This overlay will guide you through the buttons:

| |
|
राघवेणाभये दत्ते संनतो रावणानुजः । विभीषणो महाप्राज्ञो भूमिं समवलोकयन् ॥ 1 ॥
राघवेण अभये दत्ते संनतः रावण-अनुजः । विभीषणः महा-प्राज्ञः भूमिम् समवलोकयन् ॥ १ ॥
rāghaveṇa abhaye datte saṃnataḥ rāvaṇa-anujaḥ . vibhīṣaṇaḥ mahā-prājñaḥ bhūmim samavalokayan .. 1 ..
खात् पपातावनिं हृष्टो भक्तैरनुचरैः सह । स तु रामस्य धर्मात्मा निपपात विभीषणः ॥ 2 ॥
खात् पपात अवनिम् हृष्टः भक्तैः अनुचरैः सह । स तु रामस्य धर्म-आत्मा निपपात विभीषणः ॥ २ ॥
khāt papāta avanim hṛṣṭaḥ bhaktaiḥ anucaraiḥ saha . sa tu rāmasya dharma-ātmā nipapāta vibhīṣaṇaḥ .. 2 ..
पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः । अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः ॥ 3 ॥
पादयोः शरण-अन्वेषी चतुर्भिः सह राक्षसैः । अब्रवीत् च तदा रामम् वाक्यम् तत्र विभीषणः ॥ ३ ॥
pādayoḥ śaraṇa-anveṣī caturbhiḥ saha rākṣasaiḥ . abravīt ca tadā rāmam vākyam tatra vibhīṣaṇaḥ .. 3 ..
धर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम् । अनुजो रावणस्याहं तेन चास्म्यवमानितः ॥ 4 ॥
धर्म-युक्तम् च युक्तम् च साम्प्रतम् सम्प्रहर्षणम् । अनुजः रावणस्य अहम् तेन च अस्मि अवमानितः ॥ ४ ॥
dharma-yuktam ca yuktam ca sāmpratam sampraharṣaṇam . anujaḥ rāvaṇasya aham tena ca asmi avamānitaḥ .. 4 ..
भवन्तं सर्वभूतानां शरण्यं शरणं गतः । परित्यक्ता मया लङ्का मित्राणि च धनानि च ॥ 5 ॥
भवन्तम् सर्व-भूतानाम् शरण्यम् शरणम् गतः । परित्यक्ता मया लङ्का मित्राणि च धनानि च ॥ ५ ॥
bhavantam sarva-bhūtānām śaraṇyam śaraṇam gataḥ . parityaktā mayā laṅkā mitrāṇi ca dhanāni ca .. 5 ..
भवद्गतं मे राज्यं च जीवितं च सुखानि च । तस्य तद वचनं श्रुत्वा रामो वचनमब्रवीत् ॥ 6 ॥
भवत्-गतम् मे राज्यम् च जीवितम् च सुखानि च । तस्य वचनम् श्रुत्वा रामः वचनम् अब्रवीत् ॥ ६ ॥
bhavat-gatam me rājyam ca jīvitam ca sukhāni ca . tasya vacanam śrutvā rāmaḥ vacanam abravīt .. 6 ..
वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव । आख्याहि मम तत्त्वेन राक्षसानां बलाबलम् ॥ 7 ॥
वचसा सान्त्वयित्वा एनम् लोचनाभ्याम् पिबन् इव । आख्याहि मम तत्त्वेन राक्षसानाम् बलाबलम् ॥ ७ ॥
vacasā sāntvayitvā enam locanābhyām piban iva . ākhyāhi mama tattvena rākṣasānām balābalam .. 7 ..
एवमुक्तं तदा रक्षो रामेणाक्लिष्टकर्मणा । रावणस्य बलं सर्वमाख्यातुमुपचक्रमे ॥ 8 ॥
एवम् उक्तम् तदा रक्षः रामेण अक्लिष्ट-कर्मणा । रावणस्य बलम् सर्वम् आख्यातुम् उपचक्रमे ॥ ८ ॥
evam uktam tadā rakṣaḥ rāmeṇa akliṣṭa-karmaṇā . rāvaṇasya balam sarvam ākhyātum upacakrame .. 8 ..
अवध्य सर्वभूतानां गन्धर्वोरगरक्षसाम् । राजपुत्र दशग्रीवो वरदानात् स्वयंभुवः ॥ 9 ॥
अवध्य सर्व-भूतानाम् गन्धर्व-उरग-रक्षसाम् । राज-पुत्र दशग्रीवः वर-दानात् स्वयंभुवः ॥ ९ ॥
avadhya sarva-bhūtānām gandharva-uraga-rakṣasām . rāja-putra daśagrīvaḥ vara-dānāt svayaṃbhuvaḥ .. 9 ..
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् । कुम्भकर्णो महातेजा शक्रप्रतिबलो युधि ॥ 10 ॥
रावण-अनन्तरः भ्राता मम ज्येष्ठः च वीर्यवान् । कुम्भकर्णः महा-तेजाः शक्र-प्रतिबलः युधि ॥ १० ॥
rāvaṇa-anantaraḥ bhrātā mama jyeṣṭhaḥ ca vīryavān . kumbhakarṇaḥ mahā-tejāḥ śakra-pratibalaḥ yudhi .. 10 ..
राम सेनापतिस्तस्य प्रहास्तो यदि ते श्रुतः । कैलासे येन समरे मणिभद्रः पराजितः ॥ 11 ॥
राम सेनापतिः तस्य यदि ते श्रुतः । कैलासे येन समरे मणिभद्रः पराजितः ॥ ११ ॥
rāma senāpatiḥ tasya yadi te śrutaḥ . kailāse yena samare maṇibhadraḥ parājitaḥ .. 11 ..
बद्धगोधाङ्गुळित्रश्चअवध्यकवचो युधि । धनुरादाय यस्तिष्टन्नदृश्यो भवतीन्द्रजित् ॥ 12 ॥
बद्ध-गोधा-अङ्गुळित्रः च अवध्य-कवचः युधि । धनुः आदाय यः तिष्टन् अदृश्यः भवति इन्द्रजित् ॥ १२ ॥
baddha-godhā-aṅgul̤itraḥ ca avadhya-kavacaḥ yudhi . dhanuḥ ādāya yaḥ tiṣṭan adṛśyaḥ bhavati indrajit .. 12 ..
सङ्ग्राम समयव्यूहे तर्पयित्वा हुताशनम् । अन्तर्धानगत श्रीमानिन्द्रजिद्दन्ति राघव: ॥ 13 ॥
सङ्ग्राम समय-व्यूहे तर्पयित्वा हुताशनम् । अन्तर्धान-गत श्रीमान् इन्द्रजित् दन्ती राघवः ॥ १३ ॥
saṅgrāma samaya-vyūhe tarpayitvā hutāśanam . antardhāna-gata śrīmān indrajit dantī rāghavaḥ .. 13 ..
महोदरमहापार्श्वौ राक्षसश्चाप्यकम्पनः । अनीकस्थास्तु तस्यैते लोकपालसमा युधि ॥ 14 ॥
महोदर-महापार्श्वौ राक्षसः च अपि अकम्पनः । अनीक-स्थाः तु तस्य एते लोकपाल-समाः युधि ॥ १४ ॥
mahodara-mahāpārśvau rākṣasaḥ ca api akampanaḥ . anīka-sthāḥ tu tasya ete lokapāla-samāḥ yudhi .. 14 ..
दशकोटिसहस्राणि रक्षसां कामरूपिणाम् । मांसशोणितभक्ष्याणां लङ्कापुरनिवासिनाम् ॥ 15 ॥
दश-कोटि-सहस्राणि रक्षसाम् कामरूपिणाम् । मांस-शोणित-भक्ष्याणाम् लङ्का-पुर-निवासिनाम् ॥ १५ ॥
daśa-koṭi-sahasrāṇi rakṣasām kāmarūpiṇām . māṃsa-śoṇita-bhakṣyāṇām laṅkā-pura-nivāsinām .. 15 ..
स तैस्तु सहितो राजा लोकपालानयोधयत् । सह देवैस्तु ते भग्ना रावणेन दुरात्मना ॥ 16 ॥
स तैः तु सहितः राजा लोकपालान् अयोधयत् । सह देवैः तु ते भग्नाः रावणेन दुरात्मना ॥ १६ ॥
sa taiḥ tu sahitaḥ rājā lokapālān ayodhayat . saha devaiḥ tu te bhagnāḥ rāvaṇena durātmanā .. 16 ..
विभीषणस्य तु वचस्तच्छ्रुत्वा रघुसत्तमः । अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् ॥ 17 ॥
विभीषणस्य तु वचः तत् श्रुत्वा रघु-सत्तमः । अन्वीक्ष्य मनसा सर्वम् इदम् वचनम् अब्रवीत् ॥ १७ ॥
vibhīṣaṇasya tu vacaḥ tat śrutvā raghu-sattamaḥ . anvīkṣya manasā sarvam idam vacanam abravīt .. 17 ..
यानि कर्मापदानानि रावणस्य विभीषण: । अख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम् ॥ 18 ॥
यानि कर्म-अपदानानि रावणस्य विभीषण । अख्यातानि च तत्त्वेन हि अवगच्छामि तानि अहम् ॥ १८ ॥
yāni karma-apadānāni rāvaṇasya vibhīṣaṇa . akhyātāni ca tattvena hi avagacchāmi tāni aham .. 18 ..
अहं हत्वा दशग्रीवं सप्रहस्तं सबान्धवम् । राजानं त्वां करिष्यामि सत्यमेतच्छृणोतु ॥ 19 ॥
अहम् हत्वा दशग्रीवम् स प्रहस्तम् स बान्धवम् । राजानम् त्वाम् करिष्यामि सत्यम् एतत् शृणोतु ॥ १९ ॥
aham hatvā daśagrīvam sa prahastam sa bāndhavam . rājānam tvām kariṣyāmi satyam etat śṛṇotu .. 19 ..
रसातलं वा प्रविशेत् पाताळं वापि रावणः । पितामहासकाशं वा न मे जीवन् विमोक्ष्यते ॥ 20 ॥
रसातलम् वा प्रविशेत् पाताळम् वा अपि रावणः । पितामह-आसकाशम् वा न मे जीवन् विमोक्ष्यते ॥ २० ॥
rasātalam vā praviśet pātāl̤am vā api rāvaṇaḥ . pitāmaha-āsakāśam vā na me jīvan vimokṣyate .. 20 ..
अहत्वा रावणं सङ्ख्ये सपुत्रजनबान्धवम् । अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभि शपे ॥ 21 ॥
अ हत्वा रावणम् सङ्ख्ये स पुत्र-जन-बान्धवम् । अयोध्याम् न प्रवेक्ष्यामि त्रिभिः तैः भ्रातृभिः शपे ॥ २१ ॥
a hatvā rāvaṇam saṅkhye sa putra-jana-bāndhavam . ayodhyām na pravekṣyāmi tribhiḥ taiḥ bhrātṛbhiḥ śape .. 21 ..
श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः । शिरसावन्द्य धर्मात्मा वक्तुमेवं प्रचक्रमे ॥ 22 ॥
श्रुत्वा तु वचनम् तस्य रामस्य अक्लिष्ट-कर्मणः । शिरसा आवन्द्य धर्म-आत्मा वक्तुम् एवम् प्रचक्रमे ॥ २२ ॥
śrutvā tu vacanam tasya rāmasya akliṣṭa-karmaṇaḥ . śirasā āvandya dharma-ātmā vaktum evam pracakrame .. 22 ..
राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे । करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् ॥ 23 ॥
राक्षसानाम् वधे साह्यम् लङ्कायाः च प्रधर्षणे । करिष्यामि यथाप्राणम् प्रवेक्ष्यामि च वाहिनीम् ॥ २३ ॥
rākṣasānām vadhe sāhyam laṅkāyāḥ ca pradharṣaṇe . kariṣyāmi yathāprāṇam pravekṣyāmi ca vāhinīm .. 23 ..
इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् । अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय ॥ 24 ॥
इति ब्रुवाणम् रामः तु परिष्वज्य विभीषणम् । अब्रवीत् लक्ष्मणम् प्रीतः समुद्रात् जलम् आनय ॥ २४ ॥
iti bruvāṇam rāmaḥ tu pariṣvajya vibhīṣaṇam . abravīt lakṣmaṇam prītaḥ samudrāt jalam ānaya .. 24 ..
तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् । राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ॥ 25 ॥
तेन च इमम् महा-प्राज्ञम् अभिषिञ्च विभीषणम् । राजानम् रक्षसाम् क्षिप्रम् प्रसन्ने मयि मानद ॥ २५ ॥
tena ca imam mahā-prājñam abhiṣiñca vibhīṣaṇam . rājānam rakṣasām kṣipram prasanne mayi mānada .. 25 ..
एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद्विभीषणम् । मध्ये वानरमुख्यानां राजानं रामशासनात् ॥ 26 ॥
एवम् उक्तः तु सौमित्रिः अभ्यषिञ्चत् विभीषणम् । मध्ये वानर-मुख्यानाम् राजानम् राम-शासनात् ॥ २६ ॥
evam uktaḥ tu saumitriḥ abhyaṣiñcat vibhīṣaṇam . madhye vānara-mukhyānām rājānam rāma-śāsanāt .. 26 ..
तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः । प्रचुक्रुशुर्महानादान्साधु साध्विति चाब्रुवन् ॥ 27 ॥
तम् प्रसादम् तु रामस्य दृष्ट्वा सद्यस् प्लवङ्गमाः । प्रचुक्रुशुः महानादान् साधु साधु इति च अब्रुवन् ॥ २७ ॥
tam prasādam tu rāmasya dṛṣṭvā sadyas plavaṅgamāḥ . pracukruśuḥ mahānādān sādhu sādhu iti ca abruvan .. 27 ..
अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् । कथं सागरमक्षोभ्यं तराम वरुणालयम् ॥ 28 ॥
अब्रवीत् च हनूमान् च सुग्रीवः च विभीषणम् । कथम् सागरम् अक्षोभ्यम् तराम वरुणालयम् ॥ २८ ॥
abravīt ca hanūmān ca sugrīvaḥ ca vibhīṣaṇam . katham sāgaram akṣobhyam tarāma varuṇālayam .. 28 ..
उपायैरभिगच्छामो यथा नदनदीपतिम् । तराम तरसा सर्वे ससैन्या वरुणालयम् । सैन्यैःपरिवृतास्सर्वेवानराणांमहौजसाम् ॥ 29 ॥
उपायैः अभिगच्छामः यथा नदनदीपतिम् । तराम तरसा सर्वे स सैन्याः वरुणालयम् । सैन्यैः परिवृताः सर्वे वानराणाम् महा-ओजसाम् ॥ २९ ॥
upāyaiḥ abhigacchāmaḥ yathā nadanadīpatim . tarāma tarasā sarve sa sainyāḥ varuṇālayam . sainyaiḥ parivṛtāḥ sarve vānarāṇām mahā-ojasām .. 29 ..
एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः । समुद्रं राघवो राजा शरणं गन्तुमर्हति ॥ 30 ॥
एवम् उक्तः तु धर्म-ज्ञः प्रत्युवाच विभीषणः । समुद्रम् राघवः राजा शरणम् गन्तुम् अर्हति ॥ ३० ॥
evam uktaḥ tu dharma-jñaḥ pratyuvāca vibhīṣaṇaḥ . samudram rāghavaḥ rājā śaraṇam gantum arhati .. 30 ..
खानितः सगरेणायमप्रमेयो महोदधिः । कर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः ॥ 31 ॥
खानितः सगरेण अयम् अप्रमेयः महोदधिः । कर्तुम् अर्हति रामस्य ज्ञातेः कार्यम् महा-उदधिः ॥ ३१ ॥
khānitaḥ sagareṇa ayam aprameyaḥ mahodadhiḥ . kartum arhati rāmasya jñāteḥ kāryam mahā-udadhiḥ .. 31 ..
एवं विभीषणेनोक्ते राक्षसेन विपश्चिता । प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत ॥ 32 ॥
एवम् विभीषणेन उक्ते राक्षसेन विपश्चिता । प्रकृत्याः धर्म-शीलस्य राघवस्य अपि अरोचत ॥ ३२ ॥
evam vibhīṣaṇena ukte rākṣasena vipaścitā . prakṛtyāḥ dharma-śīlasya rāghavasya api arocata .. 32 ..
ततश्चाख्यातुमारेभे विभीषणवचः शुभम् । सुग्रीवो विपुलग्रीवो सागरस्योपवेशनम् ॥ 33 ॥
ततस् च आख्यातुम् आरेभे विभीषण-वचः शुभम् । सुग्रीवः सागरस्य उपवेशनम् ॥ ३३ ॥
tatas ca ākhyātum ārebhe vibhīṣaṇa-vacaḥ śubham . sugrīvaḥ sāgarasya upaveśanam .. 33 ..
प्रकृत्या धर्मशीलस्य रामस्यस्याप्यरोचत । सलक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् ॥ 34 ॥
प्रकृत्याः धर्म-शीलस्य रामस्यस्य अपि अरोचत । स लक्ष्मणम् महा-तेजाः सुग्रीवम् च हरि-ईश्वरम् ॥ ३४ ॥
prakṛtyāḥ dharma-śīlasya rāmasyasya api arocata . sa lakṣmaṇam mahā-tejāḥ sugrīvam ca hari-īśvaram .. 34 ..
सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह । विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते ॥ 35 ॥
सत्क्रिया-अर्थम् क्रिया-दक्षः स्मित-पूर्वम् उवाच ह । विभीषणस्य मन्त्रः अयम् मम लक्ष्मण रोचते ॥ ३५ ॥
satkriyā-artham kriyā-dakṣaḥ smita-pūrvam uvāca ha . vibhīṣaṇasya mantraḥ ayam mama lakṣmaṇa rocate .. 35 ..
सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः । उभाभ्यां सम्प्रधार्यार्यं रोचते यत् तदुच्यताम् ॥ 36 ॥
सुग्रीवः पण्डितः नित्यम् भवान् मन्त्र-विचक्षणः । उभाभ्याम् सम्प्रधार्य आर्यम् रोचते यत् तत् उच्यताम् ॥ ३६ ॥
sugrīvaḥ paṇḍitaḥ nityam bhavān mantra-vicakṣaṇaḥ . ubhābhyām sampradhārya āryam rocate yat tat ucyatām .. 36 ..
एवमुक्तौ ततौ वीरावुभौ सुग्रीवलक्ष्मणौ । समुदाचार संयुक्तमिदं वचनमूचतुः ॥ 37 ॥
एवम् उक्तौ ततौ वीरौ उभौ सुग्रीव-लक्ष्मणौ । समुदाचार-संयुक्तम् इदम् वचनम् ऊचतुः ॥ ३७ ॥
evam uktau tatau vīrau ubhau sugrīva-lakṣmaṇau . samudācāra-saṃyuktam idam vacanam ūcatuḥ .. 37 ..
किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव । विभीषणेन यत्तूक्तमस्मिन् काले सुखावहम् ॥ 38 ॥
किमर्थम् नौ नर-व्याघ्र न रोचिष्यति राघव । विभीषणेन यत् तु उक्तम् अस्मिन् काले सुख-आवहम् ॥ ३८ ॥
kimartham nau nara-vyāghra na rociṣyati rāghava . vibhīṣaṇena yat tu uktam asmin kāle sukha-āvaham .. 38 ..
अबद्ध्वा सागरे सेतुं घोरेऽस्मिन्वरुणालये । लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ 39 ॥
अ बद्ध्वा सागरे सेतुम् घोरे अस्मिन् वरुणालये । लङ्का ना आसादितुम् शक्या स इन्द्रैः अपि सुर-असुरैः ॥ ३९ ॥
a baddhvā sāgare setum ghore asmin varuṇālaye . laṅkā nā āsāditum śakyā sa indraiḥ api sura-asuraiḥ .. 39 ..
विभीषणस्य शूरस्य यथार्थं क्रियतां वचः । अलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम् । यथा सैन्येन गच्छाम पुरीं रावणपालिताम् ॥ 40 ॥
विभीषणस्य शूरस्य यथार्थम् क्रियताम् वचः । अलम् काल-अत्ययम् कृत्वा समुद्रः अयम् नियुज्यताम् । यथा सैन्येन गच्छाम पुरीम् रावण-पालिताम् ॥ ४० ॥
vibhīṣaṇasya śūrasya yathārtham kriyatām vacaḥ . alam kāla-atyayam kṛtvā samudraḥ ayam niyujyatām . yathā sainyena gacchāma purīm rāvaṇa-pālitām .. 40 ..
एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः । संविवेश तदा रामो वेद्यामिव हुताशनः ॥ 41 ॥
एवम् उक्तः कुश-आस्तीर्णे तीरे नदनदीपतेः । संविवेश तदा रामः वेद्याम् इव हुताशनः ॥ ४१ ॥
evam uktaḥ kuśa-āstīrṇe tīre nadanadīpateḥ . saṃviveśa tadā rāmaḥ vedyām iva hutāśanaḥ .. 41 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In