This overlay will guide you through the buttons:

| |
|
धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः । क्रोधेन महताऽविष्टो निश्श्वसन्नुरगो यथा ॥ 1 ॥
धूम्राक्षम् निहतम् श्रुत्वा रावणः राक्षसेश्वरः । क्रोधेन महता आविष्टः निश्श्वसन् उरगः यथा ॥ १ ॥
dhūmrākṣam nihatam śrutvā rāvaṇaḥ rākṣaseśvaraḥ . krodhena mahatā āviṣṭaḥ niśśvasan uragaḥ yathā .. 1 ..
दीर्घमुष्णं विनिश्श्वस्य क्रोधेन कलुषीकृतः । अब्रवीद् राक्षसं क्रूरं वज्रदंष्ट्रं महाबलम् ॥ 2 ॥
दीर्घम् उष्णम् विनिश्श्वस्य क्रोधेन कलुषीकृतः । अब्रवीत् राक्षसम् क्रूरम् वज्र-दंष्ट्रम् महा-बलम् ॥ २ ॥
dīrgham uṣṇam viniśśvasya krodhena kaluṣīkṛtaḥ . abravīt rākṣasam krūram vajra-daṃṣṭram mahā-balam .. 2 ..
गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः । जहि दाशरथिं रामं सुग्रीवं वानरैः सह ॥ 3 ॥
गच्छ त्वम् वीर निर्याहि राक्षसैः परिवारितः । जहि दाशरथिम् रामम् सुग्रीवम् वानरैः सह ॥ ३ ॥
gaccha tvam vīra niryāhi rākṣasaiḥ parivāritaḥ . jahi dāśarathim rāmam sugrīvam vānaraiḥ saha .. 3 ..
तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरम् । निर्जगाम बलै सार्धं बहुभिः परिवारितः ॥ 4 ॥
तथा इति उक्त्वा द्रुततरम् मायावी राक्षसेश्वरम् । निर्जगाम बलैः सार्धम् बहुभिः परिवारितः ॥ ४ ॥
tathā iti uktvā drutataram māyāvī rākṣaseśvaram . nirjagāma balaiḥ sārdham bahubhiḥ parivāritaḥ .. 4 ..
नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसमाहितः । पताकाध्वजचित्रैश्च बहुभिः समलङ्कृतः ॥ 5 ॥
नागैः अश्वैः खरैः उष्ट्रैः संयुक्तः सु समाहितः । पताका-ध्वज-चित्रैः च बहुभिः समलङ्कृतः ॥ ५ ॥
nāgaiḥ aśvaiḥ kharaiḥ uṣṭraiḥ saṃyuktaḥ su samāhitaḥ . patākā-dhvaja-citraiḥ ca bahubhiḥ samalaṅkṛtaḥ .. 5 ..
ततो विचित्रकेयूरमुकुटेन विभूषितः । तनुत्र च समावृत्य सधनुर्निर्ययौ द्रुतम् ॥ 6 ॥
ततस् विचित्र-केयूर-मुकुटेन विभूषितः । तनुत्र च समावृत्य स धनुः निर्ययौ द्रुतम् ॥ ६ ॥
tatas vicitra-keyūra-mukuṭena vibhūṣitaḥ . tanutra ca samāvṛtya sa dhanuḥ niryayau drutam .. 6 ..
पताकालङ्कृतं दीप्तं तप्तकाञ्चनभूषितम् । रथं प्रदक्षिणं कृत्वा समारोहच्चमूपतिः ॥ 7 ॥
पताका-अलङ्कृतम् दीप्तम् तप्त-काञ्चन-भूषितम् । रथम् प्रदक्षिणम् कृत्वा समारोहत् चमूपतिः ॥ ७ ॥
patākā-alaṅkṛtam dīptam tapta-kāñcana-bhūṣitam . ratham pradakṣiṇam kṛtvā samārohat camūpatiḥ .. 7 ..
ऋष्टिभिस्तोमरैश्चित्रै श्शूलैश्च मुसलैरपि । भिन्दिपालैश्च चाशैश्च शक्तिभिः पट्टशैरपि ॥ 8 ॥
ऋष्टिभिः तोमरैः चित्रैः शूलैः च मुसलैः अपि । भिन्दिपालैः च चाशैः च शक्तिभिः पट्टशैः अपि ॥ ८ ॥
ṛṣṭibhiḥ tomaraiḥ citraiḥ śūlaiḥ ca musalaiḥ api . bhindipālaiḥ ca cāśaiḥ ca śaktibhiḥ paṭṭaśaiḥ api .. 8 ..
खडगैश्चक्रैर्गदाभिश्च निशितैश्च परश्वधैः । पदातयश्च निर्यान्ति विविधाः शस्त्रपाणयः ॥ 9 ॥
खडगैः चक्रैः गदाभिः च निशितैः च परश्वधैः । पदातयः च निर्यान्ति विविधाः शस्त्र-पाणयः ॥ ९ ॥
khaḍagaiḥ cakraiḥ gadābhiḥ ca niśitaiḥ ca paraśvadhaiḥ . padātayaḥ ca niryānti vividhāḥ śastra-pāṇayaḥ .. 9 ..
विचित्रवासस सर्वे दीप्ता राक्षसपुङ्गवाः । गजा महोत्कटाः शूराश्चलन्त इव पर्वताः ॥ 10 ॥
सर्वे दीप्ताः राक्षस-पुङ्गवाः । गजाः महा-उत्कटाः शूराः चलन्तः इव पर्वताः ॥ १० ॥
sarve dīptāḥ rākṣasa-puṅgavāḥ . gajāḥ mahā-utkaṭāḥ śūrāḥ calantaḥ iva parvatāḥ .. 10 ..
ते युद्धकुशला रूढास्तोमराङ्कुशपाणिभिः । अन्ये लक्षणसंयुक्ताः शूरारूढा महाबलाः ॥ 11 ॥
ते युद्ध-कुशलाः रूढाः तोमर-अङ्कुश-पाणिभिः । अन्ये लक्षण-संयुक्ताः शूर-आरूढाः महा-बलाः ॥ ११ ॥
te yuddha-kuśalāḥ rūḍhāḥ tomara-aṅkuśa-pāṇibhiḥ . anye lakṣaṇa-saṃyuktāḥ śūra-ārūḍhāḥ mahā-balāḥ .. 11 ..
तद् राक्षसबलं सर्वं विप्रस्थितमशोभत । प्रावृटकाले यथा मेघा नर्दमानाः सविद्युतः ॥ 12 ॥
तत् राक्षस-बलम् सर्वम् विप्रस्थितम् अशोभत । प्रावृट-काले यथा मेघाः नर्दमानाः स विद्युतः ॥ १२ ॥
tat rākṣasa-balam sarvam viprasthitam aśobhata . prāvṛṭa-kāle yathā meghāḥ nardamānāḥ sa vidyutaḥ .. 12 ..
निःसृता दक्षिणद्वारादङ्गदो यत्र यूथपः । तेषां निष्क्रममाणानामशुभं समजायत । ॥ 13 ॥
निःसृता दक्षिण-द्वारात् अङ्गदः यत्र यूथपः । तेषाम् निष्क्रममाणानाम् अशुभम् समजायत । ॥ १३ ॥
niḥsṛtā dakṣiṇa-dvārāt aṅgadaḥ yatra yūthapaḥ . teṣām niṣkramamāṇānām aśubham samajāyata . .. 13 ..
आकाशाद विघनात् तीव्रा उल्काश्चाभ्यन्यपतंस्तदा । वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ॥ 14 ॥
आकाशात् विघनात् तीव्राः उल्काः च अभ्यन्यपतन् तदा । वमन्त्यः पावक-ज्वालाः शिवाः घोरम् ववाशिरे ॥ १४ ॥
ākāśāt vighanāt tīvrāḥ ulkāḥ ca abhyanyapatan tadā . vamantyaḥ pāvaka-jvālāḥ śivāḥ ghoram vavāśire .. 14 ..
व्याहरन्त मृगा घोरा रक्षसां निधनं तदा । समापतन्तो योधास्तु प्रास्खलंस्तत्र दारुणम् ॥ 15 ॥
व्याहरन्त मृगाः घोराः रक्षसाम् निधनम् तदा । समापतन्तः योधाः तु प्रास्खलन् तत्र दारुणम् ॥ १५ ॥
vyāharanta mṛgāḥ ghorāḥ rakṣasām nidhanam tadā . samāpatantaḥ yodhāḥ tu prāskhalan tatra dāruṇam .. 15 ..
एतानौत्पातिकान् दृष्टवा वज्रदंष्ट्रो महाबलः । धैर्यमालम्बय तेजस्वी निर्जगाम रणोत्सुकः ॥ 16 ॥
एतान् औत्पातिकान् दृष्टवा वज्रदंष्ट्रः महा-बलः । धैर्यम् आलम्बय तेजस्वी निर्जगाम रण-उत्सुकः ॥ १६ ॥
etān autpātikān dṛṣṭavā vajradaṃṣṭraḥ mahā-balaḥ . dhairyam ālambaya tejasvī nirjagāma raṇa-utsukaḥ .. 16 ..
तांस्तु विद्रवतो दृष्ट्वा वानरा जितकाशिनः । प्रणेदु सुमहानादान् दिशः शब्देन पूरयन् ॥ 17 ॥
तान् तु विद्रवतः दृष्ट्वा वानराः जित-काशिनः । प्रणेदु सु महा-नादान् दिशः शब्देन पूरयन् ॥ १७ ॥
tān tu vidravataḥ dṛṣṭvā vānarāḥ jita-kāśinaḥ . praṇedu su mahā-nādān diśaḥ śabdena pūrayan .. 17 ..
ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह । घोराणां भीमरूपाणामन्योन्यवथकाङ् क्षिणाम् ॥ 18 ॥
ततस् प्रवृत्तम् तुमुलम् हरीणाम् राक्षसैः सह । घोराणाम् भीम-रूपाणाम् अन्योन्य-वथकान् क्षिणाम् ॥ १८ ॥
tatas pravṛttam tumulam harīṇām rākṣasaiḥ saha . ghorāṇām bhīma-rūpāṇām anyonya-vathakān kṣiṇām .. 18 ..
निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः । रुधिरोक्षितसर्वाङ्गा न्यपतन् धरणीतले ॥ 19 ॥
निष्पतन्तः महा-उत्साहाः भिन्न-देह-शिरोधराः । रुधिर-उक्षित-सर्व-अङ्गाः न्यपतन् धरणी-तले ॥ १९ ॥
niṣpatantaḥ mahā-utsāhāḥ bhinna-deha-śirodharāḥ . rudhira-ukṣita-sarva-aṅgāḥ nyapatan dharaṇī-tale .. 19 ..
केचिदन्योन्यमासाद्य शूराः परिघपाणयः । चिक्षिपुर्विविधंशस्त्रं समरेष्न्विवर्तिनः ॥ 20 ॥
केचिद् अन्योन्यम् आसाद्य शूराः परिघ-पाणयः । चिक्षिपुः विविधम् शस्त्रम् समरेषु विवर्तिनः ॥ २० ॥
kecid anyonyam āsādya śūrāḥ parigha-pāṇayaḥ . cikṣipuḥ vividham śastram samareṣu vivartinaḥ .. 20 ..
द्रुमाणां च शिलानां च शस्त्राणां चापि निःस्वनः । श्रूयते सुमहांस्तत्र घोरो हृदयभेदसः । ॥ 21 ॥
द्रुमाणाम् च शिलानाम् च शस्त्राणाम् च अपि निःस्वनः । श्रूयते सु महान् तत्र घोरः हृदय-भेदसः । ॥ २१ ॥
drumāṇām ca śilānām ca śastrāṇām ca api niḥsvanaḥ . śrūyate su mahān tatra ghoraḥ hṛdaya-bhedasaḥ . .. 21 ..
रथनेमिस्वनस्तत्र धनुषश्चापि घोख । शङ्खभेरीमृदङ्गानां बभूव तुमुलः स्वनः ॥ 22 ॥
रथ-नेमि-स्वनः तत्र धनुषः च अपि । शङ्ख-भेरी-मृदङ्गानाम् बभूव तुमुलः स्वनः ॥ २२ ॥
ratha-nemi-svanaḥ tatra dhanuṣaḥ ca api . śaṅkha-bherī-mṛdaṅgānām babhūva tumulaḥ svanaḥ .. 22 ..
केचिदस्त्राणि सत्यज्य बाहुयुद्धमकुर्वत । तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि ॥ 23 ॥
केचिद् अस्त्राणि सत्यज्य बाहु-युद्धम् अकुर्वत । तलैः च चरणैः च अपि मुष्टिभिः च द्रुमैः अपि ॥ २३ ॥
kecid astrāṇi satyajya bāhu-yuddham akurvata . talaiḥ ca caraṇaiḥ ca api muṣṭibhiḥ ca drumaiḥ api .. 23 ..
जानुभिश्च हताः केचिद् भिग्नदेहाश्च राक्षसाः । शिलाभिश्चूर्णिताः केचिद् वानरैर्युद्धदुर्मदैः ॥ 24 ॥
जानुभिः च हताः केचिद् भिग्न-देहाः च राक्षसाः । शिलाभिः चूर्णिताः केचिद् वानरैः युद्ध-दुर्मदैः ॥ २४ ॥
jānubhiḥ ca hatāḥ kecid bhigna-dehāḥ ca rākṣasāḥ . śilābhiḥ cūrṇitāḥ kecid vānaraiḥ yuddha-durmadaiḥ .. 24 ..
वज्रदंष्ट्रो भृशं बाणै: रणे वित्रासयन् हरीन् । चचार लोकसंहारे पाशहस्त इवान्तकः ॥ 25 ॥
वज्र-दंष्ट्रः भृशम् बाणैः रणे वित्रासयन् हरीन् । चचार लोक-संहारे पाश-हस्तः इव अन्तकः ॥ २५ ॥
vajra-daṃṣṭraḥ bhṛśam bāṇaiḥ raṇe vitrāsayan harīn . cacāra loka-saṃhāre pāśa-hastaḥ iva antakaḥ .. 25 ..
बलवन्तोऽस्त्रविदुषो नानाप्रहरणा रणे । जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधमूर्छिताः ॥ 26 ॥
बलवन्तः अस्त्र-विदुषः नाना प्रहरणाः रणे । जघ्नुः वानर-सैन्यानि राक्षसाः क्रोध-मूर्छिताः ॥ २६ ॥
balavantaḥ astra-viduṣaḥ nānā praharaṇāḥ raṇe . jaghnuḥ vānara-sainyāni rākṣasāḥ krodha-mūrchitāḥ .. 26 ..
जघ्न तान् राक्षसान् सर्वान् दृष्टवा वालिसुतो रणे । क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः ॥ 27 ॥
जघ्न तान् राक्षसान् सर्वान् दृष्टवा वालि-सुतः रणे । क्रोधेन द्विगुण-आविष्टः संवर्तकः इव अनलः ॥ २७ ॥
jaghna tān rākṣasān sarvān dṛṣṭavā vāli-sutaḥ raṇe . krodhena dviguṇa-āviṣṭaḥ saṃvartakaḥ iva analaḥ .. 27 ..
तान् राक्षसगणान् सर्वान् वृक्षमुद्यम्य वीर्यवान् । अङ्गदः क्रोधताम्राक्षः सिंहः क्षुद्रमृगानिव ॥ 28 ॥
तान् राक्षस-गणान् सर्वान् वृक्षम् उद्यम्य वीर्यवान् । अङ्गदः क्रोध-ताम्र-अक्षः सिंहः क्षुद्र-मृगान् इव ॥ २८ ॥
tān rākṣasa-gaṇān sarvān vṛkṣam udyamya vīryavān . aṅgadaḥ krodha-tāmra-akṣaḥ siṃhaḥ kṣudra-mṛgān iva .. 28 ..
चकार कदनं घोरं शक्रतुल्यपराक्रमः । अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः ॥ 29 ॥
चकार कदनम् घोरम् शक्र-तुल्य-पराक्रमः । अङ्गद-अभिहताः तत्र राक्षसाः भीम-विक्रमाः ॥ २९ ॥
cakāra kadanam ghoram śakra-tulya-parākramaḥ . aṅgada-abhihatāḥ tatra rākṣasāḥ bhīma-vikramāḥ .. 29 ..
विभिन्नशिरसः पेतुर्विकृता इव पादपाः । रथैश्चित्रैर्ध्वजैश्वैः शरीरैर्हरिरक्षसाम् । ॥ 30 ॥
विभिन्न-शिरसः पेतुः विकृताः इव पादपाः । रथैः चित्रैः ध्वज-ऐश्वैः शरीरैः हरि-रक्षसाम् । ॥ ३० ॥
vibhinna-śirasaḥ petuḥ vikṛtāḥ iva pādapāḥ . rathaiḥ citraiḥ dhvaja-aiśvaiḥ śarīraiḥ hari-rakṣasām . .. 30 ..
रुधिरेण सञ्छन्ना भूमिर्भयकरा तदा । हारकेयूरवस्स्रैश्च शत्रैश्च समलङ्कृता । ॥ 31 ॥
रुधिरेण सञ्छन्ना भूमिः भय-करा तदा । हार-केयूर-वस्स्रैः च शत्रैः च समलङ्कृता । ॥ ३१ ॥
rudhireṇa sañchannā bhūmiḥ bhaya-karā tadā . hāra-keyūra-vassraiḥ ca śatraiḥ ca samalaṅkṛtā . .. 31 ..
भूमिर्भाति रणे तत्र शारदीव यथा निशा । अङ्गदस्य च वेगेन तद् राक्षसबलं महत् । प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा ॥ 32 ॥
भूमिः भाति रणे तत्र शारदी इव यथा निशा । अङ्गदस्य च वेगेन तत् राक्षस-बलम् महत् । प्राकम्पत तदा तत्र पवनेन अम्बुदः यथा ॥ ३२ ॥
bhūmiḥ bhāti raṇe tatra śāradī iva yathā niśā . aṅgadasya ca vegena tat rākṣasa-balam mahat . prākampata tadā tatra pavanena ambudaḥ yathā .. 32 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In