This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकविंशः सर्गः ॥४-२१॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे एकविंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ekaviṃśaḥ sargaḥ ..4..
ततो निपतितां तारां च्युतां तारामिवाम्बरात् । शनैराश्वासयामास हनुमान् हरियूथपः॥ १॥
ततस् निपतिताम् ताराम् च्युताम् ताराम् इव अम्बरात् । शनैस् आश्वासयामास हनुमान् हरि-यूथपः॥ १॥
tatas nipatitām tārām cyutām tārām iva ambarāt . śanais āśvāsayāmāsa hanumān hari-yūthapaḥ.. 1..
गुणदोषकृतं जन्तुः स्वकर्म फलहेतुकम् । अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम्॥ २॥
गुण-दोष-कृतम् जन्तुः स्व-कर्म फल-हेतुकम् । अव्यग्रः तत् अवाप्नोति सर्वम् प्रेत्य शुभ-अशुभम्॥ २॥
guṇa-doṣa-kṛtam jantuḥ sva-karma phala-hetukam . avyagraḥ tat avāpnoti sarvam pretya śubha-aśubham.. 2..
शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे । कश्च कस्यानुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे॥ ३॥
शोच्या शोचसि कम् शोच्यम् दीनम् दीना अनुकम्पसे । कः च कस्य अनुशोच्यः अस्ति देहे अस्मिन् बुद्बुद-उपमे॥ ३॥
śocyā śocasi kam śocyam dīnam dīnā anukampase . kaḥ ca kasya anuśocyaḥ asti dehe asmin budbuda-upame.. 3..
अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया । आयत्यां च विधेयानि समर्थान्यस्य चिन्तय॥ ४॥
अङ्गदः तु कुमारः अयम् द्रष्टव्यः जीव-पुत्रया । आयत्याम् च विधेयानि समर्थानि अस्य चिन्तय॥ ४॥
aṅgadaḥ tu kumāraḥ ayam draṣṭavyaḥ jīva-putrayā . āyatyām ca vidheyāni samarthāni asya cintaya.. 4..
जानास्यनियतामेवं भूतानामागतिं गतिम् । तस्माच्छुभं हि कर्तव्यं पण्डिते नेह लौकिकम्॥ ५॥
जानासि अनियताम् एवम् भूतानाम् आगतिम् गतिम् । तस्मात् शुभम् हि कर्तव्यम् पण्डिते न इह लौकिकम्॥ ५॥
jānāsi aniyatām evam bhūtānām āgatim gatim . tasmāt śubham hi kartavyam paṇḍite na iha laukikam.. 5..
यस्मिन् हरिसहस्राणि शतानि नियुतानि च । वर्तयन्ति कृताशानि सोऽयं दिष्टान्तमागतः॥ ६॥
यस्मिन् हरि-सहस्राणि शतानि नियुतानि च । वर्तयन्ति कृत-आशानि सः अयम् दिष्टान्तम् आगतः॥ ६॥
yasmin hari-sahasrāṇi śatāni niyutāni ca . vartayanti kṛta-āśāni saḥ ayam diṣṭāntam āgataḥ.. 6..
यदयं न्यायदृष्टार्थः सामदानक्षमापरः । गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि॥ ७॥
यत् अयम् न्याय-दृष्टार्थः साम-दान-क्षमा-परः । गतः धर्म-जिताम् भूमिम् न एनम् शोचितुम् अर्हसि॥ ७॥
yat ayam nyāya-dṛṣṭārthaḥ sāma-dāna-kṣamā-paraḥ . gataḥ dharma-jitām bhūmim na enam śocitum arhasi.. 7..
सर्वे च हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः । हर्यृक्षपतिराज्यं च त्वत्सनाथमनिन्दिते॥ ८॥
सर्वे च हरि-शार्दूलाः पुत्रः च अयम् तव अङ्गदः । हरि-ऋक्ष-पति-राज्यम् च त्वद्-सनाथम् अनिन्दिते॥ ८॥
sarve ca hari-śārdūlāḥ putraḥ ca ayam tava aṅgadaḥ . hari-ṛkṣa-pati-rājyam ca tvad-sanātham anindite.. 8..
ताविमौ शोकसंतप्तौ शनैः प्रेरय भामिनि । त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम्॥ ९॥
तौ इमौ शोक-संतप्तौ शनैस् प्रेरय भामिनि । त्वया परिगृहीतः अयम् अङ्गदः शास्तु मेदिनीम्॥ ९॥
tau imau śoka-saṃtaptau śanais preraya bhāmini . tvayā parigṛhītaḥ ayam aṅgadaḥ śāstu medinīm.. 9..
संततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्रतम् । राज्ञस्तत् क्रियतां सर्वमेष कालस्य निश्चयः॥ १०॥
संततिः च यथा दृष्टा कृत्यम् यत् च अपि साम्प्रतम् । राज्ञः तत् क्रियताम् सर्वम् एष कालस्य निश्चयः॥ १०॥
saṃtatiḥ ca yathā dṛṣṭā kṛtyam yat ca api sāmpratam . rājñaḥ tat kriyatām sarvam eṣa kālasya niścayaḥ.. 10..
संस्कार्यो हरिराजस्तु अङ्गदश्चाभिषिच्यताम् । सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि॥ ११॥
संस्कार्यः हरि-राजः तु अङ्गदः च अभिषिच्यताम् । सिंहासन-गतम् पुत्रम् पश्यन्ती शान्तिम् एष्यसि॥ ११॥
saṃskāryaḥ hari-rājaḥ tu aṅgadaḥ ca abhiṣicyatām . siṃhāsana-gatam putram paśyantī śāntim eṣyasi.. 11..
सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता । अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम्॥ १२॥
सा तस्य वचनम् श्रुत्वा भर्तृ-व्यसन-पीडिता । अब्रवीत् उत्तरम् तारा हनूमन्तम् अवस्थितम्॥ १२॥
sā tasya vacanam śrutvā bhartṛ-vyasana-pīḍitā . abravīt uttaram tārā hanūmantam avasthitam.. 12..
अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम् । हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम्॥ १३॥
अङ्गद-प्रतिरूपाणाम् पुत्राणाम् एकतस् शतम् । हतस्य अपि अस्य वीरस्य गात्र-संश्लेषणम् वरम्॥ १३॥
aṅgada-pratirūpāṇām putrāṇām ekatas śatam . hatasya api asya vīrasya gātra-saṃśleṣaṇam varam.. 13..
न चाहं हरिराज्यस्य प्रभवाम्यङ्गदस्य वा । पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः॥ १४॥
न च अहम् हरि-राज्यस्य प्रभवामि अङ्गदस्य वा । पितृव्यः तस्य सुग्रीवः सर्व-कार्येषु अनन्तरः॥ १४॥
na ca aham hari-rājyasya prabhavāmi aṅgadasya vā . pitṛvyaḥ tasya sugrīvaḥ sarva-kāryeṣu anantaraḥ.. 14..
नह्येषा बुद्धिरास्थेया हनूमन्नङ्गदं प्रति । पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम॥ १५॥
न हि एषा बुद्धिः आस्थेया हनूमन् अङ्गदम् प्रति । पिता हि बन्धुः पुत्रस्य न माता हरि-सत्तम॥ १५॥
na hi eṣā buddhiḥ āstheyā hanūman aṅgadam prati . pitā hi bandhuḥ putrasya na mātā hari-sattama.. 15..
नहि मम हरिराजसंश्रयात् क्षमतरमस्ति परत्र चेह वा । अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम्॥ १६॥
नहि मम हरि-राज-संश्रयात् क्षमतरम् अस्ति परत्र च इह वा । अभिमुख-हत-वीर-सेवितम् शयनम् इदम् मम सेवितुम् क्षमम्॥ १६॥
nahi mama hari-rāja-saṃśrayāt kṣamataram asti paratra ca iha vā . abhimukha-hata-vīra-sevitam śayanam idam mama sevitum kṣamam.. 16..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकविंशः सर्गः ॥४-२१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे एकविंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ekaviṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In