This overlay will guide you through the buttons:

| |
|
विज्ञाय तु मनस्तस्य राघवस्य महात्मनः । स निवृत्याहवात्तस्मात्प्रविवेश पुरं ततः ॥ १॥
विज्ञाय तु मनः तस्य राघवस्य महात्मनः । स निवृत्य आहवात् तस्मात् प्रविवेश पुरम् ततस् ॥ १॥
vijñāya tu manaḥ tasya rāghavasya mahātmanaḥ . sa nivṛtya āhavāt tasmāt praviveśa puram tatas .. 1..
सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् । क्रोधताम्रेक्षणः शूरो निर्जगामथ रावणिः॥ २॥
सः अनुस्मृत्य वधम् तेषाम् राक्षसानाम् तरस्विनाम् । क्रोध-ताम्र-ईक्षणः शूरः निर्जगाम अथ रावणिः॥ २॥
saḥ anusmṛtya vadham teṣām rākṣasānām tarasvinām . krodha-tāmra-īkṣaṇaḥ śūraḥ nirjagāma atha rāvaṇiḥ.. 2..
स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः । इन्द्रजित्सुमहावीर्यः पौलस्त्यो देवकण्टकः ॥ ३॥
स पश्चिमेन द्वारेण निर्ययौ राक्षसैः वृतः । इन्द्रजित् सु महा-वीर्यः पौलस्त्यः देव-कण्टकः ॥ ३॥
sa paścimena dvāreṇa niryayau rākṣasaiḥ vṛtaḥ . indrajit su mahā-vīryaḥ paulastyaḥ deva-kaṇṭakaḥ .. 3..
इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ । रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा ॥ ४॥
इन्द्रजित् तु ततस् दृष्ट्वा भ्रातरौ राम-लक्ष्मणौ । रणाय अभ्युद्यतौ वीरौ मायाम् प्रादुष्करोत् तदा ॥ ४॥
indrajit tu tatas dṛṣṭvā bhrātarau rāma-lakṣmaṇau . raṇāya abhyudyatau vīrau māyām prāduṣkarot tadā .. 4..
इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदा । बलेन महताऽऽवृत्य तस्या वधमरोचयत् ॥ ५॥
इन्द्रजित् तु रथे स्थाप्य सीताम् माया-मयीम् तदा । बलेन महता आवृत्य तस्याः वधम् अरोचयत् ॥ ५॥
indrajit tu rathe sthāpya sītām māyā-mayīm tadā . balena mahatā āvṛtya tasyāḥ vadham arocayat .. 5..
मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः । हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ॥ ६॥
मोहन-अर्थम् तु सर्वेषाम् बुद्धिम् कृत्वा सु दुर्मतिः । हन्तुम् सीताम् व्यवसितः वानर-अभिमुखः ययौ ॥ ६॥
mohana-artham tu sarveṣām buddhim kṛtvā su durmatiḥ . hantum sītām vyavasitaḥ vānara-abhimukhaḥ yayau .. 6..
तं दृष्ट्वा त्वभिनिर्यान्तं सर्वे ते काननौकसः । उत्पेतुरभिसङ्क्रुद्धाः शिलाहस्ता युयुत्सवः ॥ ७॥
तम् दृष्ट्वा तु अभिनिर्यान्तम् सर्वे ते काननौकसः । उत्पेतुः अभिसङ्क्रुद्धाः शिला-हस्ताः युयुत्सवः ॥ ७॥
tam dṛṣṭvā tu abhiniryāntam sarve te kānanaukasaḥ . utpetuḥ abhisaṅkruddhāḥ śilā-hastāḥ yuyutsavaḥ .. 7..
हनूमान्पुरतस्तेषां जगाम कपिकुञ्जरः । प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् ॥ ८॥
हनूमान् पुरतस् तेषाम् जगाम कपि-कुञ्जरः । प्रगृह्य सु महत् शृङ्गम् पर्वतस्य दुरासदम् ॥ ८॥
hanūmān puratas teṣām jagāma kapi-kuñjaraḥ . pragṛhya su mahat śṛṅgam parvatasya durāsadam .. 8..
स ददर्श हतानन्दां सीतामिन्द्रजितो रथे । एकवेणीधरां दीनामुपवासकृशाननाम् ॥ ९॥
स ददर्श हत-आनन्दाम् सीताम् इन्द्रजितः रथे । एक-वेणी-धराम् दीनाम् उपवास-कृश-आननाम् ॥ ९॥
sa dadarśa hata-ānandām sītām indrajitaḥ rathe . eka-veṇī-dharām dīnām upavāsa-kṛśa-ānanām .. 9..
परिक्लिष्टैकवसनाममृजां राघवप्रियाम् । रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् ॥ १०॥
परिक्लिष्ट-एक-वसनाम् अमृजाम् राघव-प्रियाम् । रजः-मलाभ्याम् आलिप्तैः सर्व-गात्रैः वर-स्त्रियम् ॥ १०॥
parikliṣṭa-eka-vasanām amṛjām rāghava-priyām . rajaḥ-malābhyām āliptaiḥ sarva-gātraiḥ vara-striyam .. 10..
तां निरीक्ष्य मुहूर्तं तु मैथिलीमध्यवस्य च । बभूवाचिरदृष्टा हि तेन सा जनकात्मजा॥ ११॥
ताम् निरीक्ष्य मुहूर्तम् तु मैथिलीम् अध्यवस्य च । बभूव अचिर-दृष्टा हि तेन सा जनकात्मजा॥ ११॥
tām nirīkṣya muhūrtam tu maithilīm adhyavasya ca . babhūva acira-dṛṣṭā hi tena sā janakātmajā.. 11..
अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनाम् । दृष्ट्वा रथस्थितां दीनां राक्षसेन्द्रसुताश्रिताम् ॥ १२॥
अब्रवीत् ताम् तु शोक-आर्ताम् निरानन्दाम् तपस्विनाम् । दृष्ट्वा रथ-स्थिताम् दीनाम् राक्षस-इन्द्र-सुत-आश्रिताम् ॥ १२॥
abravīt tām tu śoka-ārtām nirānandām tapasvinām . dṛṣṭvā ratha-sthitām dīnām rākṣasa-indra-suta-āśritām .. 12..
किं समर्थितमस्येति चिन्तयन्स महाकपिः । सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् ॥ १३॥
किम् समर्थितम् अस्य इति चिन्तयन् स महा-कपिः । सह तैः वानर-श्रेष्ठैः अभ्यधावत रावणिम् ॥ १३॥
kim samarthitam asya iti cintayan sa mahā-kapiḥ . saha taiḥ vānara-śreṣṭhaiḥ abhyadhāvata rāvaṇim .. 13..
तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितः । कृत्वा विकोशं निस्त्रिंशं मूर्ध्नि सीतांमकर्षयत् ॥ १४॥
तत् वानर-बलम् दृष्ट्वा रावणिः क्रोध-मूर्छितः । कृत्वा विकोशम् निस्त्रिंशम् मूर्ध्नि सीताम् अकर्षयत् ॥ १४॥
tat vānara-balam dṛṣṭvā rāvaṇiḥ krodha-mūrchitaḥ . kṛtvā vikośam nistriṃśam mūrdhni sītām akarṣayat .. 14..
तां स्त्रियं पश्यतां तेषां ताडयामास राक्षसः। क्रोशन्तीं राम रामेति मायया योजितां रथे ॥ १५॥
ताम् स्त्रियम् पश्यताम् तेषाम् ताडयामास राक्षसः। क्रोशन्तीम् राम राम इति मायया योजिताम् रथे ॥ १५॥
tām striyam paśyatām teṣām tāḍayāmāsa rākṣasaḥ. krośantīm rāma rāma iti māyayā yojitām rathe .. 15..
गृहीतमूर्धजां दृष्ट्वा हनूमान्दैन्यमागतः । दुःखजं वारि नेत्राभ्यामुत्सृजन्मारुतात्मजः ॥ १६॥
गृहीत-मूर्धजाम् दृष्ट्वा हनूमान् दैन्यम् आगतः । दुःख-जम् वारि नेत्राभ्याम् उत्सृजत् मारुतात्मजः ॥ १६॥
gṛhīta-mūrdhajām dṛṣṭvā hanūmān dainyam āgataḥ . duḥkha-jam vāri netrābhyām utsṛjat mārutātmajaḥ .. 16..
तां दृष्टवा चारुसर्वाङ्गीं रामस्य महिषीं प्रियाम् । अब्रवीत्परुषं वाक्यं क्रोधाद्रक्षोऽधिपात्मजम् ॥ 17 ॥
ताम् दृष्टवा चारु-सर्व-अङ्गीम् रामस्य महिषीम् प्रियाम् । अब्रवीत् परुषम् वाक्यम् क्रोधात् रक्षः-अधिप-आत्मजम् ॥ १७ ॥
tām dṛṣṭavā cāru-sarva-aṅgīm rāmasya mahiṣīm priyām . abravīt paruṣam vākyam krodhāt rakṣaḥ-adhipa-ātmajam .. 17 ..
दुरात्मन्नात्मनाशाय केशपक्षे परामृशः । ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः ॥ 18 ॥
दुरात्मन् आत्म-नाशाय केश-पक्षे परामृशः । ब्रह्मर्षीणाम् कुले जातः राक्षसीम् योनिम् आश्रितः ॥ १८ ॥
durātman ātma-nāśāya keśa-pakṣe parāmṛśaḥ . brahmarṣīṇām kule jātaḥ rākṣasīm yonim āśritaḥ .. 18 ..
धिक्त्वां पापसमाचारं यस्य ते मतिरीदृशी । नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम । अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण ॥ 19 ॥
धिक् त्वाम् पाप-समाचारम् यस्य ते मतिः ईदृशी । नृशंस अनार्य दुर्वृत्त क्षुद्र पाप-पराक्रम । अनार्यस्य ईदृशम् कर्म घृणा ते न अस्ति निर्घृण ॥ १९ ॥
dhik tvām pāpa-samācāram yasya te matiḥ īdṛśī . nṛśaṃsa anārya durvṛtta kṣudra pāpa-parākrama . anāryasya īdṛśam karma ghṛṇā te na asti nirghṛṇa .. 19 ..
च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली । किं तवैषापराद्धा हि यदेनां हन्तुमिच्छसि ॥ 20 ॥
च्युता गृहात् च राज्यात् च राम-हस्तात् च मैथिली । किम् तव एषा अपराद्धा हि यत् एनाम् हन्तुम् इच्छसि ॥ २० ॥
cyutā gṛhāt ca rājyāt ca rāma-hastāt ca maithilī . kim tava eṣā aparāddhā hi yat enām hantum icchasi .. 20 ..
सीतां हत्वा तु न चिरं जीविष्यसि कथंचन । वधार्ह कर्मणा तेन मम हस्तगतो ह्यसि ॥ 21 ॥
सीताम् हत्वा तु न चिरम् जीविष्यसि कथंचन । वध-अर्ह कर्मणा तेन मम हस्त-गतः हि असि ॥ २१ ॥
sītām hatvā tu na ciram jīviṣyasi kathaṃcana . vadha-arha karmaṇā tena mama hasta-gataḥ hi asi .. 21 ..
ये च स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताः । इह जीवितमुत्सृज्य प्रेत्य तान्प्रतिलप्स्यसे ॥ 22 ॥
ये च स्त्री-घातिनाम् लोकाः लोक-वध्यैः च कुत्सिताः । इह जीवितम् उत्सृज्य प्रेत्य तान् प्रतिलप्स्यसे ॥ २२ ॥
ye ca strī-ghātinām lokāḥ loka-vadhyaiḥ ca kutsitāḥ . iha jīvitam utsṛjya pretya tān pratilapsyase .. 22 ..
इति ब्रुवाणो हनुमान्सायुधैर्हरिभिर्वृतः । अभ्यधावत सुसंङ्क्रुद्धो राक्षसेन्द्रसुतं प्रति ॥ 23 ॥
इति ब्रुवाणः हनुमान् स आयुधैः हरिभिः वृतः । अभ्यधावत सु संङ्क्रुद्धः राक्षस-इन्द्र-सुतम् प्रति ॥ २३ ॥
iti bruvāṇaḥ hanumān sa āyudhaiḥ haribhiḥ vṛtaḥ . abhyadhāvata su saṃṅkruddhaḥ rākṣasa-indra-sutam prati .. 23 ..
आपतन्तं महावीर्यं तदनीकं वनौकसाम् । रक्षसां भीमकोपानामनीकेन न्यवारयत् ॥ 24 ॥
आपतन्तम् महा-वीर्यम् तद्-अनीकम् वनौकसाम् । रक्षसाम् भीम-कोपानाम् अनीकेन न्यवारयत् ॥ २४ ॥
āpatantam mahā-vīryam tad-anīkam vanaukasām . rakṣasām bhīma-kopānām anīkena nyavārayat .. 24 ..
स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् । हनूमन्तं हरिश्रेष्ठंमिन्द्रजित्प्रत्युवाच ह ॥ 25 ॥
स ताम् बाण-सहस्रेण विक्षोभ्य हरि-वाहिनीम् । हनूमन्तम् हरि-श्रेष्ठम् इन्द्रजित् प्रत्युवाच ह ॥ २५ ॥
sa tām bāṇa-sahasreṇa vikṣobhya hari-vāhinīm . hanūmantam hari-śreṣṭham indrajit pratyuvāca ha .. 25 ..
सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः । तां वधिष्यामि वैदेहीमद्यैव तव पश्यतः ॥ 26 ॥
सुग्रीवः त्वम् च रामः च यद्-निमित्तम् इह आगताः । ताम् वधिष्यामि वैदेहीम् अद्य एव तव पश्यतः ॥ २६ ॥
sugrīvaḥ tvam ca rāmaḥ ca yad-nimittam iha āgatāḥ . tām vadhiṣyāmi vaidehīm adya eva tava paśyataḥ .. 26 ..
इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर । सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् ॥ 27 ॥
इमाम् हत्वा ततस् रामम् लक्ष्मणम् त्वाम् च वानर । सुग्रीवम् च वधिष्यामि तम् च अनार्यम् विभीषणम् ॥ २७ ॥
imām hatvā tatas rāmam lakṣmaṇam tvām ca vānara . sugrīvam ca vadhiṣyāmi tam ca anāryam vibhīṣaṇam .. 27 ..
न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लंवगम । पीडाकरममित्राणां यच्च कर्तव्यमेव तत् ॥ 28 ॥
न हन्तव्याः स्त्रियः च इति यत् ब्रवीषि । पीडा-करम् अमित्राणाम् यत् च कर्तव्यम् एव तत् ॥ २८ ॥
na hantavyāḥ striyaḥ ca iti yat bravīṣi . pīḍā-karam amitrāṇām yat ca kartavyam eva tat .. 28 ..
तमेवमुक्त्वा रुदतीं सीतां मायामयीं च ताम् । शितधारेण खड्गेन निजघानेन्द्रजित्स्वयम् ॥ 29 ॥
तम् एवम् उक्त्वा रुदतीम् सीताम् माया-मयीम् च ताम् । शित-धारेण खड्गेन निजघान इन्द्रजित् स्वयम् ॥ २९ ॥
tam evam uktvā rudatīm sītām māyā-mayīm ca tām . śita-dhāreṇa khaḍgena nijaghāna indrajit svayam .. 29 ..
यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी । सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना ॥ 30 ॥
यज्ञोपवीत-मार्गेण छिन्ना तेन तपस्विनी । सा पृथिव्याम् पृथु-श्रोणी पपात प्रिय-दर्शना ॥ ३० ॥
yajñopavīta-mārgeṇa chinnā tena tapasvinī . sā pṛthivyām pṛthu-śroṇī papāta priya-darśanā .. 30 ..
तामिन्द्रजित्स्त्रियं हत्वा हनूमन्तमुवाच ह । मया रामस्य पश्येमां कोपेन च निषूदिताम् । एषा विशस्ता वैदेही निष्फलो वः परिश्रमः ॥ 31 ॥
ताम् इन्द्रजित् स्त्रियम् हत्वा हनूमन्तम् उवाच ह । मया रामस्य पश्य इमाम् कोपेन च निषूदिताम् । एषा विशस्ता वैदेही निष्फलः वः परिश्रमः ॥ ३१ ॥
tām indrajit striyam hatvā hanūmantam uvāca ha . mayā rāmasya paśya imām kopena ca niṣūditām . eṣā viśastā vaidehī niṣphalaḥ vaḥ pariśramaḥ .. 31 ..
ततः खड्गेन महता हत्वा ताम् इन्द्रजित्स्वयम् । हृष्टः स रथमास्थाय ननाद च महास्वनम् ॥ 32 ॥
ततस् खड्गेन महता हत्वा ताम् इन्द्रजित् स्वयम् । हृष्टः स रथम् आस्थाय ननाद च महा-स्वनम् ॥ ३२ ॥
tatas khaḍgena mahatā hatvā tām indrajit svayam . hṛṣṭaḥ sa ratham āsthāya nanāda ca mahā-svanam .. 32 ..
वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः । व्यादितास्यस्य नदतस्तद्दुर्गं संश्रितस्य तु ॥ 33 ॥
वानराः शुश्रुवुः शब्दम् अदूरे प्रत्यवस्थिताः । व्यादित-आस्यस्य नदतः तत् दुर्गम् संश्रितस्य तु ॥ ३३ ॥
vānarāḥ śuśruvuḥ śabdam adūre pratyavasthitāḥ . vyādita-āsyasya nadataḥ tat durgam saṃśritasya tu .. 33 ..
तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताः स बभूव रावणिः । तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः समभिप्रदुद्रुवुः ॥ 34 ॥
तथा तु सीताम् विनिहत्य दुर्मतिः प्रहृष्ट-चेताः स बभूव रावणिः । तम् हृष्ट-रूपम् समुदीक्ष्य वानराः विषण्ण-रूपाः समभिप्रदुद्रुवुः ॥ ३४ ॥
tathā tu sītām vinihatya durmatiḥ prahṛṣṭa-cetāḥ sa babhūva rāvaṇiḥ . tam hṛṣṭa-rūpam samudīkṣya vānarāḥ viṣaṇṇa-rūpāḥ samabhipradudruvuḥ .. 34 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In