This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनषष्ठितमः सर्गः ॥१-५९॥
श्रीमत्-वाल्मीकिय-रामायणे बालकाण्डे एकोनषष्ठितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bālakāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ ..1..
उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः। अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालतां गतम्॥ १॥
उक्त-वाक्यम् तु राजानम् कृपया कुशिक-आत्मजः। अब्रवीत् मधुरम् वाक्यम् साक्षात् चण्डाल-ताम् गतम्॥ १॥
ukta-vākyam tu rājānam kṛpayā kuśika-ātmajaḥ. abravīt madhuram vākyam sākṣāt caṇḍāla-tām gatam.. 1..
इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम्। शरणं ते प्रदास्यामि मा भैषीर्नृपपुंगव॥ २॥
इक्ष्वाको स्वागतम् वत्स जानामि त्वाम् सु धार्मिकम्। शरणम् ते प्रदास्यामि मा भैषीः नृप-पुंगव॥ २॥
ikṣvāko svāgatam vatsa jānāmi tvām su dhārmikam. śaraṇam te pradāsyāmi mā bhaiṣīḥ nṛpa-puṃgava.. 2..
अहमामन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः। यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः॥ ३॥
अहम् आमन्त्रये सर्वान् महा-ऋषीन् पुण्य-कर्मणः। यज्ञ-साह्य-करान् राजन् ततस् यक्ष्यसि निर्वृतः॥ ३॥
aham āmantraye sarvān mahā-ṛṣīn puṇya-karmaṇaḥ. yajña-sāhya-karān rājan tatas yakṣyasi nirvṛtaḥ.. 3..
गुरुशापकृतं रूपं यदिदं त्वयि वर्तते। अनेन सह रूपेण सशरीरो गमिष्यसि॥ ४॥
गुरु-शाप-कृतम् रूपम् यत् इदम् त्वयि वर्तते। अनेन सह रूपेण स शरीरः गमिष्यसि॥ ४॥
guru-śāpa-kṛtam rūpam yat idam tvayi vartate. anena saha rūpeṇa sa śarīraḥ gamiṣyasi.. 4..
हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप। यस्त्वं कौशिकमागम्य शरण्यं शरणागतः॥ ५॥
हस्त-प्राप्तम् अहम् मन्ये स्वर्गम् तव नराधिप। यः त्वम् कौशिकम् आगम्य शरण्यम् शरण-आगतः॥ ५॥
hasta-prāptam aham manye svargam tava narādhipa. yaḥ tvam kauśikam āgamya śaraṇyam śaraṇa-āgataḥ.. 5..
एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान्। व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात्॥ ६॥
एवम् उक्त्वा महा-तेजाः पुत्रान् परम-धार्मिकान्। व्यादिदेश महा-प्राज्ञान् यज्ञ-सम्भार-कारणात्॥ ६॥
evam uktvā mahā-tejāḥ putrān parama-dhārmikān. vyādideśa mahā-prājñān yajña-sambhāra-kāraṇāt.. 6..
सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाच ह। सर्वानृषीन् सवासिष्ठानानयध्वं ममाज्ञया॥ ७॥
सर्वान् शिष्यान् समाहूय वाक्यम् एतत् उवाच ह। सर्वान् ऋषीन् स वासिष्ठान् आनयध्वम् मम आज्ञया॥ ७॥
sarvān śiṣyān samāhūya vākyam etat uvāca ha. sarvān ṛṣīn sa vāsiṣṭhān ānayadhvam mama ājñayā.. 7..
सशिष्यान् सुहृदश्चैव सर्त्विजः सुबहुश्रुतान्। यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः॥ ८॥
स शिष्यान् सुहृदः च एव स ऋत्विजः सु बहु-श्रुतान्। यत् अन्यः वचनम् ब्रूयात् मद्-वाक्य-बल-चोदितः॥ ८॥
sa śiṣyān suhṛdaḥ ca eva sa ṛtvijaḥ su bahu-śrutān. yat anyaḥ vacanam brūyāt mad-vākya-bala-coditaḥ.. 8..
तत् सर्वमखिलेनोक्तं ममाख्येयमनादृतम्। तस्य तद् वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया॥ ९॥
तत् सर्वम् अखिलेन उक्तम् मम आख्येयम् अन् आदृतम्। तस्य तत् वचनम् श्रुत्वा दिशः जग्मुः तद्-आज्ञया॥ ९॥
tat sarvam akhilena uktam mama ākhyeyam an ādṛtam. tasya tat vacanam śrutvā diśaḥ jagmuḥ tad-ājñayā.. 9..
आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः। ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम्॥ १०॥
आजग्मुः अथ देशेभ्यः सर्वेभ्यः ब्रह्म-वादिनः। ते च शिष्याः समागम्य मुनिम् ज्वलित-तेजसम्॥ १०॥
ājagmuḥ atha deśebhyaḥ sarvebhyaḥ brahma-vādinaḥ. te ca śiṣyāḥ samāgamya munim jvalita-tejasam.. 10..
ऊचुश्च वचनं सर्वं सर्वेषां ब्रह्मवादिनाम्। श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः॥ ११॥
ऊचुः च वचनम् सर्वम् सर्वेषाम् ब्रह्म-वादिनाम्। श्रुत्वा ते वचनम् सर्वे समायान्ति द्विजातयः॥ ११॥
ūcuḥ ca vacanam sarvam sarveṣām brahma-vādinām. śrutvā te vacanam sarve samāyānti dvijātayaḥ.. 11..
सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम्। वासिष्ठं यच्छतं सर्वं क्रोधपर्याकुलाक्षरम्॥ १२॥
सर्व-देशेषु च अगच्छन् वर्जयित्वा महोदयम्। वासिष्ठम् यत् शतम् सर्वम् क्रोध-पर्याकुल-अक्षरम्॥ १२॥
sarva-deśeṣu ca agacchan varjayitvā mahodayam. vāsiṣṭham yat śatam sarvam krodha-paryākula-akṣaram.. 12..
यथाह वचनं सर्वं शृणु त्वं मुनिपुंगव। क्षत्रियो याजको यस्य चण्डालस्य विशेषतः॥ १३॥
यथा आह वचनम् सर्वम् शृणु त्वम् मुनि-पुंगव। क्षत्रियः याजकः यस्य चण्डालस्य विशेषतः॥ १३॥
yathā āha vacanam sarvam śṛṇu tvam muni-puṃgava. kṣatriyaḥ yājakaḥ yasya caṇḍālasya viśeṣataḥ.. 13..
कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः। ब्राह्मणा वा महात्मानो भुक्त्वा चाण्डालभोजनम्॥ १४॥
कथम् सदसि भोक्तारः हविः तस्य सुरर्षयः। ब्राह्मणाः वा महात्मानः भुक्त्वा चाण्डाल-भोजनम्॥ १४॥
katham sadasi bhoktāraḥ haviḥ tasya surarṣayaḥ. brāhmaṇāḥ vā mahātmānaḥ bhuktvā cāṇḍāla-bhojanam.. 14..
कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः। एतद् वचननैष्ठुर्यमूचुः संरक्तलोचनाः॥ १५॥
कथम् स्वर्गम् गमिष्यन्ति विश्वामित्रेण पालिताः। एतत् वचन-नैष्ठुर्यम् ऊचुः संरक्त-लोचनाः॥ १५॥
katham svargam gamiṣyanti viśvāmitreṇa pālitāḥ. etat vacana-naiṣṭhuryam ūcuḥ saṃrakta-locanāḥ.. 15..
वासिष्ठा मुनिशार्दूल सर्वे सहमहोदयाः। तेषां तद् वचनं श्रुत्वा सर्वेषां मुनिपुंगवः॥ १६॥
वासिष्ठाः मुनि-शार्दूल सर्वे सह महोदयाः। तेषाम् तत् वचनम् श्रुत्वा सर्वेषाम् मुनि-पुंगवः॥ १६॥
vāsiṣṭhāḥ muni-śārdūla sarve saha mahodayāḥ. teṣām tat vacanam śrutvā sarveṣām muni-puṃgavaḥ.. 16..
क्रोधसंरक्तनयनः सरोषमिदमब्रवीत्। यद् दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम्॥ १७॥
क्रोध-संरक्त-नयनः स रोषम् इदम् अब्रवीत्। यत् दूषयन्ति अदुष्टम् माम् तपः उग्रम् समास्थितम्॥ १७॥
krodha-saṃrakta-nayanaḥ sa roṣam idam abravīt. yat dūṣayanti aduṣṭam mām tapaḥ ugram samāsthitam.. 17..
भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः। अद्य ते कालपाशेन नीता वैवस्वतक्षयम्॥ १८॥
भस्मीभूताः दुरात्मानः भविष्यन्ति न संशयः। अद्य ते काल-पाशेन नीताः वैवस्वत-क्षयम्॥ १८॥
bhasmībhūtāḥ durātmānaḥ bhaviṣyanti na saṃśayaḥ. adya te kāla-pāśena nītāḥ vaivasvata-kṣayam.. 18..
सप्तजातिशतान्येव मृतपाः सम्भवन्तु ते। श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः॥ १९॥
सप्त-जाति-शतानि एव मृतपाः सम्भवन्तु ते। श्व-मांस-नियत-आहाराः मुष्टिकाः नाम निर्घृणाः॥ १९॥
sapta-jāti-śatāni eva mṛtapāḥ sambhavantu te. śva-māṃsa-niyata-āhārāḥ muṣṭikāḥ nāma nirghṛṇāḥ.. 19..
विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान्। महोदयश्च दुर्बुद्धिर्मामदूष्यं ह्यदूषयत्॥ २०॥
विकृताः च विरूपाः च लोकान् अनुचरन्तु इमान्। महोदयः च दुर्बुद्धिः माम् अदूष्यम् हि अदूषयत्॥ २०॥
vikṛtāḥ ca virūpāḥ ca lokān anucarantu imān. mahodayaḥ ca durbuddhiḥ mām adūṣyam hi adūṣayat.. 20..
दूषितः सर्वलोकेषु निषादत्वं गमिष्यति। प्राणातिपातनिरतो निरनुक्रोशतां गतः॥ २१॥
दूषितः सर्व-लोकेषु निषाद-त्वम् गमिष्यति। प्राण-अतिपात-निरतः निरनुक्रोश-ताम् गतः॥ २१॥
dūṣitaḥ sarva-lokeṣu niṣāda-tvam gamiṣyati. prāṇa-atipāta-nirataḥ niranukrośa-tām gataḥ.. 21..
दीर्घकालं मम क्रोधाद् दुर्गतिं वर्तयिष्यति। एतावदुक्त्वा वचनं विश्वामित्रो महातपाः। विरराम महातेजा ऋषिमध्ये महामुनिः॥ २२॥
दीर्घ-कालम् मम क्रोधात् दुर्गतिम् वर्तयिष्यति। एतावत् उक्त्वा वचनम् विश्वामित्रः महा-तपाः। विरराम महा-तेजाः ऋषि-मध्ये महा-मुनिः॥ २२॥
dīrgha-kālam mama krodhāt durgatim vartayiṣyati. etāvat uktvā vacanam viśvāmitraḥ mahā-tapāḥ. virarāma mahā-tejāḥ ṛṣi-madhye mahā-muniḥ.. 22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनषष्ठितमः सर्गः ॥१-५९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनषष्ठितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In