This overlay will guide you through the buttons:

| |
|
श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् । प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ॥ ७.७८.१ ॥
श्रुत्वा तु भाषितम् वाक्यम् मम राम शुभ-अक्षरम् । प्राञ्जलिः प्रत्युवाच इदम् स स्वर्गी रघुनन्दन ॥ ७।७८।१ ॥
śrutvā tu bhāṣitam vākyam mama rāma śubha-akṣaram . prāñjaliḥ pratyuvāca idam sa svargī raghunandana .. 7.78.1 ..
शृणु ब्रह्मन्पुरा वृत्तं ममैतत्सुखदुःखयोः । अनतिक्रमणीयं हि यथा पृच्छसि मां द्विज ॥ ७.७८.२ ॥
शृणु ब्रह्मन् पुरा वृत्तम् मम एतत् सुख-दुःखयोः । अन् अतिक्रमणीयम् हि यथा पृच्छसि माम् द्विज ॥ ७।७८।२ ॥
śṛṇu brahman purā vṛttam mama etat sukha-duḥkhayoḥ . an atikramaṇīyam hi yathā pṛcchasi mām dvija .. 7.78.2 ..
पुरा वैदर्भको राजा पिता मम महायशाः । सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ७.७८.३ ॥
पुरा वैदर्भकः राजा पिता मम महा-यशाः । सुदेवः इति विख्यातः त्रिषु लोकेषु वीर्यवान् ॥ ७।७८।३ ॥
purā vaidarbhakaḥ rājā pitā mama mahā-yaśāḥ . sudevaḥ iti vikhyātaḥ triṣu lokeṣu vīryavān .. 7.78.3 ..
तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत । अहं श्वेत इति ख्यातो यवीयान्सुरथो ऽभवत् ॥ ७.७८.४ ॥
तस्य पुत्र-द्वयम् ब्रह्मन् द्वाभ्याम् स्त्रीभ्याम् अजायत । अहम् श्वेतः इति ख्यातः यवीयान् सुरथः अभवत् ॥ ७।७८।४ ॥
tasya putra-dvayam brahman dvābhyām strībhyām ajāyata . aham śvetaḥ iti khyātaḥ yavīyān surathaḥ abhavat .. 7.78.4 ..
ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् । तत्राहं कृतवान्राज्यं धर्म्यं च सुसमाहितः ॥ ७.७८.५ ॥
ततस् पितरि स्वर्याते पौराः माम् अभ्यषेचयन् । तत्र अहम् कृतवान् राज्यम् धर्म्यम् च सु समाहितः ॥ ७।७८।५ ॥
tatas pitari svaryāte paurāḥ mām abhyaṣecayan . tatra aham kṛtavān rājyam dharmyam ca su samāhitaḥ .. 7.78.5 ..
एवं वर्षसहस्राणि समतीतानि सुव्रत । राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः ॥ ७.७८.६ ॥
एवम् वर्ष-सहस्राणि समतीतानि सुव्रत । राज्यम् कारयतः ब्रह्मन् प्रजाः धर्मेण रक्षतः ॥ ७।७८।६ ॥
evam varṣa-sahasrāṇi samatītāni suvrata . rājyam kārayataḥ brahman prajāḥ dharmeṇa rakṣataḥ .. 7.78.6 ..
सो ऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम । कालधर्मं हृदि न्यस्य ततो वनमुपागमम् ॥ ७.७८.७ ॥
सः अहम् निमित्ते कस्मिंश्चिद् विज्ञात-आयुः द्विजोत्तम । कालधर्मम् हृदि न्यस्य ततस् वनम् उपागमम् ॥ ७।७८।७ ॥
saḥ aham nimitte kasmiṃścid vijñāta-āyuḥ dvijottama . kāladharmam hṛdi nyasya tatas vanam upāgamam .. 7.78.7 ..
सो ऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् । तपश्चर्तुं प्रविष्टो ऽस्मि समीपे सरसः शुभे ॥ ७.७८.८ ॥
सः अहम् वनम् इदम् दुर्गम् मृग-पक्षि-विवर्जितम् । तपः चर्तुम् प्रविष्टः अस्मि समीपे सरसः शुभे ॥ ७।७८।८ ॥
saḥ aham vanam idam durgam mṛga-pakṣi-vivarjitam . tapaḥ cartum praviṣṭaḥ asmi samīpe sarasaḥ śubhe .. 7.78.8 ..
भ्रातरं सुरथं राज्ये ह्यभिषिच्य महीपतिम् । इदं सरः समासाद्य तपस्तप्तं मया चिरम् ॥ ७.७८.९ ॥
भ्रातरम् सुरथम् राज्ये हि अभिषिच्य महीपतिम् । इदम् सरः समासाद्य तपः तप्तम् मया चिरम् ॥ ७।७८।९ ॥
bhrātaram suratham rājye hi abhiṣicya mahīpatim . idam saraḥ samāsādya tapaḥ taptam mayā ciram .. 7.78.9 ..
सो ऽहं वर्षसहस्राणि तपस्त्रीणि महावने । तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ॥ ७.७८.१० ॥
सः अहम् वर्ष-सहस्राणि तपः त्रीणि महा-वने । तप्त्वा सु दुष्करम् प्राप्तः ब्रह्म-लोकम् अनुत्तमम् ॥ ७।७८।१० ॥
saḥ aham varṣa-sahasrāṇi tapaḥ trīṇi mahā-vane . taptvā su duṣkaram prāptaḥ brahma-lokam anuttamam .. 7.78.10 ..
तस्य मे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम । बाधेते परमोदार ततो ऽहं व्यथितेन्द्रियः । गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह ॥ ७.७८.११ ॥
तस्य मे स्वर्ग-भूतस्य क्षुध्-पिपासे द्विजोत्तम । बाधेते परम-उदार ततस् अहम् व्यथित-इन्द्रियः । गत्वा त्रिभुवन-श्रेष्ठम् पितामहम् उवाच ह ॥ ७।७८।११ ॥
tasya me svarga-bhūtasya kṣudh-pipāse dvijottama . bādhete parama-udāra tatas aham vyathita-indriyaḥ . gatvā tribhuvana-śreṣṭham pitāmaham uvāca ha .. 7.78.11 ..
भगवन्ब्रह्मलोको ऽयं क्षुत्पिपासाविवर्जितः । कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम् ॥ ७.७८.१२ ॥
भगवन् ब्रह्म-लोकः अयम् क्षुध्-पिपासा-विवर्जितः । कस्य अयम् कर्मणः पाकः क्षुध्-पिपासा-अनुगः हि अहम् ॥ ७।७८।१२ ॥
bhagavan brahma-lokaḥ ayam kṣudh-pipāsā-vivarjitaḥ . kasya ayam karmaṇaḥ pākaḥ kṣudh-pipāsā-anugaḥ hi aham .. 7.78.12 ..
आहारः कश्च मे देव तन्मे ब्रूहि पितामह ॥ ७.७८.१३ ॥
आहारः कः च मे देव तत् मे ब्रूहि पितामह ॥ ७।७८।१३ ॥
āhāraḥ kaḥ ca me deva tat me brūhi pitāmaha .. 7.78.13 ..
पितामहस्तु मामाह तवाहारः सुदेवज । स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः ॥ ७.७८.१४ ॥
पितामहः तु माम् आह तव आहारः सुदेव-ज । स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशस् ॥ ७।७८।१४ ॥
pitāmahaḥ tu mām āha tava āhāraḥ sudeva-ja . svādūni svāni māṃsāni tāni bhakṣaya nityaśas .. 7.78.14 ..
स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् । अनुप्तं रोहते श्वेत न कदाचिन्महामते ॥ ७.७८.१५ ॥
स्व-शरीरम् त्वया पुष्टम् कुर्वता तपः उत्तमम् । अनुप्तम् रोहते श्वेत न कदाचिद् महामते ॥ ७।७८।१५ ॥
sva-śarīram tvayā puṣṭam kurvatā tapaḥ uttamam . anuptam rohate śveta na kadācid mahāmate .. 7.78.15 ..
तृप्तिर्न ते ऽस्ति सूक्ष्मा ऽपि वने सत्वनिषेविते । पुरा तु भिक्षमाणाय भिक्षा वै यतये नृप । न हि दत्ता त्वयेन्द्राभ यस्मादतिथये ऽपि वै ॥ ७.७८.१६ ॥
तृप्तिः न ते अस्ति सूक्ष्मा अपि वने सत्व-निषेविते । पुरा तु भिक्षमाणाय भिक्षाः वै यतये नृप । न हि दत्ता त्वया इन्द्र आभ यस्मात् अतिथये अपि वै ॥ ७।७८।१६ ॥
tṛptiḥ na te asti sūkṣmā api vane satva-niṣevite . purā tu bhikṣamāṇāya bhikṣāḥ vai yataye nṛpa . na hi dattā tvayā indra ābha yasmāt atithaye api vai .. 7.78.16 ..
दत्तं न ते ऽस्ति सूक्ष्मो ऽपि तप एव निषेवसे । तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ॥ ७.७८.१७ ॥
दत्तम् न ते अस्ति सूक्ष्मः अपि तपः एव निषेवसे । तेन स्वर्ग-गतः वत्स बाध्यसे क्षुध्-पिपासया ॥ ७।७८।१७ ॥
dattam na te asti sūkṣmaḥ api tapaḥ eva niṣevase . tena svarga-gataḥ vatsa bādhyase kṣudh-pipāsayā .. 7.78.17 ..
स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् । भक्षयित्वामृतरसं तेन तृप्तिर्भविष्यति ॥ ७.७८.१८ ॥
स त्वम् सु पुष्टम् आहारैः स्व-शरीरम् अनुत्तमम् । भक्षयित्वा अमृत-रसम् तेन तृप्तिः भविष्यति ॥ ७।७८।१८ ॥
sa tvam su puṣṭam āhāraiḥ sva-śarīram anuttamam . bhakṣayitvā amṛta-rasam tena tṛptiḥ bhaviṣyati .. 7.78.18 ..
यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः । आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यते ॥ ७.७८.१९ ॥
यदा तु तत् वनम् श्वेत अगस्त्यः सु महान् ऋषिः । आगमिष्यति दुर्धर्षः तदा कृच्छ्रात् विमोक्ष्यते ॥ ७।७८।१९ ॥
yadā tu tat vanam śveta agastyaḥ su mahān ṛṣiḥ . āgamiṣyati durdharṣaḥ tadā kṛcchrāt vimokṣyate .. 7.78.19 ..
स हि तारयितुं सौम्य शक्तः सुरगणानपि । किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ॥ ७.७८.२० ॥
स हि तारयितुम् सौम्य शक्तः सुर-गणान् अपि । किम् पुनर् त्वाम् महा-बाहो क्षुध्-पिपासा-वशम् गतम् ॥ ७।७८।२० ॥
sa hi tārayitum saumya śaktaḥ sura-gaṇān api . kim punar tvām mahā-bāho kṣudh-pipāsā-vaśam gatam .. 7.78.20 ..
सो ऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् । आहारं गर्हितं स्वशरीरं द्विजोत्तम ॥ ७.७८.२१ ॥
सः अहम् भगवतः श्रुत्वा देवदेवस्य निश्चयम् । आहारम् गर्हितम् स्व-शरीरम् द्विजोत्तम ॥ ७।७८।२१ ॥
saḥ aham bhagavataḥ śrutvā devadevasya niścayam . āhāram garhitam sva-śarīram dvijottama .. 7.78.21 ..
बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया । क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ॥ ७.७८.२२ ॥
बहून् वर्ष-गणान् ब्रह्मन् भुज्यमानम् इदम् मया । क्षयम् ना अभ्येति ब्रह्मर्षे तृप्तिः च अपि मम उत्तमा ॥ ७।७८।२२ ॥
bahūn varṣa-gaṇān brahman bhujyamānam idam mayā . kṣayam nā abhyeti brahmarṣe tṛptiḥ ca api mama uttamā .. 7.78.22 ..
तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोचय । अन्येषां न गतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ॥ ७.७८.२३ ॥
तस्य मे कृच्छ्र-भूतस्य कृच्छ्रात् अस्मात् विमोचय । अन्येषाम् न गतिः हि अत्र कुम्भयोनि-मृते द्विजम् ॥ ७।७८।२३ ॥
tasya me kṛcchra-bhūtasya kṛcchrāt asmāt vimocaya . anyeṣām na gatiḥ hi atra kumbhayoni-mṛte dvijam .. 7.78.23 ..
इदमाभरणं सौम्य तारणार्थं द्विजोत्तम । प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि ॥ ७.७८.२४ ॥
इदम् आभरणम् सौम्य तारण-अर्थम् द्विजोत्तम । प्रतिगृह्णीष्व भद्रम् ते प्रसादम् कर्तुम् अर्हसि ॥ ७।७८।२४ ॥
idam ābharaṇam saumya tāraṇa-artham dvijottama . pratigṛhṇīṣva bhadram te prasādam kartum arhasi .. 7.78.24 ..
इदं तावत्सुवर्णं च धनं वस्त्राणि च द्विज । भक्ष्यं भोज्यं च ब्रह्मर्षे ददात्याभरणानि च ॥ ७.७८.२५ ॥
इदम् तावत् सुवर्णम् च धनम् वस्त्राणि च द्विज । भक्ष्यम् भोज्यम् च ब्रह्मर्षे ददाति आभरणानि च ॥ ७।७८।२५ ॥
idam tāvat suvarṇam ca dhanam vastrāṇi ca dvija . bhakṣyam bhojyam ca brahmarṣe dadāti ābharaṇāni ca .. 7.78.25 ..
सर्वान्कामान्प्रयच्छामि भोगांश्च मुनिपुङ्गव । तारणे भगवन्मह्यं प्रसादं कर्तुमर्हसि ॥ ७.७८.२६ ॥
सर्वान् कामान् प्रयच्छामि भोगान् च मुनि-पुङ्गव । तारणे भगवत् मह्यम् प्रसादम् कर्तुम् अर्हसि ॥ ७।७८।२६ ॥
sarvān kāmān prayacchāmi bhogān ca muni-puṅgava . tāraṇe bhagavat mahyam prasādam kartum arhasi .. 7.78.26 ..
तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् । तारणायोपजग्राह तदाभरणमुत्तमम् ॥ ७.७८.२७ ॥
तस्य अहम् स्वर्गिणः वाक्यम् श्रुत्वा दुःख-समन्वितम् । तारणाय उपजग्राह तत् आभरणम् उत्तमम् ॥ ७।७८।२७ ॥
tasya aham svargiṇaḥ vākyam śrutvā duḥkha-samanvitam . tāraṇāya upajagrāha tat ābharaṇam uttamam .. 7.78.27 ..
मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे । मानुषः पूर्वको देहो राजर्षेर्विननाश ह ॥ ७.७८.२८ ॥
मया प्रतिगृहीते तु तस्मिन् आभरणे शुभे । मानुषः पूर्वकः देहः राजर्षेः विननाश ह ॥ ७।७८।२८ ॥
mayā pratigṛhīte tu tasmin ābharaṇe śubhe . mānuṣaḥ pūrvakaḥ dehaḥ rājarṣeḥ vinanāśa ha .. 7.78.28 ..
प्रनष्टे तु शरीरे ऽसौ राजर्षिः परया मुदा । तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम् ॥ ७.७८.२९ ॥
प्रनष्टे तु शरीरे असौ राजर्षिः परया मुदा । तृप्तः प्रमुदितः राजा जगाम त्रिदिवम् सुखम् ॥ ७।७८।२९ ॥
pranaṣṭe tu śarīre asau rājarṣiḥ parayā mudā . tṛptaḥ pramuditaḥ rājā jagāma tridivam sukham .. 7.78.29 ..
तेनेदं शक्रतुल्येन दिव्यमाभरणं मम । तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ॥ ७.७८.३० ॥
तेन इदम् शक्र-तुल्येन दिव्यम् आभरणम् मम । तस्मिन् निमित्ते काकुत्स्थ दत्तम् अद्भुत-दर्शनम् ॥ ७।७८।३० ॥
tena idam śakra-tulyena divyam ābharaṇam mama . tasmin nimitte kākutstha dattam adbhuta-darśanam .. 7.78.30 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टसप्ततितमः सर्गः ॥ ७८ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे अष्टसप्ततितमः सर्गः ॥ ७८ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe aṣṭasaptatitamaḥ sargaḥ .. 78 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In