This overlay will guide you through the buttons:

| |
|
श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् । प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ॥ ७.७८.१ ॥
śrutvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram . prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana .. 7.78.1 ..
शृणु ब्रह्मन्पुरा वृत्तं ममैतत्सुखदुःखयोः । अनतिक्रमणीयं हि यथा पृच्छसि मां द्विज ॥ ७.७८.२ ॥
śṛṇu brahmanpurā vṛttaṃ mamaitatsukhaduḥkhayoḥ . anatikramaṇīyaṃ hi yathā pṛcchasi māṃ dvija .. 7.78.2 ..
पुरा वैदर्भको राजा पिता मम महायशाः । सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ७.७८.३ ॥
purā vaidarbhako rājā pitā mama mahāyaśāḥ . sudeva iti vikhyātastriṣu lokeṣu vīryavān .. 7.78.3 ..
तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत । अहं श्वेत इति ख्यातो यवीयान्सुरथो ऽभवत् ॥ ७.७८.४ ॥
tasya putradvayaṃ brahmandvābhyāṃ strībhyāmajāyata . ahaṃ śveta iti khyāto yavīyānsuratho 'bhavat .. 7.78.4 ..
ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् । तत्राहं कृतवान्राज्यं धर्म्यं च सुसमाहितः ॥ ७.७८.५ ॥
tataḥ pitari svaryāte paurā māmabhyaṣecayan . tatrāhaṃ kṛtavānrājyaṃ dharmyaṃ ca susamāhitaḥ .. 7.78.5 ..
एवं वर्षसहस्राणि समतीतानि सुव्रत । राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः ॥ ७.७८.६ ॥
evaṃ varṣasahasrāṇi samatītāni suvrata . rājyaṃ kārayato brahmanprajā dharmeṇa rakṣataḥ .. 7.78.6 ..
सो ऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम । कालधर्मं हृदि न्यस्य ततो वनमुपागमम् ॥ ७.७८.७ ॥
so 'haṃ nimitte kasmiṃścidvijñātāyurdvijottama . kāladharmaṃ hṛdi nyasya tato vanamupāgamam .. 7.78.7 ..
सो ऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् । तपश्चर्तुं प्रविष्टो ऽस्मि समीपे सरसः शुभे ॥ ७.७८.८ ॥
so 'haṃ vanamidaṃ durgaṃ mṛgapakṣivivarjitam . tapaścartuṃ praviṣṭo 'smi samīpe sarasaḥ śubhe .. 7.78.8 ..
भ्रातरं सुरथं राज्ये ह्यभिषिच्य महीपतिम् । इदं सरः समासाद्य तपस्तप्तं मया चिरम् ॥ ७.७८.९ ॥
bhrātaraṃ surathaṃ rājye hyabhiṣicya mahīpatim . idaṃ saraḥ samāsādya tapastaptaṃ mayā ciram .. 7.78.9 ..
सो ऽहं वर्षसहस्राणि तपस्त्रीणि महावने । तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ॥ ७.७८.१० ॥
so 'haṃ varṣasahasrāṇi tapastrīṇi mahāvane . taptvā suduṣkaraṃ prāpto brahmalokamanuttamam .. 7.78.10 ..
तस्य मे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम । बाधेते परमोदार ततो ऽहं व्यथितेन्द्रियः । गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह ॥ ७.७८.११ ॥
tasya me svargabhūtasya kṣutpipāse dvijottama . bādhete paramodāra tato 'haṃ vyathitendriyaḥ . gatvā tribhuvanaśreṣṭhaṃ pitāmahamuvāca ha .. 7.78.11 ..
भगवन्ब्रह्मलोको ऽयं क्षुत्पिपासाविवर्जितः । कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम् ॥ ७.७८.१२ ॥
bhagavanbrahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ . kasyāyaṃ karmaṇaḥ pākaḥ kṣutpipāsānugo hyaham .. 7.78.12 ..
आहारः कश्च मे देव तन्मे ब्रूहि पितामह ॥ ७.७८.१३ ॥
āhāraḥ kaśca me deva tanme brūhi pitāmaha .. 7.78.13 ..
पितामहस्तु मामाह तवाहारः सुदेवज । स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः ॥ ७.७८.१४ ॥
pitāmahastu māmāha tavāhāraḥ sudevaja . svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ .. 7.78.14 ..
स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् । अनुप्तं रोहते श्वेत न कदाचिन्महामते ॥ ७.७८.१५ ॥
svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam . anuptaṃ rohate śveta na kadācinmahāmate .. 7.78.15 ..
तृप्तिर्न ते ऽस्ति सूक्ष्मा ऽपि वने सत्वनिषेविते । पुरा तु भिक्षमाणाय भिक्षा वै यतये नृप । न हि दत्ता त्वयेन्द्राभ यस्मादतिथये ऽपि वै ॥ ७.७८.१६ ॥
tṛptirna te 'sti sūkṣmā 'pi vane satvaniṣevite . purā tu bhikṣamāṇāya bhikṣā vai yataye nṛpa . na hi dattā tvayendrābha yasmādatithaye 'pi vai .. 7.78.16 ..
दत्तं न ते ऽस्ति सूक्ष्मो ऽपि तप एव निषेवसे । तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ॥ ७.७८.१७ ॥
dattaṃ na te 'sti sūkṣmo 'pi tapa eva niṣevase . tena svargagato vatsa bādhyase kṣutpipāsayā .. 7.78.17 ..
स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् । भक्षयित्वामृतरसं तेन तृप्तिर्भविष्यति ॥ ७.७८.१८ ॥
sa tvaṃ supuṣṭamāhāraiḥ svaśarīramanuttamam . bhakṣayitvāmṛtarasaṃ tena tṛptirbhaviṣyati .. 7.78.18 ..
यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः । आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यते ॥ ७.७८.१९ ॥
yadā tu tadvanaṃ śveta agastyaḥ sumahānṛṣiḥ . āgamiṣyati durdharṣastadā kṛcchrādvimokṣyate .. 7.78.19 ..
स हि तारयितुं सौम्य शक्तः सुरगणानपि । किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ॥ ७.७८.२० ॥
sa hi tārayituṃ saumya śaktaḥ suragaṇānapi . kiṃ punastvāṃ mahābāho kṣutpipāsāvaśaṃ gatam .. 7.78.20 ..
सो ऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् । आहारं गर्हितं स्वशरीरं द्विजोत्तम ॥ ७.७८.२१ ॥
so 'haṃ bhagavataḥ śrutvā devadevasya niścayam . āhāraṃ garhitaṃ svaśarīraṃ dvijottama .. 7.78.21 ..
बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया । क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ॥ ७.७८.२२ ॥
bahūnvarṣagaṇānbrahmanbhujyamānamidaṃ mayā . kṣayaṃ nābhyeti brahmarṣe tṛptiścāpi mamottamā .. 7.78.22 ..
तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोचय । अन्येषां न गतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ॥ ७.७८.२३ ॥
tasya me kṛcchrabhūtasya kṛcchrādasmādvimocaya . anyeṣāṃ na gatirhyatra kumbhayonimṛte dvijam .. 7.78.23 ..
इदमाभरणं सौम्य तारणार्थं द्विजोत्तम । प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि ॥ ७.७८.२४ ॥
idamābharaṇaṃ saumya tāraṇārthaṃ dvijottama . pratigṛhṇīṣva bhadraṃ te prasādaṃ kartumarhasi .. 7.78.24 ..
इदं तावत्सुवर्णं च धनं वस्त्राणि च द्विज । भक्ष्यं भोज्यं च ब्रह्मर्षे ददात्याभरणानि च ॥ ७.७८.२५ ॥
idaṃ tāvatsuvarṇaṃ ca dhanaṃ vastrāṇi ca dvija . bhakṣyaṃ bhojyaṃ ca brahmarṣe dadātyābharaṇāni ca .. 7.78.25 ..
सर्वान्कामान्प्रयच्छामि भोगांश्च मुनिपुङ्गव । तारणे भगवन्मह्यं प्रसादं कर्तुमर्हसि ॥ ७.७८.२६ ॥
sarvānkāmānprayacchāmi bhogāṃśca munipuṅgava . tāraṇe bhagavanmahyaṃ prasādaṃ kartumarhasi .. 7.78.26 ..
तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् । तारणायोपजग्राह तदाभरणमुत्तमम् ॥ ७.७८.२७ ॥
tasyāhaṃ svargiṇo vākyaṃ śrutvā duḥkhasamanvitam . tāraṇāyopajagrāha tadābharaṇamuttamam .. 7.78.27 ..
मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे । मानुषः पूर्वको देहो राजर्षेर्विननाश ह ॥ ७.७८.२८ ॥
mayā pratigṛhīte tu tasminnābharaṇe śubhe . mānuṣaḥ pūrvako deho rājarṣervinanāśa ha .. 7.78.28 ..
प्रनष्टे तु शरीरे ऽसौ राजर्षिः परया मुदा । तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम् ॥ ७.७८.२९ ॥
pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā . tṛptaḥ pramudito rājā jagāma tridivaṃ sukham .. 7.78.29 ..
तेनेदं शक्रतुल्येन दिव्यमाभरणं मम । तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ॥ ७.७८.३० ॥
tenedaṃ śakratulyena divyamābharaṇaṃ mama . tasminnimitte kākutstha dattamadbhutadarśanam .. 7.78.30 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टसप्ततितमः सर्गः ॥ ७८ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭasaptatitamaḥ sargaḥ .. 78 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In