This overlay will guide you through the buttons:

| |
|
तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः । हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह ॥ ७.९२.१ ॥
tatsarvamakhilenāśu prasthāpya bharatāgrajaḥ . hayaṃ lakṣaṇasampannaṃ kṛṣṇasāraṃ mumoca ha .. 7.92.1 ..
ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च । ततो ऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ॥ ७.९२.२ ॥
ṛtvigbhirlakṣmaṇaṃ sārdhamaśvatantre niyojya ca . tato 'bhyagacchatkākutsthaḥ saha sainyena naimiśam .. 7.92.2 ..
यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् । प्रबर्षमतुलं लेभे श्रीमानिति वचो ऽब्रवीत् ॥ ७.९२.३ ॥
yajñavāṭaṃ mahābāhurdṛṣṭvā paramamadbhutam . prabarṣamatulaṃ lebhe śrīmāniti vaco 'bravīt .. 7.92.3 ..
नैमिषे वसतस्तस्य सर्व एव नराधिपाः । आनिन्युरुपहारांश्च तान्रामः प्रत्यपूजयत् ॥ ७.९२.४ ॥
naimiṣe vasatastasya sarva eva narādhipāḥ . āninyurupahārāṃśca tānrāmaḥ pratyapūjayat .. 7.92.4 ..
उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् । सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः ॥ ७.९२.५ ॥
upakāryā mahārhāśca pārthivānāṃ mahātmanām . sānugānāṃ naraśreṣṭho vyādideśa mahāmatiḥ .. 7.92.5 ..
अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् । भरतः सन्ददावाशु शत्रुघ्नसहितस्तदा ॥ ७.९२.६ ॥
annapānāni vastrāṇi sānugānāṃ mahātmanām . bharataḥ sandadāvāśu śatrughnasahitastadā .. 7.92.6 ..
वानराश्च महात्मानः सुग्रीवसहितास्तदा । विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ॥ ७.९२.७ ॥
vānarāśca mahātmānaḥ sugrīvasahitāstadā . viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam .. 7.92.7 ..
बिभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः । ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ॥ ७.९२.८ ॥
bibhīṣaṇaśca rakṣobhirbahubhiḥ sragvibhirvṛtaḥ . ṛṣīṇāmugratapasāṃ pūjāṃ cakre mahātmanām .. 7.92.8 ..
एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत । लक्ष्मणेनागुप्ता च हयचर्या प्रवर्तत । ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् ॥ ७.९२.९ ॥
evaṃ suvihito yajño hayamedho 'bhyavartata . lakṣmaṇenāguptā ca hayacaryā pravartata . īdṛśaṃ rājasiṃhasya yajñapravaramuttamam .. 7.92.9 ..
नान्यः शब्दो ऽभवत्तत्र हयमेधे महात्मनः । छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः ॥ ७.९२.१० ॥
nānyaḥ śabdo 'bhavattatra hayamedhe mahātmanaḥ . chandato dehi visrabdho yāvattuṣyanti yācakāḥ .. 7.92.10 ..
तावत्सर्वाणि दत्तानि क्रतुमध्ये महात्मनः । विविधानि च गौडानि खाण्डवानि तथैव च ॥ ७.९२.११ ॥
tāvatsarvāṇi dattāni kratumadhye mahātmanaḥ . vividhāni ca gauḍāni khāṇḍavāni tathaiva ca .. 7.92.11 ..
न निस्सृतं भतत्योष्ठाद्वचनं यावदर्थिनाम् । तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ॥ ७.९२.१२ ॥
na nissṛtaṃ bhatatyoṣṭhādvacanaṃ yāvadarthinām . tāvadvānararakṣobhirdattamevābhyadṛśyata .. 7.92.12 ..
न कश्चिन्मलिनस्तत्र दीनो वा ऽप्यथ कृर्शतः । तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ॥ ७.९२.१३ ॥
na kaścinmalinastatra dīno vā 'pyatha kṛrśataḥ . tasminyajñavare rājño hṛṣṭapuṣṭajanāvṛte .. 7.92.13 ..
ये च तत्र महात्मानो मुनयश्चिरजीविनः । नास्मरंस्तादृशं यज्ञं नाप्यासीत् स कदाचन ॥ ७.९२.१४ ॥
ye ca tatra mahātmāno munayaścirajīvinaḥ . nāsmaraṃstādṛśaṃ yajñaṃ nāpyāsīt sa kadācana .. 7.92.14 ..
यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः । वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ॥ ७.९२.१५ ॥
yaḥ kṛtyavānsuvarṇena suvarṇaṃ labhate sma saḥ . vittārthī labhate vittaṃ ratnārthī ratnameva ca .. 7.92.15 ..
रजतानां सुवर्णानामश्मनामथ वाससाम् । अनिशं दीयमानानां राशिः समुपदृश्यते ॥ ७.९२.१६ ॥
rajatānāṃ suvarṇānāmaśmanāmatha vāsasām . aniśaṃ dīyamānānāṃ rāśiḥ samupadṛśyate .. 7.92.16 ..
न शक्रस्य धनेशस्य यमस्य वरुणस्य वा । ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ॥ ७.९२.१७ ॥
na śakrasya dhaneśasya yamasya varuṇasya vā . īdṛśo dṛṣṭapūrvo na evamūcustapodhanāḥ .. 7.92.17 ..
सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः । वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् ॥ ७.९२.१८ ॥
sarvatra vānarāstasthuḥ sarvatraiva ca rākṣasāḥ . vāsodhanānnamarthibhyaḥ pūrṇahastā dadurbhṛśam .. 7.92.18 ..
ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः । संवत्सरमथो साग्रं वर्तते न च हीयते ॥ ७.९२.१९ ॥
īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ . saṃvatsaramatho sāgraṃ vartate na ca hīyate .. 7.92.19 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विनवतितमः सर्गः ॥ ९२ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe dvinavatitamaḥ sargaḥ .. 92 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In