This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिचत्वारिंशः सर्गः ॥१-४३॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे त्रिचत्वारिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe tricatvāriṃśaḥ sargaḥ ..1..
देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम् । कृत्वा वसुमतीं राम वत्सरं समुपासत ॥१-४३-१॥
देवदेवे गते तस्मिन् सः अङ्गुष्ठ-अग्र-निपीडिताम् । कृत्वा वसुमतीम् राम वत्सरम् समुपासत ॥१॥
devadeve gate tasmin saḥ aṅguṣṭha-agra-nipīḍitām . kṛtvā vasumatīm rāma vatsaram samupāsata ..1..
अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः । उमापतिः पशुपती राजानमिदमब्रवीत् ॥१-४३-२॥
अथ संवत्सरे पूर्णे सर्व-लोक-नमस्कृतः । उमापतिः पशुपतिः राजानम् इदम् अब्रवीत् ॥१॥
atha saṃvatsare pūrṇe sarva-loka-namaskṛtaḥ . umāpatiḥ paśupatiḥ rājānam idam abravīt ..1..
प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् । शिरसा धारयिष्यामि शैलराजसुतामहम् ॥१-४३-३॥
प्रीतः ते अहम् नर-श्रेष्ठ करिष्यामि तव प्रियम् । शिरसा धारयिष्यामि शैलराज-सुताम् अहम् ॥१॥
prītaḥ te aham nara-śreṣṭha kariṣyāmi tava priyam . śirasā dhārayiṣyāmi śailarāja-sutām aham ..1..
ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता । तदा सातिमहद्रूपं कृत्वा वेगं च दुःसहम्॥१-४३-४॥
ततस् हैमवती ज्येष्ठा सर्व-लोक-नमस्कृता । तदा सा अति महत् रूपम् कृत्वा वेगम् च दुःसहम्॥१॥
tatas haimavatī jyeṣṭhā sarva-loka-namaskṛtā . tadā sā ati mahat rūpam kṛtvā vegam ca duḥsaham..1..
आकाशादपतद् राम शिवे शिवशिरस्युत । अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा ॥१-४३-५॥
आकाशात् अपतत् राम शिवे शिव-शिरसि उत । अचिन्तयत् च सा देवी गङ्गा परम-दुर्धरा ॥१॥
ākāśāt apatat rāma śive śiva-śirasi uta . acintayat ca sā devī gaṅgā parama-durdharā ..1..
विशाम्यहं हि पातालं स्त्रोतसा गृह्य शङ्करम् । तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः ॥१-४३-६॥
विशामि अहम् हि पातालम् स्त्रोतसा गृह्य शङ्करम् । तस्य अवलेपनम् ज्ञात्वा क्रुद्धः तु भगवान् हरः ॥१॥
viśāmi aham hi pātālam strotasā gṛhya śaṅkaram . tasya avalepanam jñātvā kruddhaḥ tu bhagavān haraḥ ..1..
तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा । सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि॥१-४३-७॥
तिरोभावयितुम् बुद्धिम् चक्रे त्रिनयनः तदा । सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि॥१॥
tirobhāvayitum buddhim cakre trinayanaḥ tadā . sā tasmin patitā puṇyā puṇye rudrasya mūrdhani..1..
हिमवत्प्रतिमे राम जटामण्डलगह्वरे । सा कथंचिन्महीं गन्तुं नाशक्नोद् यत्नमास्थिता ॥१-४३-८॥
हिमवत्-प्रतिमे राम जटा-मण्डल-गह्वरे । सा कथंचिद् महीम् गन्तुम् न अशक्नोत् यत्नम् आस्थिता ॥१॥
himavat-pratime rāma jaṭā-maṇḍala-gahvare . sā kathaṃcid mahīm gantum na aśaknot yatnam āsthitā ..1..
नैव सा निर्गमं लेभे जटामण्डलमन्ततः । तत्रैवाबभ्रमद् देवी संवत्सरगणान् बहून् ॥१-४३-९॥
ना एव सा निर्गमम् लेभे जटा-मण्डलम् अन्ततस् । तत्र एव आबभ्रमत् देवी संवत्सर-गणान् बहून् ॥१॥
nā eva sā nirgamam lebhe jaṭā-maṇḍalam antatas . tatra eva ābabhramat devī saṃvatsara-gaṇān bahūn ..1..
तामपश्यत् पुनस्तत्र तपः परममास्थितः । स तेन तोषितश्चासीदत्यन्तं रघुनन्दन ॥१-४३-१०॥
ताम् अपश्यत् पुनर् तत्र तपः परमम् आस्थितः । स तेन तोषितः च आसीत् अत्यन्तम् रघुनन्दन ॥१॥
tām apaśyat punar tatra tapaḥ paramam āsthitaḥ . sa tena toṣitaḥ ca āsīt atyantam raghunandana ..1..
विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति । तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ॥१-४३-११॥
विससर्ज ततस् गङ्गाम् हरः बिन्दुसरः प्रति । तस्याम् विसृज्यमानायाम् सप्त स्रोतांसि जज्ञिरे ॥१॥
visasarja tatas gaṅgām haraḥ bindusaraḥ prati . tasyām visṛjyamānāyām sapta srotāṃsi jajñire ..1..
ह्लादिनी पावनी चैव नलिनी च तथैव च । तिस्रः प्राचीं दिशं जग्मुर्गङ्गाः शिवजलाः शुभाः ॥१-४३-१२॥
ह्लादिनी पावनी च एव नलिनी च तथा एव च । तिस्रः प्राचीम् दिशम् जग्मुः गङ्गाः शिव-जलाः शुभाः ॥१॥
hlādinī pāvanī ca eva nalinī ca tathā eva ca . tisraḥ prācīm diśam jagmuḥ gaṅgāḥ śiva-jalāḥ śubhāḥ ..1..
सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी । तिस्रश्चैता दिशं जग्मुः प्रतीचीं तु दिशं शुभाः ॥१-४३-१३॥
सुचक्षुः च एव सीता च सिन्धुः च एव महा-नदी । तिस्रः च एताः दिशम् जग्मुः प्रतीचीम् तु दिशम् शुभाः ॥१॥
sucakṣuḥ ca eva sītā ca sindhuḥ ca eva mahā-nadī . tisraḥ ca etāḥ diśam jagmuḥ pratīcīm tu diśam śubhāḥ ..1..
सप्तमी चान्वगात् तासां भगीरथरथं तदा । भगीरथोऽपि राजर्षिर्दिव्यं स्यंदनमास्थितः ॥१-४३-१४॥
सप्तमी च अन्वगात् तासाम् भगीरथ-रथम् तदा । भगीरथः अपि राजर्षिः दिव्यम् स्यंदनम् आस्थितः ॥१॥
saptamī ca anvagāt tāsām bhagīratha-ratham tadā . bhagīrathaḥ api rājarṣiḥ divyam syaṃdanam āsthitaḥ ..1..
प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् । गगनाच्छङ्करशिरस्ततो धरणिमागता ॥१-४३-१५॥
प्रायात् अग्रे महा-तेजाः गङ्गा तम् च अपि अनुव्रजत् । गगनात् शङ्कर-शिरः ततस् धरणिमा आगता ॥१॥
prāyāt agre mahā-tejāḥ gaṅgā tam ca api anuvrajat . gaganāt śaṅkara-śiraḥ tatas dharaṇimā āgatā ..1..
असर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् । मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तथा ॥१-४३-१६॥
असर्पत जलम् तत्र तीव्र-शब्द-पुरस्कृतम् । मत्स्य-कच्छप-सङ्घैः च शिंशुमार-गणैः तथा ॥१॥
asarpata jalam tatra tīvra-śabda-puraskṛtam . matsya-kacchapa-saṅghaiḥ ca śiṃśumāra-gaṇaiḥ tathā ..1..
पतद्भिः पतितैश्चैव व्यरोचत वसुंधरा । ततो देवर्षिगन्धर्वा यक्षसिद्धगणास्तथा ॥१-४३-१७॥
पतद्भिः पतितैः च एव व्यरोचत वसुंधरा । ततस् देव-ऋषि-गन्धर्वाः यक्ष-सिद्ध-गणाः तथा ॥१॥
patadbhiḥ patitaiḥ ca eva vyarocata vasuṃdharā . tatas deva-ṛṣi-gandharvāḥ yakṣa-siddha-gaṇāḥ tathā ..1..
व्यलोकयन्त ते तत्र गगनाद् गां गतां तदा । विमानैर्नगराकारैर्हयैर्गजवरैस्तदा ॥१-४३-१८॥
व्यलोकयन्त ते तत्र गगनात् गाम् गताम् तदा । विमानैः नगर-आकारैः हयैः गज-वरैः तदा ॥१॥
vyalokayanta te tatra gaganāt gām gatām tadā . vimānaiḥ nagara-ākāraiḥ hayaiḥ gaja-varaiḥ tadā ..1..
पारिप्लवगताश्चापि देवतास्तत्र विष्ठिताः । तदद्भुतमिमं लोके गङ्गावतरमुत्तमम् ॥१-४३-१९॥
पारिप्लव-गताः च अपि देवताः तत्र विष्ठिताः । तत् अद्भुतम् इमम् लोके गङ्गा-अवतरम् उत्तमम् ॥१॥
pāriplava-gatāḥ ca api devatāḥ tatra viṣṭhitāḥ . tat adbhutam imam loke gaṅgā-avataram uttamam ..1..
दिदृक्षवो देवगणाः समीयुरमितौजसः । सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा ॥१-४३-२०॥
दिदृक्षवः देव-गणाः समीयुः अमित-ओजसः । सम्पतद्भिः सुर-गणैः तेषाम् च आभरण-ओजसा ॥१॥
didṛkṣavaḥ deva-gaṇāḥ samīyuḥ amita-ojasaḥ . sampatadbhiḥ sura-gaṇaiḥ teṣām ca ābharaṇa-ojasā ..1..
शतादित्यमिवाभाति गगनं गततोयदम् । शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः ॥१-४३-२१॥
शत-आदित्यम् इव आभाति गगनम् गत-तोयदम् । शिंशुमार-उरग-गणैः मीनैः अपि च चञ्चलैः ॥१॥
śata-ādityam iva ābhāti gaganam gata-toyadam . śiṃśumāra-uraga-gaṇaiḥ mīnaiḥ api ca cañcalaiḥ ..1..
विद्युद्भिरिव विक्षिप्तैराकाशमभवत् तदा । पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ॥१-४३-२२॥
विद्युद्भिः इव विक्षिप्तैः आकाशम् अभवत् तदा । पाण्डुरैः सलिल-उत्पीडैः कीर्यमाणैः सहस्रधा ॥१॥
vidyudbhiḥ iva vikṣiptaiḥ ākāśam abhavat tadā . pāṇḍuraiḥ salila-utpīḍaiḥ kīryamāṇaiḥ sahasradhā ..1..
शारदाभ्रैरिवाकीर्णं गगनं हंससम्प्लवैः । क्वचिद् द्रुततरं याति कुटिलं क्वचिदायतम् ॥१-४३-२३॥
शारद-अभ्रैः इव आकीर्णम् गगनम् हंस-सम्प्लवैः । क्वचिद् द्रुततरम् याति कुटिलम् क्वचिद् आयतम् ॥१॥
śārada-abhraiḥ iva ākīrṇam gaganam haṃsa-samplavaiḥ . kvacid drutataram yāti kuṭilam kvacid āyatam ..1..
विनतं क्वचिदुद्भूतं क्वचिद् याति शनैः शनैः । सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ॥१-४३-२४॥
विनतम् क्वचिद् उद्भूतम् क्वचिद् याति शनैस् शनैस् । सलिलेन एव सलिलम् क्वचिद् अभ्याहतम् पुनर् ॥१॥
vinatam kvacid udbhūtam kvacid yāti śanais śanais . salilena eva salilam kvacid abhyāhatam punar ..1..
मुहुरूर्ध्वपथं गत्वा पपात वसुधां पुनः । तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ॥१-४३-२५॥
मुहुर् ऊर्ध्व-पथम् गत्वा पपात वसुधाम् पुनर् । तत् शङ्कर-शिरः-भ्रष्टम् भ्रष्टम् भूमि-तले पुनर् ॥१॥
muhur ūrdhva-patham gatvā papāta vasudhām punar . tat śaṅkara-śiraḥ-bhraṣṭam bhraṣṭam bhūmi-tale punar ..1..
व्यरोचत तदा तोयं निर्मलं गतकल्मषम् । तत्रर्षिगणगन्धर्वा वसुधातलवासिनः ॥१-४३-२६॥
व्यरोचत तदा तोयम् निर्मलम् गत-कल्मषम् । तत्र ऋषि-गण-गन्धर्वाः वसुधा-तल-वासिनः ॥१॥
vyarocata tadā toyam nirmalam gata-kalmaṣam . tatra ṛṣi-gaṇa-gandharvāḥ vasudhā-tala-vāsinaḥ ..1..
भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः । शापात् प्रपतिता ये च गगनाद् वसुधातलम् ॥१-४३-२७॥
भव-अङ्ग-पतितम् तोयम् पवित्रम् इति पस्पृशुः । शापात् प्रपतिताः ये च गगनात् वसुधा-तलम् ॥१॥
bhava-aṅga-patitam toyam pavitram iti paspṛśuḥ . śāpāt prapatitāḥ ye ca gaganāt vasudhā-talam ..1..
कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः । धूपपापाः पुनस्तेन तोयेनाथ शुभान्विताः ॥१-४३-२८॥
कृत्वा तत्र अभिषेकम् ते बभूवुः गत-कल्मषाः । धूप-पापाः पुनर् तेन तोयेन अथ शुभ-अन्विताः ॥१॥
kṛtvā tatra abhiṣekam te babhūvuḥ gata-kalmaṣāḥ . dhūpa-pāpāḥ punar tena toyena atha śubha-anvitāḥ ..1..
पुनराकाशमाविश्य स्वाँल्लोकान् प्रतिपेदिरे । मुमुदे मुदितो लोकस्तेन तोयेन भास्वता ॥१-४३-२९॥
पुनर् आकाशम् आविश्य स्वान् लोकान् प्रतिपेदिरे । मुमुदे मुदितः लोकः तेन तोयेन भास्वता ॥१॥
punar ākāśam āviśya svān lokān pratipedire . mumude muditaḥ lokaḥ tena toyena bhāsvatā ..1..
कृताभिषेको गङ्गायां बभूव गतकल्मषः । भगीरथो हि राजर्षिर्दिव्यं स्यन्दनमास्थितः ॥१-४३-३०॥
कृत-अभिषेकः गङ्गायाम् बभूव गत-कल्मषः । भगीरथः हि राजर्षिः दिव्यम् स्यन्दनम् आस्थितः ॥१॥
kṛta-abhiṣekaḥ gaṅgāyām babhūva gata-kalmaṣaḥ . bhagīrathaḥ hi rājarṣiḥ divyam syandanam āsthitaḥ ..1..
प्रायादग्रे महाराजास्तं गङ्गा पृष्ठतोऽन्वगात् । देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः ॥१-४३-३१॥
प्रायात् अग्रे महा-राज-अस्तम् गङ्गा पृष्ठतस् अन्वगात् । देवाः स ऋषि-गणाः सर्वे दैत्य-दानव-राक्षसाः ॥१॥
prāyāt agre mahā-rāja-astam gaṅgā pṛṣṭhatas anvagāt . devāḥ sa ṛṣi-gaṇāḥ sarve daitya-dānava-rākṣasāḥ ..1..
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः । सर्वाश्चाप्सरसो राम भगीरथरथानुगाः ॥१-४३-३२॥
गन्धर्व-यक्ष-प्रवराः स किन्नर-महोरगाः । सर्वाः च अप्सरसः राम भगीरथ-रथ-अनुगाः ॥१॥
gandharva-yakṣa-pravarāḥ sa kinnara-mahoragāḥ . sarvāḥ ca apsarasaḥ rāma bhagīratha-ratha-anugāḥ ..1..
गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये । यतो भगीरथो राजा ततो गङ्गा यशस्विनी ॥१-४३-३३॥
गङ्गाम् अन्वगमन् प्रीताः सर्वे जलचराः च ये । यतस् भगीरथः राजा ततस् गङ्गा यशस्विनी ॥१॥
gaṅgām anvagaman prītāḥ sarve jalacarāḥ ca ye . yatas bhagīrathaḥ rājā tatas gaṅgā yaśasvinī ..1..
जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी । ततो हि यजमानस्य जह्नोरद्भुतकर्मणः ॥१-४३-३४॥
जगाम सरिताम् श्रेष्ठा सर्व-पाप-प्रणाशिनी । ततस् हि यजमानस्य जह्नोः अद्भुत-कर्मणः ॥१॥
jagāma saritām śreṣṭhā sarva-pāpa-praṇāśinī . tatas hi yajamānasya jahnoḥ adbhuta-karmaṇaḥ ..1..
गङ्गा सम्प्लावयामास यज्ञवाटं महत्मनः । तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव ॥१-४३-३५॥
गङ्गा सम्प्लावयामास यज्ञवाटम् महत्मनः । तस्य अवलेपनम् ज्ञात्वा क्रुद्धः जह्नुः च राघव ॥१॥
gaṅgā samplāvayāmāsa yajñavāṭam mahatmanaḥ . tasya avalepanam jñātvā kruddhaḥ jahnuḥ ca rāghava ..1..
अपिबत् तु जलं सर्वं गङ्गयाः परमाद्भुतम् । ततो देवाः सगन्घर्वा ऋषयश्च सुविस्मिताः ॥१-४३-३६॥
अपिबत् तु जलम् सर्वम् गङ्गयाः परम-अद्भुतम् । ततस् देवाः ऋषयः च सुविस्मिताः ॥१॥
apibat tu jalam sarvam gaṅgayāḥ parama-adbhutam . tatas devāḥ ṛṣayaḥ ca suvismitāḥ ..1..
पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् । गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः ॥१-४३-३७॥
पूजयन्ति महात्मानम् जह्नुम् पुरुष-सत्तमम् । गङ्गाम् च अपि नयन्ति स्म दुहितृ-त्वे महात्मनः ॥१॥
pūjayanti mahātmānam jahnum puruṣa-sattamam . gaṅgām ca api nayanti sma duhitṛ-tve mahātmanaḥ ..1..
ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् प्रभुः । तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च ॥१-४३-३८॥
ततस् तुष्टः महा-तेजाः श्रोत्राभ्याम् असृजत् प्रभुः । तस्मात् जह्नुसुता गङ्गा प्रोच्यते जाह्नवी इति च ॥१॥
tatas tuṣṭaḥ mahā-tejāḥ śrotrābhyām asṛjat prabhuḥ . tasmāt jahnusutā gaṅgā procyate jāhnavī iti ca ..1..
जगाम च पुनर्गङ्गा भगीरथरथानुगा । सागरं चापि सम्प्रप्ता सा सरित्प्रवरा तदा ॥१-४३-३९॥
जगाम च पुनर् गङ्गा भगीरथ-रथ-अनुगा । सागरम् च अपि सम्प्रप्ता सा सरित् प्रवरा तदा ॥१॥
jagāma ca punar gaṅgā bhagīratha-ratha-anugā . sāgaram ca api sampraptā sā sarit pravarā tadā ..1..
रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः । भगीरथोऽपि राजार्षिर्गङ्गामादाय यत्नतः ॥१-४३-४०॥
रसातलम् उपागच्छत् सिद्धि-अर्थम् तस्य कर्मणः । भगीरथः अपि राज-ऋषिः गङ्गाम् आदाय यत्नतः ॥१॥
rasātalam upāgacchat siddhi-artham tasya karmaṇaḥ . bhagīrathaḥ api rāja-ṛṣiḥ gaṅgām ādāya yatnataḥ ..1..
पितमहान् भस्मकृतानपश्यद् गतचेतनः । अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् । प्लावयत् पूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम ॥१-४३-४१॥
भस्म-कृतान् अपश्यत् गत-चेतनः । अथ तद्-भस्मनाम् राशिम् गङ्गा-सलिलम् उत्तमम् । प्लावयत् पूत-पाप्मानः स्वर्गम् प्राप्ताः रघूत्तम ॥१॥
bhasma-kṛtān apaśyat gata-cetanaḥ . atha tad-bhasmanām rāśim gaṅgā-salilam uttamam . plāvayat pūta-pāpmānaḥ svargam prāptāḥ raghūttama ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिचत्वारिंशः सर्गः ॥१-४३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिचत्वारिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe tricatvāriṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In