This overlay will guide you through the buttons:

| |
|
युध्यतामेव तेषां तु तदा वानररक्षसाम् । रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ॥ 1 ॥
युध्यताम् एव तेषाम् तु तदा वानर-रक्षसाम् । रविः अस्तम् गतः रात्रिः प्रवृत्ता प्राण-हारिणी ॥ १ ॥
yudhyatām eva teṣām tu tadā vānara-rakṣasām . raviḥ astam gataḥ rātriḥ pravṛttā prāṇa-hāriṇī .. 1 ..
अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् । सम्प्रवृत्तं निशायुद्धं तदा वारणरक्षसाम् ॥ 2 ॥
अन्योन्यम् बद्ध-वैराणाम् घोराणाम् जयम् इच्छताम् । सम्प्रवृत्तम् निशा-युद्धम् तदा वारण-रक्षसाम् ॥ २ ॥
anyonyam baddha-vairāṇām ghorāṇām jayam icchatām . sampravṛttam niśā-yuddham tadā vāraṇa-rakṣasām .. 2 ..
राक्षसोऽसीति हरयो हरिश्चासीति राक्षसाः । अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ॥ 3 ॥
राक्षसः असि इति हरयः हरिः च असि इति राक्षसाः । अन्योन्यम् समरे जघ्नुः तस्मिन् तमसि दारुणे ॥ ३ ॥
rākṣasaḥ asi iti harayaḥ hariḥ ca asi iti rākṣasāḥ . anyonyam samare jaghnuḥ tasmin tamasi dāruṇe .. 3 ..
हत दारय चैतीति कथं विद्रवसीति च । एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे ॥ 4 ॥
हत दारय च एति इति कथम् विद्रवसि इति च । एवम् सु तुमुलः शब्दः तस्मिन् तमसि शुश्रुवे ॥ ४ ॥
hata dāraya ca eti iti katham vidravasi iti ca . evam su tumulaḥ śabdaḥ tasmin tamasi śuśruve .. 4 ..
कालाः काञ्चनसंनाहास्तस्मिंस्तमसि राक्षसाः । सम्प्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ॥ 5 ॥
कालाः काञ्चन-संनाहाः तस्मिन् तमसि राक्षसाः । सम्प्रादृश्यन्त शैल-इन्द्राः दीप्त-ओषधि-वनाः इव ॥ ५ ॥
kālāḥ kāñcana-saṃnāhāḥ tasmin tamasi rākṣasāḥ . samprādṛśyanta śaila-indrāḥ dīpta-oṣadhi-vanāḥ iva .. 5 ..
तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्छिताः । परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान् ॥ 6 ॥
तस्मिन् तमसि दुष्पारे राक्षसाः क्रोध-मूर्छिताः । परिपेतुः महा-वेगाः भक्षयन्तः प्लवङ्गमान् ॥ ६ ॥
tasmin tamasi duṣpāre rākṣasāḥ krodha-mūrchitāḥ . paripetuḥ mahā-vegāḥ bhakṣayantaḥ plavaṅgamān .. 6 ..
ते हयान्काञ्चनापीडन्ध्वजांश्चाग्निशिखोपमान् । आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन् ॥ 7 ॥
ते हयान् काञ्चन-आपीडन् ध्वजान् च अग्नि-शिखा-उपमान् । आप्लुत्य दशनैः तीक्ष्णैः भीम-कोपाः व्यदारयन् ॥ ७ ॥
te hayān kāñcana-āpīḍan dhvajān ca agni-śikhā-upamān . āplutya daśanaiḥ tīkṣṇaiḥ bhīma-kopāḥ vyadārayan .. 7 ..
वानराबलिनो युद्धेऽक्षोभयन् राक्षसीं चमूम् । कुञ्जरान्कुञ्जरारोहान्पताकाध्वजिनो रथान् ॥ 8 ॥
वानराः बलिनः युद्धे अक्षोभयन् राक्षसीम् चमूम् । कुञ्जरान् कुञ्जर-आरोहान् पताका-ध्वजिनः रथान् ॥ ८ ॥
vānarāḥ balinaḥ yuddhe akṣobhayan rākṣasīm camūm . kuñjarān kuñjara-ārohān patākā-dhvajinaḥ rathān .. 8 ..
चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्छिताः । लक्ष्मणश्चापि रामश्च शरैराशीविषोमपैः ॥ 9 ॥
चकर्षुः च ददंशुः च दशनैः क्रोध-मूर्छिताः । लक्ष्मणः च अपि रामः च शरैः आशीविष-उमपैः ॥ ९ ॥
cakarṣuḥ ca dadaṃśuḥ ca daśanaiḥ krodha-mūrchitāḥ . lakṣmaṇaḥ ca api rāmaḥ ca śaraiḥ āśīviṣa-umapaiḥ .. 9 ..
दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः । तुरङ्गखुरविध्वस्तं रथनेमिसमुद्धतम् ॥ 10 ॥
दृश्य-अदृश्यानि रक्षांसि प्रवराणि निजघ्नतुः । तुरङ्ग-खुर-विध्वस्तम् रथ-नेमि-समुद्धतम् ॥ १० ॥
dṛśya-adṛśyāni rakṣāṃsi pravarāṇi nijaghnatuḥ . turaṅga-khura-vidhvastam ratha-nemi-samuddhatam .. 10 ..
रुरोध कर्णनेत्राणिण्युध्यतां धरणीरजः । वर्तमाने तथा घोरे सङ्ग्रामे लोमहर्षणे । रुधिरोदा महावेगा नद्यस्तत्र प्रसुस्रुवुः ॥ 11 ॥
रुरोध कर्ण-नेत्र-आणिणी उध्यताम् धरणी-रजः । वर्तमाने तथा घोरे सङ्ग्रामे लोम-हर्षणे । रुधिर-उदाः महा-वेगाः नद्यः तत्र प्रसुस्रुवुः ॥ ११ ॥
rurodha karṇa-netra-āṇiṇī udhyatām dharaṇī-rajaḥ . vartamāne tathā ghore saṅgrāme loma-harṣaṇe . rudhira-udāḥ mahā-vegāḥ nadyaḥ tatra prasusruvuḥ .. 11 ..
ततो भेरीमृदङ्गानां पणवानां च निस्वनः । शङ्खवेणुस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः ॥ 12 ॥
ततस् भेरी-मृदङ्गानाम् पणवानाम् च निस्वनः । शङ्ख-वेणु-स्वन-उन्मिश्रः सम्बभूव अद्भुत-उपमः ॥ १२ ॥
tatas bherī-mṛdaṅgānām paṇavānām ca nisvanaḥ . śaṅkha-veṇu-svana-unmiśraḥ sambabhūva adbhuta-upamaḥ .. 12 ..
हतानां स्तनमानानां राक्षसानां च निस्वनः । शस्त्राणां वानराणां च सम्बभूवातिदारुणः ॥ 13 ॥
हतानाम् स्तनमानानाम् राक्षसानाम् च निस्वनः । शस्त्राणाम् वानराणाम् च सम्बभूव अति दारुणः ॥ १३ ॥
hatānām stanamānānām rākṣasānām ca nisvanaḥ . śastrāṇām vānarāṇām ca sambabhūva ati dāruṇaḥ .. 13 ..
हतैर्वानरवीरैश्च शक्तिशूलपरश्वधैः । निहतैः पर्वताकारै राक्षसैः कामरूपिभिः ॥ 14 ॥
हतैः वानर-वीरैः च शक्ति-शूल-परश्वधैः । निहतैः पर्वत-आकारैः राक्षसैः कामरूपिभिः ॥ १४ ॥
hataiḥ vānara-vīraiḥ ca śakti-śūla-paraśvadhaiḥ . nihataiḥ parvata-ākāraiḥ rākṣasaiḥ kāmarūpibhiḥ .. 14 ..
शस्त्रपुष्पोपहारा च तत्रासीद्यु द्धमेदिनी । दुर्ज्ञेया दुर्निवेशा च शोणितास्रवकर्दमा ॥ 15 ॥
शस्त्र-पुष्प-उपहारा च तत्र आसीत् यु द्ध-मेदिनी । दुर्ज्ञेया दुर्निवेशा च शोणित-आस्रव-कर्दमा ॥ १५ ॥
śastra-puṣpa-upahārā ca tatra āsīt yu ddha-medinī . durjñeyā durniveśā ca śoṇita-āsrava-kardamā .. 15 ..
सा बभूव निशा घोरा हरिराक्षसहारिणी । कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ॥ 16 ॥
सा बभूव निशा घोरा हरि-राक्षस-हारिणी । कालरात्री इव भूतानाम् सर्वेषाम् दुरतिक्रमा ॥ १६ ॥
sā babhūva niśā ghorā hari-rākṣasa-hāriṇī . kālarātrī iva bhūtānām sarveṣām duratikramā .. 16 ..
ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे । राममेवाभ्यधावन्त संहृष्टा शरवृष्टिभिः ॥ 17 ॥
ततस् ते राक्षसाः तत्र तस्मिन् तमसि दारुणे । रामम् एव अभ्यधावन्त संहृष्टा शर-वृष्टिभिः ॥ १७ ॥
tatas te rākṣasāḥ tatra tasmin tamasi dāruṇe . rāmam eva abhyadhāvanta saṃhṛṣṭā śara-vṛṣṭibhiḥ .. 17 ..
तेषामापततां शब्दः क्रुद्धानामभिगर्जताम् । उद्वर्त इव सप्तानां समुद्राणामभूत्स्वनः ॥ 18 ॥
तेषाम् आपतताम् शब्दः क्रुद्धानाम् अभिगर्जताम् । उद्वर्तः इव सप्तानाम् समुद्राणाम् अभूत् स्वनः ॥ १८ ॥
teṣām āpatatām śabdaḥ kruddhānām abhigarjatām . udvartaḥ iva saptānām samudrāṇām abhūt svanaḥ .. 18 ..
तेषां रामः शरैः षड्भिः षड्जघान निशाचरान् । निमेषान्तरमात्रेण शितैरग्निशिखोपमैः ॥ 19 ॥
तेषाम् रामः शरैः षड्भिः षट् जघान निशाचरान् । निमेष-अन्तर-मात्रेण शितैः अग्नि-शिखा-उपमैः ॥ १९ ॥
teṣām rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaṭ jaghāna niśācarān . nimeṣa-antara-mātreṇa śitaiḥ agni-śikhā-upamaiḥ .. 19 ..
यज्ञशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ । वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ ॥ 20 ॥
यज्ञशत्रुः च दुर्धर्षः महापार्श्व-महोदरौ । वज्रदंष्ट्रः महा-कायः तौ च उभौ शुक-सारणौ ॥ २० ॥
yajñaśatruḥ ca durdharṣaḥ mahāpārśva-mahodarau . vajradaṃṣṭraḥ mahā-kāyaḥ tau ca ubhau śuka-sāraṇau .. 20 ..
ते तु रामेण बाणौघः सर्वमर्मसु ताडिताः । युद्धादपसृतास्तत्र सावशेषायुषोऽभवन् ॥ 21 ॥
ते तु रामेण बाण-ओघः सर्व-मर्मसु ताडिताः । युद्धात् अपसृताः तत्र स अवशेष-आयुषः अभवन् ॥ २१ ॥
te tu rāmeṇa bāṇa-oghaḥ sarva-marmasu tāḍitāḥ . yuddhāt apasṛtāḥ tatra sa avaśeṣa-āyuṣaḥ abhavan .. 21 ..
ततः काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः । दिशश्चकार विमलाः प्रदिशश्च महाबलः ॥ 22 ॥
ततस् काञ्चन-चित्र-अङ्गैः शरैः अग्नि-शिखा-उपमैः । दिशः चकार विमलाः प्रदिशः च महा-बलः ॥ २२ ॥
tatas kāñcana-citra-aṅgaiḥ śaraiḥ agni-śikhā-upamaiḥ . diśaḥ cakāra vimalāḥ pradiśaḥ ca mahā-balaḥ .. 22 ..
ये त्वन्ये राक्षसा वीरा रामस्याभिमुखे स्थिताः । तेऽपि नष्टाः समासाद्य पतङ्गा इव पावकम् ॥ 23 ॥
ये तु अन्ये राक्षसाः वीराः रामस्य अभिमुखे स्थिताः । ते अपि नष्टाः समासाद्य पतङ्गाः इव पावकम् ॥ २३ ॥
ye tu anye rākṣasāḥ vīrāḥ rāmasya abhimukhe sthitāḥ . te api naṣṭāḥ samāsādya pataṅgāḥ iva pāvakam .. 23 ..
सुवर्णपुङ्खैर्विशिखैः सम्पतद्भिः सहस्रशः । बभूव रजनी चित्रा खद्योतैरिव शारदी ॥ 24 ॥
सुवर्ण-पुङ्खैः विशिखैः सम्पतद्भिः सहस्रशस् । बभूव रजनी चित्रा खद्योतैः इव शारदी ॥ २४ ॥
suvarṇa-puṅkhaiḥ viśikhaiḥ sampatadbhiḥ sahasraśas . babhūva rajanī citrā khadyotaiḥ iva śāradī .. 24 ..
राक्षसानां च निनदैर्हरीणां चापि गर्जितैः । सा बभूव निशा घोरा भूयो घोरतरा तदा ॥ 25 ॥
राक्षसानाम् च निनदैः हरीणाम् च अपि गर्जितैः । सा बभूव निशा घोरा भूयस् घोरतरा तदा ॥ २५ ॥
rākṣasānām ca ninadaiḥ harīṇām ca api garjitaiḥ . sā babhūva niśā ghorā bhūyas ghoratarā tadā .. 25 ..
तेन शब्देन महता प्रवृद्धेन समन्ततः । त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः ॥ 26 ॥
तेन शब्देन महता प्रवृद्धेन समन्ततः । त्रिकूटः कन्दर-आकीर्णः प्रव्याहरत् इव अचलः ॥ २६ ॥
tena śabdena mahatā pravṛddhena samantataḥ . trikūṭaḥ kandara-ākīrṇaḥ pravyāharat iva acalaḥ .. 26 ..
गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः । सम्परिष्वज्य बाहुभ्यां भक्षयन्रजनीचरान् ॥ 27 ॥
गोलाङ्गूलाः महा-कायाः तमसा तुल्य-वर्चसः । सम्परिष्वज्य बाहुभ्याम् भक्षयन् रजनीचरान् ॥ २७ ॥
golāṅgūlāḥ mahā-kāyāḥ tamasā tulya-varcasaḥ . sampariṣvajya bāhubhyām bhakṣayan rajanīcarān .. 27 ..
अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः । रावणेर्निजघानाशु सारथिं च हयानपि ॥ 28 ॥
अङ्गदः तु रणे शत्रुम् निहन्तुम् समुपस्थितः । रावणेः निजघान आशु सारथिम् च हयान् अपि ॥ २८ ॥
aṅgadaḥ tu raṇe śatrum nihantum samupasthitaḥ . rāvaṇeḥ nijaghāna āśu sārathim ca hayān api .. 28 ..
इन्द्रजित् तु रथं त्यक्त्वा हताश्वो हतसारथिः । अङ्गदेन महामायस्तत्रैवान्तरधीयत ॥ 29 ॥
इन्द्रजित् तु रथम् त्यक्त्वा हत-अश्वः हत-सारथिः । अङ्गदेन महा-मायः तत्र एव अन्तरधीयत ॥ २९ ॥
indrajit tu ratham tyaktvā hata-aśvaḥ hata-sārathiḥ . aṅgadena mahā-māyaḥ tatra eva antaradhīyata .. 29 ..
तत् कर्म वालिपुत्रस्य सर्वे देवा सहर्षिभिः । तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ ॥ 30 ॥
तत् कर्म वालि-पुत्रस्य सर्वे देवा सह ऋषिभिः । तुष्टुवुः पूजन-अर्हस्य तौ च उभौ राम-लक्ष्मणौ ॥ ३० ॥
tat karma vāli-putrasya sarve devā saha ṛṣibhiḥ . tuṣṭuvuḥ pūjana-arhasya tau ca ubhau rāma-lakṣmaṇau .. 30 ..
प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि । ततस्ते तं महात्मानं दुष्ट्वा तुष्टः प्रधर्षितम् ॥ 31 ॥
प्रभावम् सर्व-भूतानि विदुः इन्द्रजितः युधि । ततस् ते तम् महात्मानम् दुष्ट्वा तुष्टः प्रधर्षितम् ॥ ३१ ॥
prabhāvam sarva-bhūtāni viduḥ indrajitaḥ yudhi . tatas te tam mahātmānam duṣṭvā tuṣṭaḥ pradharṣitam .. 31 ..
ततः प्रहृष्टाः कपय ससुग्रीवविभीषणाः । साधुसाध्विति नेदुश्च दृष्टवा शत्रुं पराजितम् ॥ 32 ॥
ततस् प्रहृष्टाः कपय स सुग्रीव-विभीषणाः । साधु-साधु इति नेदुः च दृष्टवा शत्रुम् पराजितम् ॥ ३२ ॥
tatas prahṛṣṭāḥ kapaya sa sugrīva-vibhīṣaṇāḥ . sādhu-sādhu iti neduḥ ca dṛṣṭavā śatrum parājitam .. 32 ..
इन्द्रजित् तु तदातेन निर्जितो भीमकर्मणा । संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम् ॥ 33 ॥
इन्द्रजित् तु तदा अतेन निर्जितः भीम-कर्मणा । संयुगे वालि-पुत्रेण क्रोधम् चक्रे सु दारुणम् ॥ ३३ ॥
indrajit tu tadā atena nirjitaḥ bhīma-karmaṇā . saṃyuge vāli-putreṇa krodham cakre su dāruṇam .. 33 ..
सोऽन्तर्धान गतः पापो रावणी रणकर्कशः । ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्छितः ॥ 34 ॥
सः अन्तर्धान गतः पापः रण-कर्कशः । ब्रह्म-दत्त-वरः वीरः रावणिः क्रोध-मूर्छितः ॥ ३४ ॥
saḥ antardhāna gataḥ pāpaḥ raṇa-karkaśaḥ . brahma-datta-varaḥ vīraḥ rāvaṇiḥ krodha-mūrchitaḥ .. 34 ..
अदृश्यो निशितान्बाणान्मुमोचाशनिवर्चसः । रामं च लक्ष्मणं चैव घोरैर्नागमयैः शरैः ॥ 35 ॥
अदृश्यः निशितान् बाणान् मुमोच अशनि-वर्चसः । रामम् च लक्ष्मणम् च एव घोरैः नाग-मयैः शरैः ॥ ३५ ॥
adṛśyaḥ niśitān bāṇān mumoca aśani-varcasaḥ . rāmam ca lakṣmaṇam ca eva ghoraiḥ nāga-mayaiḥ śaraiḥ .. 35 ..
बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः । मायया सम्वृतस्तत्र मोहयन् राघवौ युधि । ॥ 36 ॥
बिभेद समरे क्रुद्धः सर्व-गात्रेषु राक्षसः । मायया सम्वृतः तत्र मोहयन् राघवौ युधि । ॥ ३६ ॥
bibheda samare kruddhaḥ sarva-gātreṣu rākṣasaḥ . māyayā samvṛtaḥ tatra mohayan rāghavau yudhi . .. 36 ..
अदृश्य सर्वभूतानां कूटयोधी निशाचरः । बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ । ॥ 37 ॥
अदृश्य सर्व-भूतानाम् कूट-योधी निशाचरः । बबन्ध शर-बन्धेन भ्रातरौ राम-लक्ष्मणौ । ॥ ३७ ॥
adṛśya sarva-bhūtānām kūṭa-yodhī niśācaraḥ . babandha śara-bandhena bhrātarau rāma-lakṣmaṇau . .. 37 ..
तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषै शरैः । सहसाभिहतौ वीरौ तदा प्रैक्षन्त वानराः ॥ 38 ॥
तौ तेन पुरुष-व्याघ्रौ क्रुद्धेन आशीविषैः शरैः । सहसा अभिहतौ वीरौ तदा प्रैक्षन्त वानराः ॥ ३८ ॥
tau tena puruṣa-vyāghrau kruddhena āśīviṣaiḥ śaraiḥ . sahasā abhihatau vīrau tadā praikṣanta vānarāḥ .. 38 ..
प्रकाशरूपस्तु तदा न शक्तस्तौ बाधितुं राक्षसराजपुत्रः । मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ दुरात्मा ॥ 39 ॥
प्रकाश-रूपः तु तदा न शक्तः तौ बाधितुम् राक्षस-राज-पुत्रः । मायाम् प्रयोक्तुम् समुपाजगाम बबन्ध तौ राज-सुतौ दुरात्मा ॥ ३९ ॥
prakāśa-rūpaḥ tu tadā na śaktaḥ tau bādhitum rākṣasa-rāja-putraḥ . māyām prayoktum samupājagāma babandha tau rāja-sutau durātmā .. 39 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In