This overlay will guide you through the buttons:

| |
|
शुकेन तु समाख्यातांस्तान्दृष्ट्वा हरियूथपान् । लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम् ॥ 1 ॥
शुकेन तु समाख्यातान् तान् दृष्ट्वा हरि-यूथपान् । लक्ष्मणम् च महा-वीर्यम् भुजम् रामस्य दक्षिणम् ॥ १ ॥
śukena tu samākhyātān tān dṛṣṭvā hari-yūthapān . lakṣmaṇam ca mahā-vīryam bhujam rāmasya dakṣiṇam .. 1 ..
समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम् । सर्ववानरराजं च सुग्रीवं भीमविक्रमम् ॥ 2 ॥
समीप-स्थम् च रामस्य भ्रातरम् स्वम् विभीषणम् । सर्व-वानर-राजम् च सुग्रीवम् भीम-विक्रमम् ॥ २ ॥
samīpa-stham ca rāmasya bhrātaram svam vibhīṣaṇam . sarva-vānara-rājam ca sugrīvam bhīma-vikramam .. 2 ..
अङ्गदं चापि बलिनं वज्रहस्तात्मजात्मजम् । हनूमन्तं च विक्रान्तं जाम्बवन्तं च दुर्जयम् ॥ 3 ॥
अङ्गदम् च अपि बलिनम् वज्रहस्त-आत्मज-आत्मजम् । हनूमन्तम् च विक्रान्तम् जाम्बवन्तम् च दुर्जयम् ॥ ३ ॥
aṅgadam ca api balinam vajrahasta-ātmaja-ātmajam . hanūmantam ca vikrāntam jāmbavantam ca durjayam .. 3 ..
सुषेणं कुमुदं नीलं नलं च प्लवगर्षभम् । गजं गवाक्षं शरभं मैन्दं च द्विविदं तथा ॥ 4 ॥
सुषेणम् कुमुदम् नीलम् नलम् च प्लवग-ऋषभम् । गजम् गवाक्षम् शरभम् मैन्दम् च द्विविदम् तथा ॥ ४ ॥
suṣeṇam kumudam nīlam nalam ca plavaga-ṛṣabham . gajam gavākṣam śarabham maindam ca dvividam tathā .. 4 ..
किं चिदाविग्नहृदयो जातक्रोधश्च रावणः । भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ ॥ 5 ॥
किम् चित् आविग्न-हृदयः जात-क्रोधः च रावणः । भर्त्सयामास तौ वीरौ कथा-अन्ते शुक-सारणौ ॥ ५ ॥
kim cit āvigna-hṛdayaḥ jāta-krodhaḥ ca rāvaṇaḥ . bhartsayāmāsa tau vīrau kathā-ante śuka-sāraṇau .. 5 ..
अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ । रोषगद्गदया वाचा संरब्धः परुषं वचः ॥ 6 ॥
अधोमुखौ तौ प्रणतौ अब्रवीत् शुक-सारणौ । रोष-गद्गदया वाचा संरब्धः परुषम् वचः ॥ ६ ॥
adhomukhau tau praṇatau abravīt śuka-sāraṇau . roṣa-gadgadayā vācā saṃrabdhaḥ paruṣam vacaḥ .. 6 ..
न तावत्सदृशं नाम सचिवैरुपजीविभिः । विप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे विभोः ॥ 7 ॥
न तावत् सदृशम् नाम सचिवैः उपजीविभिः । विप्रियम् नृपतेः वक्तुम् निग्रह-प्रग्रहे विभोः ॥ ७ ॥
na tāvat sadṛśam nāma sacivaiḥ upajīvibhiḥ . vipriyam nṛpateḥ vaktum nigraha-pragrahe vibhoḥ .. 7 ..
रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम् । उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम् ॥ 8 ॥
रिपूणाम् प्रतिकूलानाम् युद्ध-अर्थम् अभिवर्तताम् । उभाभ्याम् सदृशम् नाम वक्तुम् अप्रस्तवे स्तवम् ॥ ८ ॥
ripūṇām pratikūlānām yuddha-artham abhivartatām . ubhābhyām sadṛśam nāma vaktum aprastave stavam .. 8 ..
आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः । सारं यद्राजशास्त्राणामनुजीव्यं न गृह्यते ॥ 9 ॥
आचार्याः गुरवः वृद्धाः वृथा वाम् पर्युपासिताः । सारम् यत् राज-शास्त्राणाम् अनुजीव्यम् न गृह्यते ॥ ९ ॥
ācāryāḥ guravaḥ vṛddhāḥ vṛthā vām paryupāsitāḥ . sāram yat rāja-śāstrāṇām anujīvyam na gṛhyate .. 9 ..
गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोछ्यते । ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम् ॥ 10 ॥
गृहीतः वा न विज्ञातः भारः ज्ञानस्य वा उछ्यते । ईदृशैः सचिवैः युक्तः मूर्खैः दिष्ट्या धरामि अहम् ॥ १० ॥
gṛhītaḥ vā na vijñātaḥ bhāraḥ jñānasya vā uchyate . īdṛśaiḥ sacivaiḥ yuktaḥ mūrkhaiḥ diṣṭyā dharāmi aham .. 10 ..
किं नु मृत्योर्भयं नास्ति मां वक्तुं परुषं वचः । यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम् ॥ 11 ॥
किम् नु मृत्योः भयम् ना अस्ति माम् वक्तुम् परुषम् वचः । यस्य मे शासतः जिह्वा प्रयच्छति शुभ-अशुभम् ॥ ११ ॥
kim nu mṛtyoḥ bhayam nā asti mām vaktum paruṣam vacaḥ . yasya me śāsataḥ jihvā prayacchati śubha-aśubham .. 11 ..
अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः । राजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः ॥ 12 ॥
अपि एव दहनम् स्पृष्ट्वा वने तिष्ठन्ति पादपाः । राज-दोष-परामृष्टाः तिष्ठन्ते न अपराधिनः ॥ १२ ॥
api eva dahanam spṛṣṭvā vane tiṣṭhanti pādapāḥ . rāja-doṣa-parāmṛṣṭāḥ tiṣṭhante na aparādhinaḥ .. 12 ..
हन्यामहमिमौ पापौ शत्रुपक्षप्रशंसकौ । यदि पूर्वोपकारैर्मे न क्रोधो मृदुतां व्रजेत् ॥ 13 ॥
हन्याम् अहम् इमौ पापौ शत्रु-पक्ष-प्रशंसकौ । यदि पूर्व-उपकारैः मे न क्रोधः मृदु-ताम् व्रजेत् ॥ १३ ॥
hanyām aham imau pāpau śatru-pakṣa-praśaṃsakau . yadi pūrva-upakāraiḥ me na krodhaḥ mṛdu-tām vrajet .. 13 ..
अपध्वंसत गच्छध्वं संनिकर्षादितो मम । न हि वां हन्तुमिच्छामि स्मरन्नुपकृतानि वाम् । हतावेव कृतघ्नौ द्वौ मयि स्नेहपराङ्मुखौ ॥ 14 ॥
अपध्वंसत गच्छध्वम् संनिकर्षात् इतस् मम । न हि वाम् हन्तुम् इच्छामि स्मरन् उपकृतानि वाम् । हतौ एव कृतघ्नौ द्वौ मयि स्नेह-पराङ्मुखौ ॥ १४ ॥
apadhvaṃsata gacchadhvam saṃnikarṣāt itas mama . na hi vām hantum icchāmi smaran upakṛtāni vām . hatau eva kṛtaghnau dvau mayi sneha-parāṅmukhau .. 14 ..
एवमुक्तौ तु सव्रीडौ तावुभौ शुकसारणौ । रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ ॥ 15 ॥
एवम् उक्तौ तु स व्रीडौ तौ उभौ शुक-सारणौ । रावणम् जय-शब्देन प्रतिनन्द्य अभिनिःसृतौ ॥ १५ ॥
evam uktau tu sa vrīḍau tau ubhau śuka-sāraṇau . rāvaṇam jaya-śabdena pratinandya abhiniḥsṛtau .. 15 ..
अब्रवीत्स दशग्रीवः समीपस्थं महोदरम् । उपस्थापय शीघ्रं मे चारान्नीतिविशारदान् । महोदरस्तथोक्तस्तुशीघ्रमाज्ञापयच्चरान् ॥ 16 ॥
अब्रवीत् स दशग्रीवः समीप-स्थम् महोदरम् । उपस्थापय शीघ्रम् मे चारान् नीति-विशारदान् । महोदरः तथा उक्तः तु शीघ्रम् आज्ञापयत् चरान् ॥ १६ ॥
abravīt sa daśagrīvaḥ samīpa-stham mahodaram . upasthāpaya śīghram me cārān nīti-viśāradān . mahodaraḥ tathā uktaḥ tu śīghram ājñāpayat carān .. 16 ..
ततश्चराः सन्त्वरिताः प्राप्ताः पार्थिवशासनात् । उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा ॥ 17 ॥
ततस् चराः सन्त्वरिताः प्राप्ताः पार्थिव-शासनात् । उपस्थिताः प्राञ्जलयः वर्धयित्वा जय-आशिषा ॥ १७ ॥
tatas carāḥ santvaritāḥ prāptāḥ pārthiva-śāsanāt . upasthitāḥ prāñjalayaḥ vardhayitvā jaya-āśiṣā .. 17 ..
तानब्रवीत्ततो वाक्यं रावणो राक्षसाधिपः । चारान् प्रत्ययिकाञ्शूरान्भक्तान्विगतसाध्वसान् ॥ 18 ॥
तान् अब्रवीत् ततस् वाक्यम् रावणः राक्षस-अधिपः । चारान् प्रत्ययिकान् शूरान् भक्तान् विगत-साध्वसान् ॥ १८ ॥
tān abravīt tatas vākyam rāvaṇaḥ rākṣasa-adhipaḥ . cārān pratyayikān śūrān bhaktān vigata-sādhvasān .. 18 ..
इतो गच्छत रामस्य व्यवसायं परीक्षथ । मन्त्रेष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः ॥ 19 ॥
इतस् गच्छत रामस्य व्यवसायम् परीक्षथ । मन्त्रेषु अभ्यन्तराः ये अस्य प्रीत्या तेन समागताः ॥ १९ ॥
itas gacchata rāmasya vyavasāyam parīkṣatha . mantreṣu abhyantarāḥ ye asya prītyā tena samāgatāḥ .. 19 ..
कथं स्वपिति जागर्ति किमन्यच्च करिष्यति । विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः ॥ 20 ॥
कथम् स्वपिति जागर्ति किम् अन्यत् च करिष्यति । विज्ञाय निपुणम् सर्वम् आगन्तव्यम् अशेषतस् ॥ २० ॥
katham svapiti jāgarti kim anyat ca kariṣyati . vijñāya nipuṇam sarvam āgantavyam aśeṣatas .. 20 ..
चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः । युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ॥ 21 ॥
चारेण विदितः शत्रुः पण्डितैः वसुधाधिपैः । युद्धे सु अल्पेन यत्नेन समासाद्य निरस्यते ॥ २१ ॥
cāreṇa viditaḥ śatruḥ paṇḍitaiḥ vasudhādhipaiḥ . yuddhe su alpena yatnena samāsādya nirasyate .. 21 ..
चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम् । शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ॥ 22 ॥
चाराः तु ते तथा इति उक्त्वा प्रहृष्टाः राक्षसेश्वरम् । शार्दूलम् अग्रतस् कृत्वा ततस् चक्रुः प्रदक्षिणम् ॥ २२ ॥
cārāḥ tu te tathā iti uktvā prahṛṣṭāḥ rākṣaseśvaram . śārdūlam agratas kṛtvā tatas cakruḥ pradakṣiṇam .. 22 ..
ततस्ते तु महात्मानं चारा राक्षससत्तमम् । कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः ॥ 23 ॥
ततस् ते तु महात्मानम् चाराः राक्षस-सत्तमम् । कृत्वा प्रदक्षिणम् जग्मुः यत्र रामः स लक्ष्मणः ॥ २३ ॥
tatas te tu mahātmānam cārāḥ rākṣasa-sattamam . kṛtvā pradakṣiṇam jagmuḥ yatra rāmaḥ sa lakṣmaṇaḥ .. 23 ..
ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ । प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ ॥ 24 ॥
ते सुवेलस्य शैलस्य समीपे राम-लक्ष्मणौ । प्रच्छन्नाः ददृशुः गत्वा स सुग्रीव-विभीषणौ ॥ २४ ॥
te suvelasya śailasya samīpe rāma-lakṣmaṇau . pracchannāḥ dadṛśuḥ gatvā sa sugrīva-vibhīṣaṇau .. 24 ..
प्रेक्षमाणाश्चमूं तां च बभूवुर्भयविक्लबाः । ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः ॥ 25 ॥
प्रेक्षमाणाः चमूम् ताम् च बभूवुः भय-विक्लबाः । ते तु धर्म-आत्मना दृष्टाः राक्षस-इन्द्रेण राक्षसाः ॥ २५ ॥
prekṣamāṇāḥ camūm tām ca babhūvuḥ bhaya-viklabāḥ . te tu dharma-ātmanā dṛṣṭāḥ rākṣasa-indreṇa rākṣasāḥ .. 25 ..
विभीषणेन तत्रस्था निगृहीता यदृच्छया । शार्दूलोग्राहितस्त्वेकःपापोऽयमितिराक्षसः ॥ 26 ॥
विभीषणेन तत्रस्थाः निगृहीताः यदृच्छया । शार्दूल-उग्राहितः तु एकः पापः अयम् इति राक्षसः ॥ २६ ॥
vibhīṣaṇena tatrasthāḥ nigṛhītāḥ yadṛcchayā . śārdūla-ugrāhitaḥ tu ekaḥ pāpaḥ ayam iti rākṣasaḥ .. 26 ..
मोचितस्सोऽपिरामेणवध्यमानःप्लवङ्गमैः । अनृशंसने रामेण मोचिता राक्षसाः परे ॥ 27 ॥
मोचितः सः अपि रामेण वध्यमानः प्लवङ्गमैः । अनृशंसने रामेण मोचिताः राक्षसाः परे ॥ २७ ॥
mocitaḥ saḥ api rāmeṇa vadhyamānaḥ plavaṅgamaiḥ . anṛśaṃsane rāmeṇa mocitāḥ rākṣasāḥ pare .. 27 ..
वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः । पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः ॥ 28 ॥
वानरैः अर्दिताः ते तु विक्रान्तैः लघु-विक्रमैः । पुनर् लङ्काम् अनुप्राप्ताः श्वसन्तः नष्ट-चेतसः ॥ २८ ॥
vānaraiḥ arditāḥ te tu vikrāntaiḥ laghu-vikramaiḥ . punar laṅkām anuprāptāḥ śvasantaḥ naṣṭa-cetasaḥ .. 28 ..
ततो दशग्रीवमुपस्थितास्ते चारा बहिर्नित्यचरा निशाचराः । गिरेः सुवेलस्य समीपवासिनं न्यवेदयन्भीमबलं महाबलाः ॥ 29 ॥
ततस् दशग्रीवम् उपस्थिताः ते चाराः बहिस् नित्य-चराः निशाचराः । गिरेः सुवेलस्य समीप-वासिनम् न्यवेदयन् भीम-बलम् महा-बलाः ॥ २९ ॥
tatas daśagrīvam upasthitāḥ te cārāḥ bahis nitya-carāḥ niśācarāḥ . gireḥ suvelasya samīpa-vāsinam nyavedayan bhīma-balam mahā-balāḥ .. 29 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In