This overlay will guide you through the buttons:

| |
|
तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः । हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह ॥ ७.९२.१ ॥
तत् सर्वम् अखिलेन आशु प्रस्थाप्य भरताग्रजः । हयम् लक्षण-सम्पन्नम् कृष्ण-सारम् मुमोच ह ॥ ७।९२।१ ॥
tat sarvam akhilena āśu prasthāpya bharatāgrajaḥ . hayam lakṣaṇa-sampannam kṛṣṇa-sāram mumoca ha .. 7.92.1 ..
ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च । ततो ऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ॥ ७.९२.२ ॥
ऋत्विग्भिः लक्ष्मणम् सार्धम् अश्व-तन्त्रे नियोज्य च । ततस् अभ्यगच्छत् काकुत्स्थः सह सैन्येन नैमिशम् ॥ ७।९२।२ ॥
ṛtvigbhiḥ lakṣmaṇam sārdham aśva-tantre niyojya ca . tatas abhyagacchat kākutsthaḥ saha sainyena naimiśam .. 7.92.2 ..
यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् । प्रबर्षमतुलं लेभे श्रीमानिति वचो ऽब्रवीत् ॥ ७.९२.३ ॥
यज्ञ-वाटम् महा-बाहुः दृष्ट्वा परमम् अद्भुतम् । प्रबर्षम् अतुलम् लेभे श्रीमान् इति वचः अब्रवीत् ॥ ७।९२।३ ॥
yajña-vāṭam mahā-bāhuḥ dṛṣṭvā paramam adbhutam . prabarṣam atulam lebhe śrīmān iti vacaḥ abravīt .. 7.92.3 ..
नैमिषे वसतस्तस्य सर्व एव नराधिपाः । आनिन्युरुपहारांश्च तान्रामः प्रत्यपूजयत् ॥ ७.९२.४ ॥
नैमिषे वसतः तस्य सर्वे एव नराधिपाः । आनिन्युः उपहारान् च तान् रामः प्रत्यपूजयत् ॥ ७।९२।४ ॥
naimiṣe vasataḥ tasya sarve eva narādhipāḥ . āninyuḥ upahārān ca tān rāmaḥ pratyapūjayat .. 7.92.4 ..
उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् । सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः ॥ ७.९२.५ ॥
उपकार्याः महार्हाः च पार्थिवानाम् महात्मनाम् । स अनुगानाम् नर-श्रेष्ठः व्यादिदेश महामतिः ॥ ७।९२।५ ॥
upakāryāḥ mahārhāḥ ca pārthivānām mahātmanām . sa anugānām nara-śreṣṭhaḥ vyādideśa mahāmatiḥ .. 7.92.5 ..
अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् । भरतः सन्ददावाशु शत्रुघ्नसहितस्तदा ॥ ७.९२.६ ॥
अन्न-पानानि वस्त्राणि स अनुगानाम् महात्मनाम् । भरतः सन्ददौ आशु शत्रुघ्न-सहितः तदा ॥ ७।९२।६ ॥
anna-pānāni vastrāṇi sa anugānām mahātmanām . bharataḥ sandadau āśu śatrughna-sahitaḥ tadā .. 7.92.6 ..
वानराश्च महात्मानः सुग्रीवसहितास्तदा । विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ॥ ७.९२.७ ॥
वानराः च महात्मानः सुग्रीव-सहिताः तदा । विप्राणाम् प्रणताः सर्वे चक्रिरे परिवेषणम् ॥ ७।९२।७ ॥
vānarāḥ ca mahātmānaḥ sugrīva-sahitāḥ tadā . viprāṇām praṇatāḥ sarve cakrire pariveṣaṇam .. 7.92.7 ..
बिभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः । ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ॥ ७.९२.८ ॥
बिभीषणः च रक्षोभिः बहुभिः स्रग्विभिः वृतः । ऋषीणाम् उग्र-तपसाम् पूजाम् चक्रे महात्मनाम् ॥ ७।९२।८ ॥
bibhīṣaṇaḥ ca rakṣobhiḥ bahubhiḥ sragvibhiḥ vṛtaḥ . ṛṣīṇām ugra-tapasām pūjām cakre mahātmanām .. 7.92.8 ..
एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत । लक्ष्मणेनागुप्ता च हयचर्या प्रवर्तत । ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् ॥ ७.९२.९ ॥
एवम् सु विहितः यज्ञः हयमेधः अभ्यवर्तत । लक्ष्मणेन अगुप्ता च हय-चर्या प्रवर्तत । ईदृशम् राज-सिंहस्य यज्ञ-प्रवरम् उत्तमम् ॥ ७।९२।९ ॥
evam su vihitaḥ yajñaḥ hayamedhaḥ abhyavartata . lakṣmaṇena aguptā ca haya-caryā pravartata . īdṛśam rāja-siṃhasya yajña-pravaram uttamam .. 7.92.9 ..
नान्यः शब्दो ऽभवत्तत्र हयमेधे महात्मनः । छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः ॥ ७.९२.१० ॥
न अन्यः शब्दः अभवत् तत्र हयमेधे महात्मनः । छन्दतः देहि विस्रब्धः यावत् तुष्यन्ति याचकाः ॥ ७।९२।१० ॥
na anyaḥ śabdaḥ abhavat tatra hayamedhe mahātmanaḥ . chandataḥ dehi visrabdhaḥ yāvat tuṣyanti yācakāḥ .. 7.92.10 ..
तावत्सर्वाणि दत्तानि क्रतुमध्ये महात्मनः । विविधानि च गौडानि खाण्डवानि तथैव च ॥ ७.९२.११ ॥
तावत् सर्वाणि दत्तानि क्रतु-मध्ये महात्मनः । विविधानि च गौडानि खाण्डवानि तथा एव च ॥ ७।९२।११ ॥
tāvat sarvāṇi dattāni kratu-madhye mahātmanaḥ . vividhāni ca gauḍāni khāṇḍavāni tathā eva ca .. 7.92.11 ..
न निस्सृतं भतत्योष्ठाद्वचनं यावदर्थिनाम् । तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ॥ ७.९२.१२ ॥
न निस्सृतम् वचनम् यावत् अर्थिनाम् । तावत् वानर-रक्षोभिः दत्तम् एव अभ्यदृश्यत ॥ ७।९२।१२ ॥
na nissṛtam vacanam yāvat arthinām . tāvat vānara-rakṣobhiḥ dattam eva abhyadṛśyata .. 7.92.12 ..
न कश्चिन्मलिनस्तत्र दीनो वा ऽप्यथ कृर्शतः । तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ॥ ७.९२.१३ ॥
न कश्चिद् मलिनः तत्र दीनः वा अपि अथ कृर्शतः । तस्मिन् यज्ञ-वरे राज्ञः हृष्ट-पुष्ट-जन-आवृते ॥ ७।९२।१३ ॥
na kaścid malinaḥ tatra dīnaḥ vā api atha kṛrśataḥ . tasmin yajña-vare rājñaḥ hṛṣṭa-puṣṭa-jana-āvṛte .. 7.92.13 ..
ये च तत्र महात्मानो मुनयश्चिरजीविनः । नास्मरंस्तादृशं यज्ञं नाप्यासीत् स कदाचन ॥ ७.९२.१४ ॥
ये च तत्र महात्मानः मुनयः चिर-जीविनः । न अस्मरन् तादृशम् यज्ञम् न अपि आसीत् स कदाचन ॥ ७।९२।१४ ॥
ye ca tatra mahātmānaḥ munayaḥ cira-jīvinaḥ . na asmaran tādṛśam yajñam na api āsīt sa kadācana .. 7.92.14 ..
यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः । वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ॥ ७.९२.१५ ॥
यः कृत्यवान् सुवर्णेन सुवर्णम् लभते स्म सः । वित्त-अर्थी लभते वित्तम् रत्न-अर्थी रत्नम् एव च ॥ ७।९२।१५ ॥
yaḥ kṛtyavān suvarṇena suvarṇam labhate sma saḥ . vitta-arthī labhate vittam ratna-arthī ratnam eva ca .. 7.92.15 ..
रजतानां सुवर्णानामश्मनामथ वाससाम् । अनिशं दीयमानानां राशिः समुपदृश्यते ॥ ७.९२.१६ ॥
रजतानाम् सुवर्णानाम् अश्मनाम् अथ वाससाम् । अनिशम् दीयमानानाम् राशिः समुपदृश्यते ॥ ७।९२।१६ ॥
rajatānām suvarṇānām aśmanām atha vāsasām . aniśam dīyamānānām rāśiḥ samupadṛśyate .. 7.92.16 ..
न शक्रस्य धनेशस्य यमस्य वरुणस्य वा । ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ॥ ७.९२.१७ ॥
न शक्रस्य धनेशस्य यमस्य वरुणस्य वा । ईदृशः दृष्ट-पूर्वः नः एवम् ऊचुः तपोधनाः ॥ ७।९२।१७ ॥
na śakrasya dhaneśasya yamasya varuṇasya vā . īdṛśaḥ dṛṣṭa-pūrvaḥ naḥ evam ūcuḥ tapodhanāḥ .. 7.92.17 ..
सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः । वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् ॥ ७.९२.१८ ॥
सर्वत्र वानराः तस्थुः सर्वत्र एव च राक्षसाः । वासः-धन-अन्नम् अर्थिभ्यः पूर्ण-हस्ताः ददुः भृशम् ॥ ७।९२।१८ ॥
sarvatra vānarāḥ tasthuḥ sarvatra eva ca rākṣasāḥ . vāsaḥ-dhana-annam arthibhyaḥ pūrṇa-hastāḥ daduḥ bhṛśam .. 7.92.18 ..
ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः । संवत्सरमथो साग्रं वर्तते न च हीयते ॥ ७.९२.१९ ॥
ईदृशः राज-सिंहस्य यज्ञः सर्व-गुण-अन्वितः । संवत्सरम् अथो साग्रम् वर्तते न च हीयते ॥ ७।९२।१९ ॥
īdṛśaḥ rāja-siṃhasya yajñaḥ sarva-guṇa-anvitaḥ . saṃvatsaram atho sāgram vartate na ca hīyate .. 7.92.19 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विनवतितमः सर्गः ॥ ९२ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे द्विनवतितमः सर्गः ॥ ९२ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe dvinavatitamaḥ sargaḥ .. 92 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In