This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्थः सर्गः ॥१-४॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे चतुर्थः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe caturthaḥ sargaḥ ..1..
प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः । चकार चरितं कृत्स्नं विचित्रपदमर्थवत् ॥१-४-१॥
प्राप्त-राज्यस्य रामस्य वाल्मीकिः भगवान् ऋषिः । चकार चरितम् कृत्स्नम् विचित्र-पदम् अर्थवत् ॥१॥
prāpta-rājyasya rāmasya vālmīkiḥ bhagavān ṛṣiḥ . cakāra caritam kṛtsnam vicitra-padam arthavat ..1..
चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः । तथा सर्गशतान् पञ्च षट्काण्डानि तथोत्तरम् ॥१-४-२॥
चतुर्विंशत्-सहस्राणि श्लोकानाम् उक्तवान् ऋषिः । तथा सर्ग-शतान् पञ्च षष्-काण्डानि तथा उत्तरम् ॥१॥
caturviṃśat-sahasrāṇi ślokānām uktavān ṛṣiḥ . tathā sarga-śatān pañca ṣaṣ-kāṇḍāni tathā uttaram ..1..
कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम् । चिन्तयामास को न्वेतत् प्रयुञ्जीयादिति प्रभुः ॥१-४-३॥
कृत्वा तु तत् महा-प्राज्ञः सभविष्यम् सह उत्तरम् । चिन्तयामास कः नु एतत् प्रयुञ्जीयात् इति प्रभुः ॥१॥
kṛtvā tu tat mahā-prājñaḥ sabhaviṣyam saha uttaram . cintayāmāsa kaḥ nu etat prayuñjīyāt iti prabhuḥ ..1..
तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः । अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥१-४-४॥
तस्य चिन्तयमानस्य महा-ऋषेः भावितात्मनः । अगृह्णीताम् ततस् पादौ मुनि-वेषौ कुशीलवौ ॥१॥
tasya cintayamānasya mahā-ṛṣeḥ bhāvitātmanaḥ . agṛhṇītām tatas pādau muni-veṣau kuśīlavau ..1..
कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ । भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ ॥१-४-५॥
कुशीलवौ तु धर्म-ज्ञौ राज-पुत्रौ यशस्विनौ । भ्रातरौ स्वर-संपन्नौ ददर्श आश्रम-वासिनौ ॥१॥
kuśīlavau tu dharma-jñau rāja-putrau yaśasvinau . bhrātarau svara-saṃpannau dadarśa āśrama-vāsinau ..1..
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ । वेदोपबृंह्मणार्थाय तावग्राहयत प्रभुः ॥१-४-६॥
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ । वेद-उपबृंह्मणा अर्थाय तौ अग्राहयत प्रभुः ॥१॥
sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau . veda-upabṛṃhmaṇā arthāya tau agrāhayata prabhuḥ ..1..
काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् । पौलस्त्यवधमित्येवं चकार चरितव्रतः ॥१-४-७॥
काव्यम् रामायणम् कृत्स्नम् सीतायाः चरितम् महत् । पौलस्त्य-वधम् इति एवम् चकार चरित-व्रतः ॥१॥
kāvyam rāmāyaṇam kṛtsnam sītāyāḥ caritam mahat . paulastya-vadham iti evam cakāra carita-vrataḥ ..1..
पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् । जातिभिः सप्तभिर्युक्तं तन्त्रीलयसमन्वितम् ॥१-४-८॥
पाठ्ये गेये च मधुरम् प्रमाणैः त्रिभिः अन्वितम् । जातिभिः सप्तभिः युक्तम् तन्त्री-लय-समन्वितम् ॥१॥
pāṭhye geye ca madhuram pramāṇaiḥ tribhiḥ anvitam . jātibhiḥ saptabhiḥ yuktam tantrī-laya-samanvitam ..1..
रसैः शृङ्गारकरुणहास्यरौद्रभयानकैः । वीरादिभी रसैर्युक्तं काव्यमेतदगायताम् ॥१-४-९॥
रसैः शृङ्गार-करुण-हास्य-रौद्र-भयानकैः । वीर-आदिभिः रसैः युक्तम् काव्यम् एतत् अगायताम् ॥१॥
rasaiḥ śṛṅgāra-karuṇa-hāsya-raudra-bhayānakaiḥ . vīra-ādibhiḥ rasaiḥ yuktam kāvyam etat agāyatām ..1..
तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ । भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ ॥१-४-१०॥
तौ तु गान्धर्व-तत्त्व-ज्ञौ स्थान-मूर्च्छन-कोविदौ । भ्रातरौ स्वर-सम्पन्नौ गन्धर्वौ इव रूपिणौ ॥१॥
tau tu gāndharva-tattva-jñau sthāna-mūrcchana-kovidau . bhrātarau svara-sampannau gandharvau iva rūpiṇau ..1..
रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ । बिम्बादिवोत्थितौ बिम्बौ रामदेहात् तथापरौ ॥१-४-११॥
रूप-लक्षण-सम्पन्नौ मधुर-स्वर-भाषिणौ । बिम्बात् इव उत्थितौ बिम्बौ राम-देहात् तथा अपरौ ॥१॥
rūpa-lakṣaṇa-sampannau madhura-svara-bhāṣiṇau . bimbāt iva utthitau bimbau rāma-dehāt tathā aparau ..1..
तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम् । वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥१-४-१२॥
तौ राज-पुत्रौ कार्त्स्न्येन धर्म्यम् आख्यानम् उत्तमम् । वाचः विधेयम् तत् सर्वम् कृत्वा काव्यम् अनिन्दितौ ॥१॥
tau rāja-putrau kārtsnyena dharmyam ākhyānam uttamam . vācaḥ vidheyam tat sarvam kṛtvā kāvyam aninditau ..1..
ऋषीणां च द्विजातीनां साधूनां च समागमे । यथोपदेशं तत्त्वज्ञौ जगतुः सुसमाहितौ ॥१-४-१३॥
ऋषीणाम् च द्विजातीनाम् साधूनाम् च समागमे । यथोपदेशम् तत्त्व-ज्ञौ जगतुः सु समाहितौ ॥१॥
ṛṣīṇām ca dvijātīnām sādhūnām ca samāgame . yathopadeśam tattva-jñau jagatuḥ su samāhitau ..1..
महात्मानौ महाभागौ सर्वलक्षणलक्षितौ । तौ कदाचित् समेतानामृषीणां भावितात्मनाम् ॥१-४-१४॥
महात्मानौ महाभागौ सर्व-लक्षण-लक्षितौ । तौ कदाचिद् समेतानाम् ऋषीणाम् भावितात्मनाम् ॥१॥
mahātmānau mahābhāgau sarva-lakṣaṇa-lakṣitau . tau kadācid sametānām ṛṣīṇām bhāvitātmanām ..1..
मध्ये सभं समीपस्थाविदं काव्यमगायताम् । तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ॥१-४-१५॥
मध्ये सभम् समीप-स्थौ इदम् काव्यम् अगायताम् । तत् श्रुत्वा मुनयः सर्वे बाष्प-पर्याकुल-ईक्षणाः ॥१॥
madhye sabham samīpa-sthau idam kāvyam agāyatām . tat śrutvā munayaḥ sarve bāṣpa-paryākula-īkṣaṇāḥ ..1..
साधु साध्विति तावूचुः परं विस्मयमागताः । ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ॥१-४-१६॥
साधु साधु इति तौ ऊचुः परम् विस्मयम् आगताः । ते प्रीत-मनसः सर्वे मुनयः धर्म-वत्सलाः ॥१॥
sādhu sādhu iti tau ūcuḥ param vismayam āgatāḥ . te prīta-manasaḥ sarve munayaḥ dharma-vatsalāḥ ..1..
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ । अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ॥१-४-१७॥
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ । अहो गीतस्य माधुर्यम् श्लोकानाम् च विशेषतः ॥१॥
praśaśaṃsuḥ praśastavyau gāyamānau kuśīlavau . aho gītasya mādhuryam ślokānām ca viśeṣataḥ ..1..
चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् । प्रविश्य तावुभौ सुष्ठु तथाभावमगायताम् ॥१-४-१८॥
चिर-निर्वृत्तम् अपि एतत् प्रत्यक्षम् इव दर्शितम् । प्रविश्य तौ उभौ सुष्ठु तथाभावम् अगायताम् ॥१॥
cira-nirvṛttam api etat pratyakṣam iva darśitam . praviśya tau ubhau suṣṭhu tathābhāvam agāyatām ..1..
सहितौ मधुरं रक्तं सम्पन्नं स्वरसंपदा । एवं प्रशस्यमानौ तौ तपः श्लाघ्यैर्महर्षिभिः ॥१-४-१९॥
सहितौ मधुरम् रक्तम् सम्पन्नम् स्वर-संपदा । एवम् प्रशस्यमानौ तौ तपः श्लाघ्यैः महा-ऋषिभिः ॥१॥
sahitau madhuram raktam sampannam svara-saṃpadā . evam praśasyamānau tau tapaḥ ślāghyaiḥ mahā-ṛṣibhiḥ ..1..
संरक्ततरमत्यर्थं मधुरं तावगायताम् । प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ ॥१-४-२०॥
संरक्ततरम् अत्यर्थम् मधुरम् तौ अगायताम् । प्रीतः कश्चिद् मुनिः ताभ्याम् संस्थितः कलशम् ददौ ॥१॥
saṃraktataram atyartham madhuram tau agāyatām . prītaḥ kaścid muniḥ tābhyām saṃsthitaḥ kalaśam dadau ..1..
प्रसन्नो वल्कलं कश्चिद् ददौ ताभ्यां महायशाः । अन्यः कृष्णाजिनमदाद् यज्ञसूत्रं तथापरः ॥१-४-२१॥
प्रसन्नः वल्कलम् कश्चिद् ददौ ताभ्याम् महा-यशाः । अन्यः कृष्णाजिनम् अदात् यज्ञ-सूत्रम् तथा अपरः ॥१॥
prasannaḥ valkalam kaścid dadau tābhyām mahā-yaśāḥ . anyaḥ kṛṣṇājinam adāt yajña-sūtram tathā aparaḥ ..1..
कश्चित् कमण्डलुं प्रादान्मौञ्जीमन्यो महामुनिः । बृसीमन्यस्तदा प्रादात् कौपीनमपरो मुनिः ॥१-४-२२॥
कश्चिद् कमण्डलुम् प्रादात् मौञ्जीम् अन्यः महा-मुनिः । बृसीम् अन्यः तदा प्रादात् कौपीनम् अपरः मुनिः ॥१॥
kaścid kamaṇḍalum prādāt mauñjīm anyaḥ mahā-muniḥ . bṛsīm anyaḥ tadā prādāt kaupīnam aparaḥ muniḥ ..1..
ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः । काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः ॥१-४-२३॥
ताभ्याम् ददौ तदा हृष्टः कुठारम् अपरः मुनिः । काषायम् अपरः वस्त्रम् चीरम् अन्यः ददौ मुनिः ॥१॥
tābhyām dadau tadā hṛṣṭaḥ kuṭhāram aparaḥ muniḥ . kāṣāyam aparaḥ vastram cīram anyaḥ dadau muniḥ ..1..
जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः । यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथा परः ॥१-४-२४॥
जटा-बन्धनम् अन्यः तु काष्ठ-रज्जुम् मुदा अन्वितः । यज्ञ-भाण्डम् ऋषिः कश्चिद् काष्ठ-भारम् तथा परः ॥१॥
jaṭā-bandhanam anyaḥ tu kāṣṭha-rajjum mudā anvitaḥ . yajña-bhāṇḍam ṛṣiḥ kaścid kāṣṭha-bhāram tathā paraḥ ..1..
औदुम्बरीं ब्रुसीमन्यः स्वस्ति केचित् तदावदन् । आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः ॥१-४-२५॥
औदुम्बरीम् ब्रुसीमन्यः स्वस्ति केचिद् तदा अवदन् । आयुष्यम् अपरे प्राहुः मुदा तत्र महा-ऋषयः ॥१॥
audumbarīm brusīmanyaḥ svasti kecid tadā avadan . āyuṣyam apare prāhuḥ mudā tatra mahā-ṛṣayaḥ ..1..
ददुश्चैवं वरान् सर्वे मुनयः सत्यवादिनः । आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम् ॥१-४-२६॥
ददुः च एवम् वरान् सर्वे मुनयः सत्य-वादिनः । आश्चर्यम् इदम् आख्यानम् मुनिना सम्प्रकीर्तितम् ॥१॥
daduḥ ca evam varān sarve munayaḥ satya-vādinaḥ . āścaryam idam ākhyānam muninā samprakīrtitam ..1..
परं कवीनामाधारं समाप्तं च यथाक्रमम् । अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ ॥१-४-२७॥
परम् कवीनाम् आधारम् समाप्तम् च यथाक्रमम् । अभिगीतम् इदम् गीतम् सर्व-गीतेषु कोविदौ ॥१॥
param kavīnām ādhāram samāptam ca yathākramam . abhigītam idam gītam sarva-gīteṣu kovidau ..1..
आयुष्यं पुष्टिजननं सर्वश्रुतिमनोहरम् । प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायकौ ॥१-४-२८॥
आयुष्यम् पुष्टि-जननम् सर्व-श्रुति-मनोहरम् । प्रशस्यमानौ सर्वत्र कदाचिद् तत्र गायकौ ॥१॥
āyuṣyam puṣṭi-jananam sarva-śruti-manoharam . praśasyamānau sarvatra kadācid tatra gāyakau ..1..
रथ्यासु राजमार्गेषु ददर्श भरताग्रजः । स्ववेश्म चानीय ततो भ्रातरौ स कुशीलवौ ॥१-४-२९॥
रथ्यासु राजमार्गेषु ददर्श भरताग्रजः । स्व-वेश्म च आनीय ततस् भ्रातरौ स कुशीलवौ ॥१॥
rathyāsu rājamārgeṣu dadarśa bharatāgrajaḥ . sva-veśma ca ānīya tatas bhrātarau sa kuśīlavau ..1..
पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः । आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः ॥१-४-३०॥
पूजयामास पूजा-अर्हौ रामः शत्रु-निबर्हणः । आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः ॥१॥
pūjayāmāsa pūjā-arhau rāmaḥ śatru-nibarhaṇaḥ . āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ ..1..
उपोपविष्टैः सचिवैर्भ्रातृभिश्च समन्वितः । दृष्ट्वा तु रूपसम्पन्नौ विनीतौ भ्रातरावुभौ ॥१-४-३१॥
उपोपविष्टैः सचिवैः भ्रातृभिः च समन्वितः । दृष्ट्वा तु रूप-सम्पन्नौ विनीतौ भ्रातरौ उभौ ॥१॥
upopaviṣṭaiḥ sacivaiḥ bhrātṛbhiḥ ca samanvitaḥ . dṛṣṭvā tu rūpa-sampannau vinītau bhrātarau ubhau ..1..
उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा । श्रूयतामेतदाख्यानमनयोर्देववर्चसोः ॥१-४-३२॥
उवाच लक्ष्मणम् रामः शत्रुघ्नम् भरतम् तथा । श्रूयताम् एतत् आख्यानम् अनयोः देव-वर्चसोः ॥१॥
uvāca lakṣmaṇam rāmaḥ śatrughnam bharatam tathā . śrūyatām etat ākhyānam anayoḥ deva-varcasoḥ ..1..
विचित्रार्थपदं सम्यग्गायकौ समचोदयत् । तौ चापि मधुरं रक्तं स्वचित्तायतनिःस्वनम् ॥१-४-३३॥
विचित्र-अर्थ-पदम् सम्यक् गायकौ समचोदयत् । तौ च अपि मधुरम् रक्तम् स्व-चित्त-आयत-निःस्वनम् ॥१॥
vicitra-artha-padam samyak gāyakau samacodayat . tau ca api madhuram raktam sva-citta-āyata-niḥsvanam ..1..
तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् । ह्लादयत् सर्वगात्राणि मनांसि हृदयानि च । श्रोत्राश्रयसुखं गेयं तद् बभौ जनसंसदि ॥१-४-३४॥
तन्त्री-लय-वत् अत्यर्थम् विश्रुत-अर्थम् अगायताम् । ह्लादयत् सर्व-गात्राणि मनांसि हृदयानि च । श्रोत्र-आश्रय-सुखम् गेयम् तत् बभौ जन-संसदि ॥१॥
tantrī-laya-vat atyartham viśruta-artham agāyatām . hlādayat sarva-gātrāṇi manāṃsi hṛdayāni ca . śrotra-āśraya-sukham geyam tat babhau jana-saṃsadi ..1..
इमौ मुनी पार्थिवलक्षणान्वितौ । कुशीलवौ चैव महातपस्विनौ । ममापि तद् भूतिकरं प्रचक्षते । महानुभावं चरितं निबोधत ॥१-४-३५॥
इमौ मुनी पार्थिव-लक्षण-अन्वितौ । कुशीलवौ च एव महा-तपस्विनौ । मम अपि तत् भूति-करम् प्रचक्षते । महा-अनुभावम् चरितम् निबोधत ॥१॥
imau munī pārthiva-lakṣaṇa-anvitau . kuśīlavau ca eva mahā-tapasvinau . mama api tat bhūti-karam pracakṣate . mahā-anubhāvam caritam nibodhata ..1..
ततस्तु तौ रामवचः प्रचोदिता-वगायतां मार्गविधानसम्पदा । स चापि रामः परिषद्गतः शनै-र्बुभूषयासक्तमना बभूव ह ॥१-४-३६॥
ततस् तु तौ राम-वचः प्रचोदिता अवगायताम् मार्ग-विधान-सम्पदा । स च अपि रामः परिषद्-गतः शनैस् बुभूषया आसक्त-मनाः बभूव ह ॥१॥
tatas tu tau rāma-vacaḥ pracoditā avagāyatām mārga-vidhāna-sampadā . sa ca api rāmaḥ pariṣad-gataḥ śanais bubhūṣayā āsakta-manāḥ babhūva ha ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्थः सर्गः ॥१-४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्थः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe caturthaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In