This overlay will guide you through the buttons:

| |
|
ततस्तु शिंशपामूले जानकीं पर्यवस्थिताम् । अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ॥१॥
ततस् तु शिंशपा-मूले जानकीम् पर्यवस्थिताम् । अभिवाद्य अब्रवीत् दिष्ट्या पश्यामि त्वाम् इह अक्षताम् ॥१॥
tatas tu śiṃśapā-mūle jānakīm paryavasthitām . abhivādya abravīt diṣṭyā paśyāmi tvām iha akṣatām ..1..
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः । भर्तृस्नेहान्वितं वाक्यं हनूमन्तमभाषत ॥२॥
ततस् तम् प्रस्थितम् सीता वीक्षमाणा पुनर् पुनर् । भर्तृ-स्नेह-अन्वितम् वाक्यम् हनूमन्तम् अभाषत ॥२॥
tatas tam prasthitam sītā vīkṣamāṇā punar punar . bhartṛ-sneha-anvitam vākyam hanūmantam abhāṣata ..2..
यदि त्वं मन्यसे तात वसैकाहमिहानघ ॥ ।क्वचित् सुसंवृते देशे विश्रान्तः शवो गमिष्यसि॥३॥
यदि त्वम् मन्यसे तात वस एकाहम् इह अनघ ॥ ।क्वचिद् सु संवृते देशे विश्रान्तः शवः गमिष्यसि॥३॥
yadi tvam manyase tāta vasa ekāham iha anagha .. .kvacid su saṃvṛte deśe viśrāntaḥ śavaḥ gamiṣyasi..3..
मम चेवारपमाग्यायाः सांनिध्यात्तव वानर ॥ ।शोकस्यास्याप्रमेयसख मुहूर्तं स्याद्पि क्षयः॥४॥
मम च इव अरप-माग्यायाः सांनिध्यात् तव वानर ॥ ।शोकस्य अस्य अप्रमेय-सख मुहूर्तम् स्यात् अपि क्षयः॥४॥
mama ca iva arapa-māgyāyāḥ sāṃnidhyāt tava vānara .. .śokasya asya aprameya-sakha muhūrtam syāt api kṣayaḥ..4..
गते ह् हरिशादैल सुनः संम्प्राप्तये त्वयि।प्राणेष्वपि न विश्वासो मम् वानरपुङ्गव॥५॥
गते ह् हरिशादैल सुनः संम्प्राप्तये त्वयि।प्राणेषु अपि न विश्वासः मम् वानर-पुङ्गव॥५॥
gate h hariśādaila sunaḥ saṃmprāptaye tvayi.prāṇeṣu api na viśvāsaḥ mam vānara-puṅgava..5..
अदर्शनं च ते वीर भूयो मां दारयिष्यति।दुःखाद् दुखःतरं प्राप्न दु्र्मनदयोककर्विताम्॥६॥
अदर्शनम् च ते वीर भूयस् माम् दारयिष्यति।दुःखात् दुखःतरम्॥६॥
adarśanam ca te vīra bhūyas mām dārayiṣyati.duḥkhāt dukhaḥtaram..6..
अयं च वीर संदेहलिष्ठतीव ममाग्रतः।सुमहत्सु सहायेषु देषु महावलः॥७॥
अयम् च वीर संदेह-लिष्ठति इव मम अग्रतस्।सु महत्सु सहायेषु देषु महा-वलः॥७॥
ayam ca vīra saṃdeha-liṣṭhati iva mama agratas.su mahatsu sahāyeṣu deṣu mahā-valaḥ..7..
कथं नु खलु दुष्पारं संतरिष्यन्ति सागरम्।तानि हर्यृक्षसैन्यानि. तौ बा नरवरात्मजौ॥८॥
कथम् नु खलु दुष्पारम् संतरिष्यन्ति सागरम्।तानि हरि-ऋक्ष-सैन्यानि। तौ बा नर-वर-आत्मजौ॥८॥
katham nu khalu duṣpāram saṃtariṣyanti sāgaram.tāni hari-ṛkṣa-sainyāni. tau bā nara-vara-ātmajau..8..
त्रयाणामेव भूतानां सागरस्यापि लङ्घने।शक्तिः स्याद वैनतेयस्यस्य तव वां मारतस्य वा॥९॥
त्रयाणाम् एव भूतानाम् सागरस्य अपि लङ्घने।शक्तिः तव वाम् मारतस्य वा॥९॥
trayāṇām eva bhūtānām sāgarasya api laṅghane.śaktiḥ tava vām māratasya vā..9..
तदत्र कार्यनिर्बन्धे समुत्पन्ने दुरासदे।किं पश्यसि समाधानं त्वं हि कार्थविश्नारदः॥१०॥
तत् अत्र कार्य-निर्बन्धे समुत्पन्ने दुरासदे।किम् पश्यसि समाधानम् त्वम् हि कार्थ-विश्नारदः॥१०॥
tat atra kārya-nirbandhe samutpanne durāsade.kim paśyasi samādhānam tvam hi kārtha-viśnāradaḥ..10..
काममस्य त्वमेवैकः कार्यस्य परिसाधने । पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ॥११॥
कामम् अस्य त्वम् एव एकः कार्यस्य परिसाधने । पर्याप्तः पर-वीर-घ्न यशस्यः ते बल-उदयः ॥११॥
kāmam asya tvam eva ekaḥ kāryasya parisādhane . paryāptaḥ para-vīra-ghna yaśasyaḥ te bala-udayaḥ ..11..
बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः । मां नयेद्यदि काकुत्स्थस्तस्य तत्सादृशं भवेत् ॥१२॥
बलैः तु सङ्कुलाम् कृत्वा लङ्काम् पर-बल-अर्दनः । माम् नयेत् यदि काकुत्स्थः तस्य तत् सादृशम् भवेत् ॥१२॥
balaiḥ tu saṅkulām kṛtvā laṅkām para-bala-ardanaḥ . mām nayet yadi kākutsthaḥ tasya tat sādṛśam bhavet ..12..
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः । भवत्याहवशूरस्य तत्त्वमेवोपपादय ॥१३॥
तत् यथा तस्य विक्रान्तम् अनुरूपम् महात्मनः । भवति आहव-शूरस्य तत् त्वम् एव उपपादय ॥१३॥
tat yathā tasya vikrāntam anurūpam mahātmanaḥ . bhavati āhava-śūrasya tat tvam eva upapādaya ..13..
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् । निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत् ॥१४॥
तद्-अर्थ-उपहितम् वाक्यम् प्रश्रितम् हेतु-संहितम् । निशम्य हनुमान् तस्याः वाक्यम् उत्तरम् अब्रवीत् ॥१४॥
tad-artha-upahitam vākyam praśritam hetu-saṃhitam . niśamya hanumān tasyāḥ vākyam uttaram abravīt ..14..
देवि हर्य्मनयानामौशवरः प्लवतां वरः।सुग्रीवः सत्वसंपबनसवार्थं कृतनिश्चयः॥१५॥
देवि हरि-मनयानाम् औश-वरः प्लवताम् वरः।सुग्रीवः सत्व-संपबन-सव-अर्थम् कृत-निश्चयः॥१५॥
devi hari-manayānām auśa-varaḥ plavatām varaḥ.sugrīvaḥ satva-saṃpabana-sava-artham kṛta-niścayaḥ..15..
स वानरसहस्राणां कोटीभिरभिसंदृतः।क्षिप्रमेष्यति वैदेहि सुग्रीवः प्लवगाधिपः॥१६॥
स वानर-सहस्राणाम् कोटीभिः अभिसंदृतः।क्षिप्रम् एष्यति वैदेहि सुग्रीवः प्लवग-अधिपः॥१६॥
sa vānara-sahasrāṇām koṭībhiḥ abhisaṃdṛtaḥ.kṣipram eṣyati vaidehi sugrīvaḥ plavaga-adhipaḥ..16..
तौ च रीरौ नरवरौ सहितौ रामलक्ष्मणौ। आगम्य नगरीं लङ्का सायकेविषमिष्यतः॥१७॥
तौ च रीरौ नर-वरौ सहितौ राम-लक्ष्मणौ। आगम्य नगरीम् लङ्का सायकेविषम् इष्यतः॥१७॥
tau ca rīrau nara-varau sahitau rāma-lakṣmaṇau. āgamya nagarīm laṅkā sāyakeviṣam iṣyataḥ..17..
सगणं राक्षसं हत्वा नचिराद्रधुनन्दनः।त्वामादाय वरारोहे स्वां पुरीं यास्यति॥१८॥
स गणम् राक्षसम् हत्वा नचिरात् रधुनन्दनः।त्वाम् आदाय वरारोहे स्वाम् पुरीम् यास्यति॥१८॥
sa gaṇam rākṣasam hatvā nacirāt radhunandanaḥ.tvām ādāya varārohe svām purīm yāsyati..18..
समाश्वसिहि भद्रं ते भव त्वं कालकाङक्षिणी।क्षिप्रं द्रश्यसि रामेण निहतं रावणं रणे॥१९॥
समाश्वसिहि भद्रम् ते भव त्वम् काल-काङक्षिणी।क्षिप्रम् द्रश्यसि रामेण निहतम् रावणम् रणे॥१९॥
samāśvasihi bhadram te bhava tvam kāla-kāṅakṣiṇī.kṣipram draśyasi rāmeṇa nihatam rāvaṇam raṇe..19..
निहते राक्षसेन्द्रे च सुत्रामा्यवान्धवे।त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी॥२०॥
निहते राक्षस-इन्द्रे च सुत्रामाय-वान्धवे।त्वम् समेष्यसि रामेण शशाङ्केन इव रोहिणी॥२०॥
nihate rākṣasa-indre ca sutrāmāya-vāndhave.tvam sameṣyasi rāmeṇa śaśāṅkena iva rohiṇī..20..
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः । यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति ॥२१॥
क्षिप्रम् एष्यति काकुत्स्थः हरि-ऋक्ष-प्रवरैः वृतः । यः ते युधि विजित्य अरीन् शोकम् व्यपनयिष्यति ॥२१॥
kṣipram eṣyati kākutsthaḥ hari-ṛkṣa-pravaraiḥ vṛtaḥ . yaḥ te yudhi vijitya arīn śokam vyapanayiṣyati ..21..
एवमाश्वास्य वैदेहीं हनूमान्मारुतात्मजः । गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ॥२२॥
एवम् आश्वास्य वैदेहीम् हनूमान् मारुतात्मजः । गमनाय मतिम् कृत्वा वैदेहीम् अभ्यवादयत् ॥२२॥
evam āśvāsya vaidehīm hanūmān mārutātmajaḥ . gamanāya matim kṛtvā vaidehīm abhyavādayat ..22..
राक्षसान् प्रवरान् हत्वा नाम विश्राव्य चात्मनः।समाश्वाख च वैदेहीं दर्शयित्वा परं बलम्॥॥२३॥
राक्षसान् प्रवरान् हत्वा नाम विश्राव्य च आत्मनः।समाश्वाख च वैदेहीम् दर्शयित्वा परम् बलम्॥॥२३॥
rākṣasān pravarān hatvā nāma viśrāvya ca ātmanaḥ.samāśvākha ca vaidehīm darśayitvā param balam....23..
नगरीमालां कृत्वा वश्चयित्वा च रावणम्।दशेयित्वा बरं ोरं वैदेहीमभिवा् च॥२४॥
नगरी-मालाम् कृत्वा वश्चयित्वा च रावणम्।दश इयित्वा च॥२४॥
nagarī-mālām kṛtvā vaścayitvā ca rāvaṇam.daśa iyitvā ca..24..
प्रतिगन्तुं मनश्चके पुनर्मध्येन सागरम्।ततः स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः ॥२५॥
प्रतिगन्तुम् मनः चके पुनर् मध्येन सागरम्।ततस् स कपि-शार्दूलः स्वामि-सन्दर्शन-उत्सुकः ॥२५॥
pratigantum manaḥ cake punar madhyena sāgaram.tatas sa kapi-śārdūlaḥ svāmi-sandarśana-utsukaḥ ..25..
आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ।तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः ॥२६॥
आरुरोह गिरि-श्रेष्ठम् अरिष्टम् अरि-मर्दनः ।तुङ्ग-पद्मक-जुष्टाभिः नीलाभिः वन-राजिभिः ॥२६॥
āruroha giri-śreṣṭham ariṣṭam ari-mardanaḥ .tuṅga-padmaka-juṣṭābhiḥ nīlābhiḥ vana-rājibhiḥ ..26..
सोत्तरीयमिवाम्भोदैः शृंगान्तरविलम्बिभिः।बोध्यमानमिव प्रीत्या दिवाकरकरैश्शुभैः॥२७॥
स उत्तरीयम् इव अम्भोदैः शृंग-अन्तर-विलम्बिभिः।बोध्यमानम् इव प्रीत्या दिवाकर-करैः शुभैः॥२७॥
sa uttarīyam iva ambhodaiḥ śṛṃga-antara-vilambibhiḥ.bodhyamānam iva prītyā divākara-karaiḥ śubhaiḥ..27..
उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः।तोयौघननिस्स्वनैर्मन्द्रैः प्राधीतमिव पर्वतम्॥२८॥
उन्मिषन्तम् इव उद्धूतैः लोचनैः इव धातुभिः।तोय-ओघन-निस्स्वनैः मन्द्रैः प्राधीतम् इव पर्वतम्॥२८॥
unmiṣantam iva uddhūtaiḥ locanaiḥ iva dhātubhiḥ.toya-oghana-nissvanaiḥ mandraiḥ prādhītam iva parvatam..28..
प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्वनैः।देवदारुभिरत्युच्चैरूर्ध्वबाहुमिव स्थितम्॥२९॥
प्रगीतम् इव विस्पष्टैः नाना प्रस्रवण-स्वनैः।देवदारुभिः अत्युच्चैस् ऊर्ध्व-बाहुम् इव स्थितम्॥२९॥
pragītam iva vispaṣṭaiḥ nānā prasravaṇa-svanaiḥ.devadārubhiḥ atyuccais ūrdhva-bāhum iva sthitam..29..
प्रपातजलनिर्घोषैः प्राक्रुष्टमिव सर्वतः।वेपमानमिव श्यामैः कम्पमानैश्शरद्वनैः॥३०॥
प्रपात-जल-निर्घोषैः प्राक्रुष्टम् इव सर्वतस्।वेपमानम् इव श्यामैः कम्पमानैः शरद्-वनैः॥३०॥
prapāta-jala-nirghoṣaiḥ prākruṣṭam iva sarvatas.vepamānam iva śyāmaiḥ kampamānaiḥ śarad-vanaiḥ..30..
वेणुभिर्मारुतोद्धूतैः कूजन्तमिव कीचकैः।निश्श्वसन्तमिवामर्षाद्घोरैराशीविषोत्तमैः॥।३१॥
वेणुभिः मारुत-उद्धूतैः कूजन्तम् इव कीचकैः।निश्श्वसन्तम् इव आमर्षात् घोरैः आशीविष-उत्तमैः॥।३१॥
veṇubhiḥ māruta-uddhūtaiḥ kūjantam iva kīcakaiḥ.niśśvasantam iva āmarṣāt ghoraiḥ āśīviṣa-uttamaiḥ...31..
नीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः।मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः॥३२॥
नीहार-कृत-गम्भीरैः ध्यायन्तम् इव गह्वरैः।मेघ-पाद-निभैः पादैः प्रक्रान्तम् इव सर्वतस्॥३२॥
nīhāra-kṛta-gambhīraiḥ dhyāyantam iva gahvaraiḥ.megha-pāda-nibhaiḥ pādaiḥ prakrāntam iva sarvatas..32..
जृंम्भमाणमिवाऽकाशे शिखरैरभ्रमालिभिः।कूटैश्च बहुधा कीर्णैश्शोभितं बहुकन्दरैः॥३३॥
जृंम्भमाणम् इव आकाशे शिखरैः अभ्र-मालिभिः।कूटैः च बहुधा कीर्णैः शोभितम् बहु-कन्दरैः॥३३॥
jṛṃmbhamāṇam iva ākāśe śikharaiḥ abhra-mālibhiḥ.kūṭaiḥ ca bahudhā kīrṇaiḥ śobhitam bahu-kandaraiḥ..33..
सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम् ।लतावितानैर्विततैः पुष्पवद्भिरलङ्कृतम्॥३४॥
साल-ताल-अश्वकर्णैः च वंशैः च बहुभिः वृतम् ।लता-वितानैः विततैः पुष्पवद्भिः अलङ्कृतम्॥३४॥
sāla-tāla-aśvakarṇaiḥ ca vaṃśaiḥ ca bahubhiḥ vṛtam .latā-vitānaiḥ vitataiḥ puṣpavadbhiḥ alaṅkṛtam..34..
नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम्।बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम्॥३५॥
नाना मृग-गण-आकीर्णम् धातु-निस्यन्द-भूषितम्।बहु-प्रस्रवण-उपेतम् शिला-सञ्चय-सङ्कटम्॥३५॥
nānā mṛga-gaṇa-ākīrṇam dhātu-nisyanda-bhūṣitam.bahu-prasravaṇa-upetam śilā-sañcaya-saṅkaṭam..35..
महर्षियक्षगन्धर्वकिन्नरोरगसेवितम्।लतापादपसङ्घातं सिंहाध्युषितकन्दरम्॥३६॥
महा-ऋषि-यक्ष-गन्धर्व-किन्नर-उरग-सेवितम्।लता-पादप-सङ्घातम् सिंह-अध्युषित-कन्दरम्॥३६॥
mahā-ṛṣi-yakṣa-gandharva-kinnara-uraga-sevitam.latā-pādapa-saṅghātam siṃha-adhyuṣita-kandaram..36..
व्याघ्रसङ्घसमाकीर्णं स्वादुमूलफलद्रुमम्।तमारुरोहातिबलः पर्वतं प्लवगोत्तमः ॥३७॥
व्याघ्र-सङ्घ-समाकीर्णम् स्वादु-मूल-फल-द्रुमम्।तम् आरुरोह अतिबलः पर्वतम् प्लवग-उत्तमः ॥३७॥
vyāghra-saṅgha-samākīrṇam svādu-mūla-phala-drumam.tam āruroha atibalaḥ parvatam plavaga-uttamaḥ ..37..
रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः ।तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु ॥३८॥
राम-दर्शन-शीघ्रेण प्रहर्षेण अभिचोदितः ।तेन पाद-तल-आक्रान्ताः रम्येषु गिरि-सानुषु ॥३८॥
rāma-darśana-śīghreṇa praharṣeṇa abhicoditaḥ .tena pāda-tala-ākrāntāḥ ramyeṣu giri-sānuṣu ..38..
सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः ।स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः ॥३९॥
स घोषाः समशीर्यन्त शिलाः चूर्णीकृताः ततस् ।स तम् आरुह्य शैल-इन्द्रम् व्यवर्धत महा-कपिः ॥३९॥
sa ghoṣāḥ samaśīryanta śilāḥ cūrṇīkṛtāḥ tatas .sa tam āruhya śaila-indram vyavardhata mahā-kapiḥ ..39..
दक्षिणादुत्तरं पारं प्रार्थयँल्लवणाम्भसः ।अधिरुह्य ततो वीरः पर्वतं पवनात्मजः ॥४०॥
दक्षिणात् उत्तरम् पारम् प्रार्थयन् लवणाम्भसः ।अधिरुह्य ततस् वीरः पर्वतम् पवनात्मजः ॥४०॥
dakṣiṇāt uttaram pāram prārthayan lavaṇāmbhasaḥ .adhiruhya tatas vīraḥ parvatam pavanātmajaḥ ..40..
ददर्श सागरं भीमं मीनोरगनिषेवितम् ।स मारुत इवाकाशं मारुतस्यात्मसम्भवः ॥४१॥
ददर्श सागरम् भीमम् मीन-उरग-निषेवितम् ।स मारुतः इव आकाशम् मारुतस्य आत्म-सम्भवः ॥४१॥
dadarśa sāgaram bhīmam mīna-uraga-niṣevitam .sa mārutaḥ iva ākāśam mārutasya ātma-sambhavaḥ ..41..
प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ।स तदा पीडितस्तेन कपिना पर्वतोत्तमः ॥४२॥
प्रपेदे हरि-शार्दूलः दक्षिणात् उत्तराम् दिशम् ।स तदा पीडितः तेन कपिना पर्वत-उत्तमः ॥४२॥
prapede hari-śārdūlaḥ dakṣiṇāt uttarām diśam .sa tadā pīḍitaḥ tena kapinā parvata-uttamaḥ ..42..
ररास सह तैर्भूतैः प्राविशद्वसुधातलम् ।कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः॥४३॥
ररास सह तैः भूतैः प्राविशत् वसुधा-तलम् ।कम्पमानैः च शिखरैः पतद्भिः अपि च द्रुमैः॥४३॥
rarāsa saha taiḥ bhūtaiḥ prāviśat vasudhā-talam .kampamānaiḥ ca śikharaiḥ patadbhiḥ api ca drumaiḥ..43..
तस्योरुवेगान्मथिताः पादपाः पुष्पशालिनः । निपेतुर्भूतले रुग्णाः शक्रायुधहता इव ॥४४॥
तस्य ऊरु-वेगात् मथिताः पादपाः पुष्प-शालिनः । निपेतुः भू-तले रुग्णाः शक्र-आयुध-हताः इव ॥४४॥
tasya ūru-vegāt mathitāḥ pādapāḥ puṣpa-śālinaḥ . nipetuḥ bhū-tale rugṇāḥ śakra-āyudha-hatāḥ iva ..44..
कन्दरोदरसंस्थानां पीडितानां महौजसाम् । सिंहानां निनदो भीमो नभो भिन्दन्स शुश्रुवे ॥४५॥
कन्दर-उदर-संस्थानाम् पीडितानाम् महा-ओजसाम् । सिंहानाम् निनदः भीमः नभः भिन्दन् स शुश्रुवे ॥४५॥
kandara-udara-saṃsthānām pīḍitānām mahā-ojasām . siṃhānām ninadaḥ bhīmaḥ nabhaḥ bhindan sa śuśruve ..45..
स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणा । विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ॥४६॥
स्रस्त-व्याविद्ध-वसनाः व्याकुलीकृत-भूषणा । विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ॥४६॥
srasta-vyāviddha-vasanāḥ vyākulīkṛta-bhūṣaṇā . vidyādharyaḥ samutpetuḥ sahasā dharaṇīdharāt ..46..
अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः । निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः ॥४७॥
अतिप्रमाणाः बलिनः दीप्त-जिह्वाः महाविषाः । निपीडित-शिरः-ग्रीवाः व्यवेष्टन्त महा-अहयः ॥४७॥
atipramāṇāḥ balinaḥ dīpta-jihvāḥ mahāviṣāḥ . nipīḍita-śiraḥ-grīvāḥ vyaveṣṭanta mahā-ahayaḥ ..47..
किंनरोरगगन्धर्वयक्षविद्याधरास्तथा । पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ॥४८॥
किंनर-उरग-गन्धर्व-यक्ष-विद्याधराः तथा । पीडितम् तम् नग-वरम् त्यक्त्वा गगनम् आस्थिताः ॥४८॥
kiṃnara-uraga-gandharva-yakṣa-vidyādharāḥ tathā . pīḍitam tam naga-varam tyaktvā gaganam āsthitāḥ ..48..
स च भूमिधरः श्रीमान्बलिना तेन पीडितः । सवृक्षशिखरोदग्राः प्रविवेश रसातलम् ॥४९॥
स च भूमिधरः श्रीमान् बलिना तेन पीडितः । स वृक्ष-शिखर-उदग्राः प्रविवेश रसातलम् ॥४९॥
sa ca bhūmidharaḥ śrīmān balinā tena pīḍitaḥ . sa vṛkṣa-śikhara-udagrāḥ praviveśa rasātalam ..49..
दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः । धरण्यां समतां यातः स बभूव धराधरः ॥५०॥
दश-योजन-विस्तारः त्रिंशत्-योजनम् उच्छ्रितः । धरण्याम् समताम् यातः स बभूव धराधरः ॥५०॥
daśa-yojana-vistāraḥ triṃśat-yojanam ucchritaḥ . dharaṇyām samatām yātaḥ sa babhūva dharādharaḥ ..50..
स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम्।कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः॥५१॥
स लिलङ्घयिषुः भीमम् स लीलम् लवणार्णवम्।कल्लोल-आस्फाल-वेला-अन्तम् उत्पपात नभः हरिः॥५१॥
sa lilaṅghayiṣuḥ bhīmam sa līlam lavaṇārṇavam.kallola-āsphāla-velā-antam utpapāta nabhaḥ hariḥ..51..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In