This overlay will guide you through the buttons:

| |
|
ततः सीतामुपागम्य राक्षस्यो विकृताननाः । परुषं परुषा नार्य ऊचुस्ता वाक्यमप्रियम् ॥१॥
ततस् सीताम् उपागम्य राक्षस्यः विकृत-आननाः । परुषम् परुषाः नार्यः ऊचुः ताः वाक्यम् अप्रियम् ॥१॥
tatas sītām upāgamya rākṣasyaḥ vikṛta-ānanāḥ . paruṣam paruṣāḥ nāryaḥ ūcuḥ tāḥ vākyam apriyam ..1..
किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे । महार्हशयनोपेते न वासमनुमन्यसे ॥२॥
किम् त्वम् अन्तःपुरे सीते सर्व-भूत-मनोहरे । महार्ह-शयन-उपेते न वासम् अनुमन्यसे ॥२॥
kim tvam antaḥpure sīte sarva-bhūta-manohare . mahārha-śayana-upete na vāsam anumanyase ..2..
मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे । प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि ॥३॥
मानुषी मानुषस्य एव भार्या-त्वम् बहु मन्यसे । प्रत्याहर मनः रामात् न त्वम् जातु भविष्यसि ॥३॥
mānuṣī mānuṣasya eva bhāryā-tvam bahu manyase . pratyāhara manaḥ rāmāt na tvam jātu bhaviṣyasi ..3..
त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम्।भर्तारमुपसङ्गम्य विहरस्व यथासुखम्॥४॥
त्रैलोक्य-वसु-भोक्तारम् रावणम् राक्षसेश्वरम्।भर्तारम् उपसङ्गम्य विहरस्व यथासुखम्॥४॥
trailokya-vasu-bhoktāram rāvaṇam rākṣaseśvaram.bhartāram upasaṅgamya viharasva yathāsukham..4..
मानुषी मानुषं तं तु राममिच्छसि शोभने । राज्याद्भ्रष्टमसिद्धार्थं विक्लवं तमनिन्दिते ॥५॥
मानुषी मानुषम् तम् तु रामम् इच्छसि शोभने । राज्यात् भ्रष्टम् अ सिद्धार्थम् विक्लवम् तम् अनिन्दिते ॥५॥
mānuṣī mānuṣam tam tu rāmam icchasi śobhane . rājyāt bhraṣṭam a siddhārtham viklavam tam anindite ..5..
राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा । नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥६॥
राक्षसीनाम् वचः श्रुत्वा सीता पद्म-निभ-ईक्षणा । नेत्राभ्याम् अश्रु-पूर्णाभ्याम् इदम् वचनम् अब्रवीत् ॥६॥
rākṣasīnām vacaḥ śrutvā sītā padma-nibha-īkṣaṇā . netrābhyām aśru-pūrṇābhyām idam vacanam abravīt ..6..
यदिदं लोकविद्विष्टमुदाहरथ सङ्गताः । नैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति ॥७॥
यत् इदम् लोक-विद्विष्टम् उदाहरथ सङ्ग-ताः । न एतत् मनसि वाक्यम् मे किल्बिषम् प्रतितिष्ठति ॥७॥
yat idam loka-vidviṣṭam udāharatha saṅga-tāḥ . na etat manasi vākyam me kilbiṣam pratitiṣṭhati ..7..
न मानुषी राक्षसस्य भार्या भवितुमर्हति । कामं खादत मां सर्वा न करिष्यामि वो वचः ॥८॥
न मानुषी राक्षसस्य भार्या भवितुम् अर्हति । कामम् खादत माम् सर्वाः न करिष्यामि वः वचः ॥८॥
na mānuṣī rākṣasasya bhāryā bhavitum arhati . kāmam khādata mām sarvāḥ na kariṣyāmi vaḥ vacaḥ ..8..
दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः ।तं नित्यमनुरक्तास्मि यथा सूर्यं सुवर्चला॥९॥
दीनः वा राज्य-हीनः वा यः मे भर्ता स मे गुरुः ।तम् नित्यम् अनुरक्ता अस्मि यथा सूर्यम् सुवर्चला॥९॥
dīnaḥ vā rājya-hīnaḥ vā yaḥ me bhartā sa me guruḥ .tam nityam anuraktā asmi yathā sūryam suvarcalā..9..
यथा शची महाभागा शक्रं समुपतिष्ठति॥अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा॥१०॥
यथा शची महाभागा शक्रम् समुपतिष्ठति॥अरुन्धती वसिष्ठम् च रोहिणी शशिनम् यथा॥१०॥
yathā śacī mahābhāgā śakram samupatiṣṭhati..arundhatī vasiṣṭham ca rohiṇī śaśinam yathā..10..
लोपामुद्रा यथागस्त्यं सुकन्या च्यवनं यथा।सावित्री सत्यवन्तं च कपिलं श्रीमती यथा॥११॥
लोपामुद्रा यथा अगस्त्यम् सुकन्या च्यवनम् यथा।सावित्री सत्यवन्तम् च कपिलम् श्रीमती यथा॥११॥
lopāmudrā yathā agastyam sukanyā cyavanam yathā.sāvitrī satyavantam ca kapilam śrīmatī yathā..11..
सौदासं मदयन्तीव केशिनी सगरं यथा॥नैषधं दमयन्तीव भैमी पतिमनुव्रता। तथाऽहमिक्ष्वाकुवरं रामं पतिमनुव्रता॥।१२॥
सौदासम् मदयन्ती इव केशिनी सगरम् यथा॥नैषधम् दमयन्ती इव भैमी पतिम् अनुव्रता। तथा अहम् इक्ष्वाकु-वरम् रामम् पतिम् अनुव्रता॥।१२॥
saudāsam madayantī iva keśinī sagaram yathā..naiṣadham damayantī iva bhaimī patim anuvratā. tathā aham ikṣvāku-varam rāmam patim anuvratā...12..
सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः । भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः ॥१३॥
सीतायाः वचनम् श्रुत्वा राक्षस्यः क्रोध-मूर्छिताः । भर्त्सयन्ति स्म परुषैः वाक्यैः रावण-चोदिताः ॥१३॥
sītāyāḥ vacanam śrutvā rākṣasyaḥ krodha-mūrchitāḥ . bhartsayanti sma paruṣaiḥ vākyaiḥ rāvaṇa-coditāḥ ..13..
अवलीनः स निर्वाक्यो हनुमाञ्शिंशपाद्रुमे । सीतां सन्तर्जयन्तीस्ता राक्षसीरशृणोत्कपिः ॥१४॥
अवलीनः स निर्वाक्यः हनुमान् शिंशपा-द्रुमे । सीताम् सन्तर्जयन्तीः ताः राक्षसीः अशृणोत् कपिः ॥१४॥
avalīnaḥ sa nirvākyaḥ hanumān śiṃśapā-drume . sītām santarjayantīḥ tāḥ rākṣasīḥ aśṛṇot kapiḥ ..14..
तामभिक्रम्य संरब्धा वेपमानां समन्ततः । भृशं संलिलिहुर्दीप्तान्प्रलम्बदशनच्छदान् ॥१५॥
ताम् अभिक्रम्य संरब्धाः वेपमानाम् समन्ततः । भृशम् संलिलिहुः दीप्तान् प्रलम्ब-दशनच्छदान् ॥१५॥
tām abhikramya saṃrabdhāḥ vepamānām samantataḥ . bhṛśam saṃlilihuḥ dīptān pralamba-daśanacchadān ..15..
ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् । नेयमर्हति भर्तारं रावणं राक्षसाधिपम् ॥१६॥
ऊचुः च परम-क्रुद्धाः प्रगृह्य आशु परश्वधान् । न इयम् अर्हति भर्तारम् रावणम् राक्षस-अधिपम् ॥१६॥
ūcuḥ ca parama-kruddhāḥ pragṛhya āśu paraśvadhān . na iyam arhati bhartāram rāvaṇam rākṣasa-adhipam ..16..
सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना । सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत् ॥१७॥
सा भर्त्स्यमाना भीमाभिः राक्षसीभिः वरानना । सा बाष्पम् अपमार्जन्ती शिंशपाम् ताम् उपागमत् ॥१७॥
sā bhartsyamānā bhīmābhiḥ rākṣasībhiḥ varānanā . sā bāṣpam apamārjantī śiṃśapām tām upāgamat ..17..
ततस्तां शिंशपां सीता राक्षसीभिः समावृता । अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता ॥१८॥
ततस् ताम् शिंशपाम् सीता राक्षसीभिः समावृता । अभिगम्य विशाल-अक्षी तस्थौ शोक-परिप्लुता ॥१८॥
tatas tām śiṃśapām sītā rākṣasībhiḥ samāvṛtā . abhigamya viśāla-akṣī tasthau śoka-pariplutā ..18..
तां कृशां दीनवदनां मलिनाम्बरधारिणीम् । भर्त्सयां चक्रिरे भीमा राक्षस्यस्ताः समन्ततः ॥१९॥
ताम् कृशाम् दीन-वदनाम् मलिन-अम्बर-धारिणीम् । भर्त्सयाम् चक्रिरे भीमाः राक्षस्यः ताः समन्ततः ॥१९॥
tām kṛśām dīna-vadanām malina-ambara-dhāriṇīm . bhartsayām cakrire bhīmāḥ rākṣasyaḥ tāḥ samantataḥ ..19..
ततस्तां विनता नाम राक्षसी भीमदर्शना । अब्रवीत्कुपिताकारा कराला निर्णतोदरी ॥२०॥
ततस् ताम् विनता नाम राक्षसी भीम-दर्शना । अब्रवीत् कुपित-आकारा कराला निर्णत-उदरी ॥२०॥
tatas tām vinatā nāma rākṣasī bhīma-darśanā . abravīt kupita-ākārā karālā nirṇata-udarī ..20..
सीते पर्याप्तमेतावद्भर्तृस्नेहो निदर्शितः । सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते ॥२१॥
सीते पर्याप्तम् एतावत् भर्तृ-स्नेहः निदर्शितः । सर्वत्र अतिकृतम् भद्रे व्यसनाय उपकल्पते ॥२१॥
sīte paryāptam etāvat bhartṛ-snehaḥ nidarśitaḥ . sarvatra atikṛtam bhadre vyasanāya upakalpate ..21..
परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः । ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि ॥२२॥
परितुष्टा अस्मि भद्रम् ते मानुषः ते कृतः विधिः । मम अपि तु वचः पथ्यम् ब्रुवन्त्याः कुरु मैथिलि ॥२२॥
parituṣṭā asmi bhadram te mānuṣaḥ te kṛtaḥ vidhiḥ . mama api tu vacaḥ pathyam bruvantyāḥ kuru maithili ..22..
रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् । विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् ॥२३॥
रावणम् भज भर्तारम् भर्तारम् सर्व-रक्षसाम् । विक्रान्तम् रूपवन्तम् च सुरेशम् इव वासवम् ॥२३॥
rāvaṇam bhaja bhartāram bhartāram sarva-rakṣasām . vikrāntam rūpavantam ca sureśam iva vāsavam ..23..
दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम् । मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय ॥२४॥
दक्षिणम् त्याग-शीलम् च सर्वस्य प्रिय-वादिनम् । मानुषम् कृपणम् रामम् त्यक्त्वा रावणम् आश्रय ॥२४॥
dakṣiṇam tyāga-śīlam ca sarvasya priya-vādinam . mānuṣam kṛpaṇam rāmam tyaktvā rāvaṇam āśraya ..24..
दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता । अद्य प्रभृति सर्वेषां लोकानामीश्वरी भव ॥२५॥
दिव्य-अङ्ग-रागा वैदेहि दिव्य-आभरण-भूषिता । अद्य प्रभृति सर्वेषाम् लोकानाम् ईश्वरी भव ॥२५॥
divya-aṅga-rāgā vaidehi divya-ābharaṇa-bhūṣitā . adya prabhṛti sarveṣām lokānām īśvarī bhava ..25..
अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने ।किं ते रामेण वैदेहि कृपणेन गतायुषा ॥२६॥
अग्नेः स्वाहा यथा देवी शची इव इन्द्रस्य शोभने ।किम् ते रामेण वैदेहि कृपणेन गत-आयुषा ॥२६॥
agneḥ svāhā yathā devī śacī iva indrasya śobhane .kim te rāmeṇa vaidehi kṛpaṇena gata-āyuṣā ..26..
एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि । अस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ॥२७॥
एतत् उक्तम् च मे वाक्यम् यदि त्वम् न करिष्यसि । अस्मिन् मुहूर्ते सर्वाः त्वाम् भक्षयिष्यामहे वयम् ॥२७॥
etat uktam ca me vākyam yadi tvam na kariṣyasi . asmin muhūrte sarvāḥ tvām bhakṣayiṣyāmahe vayam ..27..
अन्या तु विकटा नाम लम्बमानपयोधरा । अब्रवीत्कुपिता सीतां मुष्टिमुद्यम्य गर्जती ॥२८॥
अन्या तु विकटा नाम लम्बमान-पयोधरा । अब्रवीत् कुपिता सीताम् मुष्टिम् उद्यम्य गर्जती ॥२८॥
anyā tu vikaṭā nāma lambamāna-payodharā . abravīt kupitā sītām muṣṭim udyamya garjatī ..28..
बहून्यप्रतिरूपाणि वचनानि सुदुर्मते । अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि ॥२९॥
बहूनि अप्रतिरूपाणि वचनानि सु दुर्मते । अनुक्रोशात् मृदु-त्वात् च सोढानि तव मैथिलि ॥२९॥
bahūni apratirūpāṇi vacanāni su durmate . anukrośāt mṛdu-tvāt ca soḍhāni tava maithili ..29..
न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम् ।आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् ॥३०॥
न च नः कुरुषे वाक्यम् हितम् काल-पुरस्कृतम् ।आनीता असि समुद्रस्य पारम् अन्यैः दुरासदम् ॥३०॥
na ca naḥ kuruṣe vākyam hitam kāla-puraskṛtam .ānītā asi samudrasya pāram anyaiḥ durāsadam ..30..
रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि ।रावणस्य गृहे रुधा अस्माभिस्तु सुरक्षिता ॥३१॥
रावण-अन्तःपुरम् घोरम् प्रविष्टा च असि मैथिलि ।रावणस्य गृहे अस्माभिः तु सु रक्षिता ॥३१॥
rāvaṇa-antaḥpuram ghoram praviṣṭā ca asi maithili .rāvaṇasya gṛhe asmābhiḥ tu su rakṣitā ..31..
न त्वां शक्तः परित्रातुमपि साक्षात्पुरन्दरः ।कुरुष्व हितवादिन्या वचनं मम मैथिलि ॥३२॥
न त्वाम् शक्तः परित्रातुम् अपि साक्षात् पुरन्दरः ।कुरुष्व हित-वादिन्याः वचनम् मम मैथिलि ॥३२॥
na tvām śaktaḥ paritrātum api sākṣāt purandaraḥ .kuruṣva hita-vādinyāḥ vacanam mama maithili ..32..
अलमश्रुप्रपातेन त्यज शोकमनर्थकम् ।भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम् ॥३३॥
अलम् अश्रु-प्रपातेन त्यज शोकम् अनर्थकम् ।भज प्रीतिम् प्रहर्षम् च त्यज एताम् नित्य-दैन्यताम् ॥३३॥
alam aśru-prapātena tyaja śokam anarthakam .bhaja prītim praharṣam ca tyaja etām nitya-dainyatām ..33..
सीते राक्षसराजेन सह क्रीड यथासुखम् ।जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् ॥३४॥
सीते राक्षस-राजेन सह क्रीड यथासुखम् ।जानासि हि यथा भीरु स्त्रीणाम् यौवनम् अध्रुवम् ॥३४॥
sīte rākṣasa-rājena saha krīḍa yathāsukham .jānāsi hi yathā bhīru strīṇām yauvanam adhruvam ..34..
यावन्न ते व्यतिक्रामेत्तावत्सुखमवाप्नुहि ।उद्यानानि च रम्याणि पर्वतोपवनानि च ॥३५॥
यावत् न ते व्यतिक्रामेत् तावत् सुखम् अवाप्नुहि ।उद्यानानि च रम्याणि पर्वत-उपवनानि च ॥३५॥
yāvat na te vyatikrāmet tāvat sukham avāpnuhi .udyānāni ca ramyāṇi parvata-upavanāni ca ..35..
सह राक्षसराजेन चर त्वं मदिरेक्षणे ।स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि ॥३६॥
सह राक्षस-राजेन चर त्वम् मदिरा-ईक्षणे ।स्त्री-सहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि ॥३६॥
saha rākṣasa-rājena cara tvam madirā-īkṣaṇe .strī-sahasrāṇi te sapta vaśe sthāsyanti sundari ..36..
रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ।उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि ॥३७॥
रावणम् भज भर्तारम् भर्तारम् सर्व-रक्षसाम् ।उत्पाट्य वा ते हृदयम् भक्षयिष्यामि मैथिलि ॥३७॥
rāvaṇam bhaja bhartāram bhartāram sarva-rakṣasām .utpāṭya vā te hṛdayam bhakṣayiṣyāmi maithili ..37..
यदि मे व्याहृतं वाक्यं न यथावत्करिष्यसि ।ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शना ॥३८॥
यदि मे व्याहृतम् वाक्यम् न यथावत् करिष्यसि ।ततस् चण्डोदरी नाम राक्षसी क्रूर-दर्शना ॥३८॥
yadi me vyāhṛtam vākyam na yathāvat kariṣyasi .tatas caṇḍodarī nāma rākṣasī krūra-darśanā ..38..
भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत् ।इमां हरिणलोकाक्षीं त्रासोत्कम्पपयोधराम् ॥३९॥
भ्रामयन्ती महत् शूलम् इदम् वचनम् अब्रवीत् ।इमाम् हरिण-लोक-अक्षीम् त्रास-उत्कम्प-पयोधराम् ॥३९॥
bhrāmayantī mahat śūlam idam vacanam abravīt .imām hariṇa-loka-akṣīm trāsa-utkampa-payodharām ..39..
रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत् ।यकृत्प्लीहमथोत्पीडं हृदयं च सबन्धनम् ॥४०॥
रावणेन हृताम् दृष्ट्वा दौर्हृदः मे महान् अभूत् ।यकृत्प्लीहम् अथ उत्पीडम् हृदयम् च स बन्धनम् ॥४०॥
rāvaṇena hṛtām dṛṣṭvā daurhṛdaḥ me mahān abhūt .yakṛtplīham atha utpīḍam hṛdayam ca sa bandhanam ..40..
गत्राण्यपि तथा शीर्षं खादेयमिति मे मतिः ।ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् ॥४१॥
गत्राणि अपि तथा शीर्षम् खादेयम् इति मे मतिः ।ततस् तु प्रघसा नाम राक्षसी वाक्यम् अब्रवीत् ॥४१॥
gatrāṇi api tathā śīrṣam khādeyam iti me matiḥ .tatas tu praghasā nāma rākṣasī vākyam abravīt ..41..
कण्ठमस्या नृशंसायाः पीडयामः किमास्यते ।निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह ॥४२॥
कण्ठम् अस्याः नृशंसायाः पीडयामः किम् आस्यते ।निवेद्यताम् ततस् राज्ञे मानुषी सा मृता इति ह ॥४२॥
kaṇṭham asyāḥ nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate .nivedyatām tatas rājñe mānuṣī sā mṛtā iti ha ..42..
नात्र कश्चन सन्देहः खादतेति स वक्ष्यति ।ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् ॥४३॥
न अत्र कश्चन सन्देहः खादत इति स वक्ष्यति ।ततस् तु अजामुखी नाम राक्षसी वाक्यम् अब्रवीत् ॥४३॥
na atra kaścana sandehaḥ khādata iti sa vakṣyati .tatas tu ajāmukhī nāma rākṣasī vākyam abravīt ..43..
विशस्येमां ततः सर्वान्समान्कुरुत पीलुकान् ।विभजाम ततः सर्वा विवादो मे न रोचते ॥४४॥
विशस्य इमाम् ततस् सर्वान् समान् कुरुत पीलुकान् ।विभजाम ततस् सर्वाः विवादः मे न रोचते ॥४४॥
viśasya imām tatas sarvān samān kuruta pīlukān .vibhajāma tatas sarvāḥ vivādaḥ me na rocate ..44..
पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु ।ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् ॥४५॥
पेयम् आनीयताम् क्षिप्रम् माल्यम् च विविधम् बहु ।ततस् शूर्पणखा नाम राक्षसी वाक्यम् अब्रवीत् ॥४५॥
peyam ānīyatām kṣipram mālyam ca vividham bahu .tatas śūrpaṇakhā nāma rākṣasī vākyam abravīt ..45..
अजामुखा यदुक्तं हि तदेव मम रोचते ।सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी ॥४६॥
अजामुखाः यत् उक्तम् हि तत् एव मम रोचते ।सुरा च आनीयताम् क्षिप्रम् सर्व-शोक-विनाशिनी ॥४६॥
ajāmukhāḥ yat uktam hi tat eva mama rocate .surā ca ānīyatām kṣipram sarva-śoka-vināśinī ..46..
मानुषं मांसमासाद्य नृत्यामोऽथ निकुम्भिलाम् । एवं सम्भर्त्स्यमाना सा सीता सुरसुतोपमा । राक्षसीभिः सुघोराभिर्धैर्यमुत्सृज्य रोदिति ॥४७॥
मानुषम् मांसम् आसाद्य नृत्यामः अथ निकुम्भिलाम् । एवम् सम्भर्त्स्यमाना सा सीता सुर-सुता-उपमा । राक्षसीभिः सु घोराभिः धैर्यम् उत्सृज्य रोदिति ॥४७॥
mānuṣam māṃsam āsādya nṛtyāmaḥ atha nikumbhilām . evam sambhartsyamānā sā sītā sura-sutā-upamā . rākṣasībhiḥ su ghorābhiḥ dhairyam utsṛjya roditi ..47..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In