This overlay will guide you through the buttons:

| |
|
रावणं क्रुद्धमाज्ञाय महापार्श्वो महाबलः । मुहूर्तमनुसञ्चिन्त्य प्राञ्जलिर्वाक्यमब्रवीत् ॥ 1 ॥
रावणम् क्रुद्धम् आज्ञाय महापार्श्वः महा-बलः । मुहूर्तम् अनुसञ्चिन्त्य प्राञ्जलिः वाक्यम् अब्रवीत् ॥ १ ॥
rāvaṇam kruddham ājñāya mahāpārśvaḥ mahā-balaḥ . muhūrtam anusañcintya prāñjaliḥ vākyam abravīt .. 1 ..
यः खल्वपि वनं प्राप्य मृगव्यालनिषेवितम् । न पिबेन्मधु सम्प्राप्य स नरो बालिशो भवेत् ॥ 2 ॥
यः खलु अपि वनम् प्राप्य मृग-व्याल-निषेवितम् । न पिबेत् मधु सम्प्राप्य स नरः बालिशः भवेत् ॥ २ ॥
yaḥ khalu api vanam prāpya mṛga-vyāla-niṣevitam . na pibet madhu samprāpya sa naraḥ bāliśaḥ bhavet .. 2 ..
ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण: । रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु ॥ 3 ॥
ईश्वरस्य ईश्वरः कः अस्ति तव शत्रु-निबर्हण । रमस्व सह वैदेह्या शत्रून् आक्रम्य मूर्धसु ॥ ३ ॥
īśvarasya īśvaraḥ kaḥ asti tava śatru-nibarhaṇa . ramasva saha vaidehyā śatrūn ākramya mūrdhasu .. 3 ..
बलात् कुक्कुटवृत्तेन प्रवर्तस्व महाबल: । आक्रम्याक्रम्य सीतां वै तां भुङ्क्ष्व च रमस्व च ॥ 4 ॥
बलात् कुक्कुट-वृत्तेन प्रवर्तस्व महा-बलः । आक्रम्य आक्रम्य सीताम् वै ताम् भुङ्क्ष्व च रमस्व च ॥ ४ ॥
balāt kukkuṭa-vṛttena pravartasva mahā-balaḥ . ākramya ākramya sītām vai tām bhuṅkṣva ca ramasva ca .. 4 ..
लब्धकामस्य ते पश्चादागमिष्यति किं भयम् । प्राप्तमप्राप्तकालं वा सर्वं प्रतिसहिष्यति ॥ 5 ॥
लब्ध-कामस्य ते पश्चात् आगमिष्यति किम् भयम् । प्राप्तम् अप्राप्त-कालम् वा सर्वम् प्रतिसहिष्यति ॥ ५ ॥
labdha-kāmasya te paścāt āgamiṣyati kim bhayam . prāptam aprāpta-kālam vā sarvam pratisahiṣyati .. 5 ..
कुम्भकर्ण सहास्माभिरिन्द्रजिच्च महाबलः । प्रतिषेधयितुं शक्तौ सवज्रमपि वज्रिणम् ॥ 6 ॥
कुम्भकर्ण सह अस्माभिः इन्द्रजित् च महा-बलः । प्रतिषेधयितुम् शक्तौ स वज्रम् अपि वज्रिणम् ॥ ६ ॥
kumbhakarṇa saha asmābhiḥ indrajit ca mahā-balaḥ . pratiṣedhayitum śaktau sa vajram api vajriṇam .. 6 ..
उपप्रदानं सान्त्वं वा भेदं वा कुशलैः कृतम् । समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचये ॥ 7 ॥
उपप्रदानम् सान्त्वम् वा भेदम् वा कुशलैः कृतम् । समतिक्रम्य दण्डेन सिद्धिम् अर्थेषु रोचये ॥ ७ ॥
upapradānam sāntvam vā bhedam vā kuśalaiḥ kṛtam . samatikramya daṇḍena siddhim artheṣu rocaye .. 7 ..
इह प्राप्ता वयं सर्वाञ्छत्रूंस्तव महाबल: । वशे शस्त्र प्तापेन करिष्यामो न संशयः ॥ 8 ॥
इह प्राप्ताः वयम् सर्वान् शत्रून् तव महा-बल । वशे करिष्यामः न संशयः ॥ ८ ॥
iha prāptāḥ vayam sarvān śatrūn tava mahā-bala . vaśe kariṣyāmaḥ na saṃśayaḥ .. 8 ..
एवमुक्तस्तदा राजा महापार्श्वेन रावणः । तस्य सम्पूजय वाक्यमिदं वचनमब्रवीत् ॥ 9 ॥
एवम् उक्तः तदा राजा महापार्श्वेन रावणः । तस्य सम्पूजय वाक्यम् इदम् वचनम् अब्रवीत् ॥ ९ ॥
evam uktaḥ tadā rājā mahāpārśvena rāvaṇaḥ . tasya sampūjaya vākyam idam vacanam abravīt .. 9 ..
महापार्श्व निबोध त्वं रहस्यं किञ्चिदात्मन: । चिरवृत्तं तदाख्यास्ये यदवाप्तं पुरा मया ॥ 10 ॥
महापार्श्व निबोध त्वम् रहस्यम् किञ्चिद् आत्मनः । चिर-वृत्तम् तत् आख्यास्ये यत् अवाप्तम् पुरा मया ॥ १० ॥
mahāpārśva nibodha tvam rahasyam kiñcid ātmanaḥ . cira-vṛttam tat ākhyāsye yat avāptam purā mayā .. 10 ..
पितामहस्य भवनं गच्छन्तीं पुञ्जिकस्थलाम् । चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥ 11 ॥
पितामहस्य भवनम् गच्छन्तीम् पुञ्जिकस्थलाम् । चञ्चूर्यमाणाम् अद्राक्षम् आकाशे अग्नि-शिखाम् इव ॥ ११ ॥
pitāmahasya bhavanam gacchantīm puñjikasthalām . cañcūryamāṇām adrākṣam ākāśe agni-śikhām iva .. 11 ..
सा प्रसह्य मया भुक्ता कृता विवसना ततः । स्वयम्भूभवनं प्राप्ता लोलिता नलिनी यथा ॥ 12 ॥
सा प्रसह्य मया भुक्ता कृता विवसना ततस् । स्वयम्भु-भवनम् प्राप्ता लोलिता नलिनी यथा ॥ १२ ॥
sā prasahya mayā bhuktā kṛtā vivasanā tatas . svayambhu-bhavanam prāptā lolitā nalinī yathā .. 12 ..
तच्च तस्य तदा मन्ये ज्ञातमासीन्महात्मनः । अथ सकुपितो वेधा मामिदं वाक्यमब्रवीत् ॥ 13 ॥
तत् च तस्य तदा मन्ये ज्ञातम् आसीत् महात्मनः । अथ स कुपितः वेधाः माम् इदम् वाक्यम् अब्रवीत् ॥ १३ ॥
tat ca tasya tadā manye jñātam āsīt mahātmanaḥ . atha sa kupitaḥ vedhāḥ mām idam vākyam abravīt .. 13 ..
अद्यप्रभृति यामन्या बलान्नारीं गमिष्यसि । तदा ते शतधा मूर्धा फलिष्यति न संशयः ॥ 14 ॥
अद्य प्रभृति याम् अन्या बलात् नारीम् गमिष्यसि । तदा ते शतधा मूर्धा फलिष्यति न संशयः ॥ १४ ॥
adya prabhṛti yām anyā balāt nārīm gamiṣyasi . tadā te śatadhā mūrdhā phaliṣyati na saṃśayaḥ .. 14 ..
इत्यहं तस्य शापस्य भीतः प्रसभमेव ताम् । नारोहये बलात् सीतां वैदेहीं शयने शुभे ॥ 15 ॥
इति अहम् तस्य शापस्य भीतः प्रसभम् एव ताम् । न आरोहये बलात् सीताम् वैदेहीम् शयने शुभे ॥ १५ ॥
iti aham tasya śāpasya bhītaḥ prasabham eva tām . na ārohaye balāt sītām vaidehīm śayane śubhe .. 15 ..
सागरस्येन मे वेगो मारुतस्येव मे गतिः । नैत द्दाशरथिर्वेद ह्यासादयति तेन माम् ॥ 16 ॥
सागरस्य इन मे वेगः मारुतस्य इव मे गतिः । न एतत् दाशरथिः वेद हि आसादयति तेन माम् ॥ १६ ॥
sāgarasya ina me vegaḥ mārutasya iva me gatiḥ . na etat dāśarathiḥ veda hi āsādayati tena mām .. 16 ..
को हि सिंहमिवासीनं सुप्तं गिरिगुहाशये । क्रुद्धं मृत्युमिवाऽसीनं सम्भोधयितुमिच्छति ॥ 17 ॥
कः हि सिंहम् इव आसीनम् सुप्तम् गिरि-गुहा-आशये । क्रुद्धम् मृत्युम् इव आसीनम् सम्भोधयितुम् इच्छति ॥ १७ ॥
kaḥ hi siṃham iva āsīnam suptam giri-guhā-āśaye . kruddham mṛtyum iva āsīnam sambhodhayitum icchati .. 17 ..
न मत्तो निर्गताम् बाणान् द्विजिह्वान् पन्नगानिव । रामः पश्यति सङ्ग्रामे तेन मामभिगच्छति ॥ 18 ॥
न मत्तः निर्गताम् बाणान् द्विजिह्वान् पन्नगान् इव । रामः पश्यति सङ्ग्रामे तेन माम् अभिगच्छति ॥ १८ ॥
na mattaḥ nirgatām bāṇān dvijihvān pannagān iva . rāmaḥ paśyati saṅgrāme tena mām abhigacchati .. 18 ..
क्षिप्रं वज्रसमैर्बाणै शतथा कार्मुकच्युतैः । राममादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥ 19 ॥
क्षिप्रम् वज्र-समैः बाणैः शतथा कार्मुक-च्युतैः । रामम् आदीपयिष्यामि उल्काभिः इव कुञ्जरम् ॥ १९ ॥
kṣipram vajra-samaiḥ bāṇaiḥ śatathā kārmuka-cyutaiḥ . rāmam ādīpayiṣyāmi ulkābhiḥ iva kuñjaram .. 19 ..
तच्चास्य बलमादास्ये बलेन महता वृतः । उदितः सविता काले नक्षत्राणा प्रभामिव॥ 20 ॥
तत् च अस्य बलम् आदास्ये बलेन महता वृतः । उदितः सविता काले नक्षत्राणा प्रभाम् इव॥ २० ॥
tat ca asya balam ādāsye balena mahatā vṛtaḥ . uditaḥ savitā kāle nakṣatrāṇā prabhām iva.. 20 ..
न वासनेनापि सहस्रचक्षुषा युधास्मि शक्यो वरुणेन वा पुनः । मया त्वियं बाहुबलेन निर्जिता पुरा पुरी वैश्रवणेन पालिता ॥ 21 ॥
न वासनेन अपि सहस्र-चक्षुषा युधा अस्मि शक्यः वरुणेन वा पुनर् । मया तु इयम् बाहु-बलेन निर्जिता पुरा पुरी वैश्रवणेन पालिता ॥ २१ ॥
na vāsanena api sahasra-cakṣuṣā yudhā asmi śakyaḥ varuṇena vā punar . mayā tu iyam bāhu-balena nirjitā purā purī vaiśravaṇena pālitā .. 21 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In