This overlay will guide you through the buttons:

| |
|
स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् । अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ॥ ७.२६.१ ॥
स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् । अस्तम् प्राप्ते दिनकरे निवासम् समरोचयत् ॥ ७।२६।१ ॥
sa tu tatra daśagrīvaḥ saha sainyena vīryavān . astam prāpte dinakare nivāsam samarocayat .. 7.26.1 ..
उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि । प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम् ॥ ७.२६.२ ॥
उदिते विमले चन्द्रे तुल्य-पर्वत-वर्चसि । प्रसुप्तम् सु महत् सैन्यम् नाना प्रहरण-आयुधम् ॥ ७।२६।२ ॥
udite vimale candre tulya-parvata-varcasi . prasuptam su mahat sainyam nānā praharaṇa-āyudham .. 7.26.2 ..
रावणस्तु महावीर्यो निषण्णः शैलमूर्धनि । स ददर्श गुणांस्तत्र चन्द्रपादपशोभितान् ॥ ७.२६.३ ॥
रावणः तु महा-वीर्यः निषण्णः शैल-मूर्धनि । स ददर्श गुणान् तत्र चन्द्र-पादप-शोभितान् ॥ ७।२६।३ ॥
rāvaṇaḥ tu mahā-vīryaḥ niṣaṇṇaḥ śaila-mūrdhani . sa dadarśa guṇān tatra candra-pādapa-śobhitān .. 7.26.3 ..
कर्णिकारवनैर्दीप्तैः कदम्बगहनैस्तथा । पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ॥ ७.२६.४ ॥
कर्णिकार-वनैः दीप्तैः कदम्ब-गहनैः तथा । पद्मिनीभिः च फुल्लाभिः मन्दाकिन्याः जलैः अपि ॥ ७।२६।४ ॥
karṇikāra-vanaiḥ dīptaiḥ kadamba-gahanaiḥ tathā . padminībhiḥ ca phullābhiḥ mandākinyāḥ jalaiḥ api .. 7.26.4 ..
चम्पकाशोकपुन्नागमन्दारतरुभिस्तथा । चूतपाटललोध्रैश्च प्रियङ्ग्वर्जुनकेतकैः । तगरैर्नारिकैलैश्च प्रियालपनसैस्तथा ॥ ७.२६.५ ॥
चम्पक-अशोक-पुन्नाग-मन्दार-तरुभिः तथा । चूत-पाटल-लोध्रैः च प्रियङ्गु-अर्जुन-केतकैः । तगरैः नारिका-एलैः च प्रियाल-पनसैः तथा ॥ ७।२६।५ ॥
campaka-aśoka-punnāga-mandāra-tarubhiḥ tathā . cūta-pāṭala-lodhraiḥ ca priyaṅgu-arjuna-ketakaiḥ . tagaraiḥ nārikā-elaiḥ ca priyāla-panasaiḥ tathā .. 7.26.5 ..
आरग्वधैस्तमालैश्च प्रियालवकुलैरपि । एतैरन्यैश्च तरुभिरुद्भासितवनान्तरे । किन्नरा मदनेनार्ता रक्ता मधुरकण्ठिनः ॥ ७.२६.६ ॥
आरग्वधैः तमालैः च प्रियालव-कुलैः अपि । एतैः अन्यैः च तरुभिः उद्भासित-वन-अन्तरे । किन्नराः मदनेन आर्ताः रक्ताः मधुर-कण्ठिनः ॥ ७।२६।६ ॥
āragvadhaiḥ tamālaiḥ ca priyālava-kulaiḥ api . etaiḥ anyaiḥ ca tarubhiḥ udbhāsita-vana-antare . kinnarāḥ madanena ārtāḥ raktāḥ madhura-kaṇṭhinaḥ .. 7.26.6 ..
समं सम्प्रजगुर्यत्र मनस्तुष्टिविवर्धनम् ॥ ७.२६.७ ॥
समम् सम्प्रजगुः यत्र मनः-तुष्टि-विवर्धनम् ॥ ७।२६।७ ॥
samam samprajaguḥ yatra manaḥ-tuṣṭi-vivardhanam .. 7.26.7 ..
भिरुद्भासितवनान्तरे । विद्याधरा मदक्षीबा मदरक्तान्तलोचनाः । योषिद्भिः सह सङ्क्रान्ताश्चिक्रीडुर्जहृषुश्च वै ॥ ७.२६.८ ॥
भिः उद्भासित-वन-अन्तरे । विद्याधराः मद्-अक्षीबाः मद-रक्त-अन्त-लोचनाः । योषिद्भिः सह सङ्क्रान्ताः चिक्रीडुः जहृषुः च वै ॥ ७।२६।८ ॥
bhiḥ udbhāsita-vana-antare . vidyādharāḥ mad-akṣībāḥ mada-rakta-anta-locanāḥ . yoṣidbhiḥ saha saṅkrāntāḥ cikrīḍuḥ jahṛṣuḥ ca vai .. 7.26.8 ..
घण्टानामिव सन्नादः शुश्रुवे मधुरस्वरः । अप्सरोगणसङ्घानां गायतां धनदालये ॥ ७.२६.९ ॥
घण्टानाम् इव सत्-नादः शुश्रुवे मधुर-स्वरः । अप्सरः-गण-सङ्घानाम् गायताम् धनद-आलये ॥ ७।२६।९ ॥
ghaṇṭānām iva sat-nādaḥ śuśruve madhura-svaraḥ . apsaraḥ-gaṇa-saṅghānām gāyatām dhanada-ālaye .. 7.26.9 ..
पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः । शैलं तं वासयन्तीव मधुमाधवगन्धिनः ॥ ७.२६.१० ॥
पुष्प-वर्षाणि मुञ्चन्तः नगाः पवन-ताडिताः । शैलम् तम् वासयन्ति इव मधु-माधव-गन्धिनः ॥ ७।२६।१० ॥
puṣpa-varṣāṇi muñcantaḥ nagāḥ pavana-tāḍitāḥ . śailam tam vāsayanti iva madhu-mādhava-gandhinaḥ .. 7.26.10 ..
मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् । प्रववौ वर्धयन्कामं रावणस्य सुखो ऽनिलः ॥ ७.२६.११ ॥
मधुपुष्प-रजः-पृक्तम् गन्धम् आदाय पुष्कलम् । प्रववौ वर्धयन् कामम् रावणस्य सुखः अनिलः ॥ ७।२६।११ ॥
madhupuṣpa-rajaḥ-pṛktam gandham ādāya puṣkalam . pravavau vardhayan kāmam rāvaṇasya sukhaḥ anilaḥ .. 7.26.11 ..
गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गिरेर्गुणात् । प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ॥ ७.२६.१२ ॥
गेयात् पुष्प-समृद्ध्या च शैत्यात् वायोः गिरेः गुणात् । प्रवृत्तायाम् रजन्याम् च चन्द्रस्य उदयनेन च ॥ ७।२६।१२ ॥
geyāt puṣpa-samṛddhyā ca śaityāt vāyoḥ gireḥ guṇāt . pravṛttāyām rajanyām ca candrasya udayanena ca .. 7.26.12 ..
रावणस्तु महावीर्यः कामस्य वशमागतः । विनिःश्वस्य विनिःश्वस्य शशिनं समवैक्षत ॥ ७.२६.१३ ॥
रावणः तु महा-वीर्यः कामस्य वशम् आगतः । विनिःश्वस्य विनिःश्वस्य शशिनम् समवैक्षत ॥ ७।२६।१३ ॥
rāvaṇaḥ tu mahā-vīryaḥ kāmasya vaśam āgataḥ . viniḥśvasya viniḥśvasya śaśinam samavaikṣata .. 7.26.13 ..
एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता । सर्वाप्सरोवरा रम्भा दिव्यपुष्पविभूषिता ॥ ७.२६.१४ ॥
एतस्मिन् अन्तरे तत्र दिव्य-आभरण-भूषिता । सर्व-अप्सरः-वरा रम्भा दिव्य-पुष्प-विभूषिता ॥ ७।२६।१४ ॥
etasmin antare tatra divya-ābharaṇa-bhūṣitā . sarva-apsaraḥ-varā rambhā divya-puṣpa-vibhūṣitā .. 7.26.14 ..
दिव्यचन्दनलिप्ताङ्गी मन्दारकृतमूर्धजा । दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना ॥ ७.२६.१५ ॥
दिव्य-चन्दन-लिप्त-अङ्गी मन्दार-कृत-मूर्धजा । दिव्य-उत्सव-कृत-आरम्भा पूर्ण-चन्द्र-निभ-आनना ॥ ७।२६।१५ ॥
divya-candana-lipta-aṅgī mandāra-kṛta-mūrdhajā . divya-utsava-kṛta-ārambhā pūrṇa-candra-nibha-ānanā .. 7.26.15 ..
चक्षुर्मनोहरं पीनं मेखलादामभूषितम् । समुद्वहन्ती जघनं रतिप्राभृतमुत्तमम् ॥ ७.२६.१६ ॥
चक्षुः मनोहरम् पीनम् मेखला-दाम-भूषितम् । समुद्वहन्ती जघनम् रति-प्राभृतम् उत्तमम् ॥ ७।२६।१६ ॥
cakṣuḥ manoharam pīnam mekhalā-dāma-bhūṣitam . samudvahantī jaghanam rati-prābhṛtam uttamam .. 7.26.16 ..
कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोद्भवैः ॥ ७.२६.१७ ॥
कृतैः विशेषकैः आर्द्रैः ॥ ७।२६।१७ ॥
kṛtaiḥ viśeṣakaiḥ ārdraiḥ .. 7.26.17 ..
बभावन्यतमेव श्रीकान्तिद्युतिमतिह्रियाम् । नीलं सतोयमेघाभं वस्त्रं समवकुण्ठिता ॥ ७.२६.१८ ॥
बभौ अन्यतमा इव श्री-कान्ति-द्युति-मति-ह्रियाम् । नीलम् स तोय-मेघ-आभम् वस्त्रम् समवकुण्ठिता ॥ ७।२६।१८ ॥
babhau anyatamā iva śrī-kānti-dyuti-mati-hriyām . nīlam sa toya-megha-ābham vastram samavakuṇṭhitā .. 7.26.18 ..
यस्या वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे । ऊरू करिकराकारौ करौ पल्लवकोमलौ । सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता ॥ ७.२६.१९ ॥
यस्याः वक्त्रम् शशि-निभम् भ्रुवौ चाप-निभे शुभे । ऊरू करि-कर-आकारौ करौ पल्लव-कोमलौ । सैन्य-मध्येन गच्छन्ती रावणेन उपवीक्षिता ॥ ७।२६।१९ ॥
yasyāḥ vaktram śaśi-nibham bhruvau cāpa-nibhe śubhe . ūrū kari-kara-ākārau karau pallava-komalau . sainya-madhyena gacchantī rāvaṇena upavīkṣitā .. 7.26.19 ..
तां समुत्थाय गच्छन्तीं कामबाणवशं गतः । करे गृहीत्वा लज्जन्तीं स्मयमानो ऽभ्यभाषत ॥ ७.२६.२० ॥
ताम् समुत्थाय गच्छन्तीम् काम-बाण-वशम् गतः । करे गृहीत्वा लज्जन्तीम् स्मयमानः अभ्यभाषत ॥ ७।२६।२० ॥
tām samutthāya gacchantīm kāma-bāṇa-vaśam gataḥ . kare gṛhītvā lajjantīm smayamānaḥ abhyabhāṣata .. 7.26.20 ..
क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् । कस्याभ्युदयकालो ऽयं यस्त्वां समुपभोक्ष्यते ॥ ७.२६.२१ ॥
क्व गच्छसि वरारोहे काम् सिद्धिम् भजसे स्वयम् । कस्य अभ्युदय-कालः अयम् यः त्वाम् समुपभोक्ष्यते ॥ ७।२६।२१ ॥
kva gacchasi varārohe kām siddhim bhajase svayam . kasya abhyudaya-kālaḥ ayam yaḥ tvām samupabhokṣyate .. 7.26.21 ..
त्वदाननरसस्याद्य पद्मोत्पलसुगन्धिनः । सुधामृतरसस्येव को ऽद्य तृप्तिं गमिष्यति ॥ ७.२६.२२ ॥
त्वद्-आनन-रसस्य अद्य पद्म-उत्पल-सुगन्धिनः । सुधा-अमृत-रसस्य इव कः अद्य तृप्तिम् गमिष्यति ॥ ७।२६।२२ ॥
tvad-ānana-rasasya adya padma-utpala-sugandhinaḥ . sudhā-amṛta-rasasya iva kaḥ adya tṛptim gamiṣyati .. 7.26.22 ..
स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ । कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ ॥ ७.२६.२३ ॥
स्वर्ण-कुम्भ-निभौ पीनौ शुभौ भीरु निरन्तरौ । कस्य उरस्थल-संस्पर्शम् दास्यतः ते कुचौ इमौ ॥ ७।२६।२३ ॥
svarṇa-kumbha-nibhau pīnau śubhau bhīru nirantarau . kasya urasthala-saṃsparśam dāsyataḥ te kucau imau .. 7.26.23 ..
सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु । अध्यारोहति कस्ते ऽद्य जघनं स्वर्गरूपिणम् ॥ ७.२६.२४ ॥
सुवर्ण-चक्र-प्रतिमम् स्वर्ण-दाम-चितम् पृथु । अध्यारोहति कः ते अद्य जघनम् स्वर्ग-रूपिणम् ॥ ७।२६।२४ ॥
suvarṇa-cakra-pratimam svarṇa-dāma-citam pṛthu . adhyārohati kaḥ te adya jaghanam svarga-rūpiṇam .. 7.26.24 ..
मद्विशिष्टः पुमान्को ऽद्य शक्रो विष्णुरथाश्विनौ । मामतीत्य हि यं च त्वं यासि भीरु न शोभनम् ॥ ७.२६.२५ ॥
मद्-विशिष्टः पुमान् कः अद्य शक्रः विष्णुः अथ अश्विनौ । माम् अतीत्य हि यम् च त्वम् यासि भीरु न शोभनम् ॥ ७।२६।२५ ॥
mad-viśiṣṭaḥ pumān kaḥ adya śakraḥ viṣṇuḥ atha aśvinau . mām atītya hi yam ca tvam yāsi bhīru na śobhanam .. 7.26.25 ..
विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् ॥ ७.२६.२६ ॥
विश्रम त्वम् पृथु-श्रोणि शिला-तलम् इदम् शुभम् ॥ ७।२६।२६ ॥
viśrama tvam pṛthu-śroṇi śilā-talam idam śubham .. 7.26.26 ..
त्रैलोक्ये यः प्रभुश्चैव मदन्यो नैव विद्यते ॥ ७.२६.२७ ॥
त्रैलोक्ये यः प्रभुः च एव मद्-अन्यः ना एव विद्यते ॥ ७।२६।२७ ॥
trailokye yaḥ prabhuḥ ca eva mad-anyaḥ nā eva vidyate .. 7.26.27 ..
तदेवं प्राञ्जलिः प्रह्वो याचते त्वां दशाननः । भर्तुर्भर्ता विधाता च त्रैलोक्यस्य भजस्व माम् ॥ ७.२६.२८ ॥
तत् एवम् प्राञ्जलिः प्रह्वः याचते त्वाम् दशाननः । भर्तुः भर्ता विधाता च त्रैलोक्यस्य भजस्व माम् ॥ ७।२६।२८ ॥
tat evam prāñjaliḥ prahvaḥ yācate tvām daśānanaḥ . bhartuḥ bhartā vidhātā ca trailokyasya bhajasva mām .. 7.26.28 ..
एवमुक्ता ऽब्रवीद्रम्भा वेपमाना कृताञ्जलिः । प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ॥ ७.२६.२९ ॥
एवम् उक्ता अब्रवीत् रम्भा वेपमाना कृताञ्जलिः । प्रसीद ना अर्हसे वक्तुम् ईदृशम् त्वम् हि मे गुरुः ॥ ७।२६।२९ ॥
evam uktā abravīt rambhā vepamānā kṛtāñjaliḥ . prasīda nā arhase vaktum īdṛśam tvam hi me guruḥ .. 7.26.29 ..
अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि । तद्धर्मतः स्नुषा ते ऽहं तत्त्वमेव ब्रवीमि ते ॥ ७.२६.३० ॥
अन्येभ्यः हि त्वया रक्ष्या प्राप्नुयाम् धर्षणम् यदि । तद्-धर्मतः स्नुषा ते अहम् तत्त्वम् एव ब्रवीमि ते ॥ ७।२६।३० ॥
anyebhyaḥ hi tvayā rakṣyā prāpnuyām dharṣaṇam yadi . tad-dharmataḥ snuṣā te aham tattvam eva bravīmi te .. 7.26.30 ..
अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम् । रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा ॥ ७.२६.३१ ॥
अथा अब्रवीत् दशग्रीवः चरण-अधोमुखीम् स्थिताम् । रोम-हर्षम् अनुप्राप्ताम् दृष्ट-मात्रेण ताम् तदा ॥ ७।२६।३१ ॥
athā abravīt daśagrīvaḥ caraṇa-adhomukhīm sthitām . roma-harṣam anuprāptām dṛṣṭa-mātreṇa tām tadā .. 7.26.31 ..
सुतस्य यदि मे भार्या ततस्त्वं हि स्नुषा भवेः । बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् ॥ ७.२६.३२ ॥
सुतस्य यदि मे भार्या ततस् त्वम् हि स्नुषा भवेः । बाढम् इति एव सा रम्भा प्राह रावणम् उत्तरम् ॥ ७।२६।३२ ॥
sutasya yadi me bhāryā tatas tvam hi snuṣā bhaveḥ . bāḍham iti eva sā rambhā prāha rāvaṇam uttaram .. 7.26.32 ..
धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव । पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते । विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम् ॥ ७.२६.३३ ॥
धर्मतः ते सुतस्य अहम् भार्या राक्षस-पुङ्गव । पुत्रः प्रियतरः प्राणैः भ्रातुः वैश्रवणस्य ते । विख्यातः त्रिषु लोकेषु नलकूबरः इति अयम् ॥ ७।२६।३३ ॥
dharmataḥ te sutasya aham bhāryā rākṣasa-puṅgava . putraḥ priyataraḥ prāṇaiḥ bhrātuḥ vaiśravaṇasya te . vikhyātaḥ triṣu lokeṣu nalakūbaraḥ iti ayam .. 7.26.33 ..
धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् । क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ॥ ७.२६.३४ ॥
धर्मतः यः भवेत् विप्रः क्षत्रियः वीर्यतः भवेत् । क्रोध-आद्यः च भवेत् अग्निः क्षान्त्या च वसुधा-समः ॥ ७।२६।३४ ॥
dharmataḥ yaḥ bhavet vipraḥ kṣatriyaḥ vīryataḥ bhavet . krodha-ādyaḥ ca bhavet agniḥ kṣāntyā ca vasudhā-samaḥ .. 7.26.34 ..
तस्यास्मि कृतसङ्केता लोकपालसुतस्य वै । तमुद्दिश्य तु मे सर्वं विभूषणमिदं कृतम् ॥ ७.२६.३५ ॥
तस्य अस्मि कृत-सङ्केता लोकपाल-सुतस्य वै । तम् उद्दिश्य तु मे सर्वम् विभूषणम् इदम् कृतम् ॥ ७।२६।३५ ॥
tasya asmi kṛta-saṅketā lokapāla-sutasya vai . tam uddiśya tu me sarvam vibhūṣaṇam idam kṛtam .. 7.26.35 ..
तथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ॥ ७.२६.३६ ॥
तथा तस्य हि न अन्यस्य भावः माम् प्रति तिष्ठति ॥ ७।२६।३६ ॥
tathā tasya hi na anyasya bhāvaḥ mām prati tiṣṭhati .. 7.26.36 ..
तेन सत्येन मां राजन्मोक्तुमर्हस्यरिन्दम ॥ ७.२६.३७ ॥
तेन सत्येन माम् राजन् मोक्तुम् अर्हसि अरिन्दम ॥ ७।२६।३७ ॥
tena satyena mām rājan moktum arhasi arindama .. 7.26.37 ..
स हि तिष्ठति धर्मात्मा मां प्रतीक्ष्य समुत्सुकः । तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम् ॥ ७.२६.३८ ॥
स हि तिष्ठति धर्म-आत्मा माम् प्रतीक्ष्य समुत्सुकः । तत्र विघ्नम् सुतस्य इह कर्तुम् ना अर्हसि मुञ्च माम् ॥ ७।२६।३८ ॥
sa hi tiṣṭhati dharma-ātmā mām pratīkṣya samutsukaḥ . tatra vighnam sutasya iha kartum nā arhasi muñca mām .. 7.26.38 ..
सद्भिराचरितं मार्गं गच्छ राक्षसुपुङ्गव । माननीयो मम त्वं हि पालनीया तथा ऽस्मि ते ॥ ७.२६.३९ ॥
सद्भिः आचरितम् मार्गम् गच्छ राक्षसु-पुङ्गव । माननीयः मम त्वम् हि पालनीया तथा अस्मि ते ॥ ७।२६।३९ ॥
sadbhiḥ ācaritam mārgam gaccha rākṣasu-puṅgava . mānanīyaḥ mama tvam hi pālanīyā tathā asmi te .. 7.26.39 ..
एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत् । स्नुषा ऽस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः । देवलोकस्थितिरियं सुराणां शाश्वती मता ॥ ७.२६.४० ॥
एवम् उक्तः दशग्रीवः प्रत्युवाच विनीत-वत् । स्नुषा अस्मि यत् अवोचः त्वम् एकपत्नीषु अयम् क्रमः । देव-लोक-स्थितिः इयम् सुराणाम् शाश्वती मता ॥ ७।२६।४० ॥
evam uktaḥ daśagrīvaḥ pratyuvāca vinīta-vat . snuṣā asmi yat avocaḥ tvam ekapatnīṣu ayam kramaḥ . deva-loka-sthitiḥ iyam surāṇām śāśvatī matā .. 7.26.40 ..
पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ॥ ७.२६.४१ ॥
पतिः अप्सरसाम् न अस्ति न च एक-स्त्री-परिग्रहः ॥ ७।२६।४१ ॥
patiḥ apsarasām na asti na ca eka-strī-parigrahaḥ .. 7.26.41 ..
अस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः । एवमुक्त्वा स तां रक्षो निवेश्य च शिलातले । कामभोगाभिसंसक्तो मैथुनायोपचक्रमे ॥ ७.२६.४२ ॥
अस्मि यत् अवोचः त्वम् एकपत्नीषु अयम् क्रमः । एवम् उक्त्वा स ताम् रक्षः निवेश्य च शिला-तले । काम-भोग-अभिसंसक्तः मैथुनाय उपचक्रमे ॥ ७।२६।४२ ॥
asmi yat avocaḥ tvam ekapatnīṣu ayam kramaḥ . evam uktvā sa tām rakṣaḥ niveśya ca śilā-tale . kāma-bhoga-abhisaṃsaktaḥ maithunāya upacakrame .. 7.26.42 ..
सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा । गजेन्द्राक्रीडमथिता नदीवाकुलतां गता ॥ ७.२६.४३ ॥
सा विमुक्ता ततस् रम्भा भ्रष्ट-माल्य-विभूषणा । गज-इन्द्र-आक्रीड-मथिता नदी इव आकुल-ताम् गता ॥ ७।२६।४३ ॥
sā vimuktā tatas rambhā bhraṣṭa-mālya-vibhūṣaṇā . gaja-indra-ākrīḍa-mathitā nadī iva ākula-tām gatā .. 7.26.43 ..
लुलिताकुलकेशान्ता करवेपितपल्लवा । पवनेनावधूतेव लता कुसुमशालिनी ॥ ७.२६.४४ ॥
लुलित-आकुल-केशान्ता कर-वेपित-पल्लवा । पवनेन अवधूता इव लता कुसुम-शालिनी ॥ ७।२६।४४ ॥
lulita-ākula-keśāntā kara-vepita-pallavā . pavanena avadhūtā iva latā kusuma-śālinī .. 7.26.44 ..
सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः । नलकूबरमासाद्य पादयोर्निपपात ह ॥ ७.२६.४५ ॥
सा वेपमाना लज्जन्ती भीता कर-कृत-अञ्जलिः । नलकूबरम् आसाद्य पादयोः निपपात ह ॥ ७।२६।४५ ॥
sā vepamānā lajjantī bhītā kara-kṛta-añjaliḥ . nalakūbaram āsādya pādayoḥ nipapāta ha .. 7.26.45 ..
तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः । अब्रवीत्किमिदं भद्रे पादयोः पतिता ऽसि मे ॥ ७.२६.४६ ॥
तद्-अवस्थाम् च ताम् दृष्ट्वा महात्मा नलकूबरः । अब्रवीत् किम् इदम् भद्रे पादयोः पतिता असि मे ॥ ७।२६।४६ ॥
tad-avasthām ca tām dṛṣṭvā mahātmā nalakūbaraḥ . abravīt kim idam bhadre pādayoḥ patitā asi me .. 7.26.46 ..
सा वै निःश्वसमाना तु वेपमाना कृताञ्जलिः । तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे ॥ ७.२६.४७ ॥
सा वै निःश्वसमाना तु वेपमाना कृताञ्जलिः । तस्मै सर्वम् यथातत्त्वम् आख्यातुम् उपचक्रमे ॥ ७।२६।४७ ॥
sā vai niḥśvasamānā tu vepamānā kṛtāñjaliḥ . tasmai sarvam yathātattvam ākhyātum upacakrame .. 7.26.47 ..
एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् । तेन सैन्यसहायेन निशेयं परिणामिता ॥ ७.२६.४८ ॥
एष देव दशग्रीवः प्राप्तः गन्तुम् त्रिविष्टपम् । तेन सैन्य-सहायेन निशा इयम् परिणामिता ॥ ७।२६।४८ ॥
eṣa deva daśagrīvaḥ prāptaḥ gantum triviṣṭapam . tena sainya-sahāyena niśā iyam pariṇāmitā .. 7.26.48 ..
आयन्ती तेन दृष्टा ऽस्मि त्वत्सकाशमरिन्दम । गृहीता तेन पृष्टा ऽस्मि कस्य त्वमिति रक्षसा ॥ ७.२६.४९ ॥
आयन्ती तेन दृष्टा अस्मि त्वद्-सकाशम् अरिन्दम । गृहीता तेन पृष्टा अस्मि कस्य त्वम् इति रक्षसा ॥ ७।२६।४९ ॥
āyantī tena dṛṣṭā asmi tvad-sakāśam arindama . gṛhītā tena pṛṣṭā asmi kasya tvam iti rakṣasā .. 7.26.49 ..
मया तु सर्वं यत्सत्यं तस्मै सर्वं निवेदितम् । काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ॥ ७.२६.५० ॥
मया तु सर्वम् यत् सत्यम् तस्मै सर्वम् निवेदितम् । काम-मोह-अभिभूत-आत्मा न अश्रौषीत् तत् वचः मम ॥ ७।२६।५० ॥
mayā tu sarvam yat satyam tasmai sarvam niveditam . kāma-moha-abhibhūta-ātmā na aśrauṣīt tat vacaḥ mama .. 7.26.50 ..
याच्यमानो मया देव स्नुषा ते ऽहमिति प्रभो । तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता ॥ ७.२६.५१ ॥
याच्यमानः मया देव स्नुषा ते अहम् इति प्रभो । तत् सर्वम् पृष्ठतस् कृत्वा बलात् तेन अस्मि धर्षिता ॥ ७।२६।५१ ॥
yācyamānaḥ mayā deva snuṣā te aham iti prabho . tat sarvam pṛṣṭhatas kṛtvā balāt tena asmi dharṣitā .. 7.26.51 ..
एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रत । न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च ॥ ७.२६.५२ ॥
एवम् त्वम् अपराधम् मे क्षन्तुम् अर्हसि सुव्रत । न हि तुल्यम् बलम् सौम्य स्त्रियाः च पुरुषस्य च ॥ ७।२६।५२ ॥
evam tvam aparādham me kṣantum arhasi suvrata . na hi tulyam balam saumya striyāḥ ca puruṣasya ca .. 7.26.52 ..
एतछुत्वा तु सङ्क्रुद्धस्तदा वैश्रवणात्मजः । धर्षणां तां परां श्रुत्वा ध्यानं सम्प्रविवेश ह ॥ ७.२६.५३ ॥
एतत् शुत्वा तु सङ्क्रुद्धः तदा वैश्रवण-आत्मजः । धर्षणाम् ताम् पराम् श्रुत्वा ध्यानम् सम्प्रविवेश ह ॥ ७।२६।५३ ॥
etat śutvā tu saṅkruddhaḥ tadā vaiśravaṇa-ātmajaḥ . dharṣaṇām tām parām śrutvā dhyānam sampraviveśa ha .. 7.26.53 ..
तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः । मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना ॥ ७.२६.५४ ॥
तस्य तत् कर्म विज्ञाय तदा वैश्रवण-आत्मजः । मुहूर्तात् क्रोध-ताम्र-अक्षः तोयम् जग्राह पाणिना ॥ ७।२६।५४ ॥
tasya tat karma vijñāya tadā vaiśravaṇa-ātmajaḥ . muhūrtāt krodha-tāmra-akṣaḥ toyam jagrāha pāṇinā .. 7.26.54 ..
गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि । उत्ससर्ज यथा शापं राक्षसेन्द्राय दारुणम् ॥ ७.२६.५५ ॥
गृहीत्वा सलिलम् सर्वम् उपस्पृश्य यथाविधि । उत्ससर्ज यथा शापम् राक्षस-इन्द्राय दारुणम् ॥ ७।२६।५५ ॥
gṛhītvā salilam sarvam upaspṛśya yathāvidhi . utsasarja yathā śāpam rākṣasa-indrāya dāruṇam .. 7.26.55 ..
अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता । तस्मात्स युवतीमन्यां नाकामामुपयास्यति ॥ ७.२६.५६ ॥
अकामा तेन यस्मात् त्वम् बलात् भद्रे प्रधर्षिता । तस्मात् स युवतीम् अन्याम् न अकामाम् उपयास्यति ॥ ७।२६।५६ ॥
akāmā tena yasmāt tvam balāt bhadre pradharṣitā . tasmāt sa yuvatīm anyām na akāmām upayāsyati .. 7.26.56 ..
यदा ह्यकामां कामार्तो धर्षयिष्यति योषितम् । मूर्धा तु सप्तधा तस्य शकलीभविता तदा ॥ ७.२६.५७ ॥
यदा हि अकामाम् काम-आर्तः धर्षयिष्यति योषितम् । मूर्धा तु सप्तधा तस्य शकलीभविता तदा ॥ ७।२६।५७ ॥
yadā hi akāmām kāma-ārtaḥ dharṣayiṣyati yoṣitam . mūrdhā tu saptadhā tasya śakalībhavitā tadā .. 7.26.57 ..
तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता । पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः ॥ ७.२६.५८ ॥
तस्मिन् उदाहृते शापे ज्वलित-अग्नि-सम-प्रभे । देव-दुन्दुभयः नेदुः पुष्प-वृष्टिः च खात् च्युता । पितामह-मुखाः च एव सर्वे देवाः प्रहर्षिताः ॥ ७।२६।५८ ॥
tasmin udāhṛte śāpe jvalita-agni-sama-prabhe . deva-dundubhayaḥ neduḥ puṣpa-vṛṣṭiḥ ca khāt cyutā . pitāmaha-mukhāḥ ca eva sarve devāḥ praharṣitāḥ .. 7.26.58 ..
ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः । ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् ॥ ७.२६.५९ ॥
ज्ञात्वा लोक-गतिम् सर्वाम् तस्य मृत्युम् च रक्षसः । ऋषयः पितरः च एव प्रीतिम् आपुः अनुत्तमाम् ॥ ७।२६।५९ ॥
jñātvā loka-gatim sarvām tasya mṛtyum ca rakṣasaḥ . ṛṣayaḥ pitaraḥ ca eva prītim āpuḥ anuttamām .. 7.26.59 ..
श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् । नारीषु मैथुने भावं नाकामास्वभ्यरोचयत् ॥ ७.२६.६० ॥
श्रुत्वा तु स दशग्रीवः तम् शापम् रोम-हर्षणम् । नारीषु मैथुने भावम् न अकामासु अभ्यरोचयत् ॥ ७।२६।६० ॥
śrutvā tu sa daśagrīvaḥ tam śāpam roma-harṣaṇam . nārīṣu maithune bhāvam na akāmāsu abhyarocayat .. 7.26.60 ..
तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः । नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम् ॥ ७.२६.६१ ॥
तेन नीताः स्त्रियः प्रीतिम् आपुः सर्वाः पतिव्रताः । नलकूबर-निर्मुक्तम् शापम् श्रुत्वा मनः-प्रियम् ॥ ७।२६।६१ ॥
tena nītāḥ striyaḥ prītim āpuḥ sarvāḥ pativratāḥ . nalakūbara-nirmuktam śāpam śrutvā manaḥ-priyam .. 7.26.61 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षड्वविंशः सर्गः ॥ २६ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे षड्वविंशः सर्गः ॥ २६ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe ṣaḍvaviṃśaḥ sargaḥ .. 26 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In