This overlay will guide you through the buttons:

| |
|
अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमम् । तव स्नेहान्नरव्याघ्र सौहार्यादनुमान्य च ॥ १॥
अथ अहम् उत्तरम् देव्या पुनर् उक्तः स सम्भ्रमम् । तव स्नेहात् नर-व्याघ्र सौहार्यात् अनुमान्य च ॥ १॥
atha aham uttaram devyā punar uktaḥ sa sambhramam . tava snehāt nara-vyāghra sauhāryāt anumānya ca .. 1..
एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया । यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे ॥ २॥
एवम् बहुविधम् वाच्यः रामः दाशरथिः त्वया । यथा माम् आप्नुयात् शीघ्रम् हत्वा रावणम् आहवे ॥ २॥
evam bahuvidham vācyaḥ rāmaḥ dāśarathiḥ tvayā . yathā mām āpnuyāt śīghram hatvā rāvaṇam āhave .. 2..
यदि वा मन्यसे वीर वसैकाहमरिन्दम । कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥ ३॥
यदि वा मन्यसे वीर वस एकाहम् अरिन्दम । कस्मिंश्चिद् संवृते देशे विश्रान्तः श्वस् गमिष्यसि ॥ ३॥
yadi vā manyase vīra vasa ekāham arindama . kasmiṃścid saṃvṛte deśe viśrāntaḥ śvas gamiṣyasi .. 3..
मम चाप्यल्पभाग्यायाः साम्निध्यात्तव वानर । अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम् ॥ ४॥
मम च अपि अल्पभाग्यायाः साम्निध्यात् तव वानर । अस्य शोक-विपाकस्य मुहूर्तम् स्यात् विमोक्षणम् ॥ ४॥
mama ca api alpabhāgyāyāḥ sāmnidhyāt tava vānara . asya śoka-vipākasya muhūrtam syāt vimokṣaṇam .. 4..
गते हि त्वयि विक्रान्ते पुनरागमनाय वै । प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ॥ ५॥
गते हि त्वयि विक्रान्ते पुनरागमनाय वै । प्राणानाम् अपि सन्देहः मम स्यात् न अत्र संशयः ॥ ५॥
gate hi tvayi vikrānte punarāgamanāya vai . prāṇānām api sandehaḥ mama syāt na atra saṃśayaḥ .. 5..
तवादर्शनजः शोको भूयो मां परितापयेत् । दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम् ॥ ६॥
तव अदर्शन-जः शोकः भूयस् माम् परितापयेत् । दुःखात् दुःख-पराभूताम् दुर्गताम् दुःख-भागिनीम् ॥ ६॥
tava adarśana-jaḥ śokaḥ bhūyas mām paritāpayet . duḥkhāt duḥkha-parābhūtām durgatām duḥkha-bhāginīm .. 6..
अयं तु वीरसन्देहस्तिष्ठतीव ममाग्रतः । सुमहांस्त्वत्सहायेषु हर्यृक्षेषु असंशयः ॥ ७॥
अयम् तु वीर-सन्देहः तिष्ठति इव मम अग्रतस् । सु महान् त्वद्-सहायेषु हरि-ऋक्षेषु असंशयः ॥ ७॥
ayam tu vīra-sandehaḥ tiṣṭhati iva mama agratas . su mahān tvad-sahāyeṣu hari-ṛkṣeṣu asaṃśayaḥ .. 7..
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् । तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ ८॥
कथम् नु खलु दुष्पारम् तरिष्यन्ति महा-उदधिम् । तानि हरि-ऋक्ष-सैन्यानि तौ वा नर-वर-आत्मजौ ॥ ८॥
katham nu khalu duṣpāram tariṣyanti mahā-udadhim . tāni hari-ṛkṣa-sainyāni tau vā nara-vara-ātmajau .. 8..
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने । शक्तिः स्याद्वैनतेयस्य वायोर्वा तव वानघ ॥ ९॥
त्रयाणाम् एव भूतानाम् सागरस्य अस्य लङ्घने । शक्तिः स्यात् वैनतेयस्य वायोः वा तव वा अनघ ॥ ९॥
trayāṇām eva bhūtānām sāgarasya asya laṅghane . śaktiḥ syāt vainateyasya vāyoḥ vā tava vā anagha .. 9..
तदस्मिन्कार्यनियोगे वीरैवं दुरतिक्रमे । किं पश्यसि समाधानं ब्रूहि कार्यविदां वर ॥ १०॥
तत् अस्मिन् कार्य-नियोगे वीर एवम् दुरतिक्रमे । किम् पश्यसि समाधानम् ब्रूहि कार्य-विदाम् वर ॥ १०॥
tat asmin kārya-niyoge vīra evam duratikrame . kim paśyasi samādhānam brūhi kārya-vidām vara .. 10..
काममस्य त्वमेवैकः कार्यस्य परिसाधने । पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ॥ ११॥
कामम् अस्य त्वम् एव एकः कार्यस्य परिसाधने । पर्याप्तः पर-वीर-घ्न यशस्यः ते बल-उदयः ॥ ११॥
kāmam asya tvam eva ekaḥ kāryasya parisādhane . paryāptaḥ para-vīra-ghna yaśasyaḥ te bala-udayaḥ .. 11..
बलैः समग्रैर्यदि मां हत्वा रावणमाहवे । विजयी स्वां पुरीं रामो नयेत्तत्स्याद्यशस्करम् ॥ १२॥
बलैः समग्रैः यदि माम् हत्वा रावणम् आहवे । विजयी स्वाम् पुरीम् रामः नयेत् तत् स्यात् यशस्करम् ॥ १२॥
balaiḥ samagraiḥ yadi mām hatvā rāvaṇam āhave . vijayī svām purīm rāmaḥ nayet tat syāt yaśaskaram .. 12..
यथाहं तस्य वीरस्य वनादुपधिना हृता । रक्षसा तद्भयादेव तथा नार्हति राघवः ॥ १३॥
यथा अहम् तस्य वीरस्य वनात् उपधिना हृता । रक्षसा तद्-भयात् एव तथा ना अर्हति राघवः ॥ १३॥
yathā aham tasya vīrasya vanāt upadhinā hṛtā . rakṣasā tad-bhayāt eva tathā nā arhati rāghavaḥ .. 13..
बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः । मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ १४॥
बलैः तु सङ्कुलाम् कृत्वा लङ्काम् पर-बल-अर्दनः । माम् नयेत् यदि काकुत्स्थः तत् तस्य सदृशम् भवेत् ॥ १४॥
balaiḥ tu saṅkulām kṛtvā laṅkām para-bala-ardanaḥ . mām nayet yadi kākutsthaḥ tat tasya sadṛśam bhavet .. 14..
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः । भवत्याहवशूरस्य तथा त्वमुपपादय ॥ १५॥
तत् यथा तस्य विक्रान्तम् अनुरूपम् महात्मनः । भवति आहव-शूरस्य तथा त्वम् उपपादय ॥ १५॥
tat yathā tasya vikrāntam anurūpam mahātmanaḥ . bhavati āhava-śūrasya tathā tvam upapādaya .. 15..
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् । निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम् ॥ १६॥
तद्-अर्थ-उपहितम् वाक्यम् प्रश्रितम् हेतु-संहितम् । निशम्य अहम् ततस् शेषम् वाक्यम् उत्तरम् अब्रुवम् ॥ १६॥
tad-artha-upahitam vākyam praśritam hetu-saṃhitam . niśamya aham tatas śeṣam vākyam uttaram abruvam .. 16..
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः । सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ॥ १७॥
देवि हरि-ऋक्ष-सैन्यानाम् ईश्वरः प्लवताम् वरः । सुग्रीवः सत्त्व-सम्पन्नः तव अर्थे कृत-निश्चयः ॥ १७॥
devi hari-ṛkṣa-sainyānām īśvaraḥ plavatām varaḥ . sugrīvaḥ sattva-sampannaḥ tava arthe kṛta-niścayaḥ .. 17..
तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः । मनःसङ्कल्पसम्पाता निदेशे हरयः स्थिताः ॥ १८॥
तस्य विक्रम-सम्पन्नाः सत्त्ववन्तः महा-बलाः । मनः-सङ्कल्प-सम्पाताः निदेशे हरयः स्थिताः ॥ १८॥
tasya vikrama-sampannāḥ sattvavantaḥ mahā-balāḥ . manaḥ-saṅkalpa-sampātāḥ nideśe harayaḥ sthitāḥ .. 18..
येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः । न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥ १९॥
येषाम् ना उपरि ना अधस्तात् न तिर्यक् सज्जते गतिः । न च कर्मसु सीदन्ति महत्सु अमित-तेजसः ॥ १९॥
yeṣām nā upari nā adhastāt na tiryak sajjate gatiḥ . na ca karmasu sīdanti mahatsu amita-tejasaḥ .. 19..
असकृत्तैर्महाभागैर्वानरैर्बलसंयुतैः । प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ २०॥
असकृत् तैः महाभागैः वानरैः बल-संयुतैः । प्रदक्षिणीकृता भूमिः वायु-मार्ग-अनुसारिभिः ॥ २०॥
asakṛt taiḥ mahābhāgaiḥ vānaraiḥ bala-saṃyutaiḥ . pradakṣiṇīkṛtā bhūmiḥ vāyu-mārga-anusāribhiḥ .. 20..
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः । मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ ॥ २१॥
मद्-विशिष्टाः च तुल्याः च सन्ति तत्र वनौकसः । मत्तः प्रत्यवरः कश्चिद् ना अस्ति सुग्रीव-संनिधौ ॥ २१॥
mad-viśiṣṭāḥ ca tulyāḥ ca santi tatra vanaukasaḥ . mattaḥ pratyavaraḥ kaścid nā asti sugrīva-saṃnidhau .. 21..
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः । न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥ २२॥
अहम् तावत् इह प्राप्तः किम् पुनर् ते महा-बलाः । न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हि इतरे जनाः ॥ २२॥
aham tāvat iha prāptaḥ kim punar te mahā-balāḥ . na hi prakṛṣṭāḥ preṣyante preṣyante hi itare janāḥ .. 22..
तदलं परितापेन देवि मन्युर्व्यपैतु ते । एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥ २३॥
तत् अलम् परितापेन देवि मन्युः व्यपैतु ते । एक-उत्पातेन ते लङ्काम् एष्यन्ति हरि-यूथपाः ॥ २३॥
tat alam paritāpena devi manyuḥ vyapaitu te . eka-utpātena te laṅkām eṣyanti hari-yūthapāḥ .. 23..
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ । त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः ॥ २४॥
मम पृष्ठ-गतौ तौ च चन्द्र-सूर्यौ इव उदितौ । त्वद्-सकाशम् महाभागे नृ-सिंहौ आगमिष्यतः ॥ २४॥
mama pṛṣṭha-gatau tau ca candra-sūryau iva uditau . tvad-sakāśam mahābhāge nṛ-siṃhau āgamiṣyataḥ .. 24..
अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम् । लक्ष्मणं च धनुष्पाणिं लङ्का द्वारमुपस्थितम् ॥ २५॥
अरि-घ्नम् सिंह-सङ्काशम् क्षिप्रम् द्रक्ष्यसि राघवम् । लक्ष्मणम् च धनुष्पाणिम् लङ्का द्वारम् उपस्थितम् ॥ २५॥
ari-ghnam siṃha-saṅkāśam kṣipram drakṣyasi rāghavam . lakṣmaṇam ca dhanuṣpāṇim laṅkā dvāram upasthitam .. 25..
नखदंष्ट्रायुधान्वीरान्सिंहशार्दूलविक्रमान् । वानरान्वानरेन्द्राभान्क्षिप्रं द्रक्ष्यसि सङ्गतान् ॥ २६॥
नख-दंष्ट्र-आयुधान् वीरान् सिंह-शार्दूल-विक्रमान् । वानरान् वानर-इन्द्र-आभान् क्षिप्रम् द्रक्ष्यसि सङ्गतान् ॥ २६॥
nakha-daṃṣṭra-āyudhān vīrān siṃha-śārdūla-vikramān . vānarān vānara-indra-ābhān kṣipram drakṣyasi saṅgatān .. 26..
शैलाम्बुदन्निकाशानां लङ्कामलयसानुषु । नर्दतां कपिमुख्यानामचिराच्छोष्यसे स्वनम् ॥ २७॥
शैल-अम्बु-दत्-निकाशानाम् लङ्का-मलय-सानुषु । नर्दताम् कपि-मुख्यानाम् अचिरात् शोष्यसे स्वनम् ॥ २७॥
śaila-ambu-dat-nikāśānām laṅkā-malaya-sānuṣu . nardatām kapi-mukhyānām acirāt śoṣyase svanam .. 27..
निवृत्तवनवासं च त्वया सार्धमरिन्दमम् । अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥ २८॥
निवृत्त-वन-वासम् च त्वया सार्धम् अरिन्दमम् । अभिषिक्तम् अयोध्यायाम् क्षिप्रम् द्रक्ष्यसि राघवम् ॥ २८॥
nivṛtta-vana-vāsam ca tvayā sārdham arindamam . abhiṣiktam ayodhyāyām kṣipram drakṣyasi rāghavam .. 28..
ततो मया वाग्भिरदीनभाषिणी शिवाभिरिष्टाभिरभिप्रसादिता । उवाह शान्तिं मम मैथिलात्मजा तवातिशोकेन तथाभिपीडिता ॥ २९॥
ततस् मया वाग्भिः अदीन-भाषिणी शिवाभिः इष्टाभिः अभिप्रसादिता । उवाह शान्तिम् मम मैथिल-आत्मजा तव अति शोकेन तथा अभिपीडिता ॥ २९॥
tatas mayā vāgbhiḥ adīna-bhāṣiṇī śivābhiḥ iṣṭābhiḥ abhiprasāditā . uvāha śāntim mama maithila-ātmajā tava ati śokena tathā abhipīḍitā .. 29..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In