This overlay will guide you through the buttons:

| |
|
बृहस्पतेस्तुल्यमतेर्वचस्तन्निशम्य यत्नेन विभीषणस्य । ततो महात्मा वचनं बभाषे तत्रेन्द्रजिन्नैरृतयूथमुख्यः ॥ 1 ॥
बृहस्पतेः तुल्य-मतेः वचः तत् निशम्य यत्नेन विभीषणस्य । ततस् महात्मा वचनम् बभाषे तत्र इन्द्रजित् नैरृत-यूथ-मुख्यः ॥ १ ॥
bṛhaspateḥ tulya-mateḥ vacaḥ tat niśamya yatnena vibhīṣaṇasya . tatas mahātmā vacanam babhāṣe tatra indrajit nairṛta-yūtha-mukhyaḥ .. 1 ..
किं नाम ते तात कनिष्ठ वाक्यमनर्थकं वै सुबसुभीतवच्च । अस्मि न् कुले योऽपि भवेन्न जात सोऽपीदृशं नैव वदेन्नकुर्यात् ॥ 2 ॥
किम् नाम ते तात कनिष्ठ वाक्यम् अनर्थकम् वै सुब-सु भीत-वत् च । अस्मिन् कुले यः अपि भवेत् न जात सः अपि ईदृशम् न एव वदेत् न कुर्यात् ॥ २ ॥
kim nāma te tāta kaniṣṭha vākyam anarthakam vai suba-su bhīta-vat ca . asmin kule yaḥ api bhavet na jāta saḥ api īdṛśam na eva vadet na kuryāt .. 2 ..
सत्त्वेन वीर्येण पराक्रमेण धौर्येण धैर्येण च तेजसा च । एकः कुलेऽस्मिन् पुरुषो विमुक्तो विभीषणस्तात कनिष्ठ एषः ॥ 3 ॥
सत्त्वेन वीर्येण पराक्रमेण धौर्येण धैर्येण च तेजसा च । एकः कुले अस्मिन् पुरुषः विमुक्तः विभीषणः तात कनिष्ठः एषः ॥ ३ ॥
sattvena vīryeṇa parākrameṇa dhauryeṇa dhairyeṇa ca tejasā ca . ekaḥ kule asmin puruṣaḥ vimuktaḥ vibhīṣaṇaḥ tāta kaniṣṭhaḥ eṣaḥ .. 3 ..
किं नाम तौ मानुषराजपुत्रावस्माकमेकेन हि राक्षसेन । सुप्राकृतेनापिरणे निहन्तुमेतौ शक्यौ कुतो भीषयसे स्म भीरो ॥ 4 ॥
किम् नाम तौ मानुष-राज-पुत्रौ अस्माकम् एकेन हि राक्षसेन । सु प्राकृतेन आपिरणे निहन्तुम् एतौ शक्यौ कुतस् भीषयसे स्म भीरो ॥ ४ ॥
kim nāma tau mānuṣa-rāja-putrau asmākam ekena hi rākṣasena . su prākṛtena āpiraṇe nihantum etau śakyau kutas bhīṣayase sma bhīro .. 4 ..
त्रिलोकनाथो ननु देवराज शक्रो मया भूमितले निविष्टः । भयार्पिताश्चापि दिशः प्रपन्ना सर्वे तथा देवगणा समग्राः ॥ 5 ॥
त्रिलोक-नाथः ननु देवराज शक्रः मया भूमि-तले निविष्टः । भय-अर्पिताः च अपि दिशः प्रपन्ना सर्वे तथा देव-गणा समग्राः ॥ ५ ॥
triloka-nāthaḥ nanu devarāja śakraḥ mayā bhūmi-tale niviṣṭaḥ . bhaya-arpitāḥ ca api diśaḥ prapannā sarve tathā deva-gaṇā samagrāḥ .. 5 ..
ऐरावतो निःस्वरमुन्नदन् स निपातितो भूमितले मया तु । विकृष्य दन्तौ तु मया प्रसह्य वित्रासिता देवगणाः समग्राः ॥ 6 ॥
ऐरावतः निःस्वरम् उन्नदन् स निपातितः भूमि-तले मया तु । विकृष्य दन्तौ तु मया प्रसह्य वित्रासिताः देव-गणाः समग्राः ॥ ६ ॥
airāvataḥ niḥsvaram unnadan sa nipātitaḥ bhūmi-tale mayā tu . vikṛṣya dantau tu mayā prasahya vitrāsitāḥ deva-gaṇāḥ samagrāḥ .. 6 ..
सोऽहं सुराणामपि दर्पहन्ता दैत्योत्तमानामपि शोकदाता । कथं नरेन्द्रात्मजयोर्न शक्तो मनुष्ययोः प्राकृतयो सुवीर्युः ॥ 7 ॥
सः अहम् सुराणाम् अपि दर्प-हन्ता दैत्य-उत्तमानाम् अपि शोक-दाता । कथम् नरेन्द्र-आत्मजयोः न शक्तः मनुष्ययोः सु वीर्युः ॥ ७ ॥
saḥ aham surāṇām api darpa-hantā daitya-uttamānām api śoka-dātā . katham narendra-ātmajayoḥ na śaktaḥ manuṣyayoḥ su vīryuḥ .. 7 ..
अथेन्द्रकल्पस्य दुरासदस्य महौजसस्तद वचनं निशम्य । ततो महार्थ वचनं बभाषे विभीषण शस्त्रभृतां वरिष्ठः ॥ 8 ॥
अथा इन्द्र-कल्पस्य दुरासदस्य महा-ओजसः तद वचनम् निशम्य । ततस् महा-अर्थ वचनम् बभाषे विभीषण शस्त्रभृताम् वरिष्ठः ॥ ८ ॥
athā indra-kalpasya durāsadasya mahā-ojasaḥ tada vacanam niśamya . tatas mahā-artha vacanam babhāṣe vibhīṣaṇa śastrabhṛtām variṣṭhaḥ .. 8 ..
न तात मन्त्रे तव निश्चयोऽस्ति बालस्त्वमद्याप्यविपक्वबुद्धि: । तस्मात् त्वयाप्यात्मविनाशनाय वचोऽर्धहीनं बहु विप्रलप्तम् ॥ 9 ॥
न तात मन्त्रे तव निश्चयः अस्ति बालः त्वम् अद्य अपि अविपक्व-बुद्धि । तस्मात् त्वया अपि आत्म-विनाशनाय वचः-अर्ध-हीनम् बहु विप्रलप्तम् ॥ ९ ॥
na tāta mantre tava niścayaḥ asti bālaḥ tvam adya api avipakva-buddhi . tasmāt tvayā api ātma-vināśanāya vacaḥ-ardha-hīnam bahu vipralaptam .. 9 ..
पुत्रप्रवादेव तु रावणस्यत्व मिन्द्रजिन्मित्रमुखोऽसिशत्रुः । यस्येदृशं राघवतो विनाशं निशम्य मोहादनुमन्यसे त्वम् ॥ 10 ॥
पुत्र-प्रवादा इव तु इन्द्रजित् मित्र-मुखः असि-शत्रुः । यस्य ईदृशम् राघवतः विनाशम् निशम्य मोहात् अनुमन्यसे त्वम् ॥ १० ॥
putra-pravādā iva tu indrajit mitra-mukhaḥ asi-śatruḥ . yasya īdṛśam rāghavataḥ vināśam niśamya mohāt anumanyase tvam .. 10 ..
त्वमेव वध्यश्च सुदुर्मतिश्च स चापि वध्यो य इहाऽनयत् त्वाम् । बालं दृढं साहसिकं च योऽद्य प्रावेशयन्मन्त्रकृतां समीपम् ॥ 11 ॥
त्वम् एव वध्यः च सु दुर्मतिः च स च अपि वध्यः यः इह आ अनयत् त्वाम् । बालम् दृढम् साहसिकम् च यः अद्य प्रावेशयत् मन्त्रकृताम् समीपम् ॥ ११ ॥
tvam eva vadhyaḥ ca su durmatiḥ ca sa ca api vadhyaḥ yaḥ iha ā anayat tvām . bālam dṛḍham sāhasikam ca yaḥ adya prāveśayat mantrakṛtām samīpam .. 11 ..
मूढोऽप्रगल्भोऽविनयोपपन्नस्तीक्षण - स्वभावोऽल्पमतिर्दुरात्मा । मूर्खस्त्वमत्यर्थसुदुर्मतिश्च त्वमिन्द्रजिद् बालतया ब्रवीषि ॥ 12 ॥
मूढः अ प्रगल्भः अविनय-उपपन्नः तीक्षण-स्वभावः अल्प-मतिः दुरात्मा । मूर्खः त्वम् अत्यर्थ-सु दुर्मतिः च त्वम् इन्द्रजित् बाल-तया ब्रवीषि ॥ १२ ॥
mūḍhaḥ a pragalbhaḥ avinaya-upapannaḥ tīkṣaṇa-svabhāvaḥ alpa-matiḥ durātmā . mūrkhaḥ tvam atyartha-su durmatiḥ ca tvam indrajit bāla-tayā bravīṣi .. 12 ..
को ब्रह्मदण्डप्रतिमप्रकाशानर्चिष्मतः कालनिकाशरूपान् । सहेत बाणान् यमदण्डकल्पान् समक्षमुक्तान् युधि राघवेण ॥ 13 ॥
कः ब्रह्मदण्ड-प्रतिम-प्रकाशान् अर्चिष्मतः काल-निकाश-रूपान् । सहेत बाणान् यम-दण्ड-कल्पान् समक्ष-मुक्तान् युधि राघवेण ॥ १३ ॥
kaḥ brahmadaṇḍa-pratima-prakāśān arciṣmataḥ kāla-nikāśa-rūpān . saheta bāṇān yama-daṇḍa-kalpān samakṣa-muktān yudhi rāghaveṇa .. 13 ..
धनानि रत्नानि सुभूषणानि वासांसि दिव्यानि मणींश्च चित्रान् । सीतां च रामाय निवेद्य देवीं वसेम राजन्निह वीतशोकाः ॥ 14 ॥
धनानि रत्नानि सुभूषणानि वासांसि दिव्यानि मणीन् च चित्रान् । सीताम् च रामाय निवेद्य देवीम् वसेम राजन् इह वीत-शोकाः ॥ १४ ॥
dhanāni ratnāni subhūṣaṇāni vāsāṃsi divyāni maṇīn ca citrān . sītām ca rāmāya nivedya devīm vasema rājan iha vīta-śokāḥ .. 14 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In