This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चपञ्चाशः सर्गः ॥१-५५॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे पञ्चपञ्चाशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe pañcapañcāśaḥ sargaḥ ..1..
ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान्। वसिष्ठश्चोदयामास कामधुक् सृज योगतः॥ १॥
ततस् तान् आकुलान् दृष्ट्वा विश्वामित्र-अस्त्र-मोहितान्। वसिष्ठः चोदयामास कामधुक् सृज योगतः॥ १॥
tatas tān ākulān dṛṣṭvā viśvāmitra-astra-mohitān. vasiṣṭhaḥ codayāmāsa kāmadhuk sṛja yogataḥ.. 1..
तस्या हुंकारतो जाताः काम्बोजा रविसंनिभाः। ऊधसश्चाथ सम्भूता बर्बराः शस्त्रपाणयः॥ २॥
तस्याः हुंकारतः जाताः काम्बोजाः रवि-संनिभाः। ऊधसः च अथ सम्भूताः बर्बराः शस्त्र-पाणयः॥ २॥
tasyāḥ huṃkārataḥ jātāḥ kāmbojāḥ ravi-saṃnibhāḥ. ūdhasaḥ ca atha sambhūtāḥ barbarāḥ śastra-pāṇayaḥ.. 2..
योनिदेशाच्च यवनाः शकृद्देशाच्छकाः स्मृताः। रोमकूपेषु म्लेच्छाश्च हारीताः सकिरातकाः॥ ३॥
योनि-देशात् च यवनाः शकृत्-देशात् शकाः स्मृताः। रोमकूपेषु म्लेच्छाः च हारीताः स किरातकाः॥ ३॥
yoni-deśāt ca yavanāḥ śakṛt-deśāt śakāḥ smṛtāḥ. romakūpeṣu mlecchāḥ ca hārītāḥ sa kirātakāḥ.. 3..
तैस्तन्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात्। सपदातिगजं साश्वं सरथं रघुनन्दन॥ ४॥
तैः तत् निषूदितम् सर्वम् विश्वामित्रस्य तद्-क्षणात्। स पदाति-गजम् स अश्वम् स रथम् रघुनन्दन॥ ४॥
taiḥ tat niṣūditam sarvam viśvāmitrasya tad-kṣaṇāt. sa padāti-gajam sa aśvam sa ratham raghunandana.. 4..
दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना। विश्वामित्रसुतानां तु शतं नानाविधायुधम्॥ ५॥
दृष्ट्वा निषूदितम् सैन्यम् वसिष्ठेन महात्मना। विश्वामित्र-सुतानाम् तु शतम् नानाविध-आयुधम्॥ ५॥
dṛṣṭvā niṣūditam sainyam vasiṣṭhena mahātmanā. viśvāmitra-sutānām tu śatam nānāvidha-āyudham.. 5..
अभ्यधावत् सुसंक्रुद्धं वसिष्ठं जपतां वरम्। हुंकारेणैव तान् सर्वान् निर्ददाह महानृषिः॥ ६॥
अभ्यधावत् सु संक्रुद्धम् वसिष्ठम् जपताम् वरम्। हुंकारेण एव तान् सर्वान् निर्ददाह महान् ऋषिः॥ ६॥
abhyadhāvat su saṃkruddham vasiṣṭham japatām varam. huṃkāreṇa eva tān sarvān nirdadāha mahān ṛṣiḥ.. 6..
ते साश्वरथपादाता वसिष्ठेन महात्मना। भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तथा॥ ७॥
ते स अश्व-रथ-पादाताः वसिष्ठेन महात्मना। भस्मीकृताः मुहूर्तेन विश्वामित्र-सुताः तथा॥ ७॥
te sa aśva-ratha-pādātāḥ vasiṣṭhena mahātmanā. bhasmīkṛtāḥ muhūrtena viśvāmitra-sutāḥ tathā.. 7..
दृष्ट्वा विनाशितान् सर्वान् बलं च सुमहायशाः। सव्रीडं चिन्तयाविष्टो विश्वामित्रोऽभवत् तदा॥ ८॥
दृष्ट्वा विनाशितान् सर्वान् बलम् च सु महा-यशाः। स व्रीडम् चिन्तया आविष्टः विश्वामित्रः अभवत् तदा॥ ८॥
dṛṣṭvā vināśitān sarvān balam ca su mahā-yaśāḥ. sa vrīḍam cintayā āviṣṭaḥ viśvāmitraḥ abhavat tadā.. 8..
समुद्र इव निर्वेगो भग्नद्रंष्ट्र इवोरगः। उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः॥ ९॥
समुद्रः इव निर्वेगः भग्न-द्रंष्ट्रः इव उरगः। उपरक्तः इव आदित्यः सद्यस् निष्प्रभ-ताम् गतः॥ ९॥
samudraḥ iva nirvegaḥ bhagna-draṃṣṭraḥ iva uragaḥ. uparaktaḥ iva ādityaḥ sadyas niṣprabha-tām gataḥ.. 9..
हतपुत्रबलो दीनो लूनपक्ष इव द्विजः। हतसर्वबलोत्साहो निर्वेदं समपद्यत॥ १०॥
हत-पुत्र-बलः दीनः लून-पक्षः इव द्विजः। हत-सर्व-बल-उत्साहः निर्वेदम् समपद्यत॥ १०॥
hata-putra-balaḥ dīnaḥ lūna-pakṣaḥ iva dvijaḥ. hata-sarva-bala-utsāhaḥ nirvedam samapadyata.. 10..
स पुत्रमेकं राज्याय पालयेति नियुज्य च। पृथिवीं क्षत्रधर्मेण वनमेवाभ्यपद्यत॥ ११॥
स पुत्रम् एकम् राज्याय पालय इति नियुज्य च। पृथिवीम् क्षत्र-धर्मेण वनम् एव अभ्यपद्यत॥ ११॥
sa putram ekam rājyāya pālaya iti niyujya ca. pṛthivīm kṣatra-dharmeṇa vanam eva abhyapadyata.. 11..
स गत्वा हिमवत्पार्श्वे किंनरोरगसेवितम्। महादेवप्रसादार्थं तपस्तेपे महातपाः॥ १२॥
स गत्वा हिमवत्-पार्श्वे किंनर-उरग-सेवितम्। महादेव-प्रसाद-अर्थम् तपः तेपे महा-तपाः॥ १२॥
sa gatvā himavat-pārśve kiṃnara-uraga-sevitam. mahādeva-prasāda-artham tapaḥ tepe mahā-tapāḥ.. 12..
केनचित् त्वथ कालेन देवेशो वृषभध्वजः। दर्शयामास वरदो विश्वामित्रं महामुनिम्॥ १३॥
केनचिद् तु अथ कालेन देवेशः वृषभध्वजः। दर्शयामास वर-दः विश्वामित्रम् महा-मुनिम्॥ १३॥
kenacid tu atha kālena deveśaḥ vṛṣabhadhvajaḥ. darśayāmāsa vara-daḥ viśvāmitram mahā-munim.. 13..
किमर्थं तप्यसे राजन् ब्रूहि यत् ते विवक्षितम्। वरदोऽस्मि वरो यस्ते कांक्षितः सोऽभिधीयताम्॥ १४॥
किमर्थम् तप्यसे राजन् ब्रूहि यत् ते विवक्षितम्। वर-दः अस्मि वरः यः ते कांक्षितः सः अभिधीयताम्॥ १४॥
kimartham tapyase rājan brūhi yat te vivakṣitam. vara-daḥ asmi varaḥ yaḥ te kāṃkṣitaḥ saḥ abhidhīyatām.. 14..
एवमुक्तस्तु देवेन विश्वामित्रो महातपाः। प्रणिपत्य महादेवं विश्वामित्रोऽब्रवीदिदम्॥ १५॥
एवम् उक्तः तु देवेन विश्वामित्रः महा-तपाः। प्रणिपत्य महादेवम् विश्वामित्रः अब्रवीत् इदम्॥ १५॥
evam uktaḥ tu devena viśvāmitraḥ mahā-tapāḥ. praṇipatya mahādevam viśvāmitraḥ abravīt idam.. 15..
यदि तुष्टो महादेव धनुर्वेदो ममानघ। सांगोपांगोपनिषदः सरहस्यः प्रदीयताम्॥ १६॥
यदि तुष्टः महादेव धनुर्वेदः मम अनघ। स अंग-उपांग-उपनिषदः स रहस्यः प्रदीयताम्॥ १६॥
yadi tuṣṭaḥ mahādeva dhanurvedaḥ mama anagha. sa aṃga-upāṃga-upaniṣadaḥ sa rahasyaḥ pradīyatām.. 16..
यानि देवेषु चास्त्राणि दानवेषु महर्षिषु। गन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ॥ १७॥
यानि देवेषु च अस्त्राणि दानवेषु महा-ऋषिषु। गन्धर्व-यक्ष-रक्षःसु प्रतिभान्तु मम अनघ॥ १७॥
yāni deveṣu ca astrāṇi dānaveṣu mahā-ṛṣiṣu. gandharva-yakṣa-rakṣaḥsu pratibhāntu mama anagha.. 17..
तव प्रसादाद् भवतु देवदेव ममेप्सितम्। एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा॥ १८॥
तव प्रसादात् भवतु देवदेव मम ईप्सितम्। एवम् अस्तु इति देवेशः वाक्यम् उक्त्वा गतः तदा॥ १८॥
tava prasādāt bhavatu devadeva mama īpsitam. evam astu iti deveśaḥ vākyam uktvā gataḥ tadā.. 18..
प्राप्य चास्त्राणि देवेशाद् विश्वामित्रो महाबलः। दर्पेण महता युक्तो दर्पपूर्णोऽभवत् तदा॥ १९॥
प्राप्य च अस्त्राणि देवेशात् विश्वामित्रः महा-बलः। दर्पेण महता युक्तः दर्प-पूर्णः अभवत् तदा॥ १९॥
prāpya ca astrāṇi deveśāt viśvāmitraḥ mahā-balaḥ. darpeṇa mahatā yuktaḥ darpa-pūrṇaḥ abhavat tadā.. 19..
विवर्धमानो वीर्येण समुद्र इव पर्वणि। हतं मेने तदा राम वसिष्ठमृषिसत्तमम्॥ २०॥
विवर्धमानः वीर्येण समुद्रः इव पर्वणि। हतम् मेने तदा राम वसिष्ठम् ऋषि-सत्तमम्॥ २०॥
vivardhamānaḥ vīryeṇa samudraḥ iva parvaṇi. hatam mene tadā rāma vasiṣṭham ṛṣi-sattamam.. 20..
ततो गत्वाऽऽश्रमपदं मुमोचास्त्राणि पार्थिवः। यैस्तत् तपोवनं नाम निर्दग्धं चास्त्रतेजसा॥ २१॥
ततस् गत्वा आश्रम-पदम् मुमोच अस्त्राणि पार्थिवः। यैः तत् तपोवनम् नाम निर्दग्धम् च अस्त्र-तेजसा॥ २१॥
tatas gatvā āśrama-padam mumoca astrāṇi pārthivaḥ. yaiḥ tat tapovanam nāma nirdagdham ca astra-tejasā.. 21..
उदीर्यमाणमस्त्रं तद् विश्वामित्रस्य धीमतः। दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः॥ २२॥
उदीर्यमाणम् अस्त्रम् तत् विश्वामित्रस्य धीमतः। दृष्ट्वा विप्रद्रुताः भीताः मुनयः शतशस् दिशः॥ २२॥
udīryamāṇam astram tat viśvāmitrasya dhīmataḥ. dṛṣṭvā vipradrutāḥ bhītāḥ munayaḥ śataśas diśaḥ.. 22..
वसिष्ठस्य च ये शिष्या ये च वै मृगपक्षिणः। विद्रवन्ति भयाद् भीता नानादिग्भ्यः सहस्रशः॥ २३॥
वसिष्ठस्य च ये शिष्याः ये च वै मृग-पक्षिणः। विद्रवन्ति भयात् भीताः नाना दिग्भ्यः सहस्रशस्॥ २३॥
vasiṣṭhasya ca ye śiṣyāḥ ye ca vai mṛga-pakṣiṇaḥ. vidravanti bhayāt bhītāḥ nānā digbhyaḥ sahasraśas.. 23..
वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः। मुहूर्तमिव निःशब्दमासीदीरिणसंनिभम्॥ २४॥
वसिष्ठस्य आश्रम-पदम् शून्यम् आसीत् महात्मनः। मुहूर्तम् इव निःशब्दम् आसीत् ईरिण-संनिभम्॥ २४॥
vasiṣṭhasya āśrama-padam śūnyam āsīt mahātmanaḥ. muhūrtam iva niḥśabdam āsīt īriṇa-saṃnibham.. 24..
वदतो वै वसिष्ठस्य मा भैरिति मुहुर्मुहुः। नाशयाम्यद्य गाधेयं नीहारमिव भास्करः॥ २५॥
वदतः वै वसिष्ठस्य मा भैः इति मुहुर् मुहुर्। नाशयामि अद्य गाधेयम् नीहारम् इव भास्करः॥ २५॥
vadataḥ vai vasiṣṭhasya mā bhaiḥ iti muhur muhur. nāśayāmi adya gādheyam nīhāram iva bhāskaraḥ.. 25..
एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः। विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत्॥ २६॥
एवम् उक्त्वा महा-तेजाः वसिष्ठः जपताम् वरः। विश्वामित्रम् तदा वाक्यम् स रोषम् इदम् अब्रवीत्॥ २६॥
evam uktvā mahā-tejāḥ vasiṣṭhaḥ japatām varaḥ. viśvāmitram tadā vākyam sa roṣam idam abravīt.. 26..
आश्रमं चिरसंवृद्धं यद् विनाशितवानसि। दुराचारो हि यन्मूढस्तस्मात् त्वं न भविष्यसि॥ २७॥
आश्रमम् चिर-संवृद्धम् यत् विनाशितवान् असि। दुराचारः हि यत् मूढः तस्मात् त्वम् न भविष्यसि॥ २७॥
āśramam cira-saṃvṛddham yat vināśitavān asi. durācāraḥ hi yat mūḍhaḥ tasmāt tvam na bhaviṣyasi.. 27..
इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः। विधूम इव कालाग्निर्यमदण्डमिवापरम्॥ २८॥
इति उक्त्वा परम-क्रुद्धः दण्डम् उद्यम्य स त्वरः। विधूमः इव कालाग्निः यम-दण्डम् इव अपरम्॥ २८॥
iti uktvā parama-kruddhaḥ daṇḍam udyamya sa tvaraḥ. vidhūmaḥ iva kālāgniḥ yama-daṇḍam iva aparam.. 28..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चपञ्चाशः सर्गः ॥१-५५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चपञ्चाशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcapañcāśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In