
एषा वसुमती राम वसोः तस्य महात्मनः । एते शैल-वराः पञ्च प्रकाशन्ते समन्ततः ॥१॥
eṣā vasumatī rāma vasoḥ tasya mahātmanaḥ . ete śaila-varāḥ pañca prakāśante samantataḥ ..1..
सुमागधी नदी रम्या मागधान् विश्रुताऽऽययौ । पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥१-३२-९॥
सुमागधी नदी रम्या मागधान् विश्रुता आययौ । पञ्चानाम् शैल-मुख्यानाम् मध्ये माला इव शोभते ॥१॥
sumāgadhī nadī ramyā māgadhān viśrutā āyayau . pañcānām śaila-mukhyānām madhye mālā iva śobhate ..1..
सैषा हि मागधी राम वसोस्तस्य महात्मनः । पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ॥१-३२-१०॥
सा एषा हि मागधी राम वसोः तस्य महात्मनः । पूर्व-अभिचरिता राम सु क्षेत्रा सस्य-मालिनी ॥१॥
sā eṣā hi māgadhī rāma vasoḥ tasya mahātmanaḥ . pūrva-abhicaritā rāma su kṣetrā sasya-mālinī ..1..
कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् । जनयामास धर्मात्मा घृताच्यां रघुनन्दन ॥१-३२-११॥
कुशनाभः तु राजर्षिः कन्या-शतम् अनुत्तमम् । जनयामास धर्म-आत्मा घृताच्याम् रघुनन्दन ॥१॥
kuśanābhaḥ tu rājarṣiḥ kanyā-śatam anuttamam . janayāmāsa dharma-ātmā ghṛtācyām raghunandana ..1..
तास्तु यौवनशालिन्यो रूपवत्यः स्वलङ्कृताः । उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ॥१-३२-१२॥
ताः तु यौवन-शालिन्यः रूपवत्यः सु अलङ्कृताः । उद्यान-भूमिम् आगम्य प्रावृषि इव शतह्रदाः ॥१॥
tāḥ tu yauvana-śālinyaḥ rūpavatyaḥ su alaṅkṛtāḥ . udyāna-bhūmim āgamya prāvṛṣi iva śatahradāḥ ..1..
गायन्त्यो नृत्यमानाश्च वादयन्त्यस्तु राघव । आमोदं परमं जग्मुर्वराभरणभूषिताः ॥१-३२-१३॥
गायन्त्यः नृत्यमानाः च वादयन्त्यः तु राघव । आमोदम् परमम् जग्मुः वर-आभरण-भूषिताः ॥१॥
gāyantyaḥ nṛtyamānāḥ ca vādayantyaḥ tu rāghava . āmodam paramam jagmuḥ vara-ābharaṇa-bhūṣitāḥ ..1..
अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि । उद्यानभूमिमागम्य तारा इव घनान्तरे ॥१-३२-१४॥
अथ ताः चारु-सर्व-अङ्ग्यः रूपेण अप्रतिमाः भुवि । उद्यान-भूमिम् आगम्य ताराः इव घन-अन्तरे ॥१॥
atha tāḥ cāru-sarva-aṅgyaḥ rūpeṇa apratimāḥ bhuvi . udyāna-bhūmim āgamya tārāḥ iva ghana-antare ..1..
ताः सर्वा गुणसम्पन्ना रूपयौवनसंयुताः । दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥१-३२-१५॥
ताः सर्वाः गुण-सम्पन्नाः रूप-यौवन-संयुताः । दृष्ट्वा सर्व-आत्मकः वायुः इदम् वचनम् अब्रवीत् ॥१॥
tāḥ sarvāḥ guṇa-sampannāḥ rūpa-yauvana-saṃyutāḥ . dṛṣṭvā sarva-ātmakaḥ vāyuḥ idam vacanam abravīt ..1..
अहं वः कामये सर्वा भार्या मम भविष्यथ । मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥१-३२-१६॥
अहम् वः कामये सर्वाः भार्याः मम भविष्यथ । मानुषः त्यज्यताम् भावः दीर्घम् आयुः अवाप्स्यथ ॥१॥
aham vaḥ kāmaye sarvāḥ bhāryāḥ mama bhaviṣyatha . mānuṣaḥ tyajyatām bhāvaḥ dīrgham āyuḥ avāpsyatha ..1..
चलं हि यौवनं नित्यं मानुषेषु विशेषतः । अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ॥१-३२-१७॥
चलम् हि यौवनम् नित्यम् मानुषेषु विशेषतः । अक्षयम् यौवनम् प्राप्ताः अमर्यः च भविष्यथ ॥१॥
calam hi yauvanam nityam mānuṣeṣu viśeṣataḥ . akṣayam yauvanam prāptāḥ amaryaḥ ca bhaviṣyatha ..1..
तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः । अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥१-३२-१८॥
तस्य तत् वचनम् श्रुत्वा वायोः अक्लिष्ट-कर्मणः । अपहास्य ततस् वाक्यम् कन्या-शतम् अथा अब्रवीत् ॥१॥
tasya tat vacanam śrutvā vāyoḥ akliṣṭa-karmaṇaḥ . apahāsya tatas vākyam kanyā-śatam athā abravīt ..1..
अन्तश्चरसि भूतानां सर्वेषां सुरसत्तम । प्रभावज्ञाश्च ते सर्वाः किमर्थमवमन्यसे ॥१-३२-१९॥
अन्तर् चरसि भूतानाम् सर्वेषाम् सुर-सत्तम । प्रभाव-ज्ञाः च ते सर्वाः किमर्थम् अवमन्यसे ॥१॥
antar carasi bhūtānām sarveṣām sura-sattama . prabhāva-jñāḥ ca te sarvāḥ kimartham avamanyase ..1..
कुशनाभसुता देव सर्वाः समस्ताः सुरसत्तम । स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥१-३२-२०॥
कुशनाभ-सुताः देव सर्वाः समस्ताः सुर-सत्तम । स्थानात् च्यावयितुम् देवम् रक्षामः तु तपः वयम् ॥१॥
kuśanābha-sutāḥ deva sarvāḥ samastāḥ sura-sattama . sthānāt cyāvayitum devam rakṣāmaḥ tu tapaḥ vayam ..1..
मा भूत् स कालो दुर्मेधः पितरं सत्यवादिनम् । अवमन्य स्वधर्मेण स्वयं वरमुपास्महे ॥१-३२-२१॥
मा भूत् स कालः दुर्मेधः पितरम् सत्य-वादिनम् । अवमन्य स्वधर्मेण स्वयम् वरम् उपास्महे ॥१॥
mā bhūt sa kālaḥ durmedhaḥ pitaram satya-vādinam . avamanya svadharmeṇa svayam varam upāsmahe ..1..
पिता हि प्रभुरस्माकं दैवतं परमं च सः । यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥१-३२-२२॥
पिता हि प्रभुः अस्माकम् दैवतम् परमम् च सः । यस्य नः दास्यति पिता स नः भर्ता भविष्यति ॥१॥
pitā hi prabhuḥ asmākam daivatam paramam ca saḥ . yasya naḥ dāsyati pitā sa naḥ bhartā bhaviṣyati ..1..
तासां तु वचनं श्रुत्वा हरिः परमकोपनः । प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥१-३२-२३॥
तासाम् तु वचनम् श्रुत्वा हरिः परम-कोपनः । प्रविश्य सर्व-गात्राणि बभञ्ज भगवान् प्रभुः ॥१॥
tāsām tu vacanam śrutvā hariḥ parama-kopanaḥ . praviśya sarva-gātrāṇi babhañja bhagavān prabhuḥ ..1..
अरत्निमात्राकृतयो भग्नगात्रा भयार्दिताः । ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् । प्रविश्य च सुसम्भ्रान्ताः सलज्जाः सास्रलोचनाः ॥१-३२-२४॥
अरत्नि-मात्र-आकृतयः भग्न-गात्राः भय-अर्दिताः । ताः कन्याः वायुना भग्नाः विविशुः नृपतेः गृहम् । प्रविश्य च सु सम्भ्रान्ताः स लज्जाः स अस्र-लोचनाः ॥१॥
aratni-mātra-ākṛtayaḥ bhagna-gātrāḥ bhaya-arditāḥ . tāḥ kanyāḥ vāyunā bhagnāḥ viviśuḥ nṛpateḥ gṛham . praviśya ca su sambhrāntāḥ sa lajjāḥ sa asra-locanāḥ ..1..
स च ता दयिता भग्नाः कन्याः परमशोभनाः । दृष्ट्वा दीनास्तदा राजा सम्भ्रान्त इदमब्रवीत् ॥१-३२-२५॥
स च ताः दयिताः भग्नाः कन्याः परम-शोभनाः । दृष्ट्वा दीनाः तदा राजा सम्भ्रान्तः इदम् अब्रवीत् ॥१॥
sa ca tāḥ dayitāḥ bhagnāḥ kanyāḥ parama-śobhanāḥ . dṛṣṭvā dīnāḥ tadā rājā sambhrāntaḥ idam abravīt ..1..
किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते । कुब्जाः केन कृताः सर्वाश्चेष्टन्त्यो नाभिभाषथ । एवं राजा विनिःश्वस्य समाधिं संदधे ततः ॥१-३२-२६॥
किम् इदम् कथ्यताम् पुत्र्यः कः धर्मम् अवमन्यते । कुब्जाः केन कृताः सर्वाः चेष्टन्त्यः न अभिभाषथ । एवम् राजा विनिःश्वस्य समाधिम् संदधे ततस् ॥१॥
kim idam kathyatām putryaḥ kaḥ dharmam avamanyate . kubjāḥ kena kṛtāḥ sarvāḥ ceṣṭantyaḥ na abhibhāṣatha . evam rājā viniḥśvasya samādhim saṃdadhe tatas ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वात्रिंशः सर्गः ॥१-३२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वात्रिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dvātriṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In