This overlay will guide you through the buttons:

| |
|
एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् । रामायणमिति ख्यातं मुख्यं वाल्मीकीना कृतम् ॥ ७.१११.१ ॥
एतावत् एतत् आख्यानम् सोत्तरम् ब्रह्म-पूजितम् । रामायणम् इति ख्यातम् मुख्यम् वाल्मीकीना कृतम् ॥ ७।१११।१ ॥
etāvat etat ākhyānam sottaram brahma-pūjitam . rāmāyaṇam iti khyātam mukhyam vālmīkīnā kṛtam .. 7.111.1 ..
ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथा पुरम् । येन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ ७.१११.२ ॥
ततस् प्रतिष्ठितः विष्णुः स्वर्ग-लोके यथा पुरम् । येन व्याप्तम् इदम् सर्वम् त्रैलोक्यम् सचराचरम् ॥ ७।१११।२ ॥
tatas pratiṣṭhitaḥ viṣṇuḥ svarga-loke yathā puram . yena vyāptam idam sarvam trailokyam sacarācaram .. 7.111.2 ..
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । नित्यं शृण्वन्ति सन्तुष्टाः दिव्यं रामायणं दिवि ॥ ७.१११.३ ॥
ततस् देवाः स गन्धर्वाः सिद्धाः च परम-ऋषयः । नित्यम् शृण्वन्ति सन्तुष्टाः दिव्यम् रामायणम् दिवि ॥ ७।१११।३ ॥
tatas devāḥ sa gandharvāḥ siddhāḥ ca parama-ṛṣayaḥ . nityam śṛṇvanti santuṣṭāḥ divyam rāmāyaṇam divi .. 7.111.3 ..
इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् । रामायणं वेदसमं श्राद्धेषु श्रावयेद्बुधः ॥ ७.१११.४ ॥
इदम् आख्यानम् आयुष्यम् सौभाग्यम् पाप-नाशनम् । रामायणम् वेद-समम् श्राद्धेषु श्रावयेत् बुधः ॥ ७।१११।४ ॥
idam ākhyānam āyuṣyam saubhāgyam pāpa-nāśanam . rāmāyaṇam veda-samam śrāddheṣu śrāvayet budhaḥ .. 7.111.4 ..
अपुत्रो लभते पुत्रमधनो लभते धनम् । सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ॥ ७.१११.५ ॥
अपुत्रः लभते पुत्रम् अधनः लभते धनम् । सर्व-पापैः प्रमुच्येत पदम् अपि अस्य यः पठेत् ॥ ७।१११।५ ॥
aputraḥ labhate putram adhanaḥ labhate dhanam . sarva-pāpaiḥ pramucyeta padam api asya yaḥ paṭhet .. 7.111.5 ..
पापान्यपि च यः कुर्यादहन्यहनि मानवः । पठत्येकमपि श्लोकं पापात्स परिमुच्यते ॥ ७.१११.६ ॥
पापानि अपि च यः कुर्यात् अहनि अहनि मानवः । पठति एकम् अपि श्लोकम् पापात् स परिमुच्यते ॥ ७।१११।६ ॥
pāpāni api ca yaḥ kuryāt ahani ahani mānavaḥ . paṭhati ekam api ślokam pāpāt sa parimucyate .. 7.111.6 ..
वाचकाय च दातव्यं वस्त्रं धेनुं हिरण्यकम् । वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ॥ ७.१११.७ ॥
वाचकाय च दातव्यम् वस्त्रम् धेनुम् हिरण्यकम् । वाचके परितुष्टे तु तुष्टाः स्युः सर्व-देवताः ॥ ७।१११।७ ॥
vācakāya ca dātavyam vastram dhenum hiraṇyakam . vācake parituṣṭe tu tuṣṭāḥ syuḥ sarva-devatāḥ .. 7.111.7 ..
एतदाख्यानमायुष्यं पठन्रामायणं नरः । सपुत्रपौत्रो लोके ऽस्मिन्प्रेत्य चेह महीयते ॥ ७.१११.८ ॥
एतत् आख्यानम् आयुष्यम् पठन् रामायणम् नरः । स पुत्र-पौत्रः लोके अस्मिन् प्रेत्य च इह महीयते ॥ ७।१११।८ ॥
etat ākhyānam āyuṣyam paṭhan rāmāyaṇam naraḥ . sa putra-pautraḥ loke asmin pretya ca iha mahīyate .. 7.111.8 ..
अयोध्या ऽपि पुरी रम्या शून्या वर्षगणान्बहून् । ऋषभं प्राप्य राजानं निवासमुपयास्यति ॥ ७.१११.९ ॥
अयोध्या अपि पुरी रम्या शून्या वर्ष-गणान् बहून् । ऋषभम् प्राप्य राजानम् निवासम् उपयास्यति ॥ ७।१११।९ ॥
ayodhyā api purī ramyā śūnyā varṣa-gaṇān bahūn . ṛṣabham prāpya rājānam nivāsam upayāsyati .. 7.111.9 ..
एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम् । कृतवान्प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत ॥ ७.१११.१० ॥
एतत् आख्यानम् आयुष्यम् सभविष्यम् सह उत्तरम् । कृतवान् प्रचेतसः पुत्रः तत् ब्रह्मा अपि अन्वमन्यत ॥ ७।१११।१० ॥
etat ākhyānam āyuṣyam sabhaviṣyam saha uttaram . kṛtavān pracetasaḥ putraḥ tat brahmā api anvamanyata .. 7.111.10 ..
अश्वमेधसहस्रस्य वाजपेयायुतस्य च । लभते श्रावणादेव सर्गस्यैकस्य मानवः ॥ ७.१११.११ ॥
अश्वमेध-सहस्रस्य वाजपेय-अयुतस्य च । लभते श्रावणात् एव सर्गस्य एकस्य मानवः ॥ ७।१११।११ ॥
aśvamedha-sahasrasya vājapeya-ayutasya ca . labhate śrāvaṇāt eva sargasya ekasya mānavaḥ .. 7.111.11 ..
प्रयागादीनि तीर्थानि गङ्गाद्याः सरितस्तथा । नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि । गतानि तेन लोके ऽस्मिन्येन रामायणं श्रुतम् ॥ ७.१११.१२ ॥
प्रयाग-आदीनि तीर्थानि गङ्गा-आद्याः सरितः तथा । नैमिश-आदीनि अरण्यानि कुरुक्षेत्र-आदिकानि अपि । गतानि तेन लोके अस्मिन् येन रामायणम् श्रुतम् ॥ ७।१११।१२ ॥
prayāga-ādīni tīrthāni gaṅgā-ādyāḥ saritaḥ tathā . naimiśa-ādīni araṇyāni kurukṣetra-ādikāni api . gatāni tena loke asmin yena rāmāyaṇam śrutam .. 7.111.12 ..
हेमभारं कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति । यश्च रामायणं लोके शृणोति सदृशावुभौ ॥ ७.१११.१३ ॥
हेम-भारम् कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति । यः च रामायणम् लोके शृणोति सदृशौ उभौ ॥ ७।१११।१३ ॥
hema-bhāram kurukṣetre graste bhānau prayacchati . yaḥ ca rāmāyaṇam loke śṛṇoti sadṛśau ubhau .. 7.111.13 ..
सम्यक्छ्रद्धासमायुक्तः शृणुते राघवीं कथाम् । सर्वपापात्प्रमुच्येत विष्णुलोकं स गच्छति ॥ ७.१११.१४ ॥
सम्यक् श्रद्धा-समायुक्तः शृणुते राघवीम् कथाम् । सर्व-पापात् प्रमुच्येत विष्णु-लोकम् स गच्छति ॥ ७।१११।१४ ॥
samyak śraddhā-samāyuktaḥ śṛṇute rāghavīm kathām . sarva-pāpāt pramucyeta viṣṇu-lokam sa gacchati .. 7.111.14 ..
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् । यः शृणोति सदा भक्त्या स गच्छेद्वैष्णवीं तनुम् ॥ ७.१११.१५ ॥
आदिकाव्यम् इदम् तु आर्षम् पुरा वाल्मीकिना कृतम् । यः शृणोति सदा भक्त्या स गच्छेत् वैष्णवीम् तनुम् ॥ ७।१११।१५ ॥
ādikāvyam idam tu ārṣam purā vālmīkinā kṛtam . yaḥ śṛṇoti sadā bhaktyā sa gacchet vaiṣṇavīm tanum .. 7.111.15 ..
पुत्रदाराश्च वर्धन्ते सम्पदः सन्ततिस्तथा । सत्यमेतद्विदित्वा तु श्रोतव्यं नियतात्मभिः ॥ ७.१११.१६ ॥
पुत्र-दाराः च वर्धन्ते सम्पदः सन्ततिः तथा । सत्यम् एतत् विदित्वा तु श्रोतव्यम् नियत-आत्मभिः ॥ ७।१११।१६ ॥
putra-dārāḥ ca vardhante sampadaḥ santatiḥ tathā . satyam etat viditvā tu śrotavyam niyata-ātmabhiḥ .. 7.111.16 ..
गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् ॥ ७.१११.१७ ॥
गायत्र्याः च स्वरूपम् तत् रामायणम् अनुत्तमम् ॥ ७।१११।१७ ॥
gāyatryāḥ ca svarūpam tat rāmāyaṇam anuttamam .. 7.111.17 ..
अपुत्रो लभते पुत्रमधनो लभते धनम् । सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ॥ ७.१११.१८ ॥
अपुत्रः लभते पुत्रम् अधनः लभते धनम् । सर्व-पापैः प्रमुच्येत पदम् अपि अस्य यः पठेत् ॥ ७।१११।१८ ॥
aputraḥ labhate putram adhanaḥ labhate dhanam . sarva-pāpaiḥ pramucyeta padam api asya yaḥ paṭhet .. 7.111.18 ..
यः पठेच्छृणुयान्नित्यं चरितं राघवस्य ह । भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् ॥ ७.१११.१९ ॥
यः पठेत् शृणुयात् नित्यम् चरितम् राघवस्य ह । भक्त्या निष्कल्मषः भूत्वा दीर्घम् आयुः अवाप्नुयात् ॥ ७।१११।१९ ॥
yaḥ paṭhet śṛṇuyāt nityam caritam rāghavasya ha . bhaktyā niṣkalmaṣaḥ bhūtvā dīrgham āyuḥ avāpnuyāt .. 7.111.19 ..
चिन्तयेद्राघवं नित्यं श्रेयः प्राप्तुं य इच्छति । श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिने दिने ॥ ७.१११.२० ॥
चिन्तयेत् राघवम् नित्यम् श्रेयः प्राप्तुम् यः इच्छति । श्रावयेत् इदम् आख्यानम् ब्राह्मणेभ्यः दिने दिने ॥ ७।१११।२० ॥
cintayet rāghavam nityam śreyaḥ prāptum yaḥ icchati . śrāvayet idam ākhyānam brāhmaṇebhyaḥ dine dine .. 7.111.20 ..
यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् । सो ऽसुक्षये विष्णुलोकं गच्छत्येव न संशयः ॥ ७.१११.२१ ॥
यः तु इदम् रघुनाथस्य चरितम् सकलम् पठेत् । सः असु-क्षये विष्णु-लोकम् गच्छति एव न संशयः ॥ ७।१११।२१ ॥
yaḥ tu idam raghunāthasya caritam sakalam paṭhet . saḥ asu-kṣaye viṣṇu-lokam gacchati eva na saṃśayaḥ .. 7.111.21 ..
पिता पितामहस्तस्य तथैव प्रपितामहः । तत्पिता तत्पिता चैव विष्णुं यान्ति न संशयः ॥ ७.१११.२२ ॥
पिता पितामहः तस्य तथा एव प्रपितामहः । तद्-पिता तद्-पिता च एव विष्णुम् यान्ति न संशयः ॥ ७।१११।२२ ॥
pitā pitāmahaḥ tasya tathā eva prapitāmahaḥ . tad-pitā tad-pitā ca eva viṣṇum yānti na saṃśayaḥ .. 7.111.22 ..
चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु । तस्माद्यत्नवता नित्यं श्रोतव्यं परमं सदा ॥ ७.१११.२३ ॥
चतुर्वर्ग-प्रदम् नित्यम् चरितम् राघवस्य तु । तस्मात् यत्नवता नित्यम् श्रोतव्यम् परमम् सदा ॥ ७।१११।२३ ॥
caturvarga-pradam nityam caritam rāghavasya tu . tasmāt yatnavatā nityam śrotavyam paramam sadā .. 7.111.23 ..
शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा । स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥ ७.१११.२४ ॥
शृण्वन् रामायणम् भक्त्या यः पादम् पदम् एव वा । स याति ब्रह्मणः स्थानम् ब्रह्मणा पूज्यते सदा ॥ ७।१११।२४ ॥
śṛṇvan rāmāyaṇam bhaktyā yaḥ pādam padam eva vā . sa yāti brahmaṇaḥ sthānam brahmaṇā pūjyate sadā .. 7.111.24 ..
एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः । प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ ७.१११.२५ ॥
एवम् एतत् पुरावृत्तम् आख्यानम् भद्रम् अस्तु वः । प्रव्याहरत विस्रब्धम् बलम् विष्णोः प्रवर्धताम् ॥ ७।१११।२५ ॥
evam etat purāvṛttam ākhyānam bhadram astu vaḥ . pravyāharata visrabdham balam viṣṇoḥ pravardhatām .. 7.111.25 ..
इत्यार्षे श्रीमद्रामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदुत्तरकाण्डे एकादशोत्तरशततमः सर्गः ॥ १११ ॥
इति आर्षे श्रीमत्-रामायणे श्रीमत्-वाल्मीकीये आदिकाव्ये चतुर्विंशत्-सहस्रिकायाम् संहितायाम् श्रीमत्-उत्तर-काण्डे एकादश-उत्तर-शततमः सर्गः ॥ १११ ॥
iti ārṣe śrīmat-rāmāyaṇe śrīmat-vālmīkīye ādikāvye caturviṃśat-sahasrikāyām saṃhitāyām śrīmat-uttara-kāṇḍe ekādaśa-uttara-śatatamaḥ sargaḥ .. 111 ..
॥ इत्युत्तरकाण्डः समाप्तः ॥
॥ इति उत्तर-काण्डः समाप्तः ॥
.. iti uttara-kāṇḍaḥ samāptaḥ ..
॥ इत्यार्षे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमद्रामायणं सम्पूर्णम् ॥
॥ इति आर्षे श्रीमत्-वाल्मीकीये आदिकाव्ये श्रीमत्-रामायणम् सम्पूर्णम् ॥
.. iti ārṣe śrīmat-vālmīkīye ādikāvye śrīmat-rāmāyaṇam sampūrṇam ..
॥ श्रीसीतारामचन्द्रार्पणमस्तु ॥
॥ श्री-सीता-राम-चन्द्र-अर्पणम् अस्तु ॥
.. śrī-sītā-rāma-candra-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In