This overlay will guide you through the buttons:

| |
|
सेनापतीन्पञ्च स तु प्रमापितान् हनूमता सानुचरान्सवाहनान् । समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताक्षतम् ॥ १॥
सेनापतीन् पञ्च स तु प्रमापितान् हनूमता स अनुचरान् स वाहनान् । समीक्ष्य राजा समर-उद्धत-उन्मुखम् कुमारम् अक्षम् प्रसमैक्षत अक्षतम् ॥ १॥
senāpatīn pañca sa tu pramāpitān hanūmatā sa anucarān sa vāhanān . samīkṣya rājā samara-uddhata-unmukham kumāram akṣam prasamaikṣata akṣatam .. 1..
स तस्य दृष्ट्यर्पणसम्प्रचोदितः प्रतापवान्काञ्चनचित्रकार्मुकः । समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः ॥ २॥
स तस्य दृष्टि-अर्पण-सम्प्रचोदितः प्रतापवान् काञ्चन-चित्र-कार्मुकः । समुत्पपात अथ सदसि उदीरितः द्विजाति-मुख्यैः हविषा इव पावकः ॥ २॥
sa tasya dṛṣṭi-arpaṇa-sampracoditaḥ pratāpavān kāñcana-citra-kārmukaḥ . samutpapāta atha sadasi udīritaḥ dvijāti-mukhyaiḥ haviṣā iva pāvakaḥ .. 2..
ततो महद्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसन्ततम् । रथां समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैरृतर्षभः ॥ ३॥
ततस् महत्-बाल-दिवाकर-प्रभम् प्रतप्त-जाम्बूनद-जाल-सन्ततम् । रथाम् समास्थाय ययौ स वीर्यवान् महा-हरिम् तम् प्रति नैरृत-ऋषभः ॥ ३॥
tatas mahat-bāla-divākara-prabham pratapta-jāmbūnada-jāla-santatam . rathām samāsthāya yayau sa vīryavān mahā-harim tam prati nairṛta-ṛṣabhaḥ .. 3..
ततस्तपःसङ्ग्रहसञ्चयार्जितं प्रतप्तजाम्बूनदजालशोभितम् । पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम् ॥ ४॥
ततस् तपः-सङ्ग्रह-सञ्चय-अर्जितम् प्रतप्त-जाम्बूनद-जाल-शोभितम् । पताकिनम् रत्न-विभूषित-ध्वजम् मनोजव-अष्ट-अश्व-वरैः सुयोजितम् ॥ ४॥
tatas tapaḥ-saṅgraha-sañcaya-arjitam pratapta-jāmbūnada-jāla-śobhitam . patākinam ratna-vibhūṣita-dhvajam manojava-aṣṭa-aśva-varaiḥ suyojitam .. 4..
सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम् । सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् ॥ ५॥
सुर-असुर-अधृष्यम् असङ्ग-चारिणम् रवि-प्रभम् व्योम-चरम् समाहितम् । स तूणम् अष्ट-असि-निबद्ध-बन्धुरम् यथा क्रम-आवेशित-शक्ति-तोमरम् ॥ ५॥
sura-asura-adhṛṣyam asaṅga-cāriṇam ravi-prabham vyoma-caram samāhitam . sa tūṇam aṣṭa-asi-nibaddha-bandhuram yathā krama-āveśita-śakti-tomaram .. 5..
विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्वसा । दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः ॥ ६॥
विराजमानम् प्रतिपूर्ण-वस्तुना स हेम-दाम्ना शशि-सूर्य-वर्वसा । दिवाकर-आभम् रथम् आस्थितः ततस् स निर्जगाम अमर-तुल्य-विक्रमः ॥ ६॥
virājamānam pratipūrṇa-vastunā sa hema-dāmnā śaśi-sūrya-varvasā . divākara-ābham ratham āsthitaḥ tatas sa nirjagāma amara-tulya-vikramaḥ .. 6..
स पूरयन्खं च महीं च साचलां तुरङ्गमतङ्गमहारथस्वनैः । बलैः समेतैः स हि तोरणस्थितं समर्थमासीनमुपागमत्कपिम् ॥ ७॥
स पूरयन् खम् च महीम् च स अचलाम् तुरङ्ग-मतङ्ग-महा-रथ-स्वनैः । बलैः समेतैः स हि तोरण-स्थितम् समर्थम् आसीनम् उपागमत् कपिम् ॥ ७॥
sa pūrayan kham ca mahīm ca sa acalām turaṅga-mataṅga-mahā-ratha-svanaiḥ . balaiḥ sametaiḥ sa hi toraṇa-sthitam samartham āsīnam upāgamat kapim .. 7..
स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये । अवस्थितं विस्मितजातसम्भ्रमः समैक्षताक्षो बहुमानचक्षुषा ॥ ८॥
स तम् समासाद्य हरिम् हरि-ईक्षणः युगान्त-कालाग्निम् इव प्रजा-क्षये । अवस्थितम् विस्मित-जात-सम्भ्रमः समैक्षत अक्षः बहु-मान-चक्षुषा ॥ ८॥
sa tam samāsādya harim hari-īkṣaṇaḥ yugānta-kālāgnim iva prajā-kṣaye . avasthitam vismita-jāta-sambhramaḥ samaikṣata akṣaḥ bahu-māna-cakṣuṣā .. 8..
स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्ह्तिवात्मजः । विचारयन्खं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते ॥ ९॥
स तस्य वेगम् च कपेः महात्मनः पराक्रमम् च अरिषु पार्ह्तिव-आत्मजः । विचारयन् खम् च बलम् महा-बलः हिम-क्षये सूर्यः इव अभिवर्धते ॥ ९॥
sa tasya vegam ca kapeḥ mahātmanaḥ parākramam ca ariṣu pārhtiva-ātmajaḥ . vicārayan kham ca balam mahā-balaḥ hima-kṣaye sūryaḥ iva abhivardhate .. 9..
स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरः स्थितः संयति दुर्निवारणम् । समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः ॥ १०॥
स जात-मन्युः प्रसमीक्ष्य विक्रमम् स्थिरः स्थितः संयति दुर्निवारणम् । समाहित-आत्मा हनुमन्तम् आहवे प्रचोदयामास शरैः त्रिभिः शितैः ॥ १०॥
sa jāta-manyuḥ prasamīkṣya vikramam sthiraḥ sthitaḥ saṃyati durnivāraṇam . samāhita-ātmā hanumantam āhave pracodayāmāsa śaraiḥ tribhiḥ śitaiḥ .. 10..
ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम् । अवैक्षताक्षः समुदीर्णमानसः सबाणपाणिः प्रगृहीतकार्मुकः ॥ ११॥
ततस् कपिम् तम् प्रसमीक्ष्य गर्वितम् जित-श्रमम् शत्रु-पराजय-ऊर्जितम् । अवैक्षत अक्षः समुदीर्ण-मानसः स बाण-पाणिः प्रगृहीत-कार्मुकः ॥ ११॥
tatas kapim tam prasamīkṣya garvitam jita-śramam śatru-parājaya-ūrjitam . avaikṣata akṣaḥ samudīrṇa-mānasaḥ sa bāṇa-pāṇiḥ pragṛhīta-kārmukaḥ .. 11..
स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशु पराक्रमः कपिम् । तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि सम्भ्रमप्रदः ॥ १२॥
स हेम-निष्क-अङ्गद-चारु-कुण्डलः समाससाद आशु पराक्रमः कपिम् । तयोः बभूव अप्रतिमः समागमः सुर-असुराणाम् अपि सम्भ्रम-प्रदः ॥ १२॥
sa hema-niṣka-aṅgada-cāru-kuṇḍalaḥ samāsasāda āśu parākramaḥ kapim . tayoḥ babhūva apratimaḥ samāgamaḥ sura-asurāṇām api sambhrama-pradaḥ .. 12..
ररास भूमिर्न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः । कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिश्च चुक्षुभे ॥ १३॥
ररास भूमिः न तताप भानुमान् ववौ न वायुः प्रचचाल च अचलः । कपेः कुमारस्य च वीक्ष्य संयुगम् ननाद च द्यौः उदधिः च चुक्षुभे ॥ १३॥
rarāsa bhūmiḥ na tatāpa bhānumān vavau na vāyuḥ pracacāla ca acalaḥ . kapeḥ kumārasya ca vīkṣya saṃyugam nanāda ca dyauḥ udadhiḥ ca cukṣubhe .. 13..
स तस्य वीरः सुमुखान्पतत्रिणः सुवर्णपुङ्खान्सविषानिवोरगान् । समाधिसंयोगविमोक्षतत्त्वविच् छरानथ त्रीन्कपिमूर्ध्न्यपातयत् ॥ १४॥
स तस्य वीरः सुमुखान् पतत्रिणः सुवर्ण-पुङ्खान् सविषान् इव उरगान् । समाधि-संयोग-विमोक्ष-तत्त्व-विद् शरान् अथ त्रीन् कपि-मूर्ध्नि अपातयत् ॥ १४॥
sa tasya vīraḥ sumukhān patatriṇaḥ suvarṇa-puṅkhān saviṣān iva uragān . samādhi-saṃyoga-vimokṣa-tattva-vid śarān atha trīn kapi-mūrdhni apātayat .. 14..
स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः । नवोदितादित्यनिभः शरांशुमान् व्यराजतादित्य इवांशुमालिकः ॥ १५॥
स तैः शरैः मूर्ध्नि समम् निपातितैः क्षरन् असृज्-दिग्ध-विवृत्त-लोचनः । नव-उदित-आदित्य-निभः शर-अंशुमान् व्यराजत आदित्यः इव अंशु-मालिकः ॥ १५॥
sa taiḥ śaraiḥ mūrdhni samam nipātitaiḥ kṣaran asṛj-digdha-vivṛtta-locanaḥ . nava-udita-āditya-nibhaḥ śara-aṃśumān vyarājata ādityaḥ iva aṃśu-mālikaḥ .. 15..
ततः स पिङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे । उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः ॥ १६॥
ततस् स पिङ्ग-अधिप-मन्त्रि-सत्तमः समीक्ष्य तम् राज-वर-आत्मजम् रणे । उदग्र-चित्र-आयुध-चित्र-कार्मुकम् जहर्ष च आपूर्यत च आहव-उन्मुखः ॥ १६॥
tatas sa piṅga-adhipa-mantri-sattamaḥ samīkṣya tam rāja-vara-ātmajam raṇe . udagra-citra-āyudha-citra-kārmukam jaharṣa ca āpūryata ca āhava-unmukhaḥ .. 16..
स मन्दराग्रस्थ इवांशुमाली विवृद्धकोपो बलवीर्यसंयुतः । कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा ॥ १७॥
स मन्दर-अग्र-स्थः इव अंशुमाली विवृद्ध-कोपः बल-वीर्य-संयुतः । कुमारम् अक्षम् स बलम् स वाहनम् ददाह नेत्र-अग्नि-मरीचिभिः तदा ॥ १७॥
sa mandara-agra-sthaḥ iva aṃśumālī vivṛddha-kopaḥ bala-vīrya-saṃyutaḥ . kumāram akṣam sa balam sa vāhanam dadāha netra-agni-marīcibhiḥ tadā .. 17..
ततः स बाणासनशक्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः । शरान्मुमोचाशु हरीश्वराचले बलाहको वृष्टिमिवाचलोत्तमे ॥ १८॥
ततस् स बाणासन-शक्रकार्मुकः शर-प्रवर्षः युधि राक्षस-अम्बुदः । शरान् मुमोच आशु हरि-ईश्वर-अचले बलाहकः वृष्टिम् इव अचल-उत्तमे ॥ १८॥
tatas sa bāṇāsana-śakrakārmukaḥ śara-pravarṣaḥ yudhi rākṣasa-ambudaḥ . śarān mumoca āśu hari-īśvara-acale balāhakaḥ vṛṣṭim iva acala-uttame .. 18..
कपिस्ततस्तः रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसायकम् । कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्घनतुल्यविक्रमः ॥ १९॥
कपिः ततस् तस् रण-चण्ड-विक्रमम् विवृद्ध-तेजः-बल-वीर्य-सायकम् । कुमारम् अक्षम् प्रसमीक्ष्य संयुगे ननाद हर्षात् घन-तुल्य-विक्रमः ॥ १९॥
kapiḥ tatas tas raṇa-caṇḍa-vikramam vivṛddha-tejaḥ-bala-vīrya-sāyakam . kumāram akṣam prasamīkṣya saṃyuge nanāda harṣāt ghana-tulya-vikramaḥ .. 19..
स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः । समाससादाप्रतिमं रणे कपिं गजो महाकूपमिवावृतं तृणैः ॥ २०॥
स बाल-भावात् युधि वीर्य-दर्पितः प्रवृद्ध-मन्युः क्षतज-उपम-ईक्षणः । समाससाद अप्रतिमम् रणे कपिम् गजः महा-कूपम् इव आवृतम् तृणैः ॥ २०॥
sa bāla-bhāvāt yudhi vīrya-darpitaḥ pravṛddha-manyuḥ kṣataja-upama-īkṣaṇaḥ . samāsasāda apratimam raṇe kapim gajaḥ mahā-kūpam iva āvṛtam tṛṇaiḥ .. 20..
स तेन बाणैः प्रसभं निपातितैश् चकार नादं घननादनिःस्वनः । समुत्पपाताशु नभः स मारुतिर् भुजोरुविक्षेपण घोरदर्शनः ॥ २१॥
स तेन बाणैः प्रसभम् निपातितैः चकार नादम् घन-नाद-निःस्वनः । समुत्पपात आशु नभः स मारुतिः भुज-ऊरु-विक्षेपण घोर-दर्शनः ॥ २१॥
sa tena bāṇaiḥ prasabham nipātitaiḥ cakāra nādam ghana-nāda-niḥsvanaḥ . samutpapāta āśu nabhaḥ sa mārutiḥ bhuja-ūru-vikṣepaṇa ghora-darśanaḥ .. 21..
तमुत्पतन्तं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान् । रथी रथश्रेष्ठतमः किरञ्शरैः पयोधरः शैलमिवाश्मवृष्टिभिः ॥ २२॥
तम् उत्पतन्तम् समभिद्रवत् बली स राक्षसानाम् प्रवरः प्रतापवान् । रथी रथ-श्रेष्ठतमः किरन् शरैः पयोधरः शैलम् इव अश्म-वृष्टिभिः ॥ २२॥
tam utpatantam samabhidravat balī sa rākṣasānām pravaraḥ pratāpavān . rathī ratha-śreṣṭhatamaḥ kiran śaraiḥ payodharaḥ śailam iva aśma-vṛṣṭibhiḥ .. 22..
स ताञ्शरांस्तस्य विमोक्षयन्कपिश् चचार वीरः पथि वायुसेविते । शरान्तरे मारुतवद्विनिष्पतन् मनोजवः संयति चण्डविक्रमः ॥ २३॥
स तान् शरान् तस्य विमोक्षयन् कपिः चचार वीरः पथि वायु-सेविते । शर-अन्तरे मारुत-वत् विनिष्पतत् मनोजवः संयति चण्ड-विक्रमः ॥ २३॥
sa tān śarān tasya vimokṣayan kapiḥ cacāra vīraḥ pathi vāyu-sevite . śara-antare māruta-vat viniṣpatat manojavaḥ saṃyati caṇḍa-vikramaḥ .. 23..
तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विविधैः शरोत्तमैः । अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः ॥ २४॥
तम् आत्त-बाणासनम् आहव-उन्मुखम् खम् आस्तृणन्तम् विविधैः शर-उत्तमैः । अवैक्षत अक्षम् बहु-मान-चक्षुषा जगाम चिन्ताम् च स मारुतात्मजः ॥ २४॥
tam ātta-bāṇāsanam āhava-unmukham kham āstṛṇantam vividhaiḥ śara-uttamaiḥ . avaikṣata akṣam bahu-māna-cakṣuṣā jagāma cintām ca sa mārutātmajaḥ .. 24..
ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवर्येण महात्मना नदन् । महाभुजः कर्मविशेषतत्त्वविद् विचिन्तयामास रणे पराक्रमम् ॥ २५॥
ततस् शरैः भिन्न-भुजान्तरः कपिः कुमार-वर्येण महात्मना नदन् । महा-भुजः कर्म-विशेष-तत्त्व-विद् विचिन्तयामास रणे पराक्रमम् ॥ २५॥
tatas śaraiḥ bhinna-bhujāntaraḥ kapiḥ kumāra-varyeṇa mahātmanā nadan . mahā-bhujaḥ karma-viśeṣa-tattva-vid vicintayāmāsa raṇe parākramam .. 25..
अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः । न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते ॥ २६॥
अबाल-वत् बाल-दिवाकर-प्रभः करोति अयम् कर्म महत् महा-बलः । न च अस्य सर्व-आहव-कर्म-शोभिनः प्रमापणे मे मतिः अत्र जायते ॥ २६॥
abāla-vat bāla-divākara-prabhaḥ karoti ayam karma mahat mahā-balaḥ . na ca asya sarva-āhava-karma-śobhinaḥ pramāpaṇe me matiḥ atra jāyate .. 26..
अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे । असंशयं कर्मगुणोदयादयं सनागयक्षैर्मुनिभिश्च पूजितः ॥ २७॥
अयम् महात्मा च महान् च वीर्यतः समाहितः च अति सहः च संयुगे । असंशयम् कर्म-गुण-उदयात् अयम् स नाग-यक्षैः मुनिभिः च पूजितः ॥ २७॥
ayam mahātmā ca mahān ca vīryataḥ samāhitaḥ ca ati sahaḥ ca saṃyuge . asaṃśayam karma-guṇa-udayāt ayam sa nāga-yakṣaiḥ munibhiḥ ca pūjitaḥ .. 27..
पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखागतः स्थितः । पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रकारिणः ॥ २८॥
पराक्रम-उत्साह-विवृद्ध-मानसः समीक्षते माम् प्रमुख-आगतः स्थितः । पराक्रमः हि अस्य मनांसि कम्पयेत् सुर-असुराणाम् अपि शीघ्रकारिणः ॥ २८॥
parākrama-utsāha-vivṛddha-mānasaḥ samīkṣate mām pramukha-āgataḥ sthitaḥ . parākramaḥ hi asya manāṃsi kampayet sura-asurāṇām api śīghrakāriṇaḥ .. 28..
न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते । प्रमापणं त्वेव ममास्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः ॥ २९॥
न खलु अयम् न अभिभवेत् उपेक्षितः पराक्रमः हि अस्य रणे विवर्धते । प्रमापणम् तु एव मम अस्य रोचते न वर्धमानः अग्निः उपेक्षितुम् क्षमः ॥ २९॥
na khalu ayam na abhibhavet upekṣitaḥ parākramaḥ hi asya raṇe vivardhate . pramāpaṇam tu eva mama asya rocate na vardhamānaḥ agniḥ upekṣitum kṣamaḥ .. 29..
इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान् । चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वधे महाकपिः ॥ ३०॥
इति प्रवेगम् तु परस्य तर्कयन् स्व-कर्म-योगम् च विधाय वीर्यवान् । चकार वेगम् तु महा-बलः तदा मतिम् च चक्रे अस्य वधे महा-कपिः ॥ ३०॥
iti pravegam tu parasya tarkayan sva-karma-yogam ca vidhāya vīryavān . cakāra vegam tu mahā-balaḥ tadā matim ca cakre asya vadhe mahā-kapiḥ .. 30..
स तस्य तानष्टहयान्महाजवान् समाहितान्भारसहान्विवर्तने । जघान वीरः पथि वायुसेविते तलप्रहालैः पवनात्मजः कपिः ॥ ३१॥
स तस्य तान् अष्ट-हयान् महा-जवान् समाहितान् भार-सहान् विवर्तने । जघान वीरः पथि वायु-सेविते तल-प्रहालैः पवनात्मजः कपिः ॥ ३१॥
sa tasya tān aṣṭa-hayān mahā-javān samāhitān bhāra-sahān vivartane . jaghāna vīraḥ pathi vāyu-sevite tala-prahālaiḥ pavanātmajaḥ kapiḥ .. 31..
ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः । स भग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात् ॥ ३२॥
ततस् तलेन अभिहतः महा-रथः स तस्य पिङ्ग-अधिप-मन्त्रि-निर्जितः । स भग्न-नीडः परिमुक्त-कूबरः पपात भूमौ हत-वाजिः अम्बरात् ॥ ३२॥
tatas talena abhihataḥ mahā-rathaḥ sa tasya piṅga-adhipa-mantri-nirjitaḥ . sa bhagna-nīḍaḥ parimukta-kūbaraḥ papāta bhūmau hata-vājiḥ ambarāt .. 32..
स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतत् । तपोऽभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम् ॥ ३३॥
स तम् परित्यज्य महा-रथः रथम् स कार्मुकः खड्ग-धरः खम् उत्पतत् । तपः-अभियोगात् ऋषिः उग्र-वीर्यवान् विहाय देहम् मरुताम् इव आलयम् ॥ ३३॥
sa tam parityajya mahā-rathaḥ ratham sa kārmukaḥ khaḍga-dharaḥ kham utpatat . tapaḥ-abhiyogāt ṛṣiḥ ugra-vīryavān vihāya deham marutām iva ālayam .. 33..
कपिस्ततस्तः विचरन्तमम्बरे पतत्रिराजानिलसिद्धसेविते । समेत्य तं मारुतवेगविक्रमः क्रमेण जग्राह च पादयोर्दृढम् ॥ ३४॥
कपिः ततस् तस् विचरन्तम् अम्बरे पतत्रि-राज-अनिल-सिद्ध-सेविते । समेत्य तम् मारुत-वेग-विक्रमः क्रमेण जग्राह च पादयोः दृढम् ॥ ३४॥
kapiḥ tatas tas vicarantam ambare patatri-rāja-anila-siddha-sevite . sametya tam māruta-vega-vikramaḥ krameṇa jagrāha ca pādayoḥ dṛḍham .. 34..
स तं समाविध्य सहस्रशः कपिर् महोरगं गृह्य इवाण्डजेश्वरः । मुमोच वेगात्पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः ॥ ३५॥
स तम् समाविध्य सहस्रशस् कपिः महा-उरगम् गृह्य इव अण्डजेश्वरः । मुमोच वेगात् पितृ-तुल्य-विक्रमः मही-तले संयति वानर-उत्तमः ॥ ३५॥
sa tam samāvidhya sahasraśas kapiḥ mahā-uragam gṛhya iva aṇḍajeśvaraḥ . mumoca vegāt pitṛ-tulya-vikramaḥ mahī-tale saṃyati vānara-uttamaḥ .. 35..
स भग्नबाहूरुकटीशिरो धरः क्षरन्नसृन्निर्मथितास्थिलोचनः । स भिन्नसन्धिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः ॥ ३६॥
स भग्न-बाहु-ऊरु-कटी-शिरः धरः क्षरन् असृज्-निर्मथित-अस्थि-लोचनः । स भिन्न-सन्धिः प्रविकीर्ण-बन्धनः हतः क्षितौ वायुसुतेन राक्षसः ॥ ३६॥
sa bhagna-bāhu-ūru-kaṭī-śiraḥ dharaḥ kṣaran asṛj-nirmathita-asthi-locanaḥ . sa bhinna-sandhiḥ pravikīrṇa-bandhanaḥ hataḥ kṣitau vāyusutena rākṣasaḥ .. 36..
महाकपिर्भूमितले निपीड्य तं चकार रक्षोऽधिपतेर्महद्भयम् । महर्षिभिश्चक्रचरैर्महाव्रतैः समेत्य भूतैश्च सयक्षपन्नगैः । सुरैश्च सेन्द्रैर्भृशजातविस्मयैर् हते कुमारे स कपिर्निरीक्षितः ॥ ३७॥
महा-कपिः भूमि-तले निपीड्य तम् चकार रक्षः-अधिपतेः महत् भयम् । महा-ऋषिभिः चक्रचरैः महाव्रतैः समेत्य भूतैः च स यक्ष-पन्नगैः । सुरैः च स इन्द्रैः भृश-जात-विस्मयैः हते कुमारे स कपिः निरीक्षितः ॥ ३७॥
mahā-kapiḥ bhūmi-tale nipīḍya tam cakāra rakṣaḥ-adhipateḥ mahat bhayam . mahā-ṛṣibhiḥ cakracaraiḥ mahāvrataiḥ sametya bhūtaiḥ ca sa yakṣa-pannagaiḥ . suraiḥ ca sa indraiḥ bhṛśa-jāta-vismayaiḥ hate kumāre sa kapiḥ nirīkṣitaḥ .. 37..
निहत्य तं वज्रसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम् । तदेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ ३९॥
निहत्य तम् वज्रसुत-उपम-प्रभम् कुमारम् अक्षम् क्षतज-उपम-ईक्षणम् । तत् एव वीरः अभिजगाम तोरणम् कृतक्षणः कालः इव प्रजा-क्षये ॥ ३९॥
nihatya tam vajrasuta-upama-prabham kumāram akṣam kṣataja-upama-īkṣaṇam . tat eva vīraḥ abhijagāma toraṇam kṛtakṣaṇaḥ kālaḥ iva prajā-kṣaye .. 39..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In