This overlay will guide you through the buttons:

| |
|
एतदाख्यानं तत्सर्वं हनूमान्मारुतात्मजः । भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ॥१॥
एतत् आख्यानम् तत् सर्वम् हनूमान् मारुतात्मजः । भूयस् समुपचक्राम वचनम् वक्तुम् उत्तरम् ॥१॥
etat ākhyānam tat sarvam hanūmān mārutātmajaḥ . bhūyas samupacakrāma vacanam vaktum uttaram ..1..
सफलो राघवोद्योगः सुग्रीवस्य च सम्भ्रमः । शीलमासाद्य सीताया मम च प्लवनं महत् ॥२॥
सफलः राघव-उद्योगः सुग्रीवस्य च सम्भ्रमः । शीलम् आसाद्य सीतायाः मम च प्लवनम् महत् ॥२॥
saphalaḥ rāghava-udyogaḥ sugrīvasya ca sambhramaḥ . śīlam āsādya sītāyāḥ mama ca plavanam mahat ..2..
आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः । तपसा धारयेल्लोकान्क्रुद्धा वा निर्दहेदपि ॥३॥
आर्यायाः सदृशम् शीलम् सीतायाः प्लवग-ऋषभाः । तपसा धारयेत् लोकान् क्रुद्धा वा निर्दहेत् अपि ॥३॥
āryāyāḥ sadṛśam śīlam sītāyāḥ plavaga-ṛṣabhāḥ . tapasā dhārayet lokān kruddhā vā nirdahet api ..3..
सर्वथातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः । यस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ॥४॥
सर्वथा अतिप्रवृद्धः असौ रावणः राक्षस-अधिपः । यस्य ताम् स्पृशतः गात्रम् तपसा न विनाशितम् ॥४॥
sarvathā atipravṛddhaḥ asau rāvaṇaḥ rākṣasa-adhipaḥ . yasya tām spṛśataḥ gātram tapasā na vināśitam ..4..
न तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सती । जनकस्यात्मजा कुर्यादुत्क्रोधकलुषीकृता ॥५॥
न तत् अग्नि-शिखा कुर्यात् संस्पृष्टा पाणिना सती । जनकस्य आत्मजा कुर्यात् उत्क्रोध-कलुषीकृता ॥५॥
na tat agni-śikhā kuryāt saṃspṛṣṭā pāṇinā satī . janakasya ātmajā kuryāt utkrodha-kaluṣīkṛtā ..5..
जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन्।अस्मिन्नेवं गते कार्ये भवतां च निवेदिते। न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ॥६॥
जाम्बवत्-प्रमुखान् सर्वान् अनुज्ञाप्य महा-हरीन्।अस्मिन् एवम् गते कार्ये भवताम् च निवेदिते। न्याय्यम् स्म सह वैदेह्या द्रष्टुम् तौ पार्थिव-आत्मजौ॥६॥
jāmbavat-pramukhān sarvān anujñāpya mahā-harīn.asmin evam gate kārye bhavatām ca nivedite. nyāyyam sma saha vaidehyā draṣṭum tau pārthiva-ātmajau..6..
अहमेकोऽपि पर्याप्तस्सराक्षसगणां पुरीम्।तां लङ्कां तरसा हन्तुं रावणं च महाबलम्॥७॥
अहम् एकः अपि पर्याप्तः सराक्षस-गणाम् पुरीम्।ताम् लङ्काम् तरसा हन्तुम् रावणम् च महा-बलम्॥७॥
aham ekaḥ api paryāptaḥ sarākṣasa-gaṇām purīm.tām laṅkām tarasā hantum rāvaṇam ca mahā-balam..7..
किं पुन स्सहितो वीरैर्बलवद्भिः कृतात्मभिः।कृतास्त्रै: प्लवगैश्शूरैर्भवद्भिविजयैषिभिः॥८॥
किम् पुनर् स्सहितः वीरैः बलवद्भिः कृतात्मभिः।कृतास्त्रैः प्लवगैः शूरैः भवद्भिः विजय-एषिभिः॥८॥
kim punar ssahitaḥ vīraiḥ balavadbhiḥ kṛtātmabhiḥ.kṛtāstraiḥ plavagaiḥ śūraiḥ bhavadbhiḥ vijaya-eṣibhiḥ..8..
अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम्।सहपुत्त्रं वधिष्यामि सहोदरयुतं युधि॥९॥
अहम् तु रावणम् युद्धे स सैन्यम् स पुरस्सरम्।सह पुत्त्रम् वधिष्यामि सहोदर-युतम् युधि॥९॥
aham tu rāvaṇam yuddhe sa sainyam sa purassaram.saha puttram vadhiṣyāmi sahodara-yutam yudhi..9..
ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारणं तथा। यदि शक्रजितोऽस्त्राणि दुर्निरीक्षाणि संयुगे।तान्यहं वधिष्यामि हनिष्यामि च राक्षसान्॥१०॥
ब्राह्मम् ऐन्द्रम् च रौद्रम् च वायव्यम् वारणम् तथा। यदि शक्रजितः अस्त्राणि दुर्निरीक्षाणि संयुगे।तानि अहम् वधिष्यामि हनिष्यामि च राक्षसान्॥१०॥
brāhmam aindram ca raudram ca vāyavyam vāraṇam tathā. yadi śakrajitaḥ astrāṇi durnirīkṣāṇi saṃyuge.tāni aham vadhiṣyāmi haniṣyāmi ca rākṣasān..10..
भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम्।मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा॥११॥
भवताम् अभ्यनुज्ञातः विक्रमः मे रुणद्धि तम्।मया अतुला विसृष्टा हि शैल-वृष्टिः निरन्तरा॥११॥
bhavatām abhyanujñātaḥ vikramaḥ me ruṇaddhi tam.mayā atulā visṛṣṭā hi śaila-vṛṣṭiḥ nirantarā..11..
देवानपि रणे हन्यात्किं पुनस्तान्निशाचरान्।भवतामननुज्ञातो विक्रमो मे रूणध्दि माम्॥१२॥
देवान् अपि रणे हन्यात् किम् पुनर् तान् निशाचरान्।भवताम् अननुज्ञातः विक्रमः मे माम्॥१२॥
devān api raṇe hanyāt kim punar tān niśācarān.bhavatām ananujñātaḥ vikramaḥ me mām..12..
सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि।न जाम्बवन्तं समरे कम्पयेदरिवाहिनी॥१३॥
सागरः अपि अतियात् वेलाम् मन्दरः प्रचलेत् अपि।न जाम्बवन्तम् समरे कम्पयेत् अरि-वाहिनी॥१३॥
sāgaraḥ api atiyāt velām mandaraḥ pracalet api.na jāmbavantam samare kampayet ari-vāhinī..13..
सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः।अलमेको विनाशाय वीरो वालिसुतः कपिः॥१४॥
सर्व-राक्षस-सङ्घानाम् राक्षसाः ये च पूर्वकाः।अलम् एकः विनाशाय वीरः वालि-सुतः कपिः॥१४॥
sarva-rākṣasa-saṅghānām rākṣasāḥ ye ca pūrvakāḥ.alam ekaḥ vināśāya vīraḥ vāli-sutaḥ kapiḥ..14..
पनसस्योरुवेगेन नीलस्य च महात्मनः।मन्दरोऽप्यवशीर्येत किंपुनर्युधि राक्षसाः॥१५॥
पनसस्य ऊरु-वेगेन नीलस्य च महात्मनः।मन्दरः अपि अवशीर्येत किम् पुनर् युधि राक्षसाः॥१५॥
panasasya ūru-vegena nīlasya ca mahātmanaḥ.mandaraḥ api avaśīryeta kim punar yudhi rākṣasāḥ..15..
सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु।मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा॥१६॥
स देव-असुर-यक्षेषु गन्धर्व-उरग-पक्षिषु।मैन्दस्य प्रतियोद्धारम् शंसत द्विविदस्य वा॥१६॥
sa deva-asura-yakṣeṣu gandharva-uraga-pakṣiṣu.maindasya pratiyoddhāram śaṃsata dvividasya vā..16..
अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ।एतयोः प्रतियोद्दारं न पश्यामि रणाजिरे॥१७॥
अश्वि-पुत्रौ महाभागौ एतौ प्लवग-सत्तमौ।एतयोः न पश्यामि रण-अजिरे॥१७॥
aśvi-putrau mahābhāgau etau plavaga-sattamau.etayoḥ na paśyāmi raṇa-ajire..17..
मयैव निहता लङ्का दग्धा भस्सीकृता पुँनः ।राजमार्गेषु सर्वेषु नाम विश्रावितं मया॥१८॥
मया एव निहता लङ्का दग्धा भस्सीकृता पु~नर् ।राजमार्गेषु सर्वेषु नाम विश्रावितम् मया॥१८॥
mayā eva nihatā laṅkā dagdhā bhassīkṛtā pu~nar .rājamārgeṣu sarveṣu nāma viśrāvitam mayā..18..
जयल्यतिवलो रामो सक्ष्मणश्च महाबलः।राजा नयति सुग्रीवो राधवेणाभिपारितः॥१९॥
महा-बलः।राजा नयति सुग्रीवः राधवेण अभिपारितः॥१९॥
mahā-balaḥ.rājā nayati sugrīvaḥ rādhaveṇa abhipāritaḥ..19..
अह कोसरुराजख दासः पथनसंभवः।हचुमानिति सर्वत्र नाम विश्रावितं मया॥२०॥
अह दासः पथन-संभवः।हचुमान् इति सर्वत्र नाम विश्रावितम् मया॥२०॥
aha dāsaḥ pathana-saṃbhavaḥ.hacumān iti sarvatra nāma viśrāvitam mayā..20..
अशोकवनिकामध्ये रावणस्य दुरात्मनः।अधस्ताच्छिशुपावृक्षे साध्वी करुणमासिता॥२१॥
अशोक-वनिका-मध्ये रावणस्य दुरात्मनः।अधस्तात् शिशु-पावृक्षे साध्वी करुणम् आसिता॥२१॥
aśoka-vanikā-madhye rāvaṇasya durātmanaḥ.adhastāt śiśu-pāvṛkṣe sādhvī karuṇam āsitā..21..
राक्षसीभिः परिवृता शोकसंतापकहिता।मेघरेखापरिवृता चन्द्रलेखेव निष्रभा॥२२॥
राक्षसीभिः परिवृता शोक-संतापक-हिता।मेघ-रेखा-परिवृता चन्द्र-लेखा इव निष्रभा॥२२॥
rākṣasībhiḥ parivṛtā śoka-saṃtāpaka-hitā.megha-rekhā-parivṛtā candra-lekhā iva niṣrabhā..22..
अचिन्तयन्ती वैदेही रावणं बलदर्पितम्।पतिव्रता च सुभ्रोणी अवष्टन्धा च जानकी॥२३॥
अ चिन्तयन्ती वैदेही रावणम् बल-दर्पितम्।पतिव्रता च सुभ्रोणी अवष्टन्धा च जानकी॥२३॥
a cintayantī vaidehī rāvaṇam bala-darpitam.pativratā ca subhroṇī avaṣṭandhā ca jānakī..23..
अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा।अनन्यचित्ता रामे च पौलोमीव पुरन्दरे॥२४॥
अनुरक्ता हि वैदेही रामम् सर्व-आत्मना शुभा।अन् अन्य-चित्ता रामे च पौलोमी इव पुरन्दरे॥२४॥
anuraktā hi vaidehī rāmam sarva-ātmanā śubhā.an anya-cittā rāme ca paulomī iva purandare..24..
तदेकवासस्पंवीता रजोध्वसता तथैव च।सा मया राक्षसीमध्ये त्जर्यमाना मुहर्मुहुः॥२५॥
तद्-एक-वासस्पंवीता रजः-ध्वस-ता तथा एव च।सा मया राक्षसी-मध्ये त्जर्यमाना मुहर् मुहुर्॥२५॥
tad-eka-vāsaspaṃvītā rajaḥ-dhvasa-tā tathā eva ca.sā mayā rākṣasī-madhye tjaryamānā muhar muhur..25..
राक्षसीभिर्विरूपामिर्ख्टा हि प्रमदावने।एकवेणीधरा दीना भर्तृचिन्तापरायणा॥२६॥
राक्षसीभिः विरूपामिः हि प्रमदा-वने।एक-वेणी-धरा दीना भर्तृ-चिन्ता-परायणा॥२६॥
rākṣasībhiḥ virūpāmiḥ hi pramadā-vane.eka-veṇī-dharā dīnā bhartṛ-cintā-parāyaṇā..26..
अधःशय्या पिवर्णाङ्गी पद्मिनीव हिमागमेः।रावणादिनिवृत्ता्थी मर्तव्यकृतनिश्चया॥२७॥
अधस् शय्या पिवर्ण-अङ्गी पद्मिनी इव हिम-आगमेः।मर्तव्य-कृत-निश्चया॥२७॥
adhas śayyā pivarṇa-aṅgī padminī iva hima-āgameḥ.martavya-kṛta-niścayā..27..
कथंचिन्मृगशाबाक्षी विश्वासमुपपादिता।ततः संभाषिता चैव सर्वनर्थं प्रकाशिता॥२८॥
कथंचिद् मृगशाबाक्षी विश्वासम् उपपादिता।ततस् संभाषिता च एव सर्व-अनर्थम् प्रकाशिता॥२८॥
kathaṃcid mṛgaśābākṣī viśvāsam upapāditā.tatas saṃbhāṣitā ca eva sarva-anartham prakāśitā..28..
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिषुपागता।नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा॥२९॥
राम-सुग्रीव-सख्यम् च श्रुत्वा प्रीतिषु उपागता।नियतः समुदाचारः भक्तिः भर्तरि च उत्तमा॥२९॥
rāma-sugrīva-sakhyam ca śrutvā prītiṣu upāgatā.niyataḥ samudācāraḥ bhaktiḥ bhartari ca uttamā..29..
यन्न हन्ति दशग्रीवं स महात्मा दशाननः । निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ॥३०॥
यत् न हन्ति दशग्रीवम् स महात्मा दशाननः । निमित्त-मात्रम् रामः तु वधे तस्य भविष्यति ॥३०॥
yat na hanti daśagrīvam sa mahātmā daśānanaḥ . nimitta-mātram rāmaḥ tu vadhe tasya bhaviṣyati ..30..
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच कर्शिता।प्रतिपत्पाठशीलस्य विघेव तनुतां गता ॥३१॥
सा प्रकृत्या एव तन्वङ्गी तद्-वियोगात् च कर्शिता।प्रतिपद्-पाठ-शीलस्य विघा इव तनु-ताम् गता ॥३१॥
sā prakṛtyā eva tanvaṅgī tad-viyogāt ca karśitā.pratipad-pāṭha-śīlasya vighā iva tanu-tām gatā ..31..
एवमास्ते महाभागा सीता शोकपरायणा । यदत्र प्रतिकर्तव्यं तत्सर्वमुपपाद्यताम् ॥३२॥
एवम् आस्ते महाभागा सीता शोक-परायणा । यत् अत्र प्रतिकर्तव्यम् तत् सर्वम् उपपाद्यताम् ॥३२॥
evam āste mahābhāgā sītā śoka-parāyaṇā . yat atra pratikartavyam tat sarvam upapādyatām ..32..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In